ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ
६. अथ पृथिव्यधिकरणम्
सूत्रभाष्यम्
‘ता आप ऐक्षन्त बह्य्वः स्याम प्रजायेमहीति । ता अन्नमसृजन्त’ (छा.उ. ६-२) इत्यद्भ्योऽन्नसृष्टिः श्रूयते । ‘अद्भ्यः पृथिवी’ (तै.उ. २-१) इति कुत्रचित्पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्ति–
।। ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ।। १२ ।।
पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’ (ऐ.आ. २-३-१) । ‘पृथिवी वा अन्नम् । (तै.उ. ३-९) । ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि । कौर्मे च–
‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते ।
यथा विरुद्धता न स्यात्तथार्थः कल्प्य एतयोः’ इति ।।
‘रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः ।
नाभिपद्माभिसम्बन्धात्पीता सेत्यभिधीयते ।
क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुत्वतः ।
शुक्लत्वमेत्येवमेव वर्णान्तरगतिर्भवेत् ।।
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।
स्वर्णवीर्यो हि भगवाननादिः परमेश्वरः’ ।।
इति व्योमसंहितायाम् । ।। इति पृथिव्यधिकरणम् ।।
तत्त्वप्रदीपिका
‘ता अन्नमसृजन्त’ इत्यद्भ्योऽन्नसृष्टिः श्रूयते च्छन्दोगोपनिषदि । ‘अद्भ्यः पृथिवी’ इति तैत्तिरीयके पृथिवीसृष्टिः । अतो विरोधः । वस्तुनि विकल्पासम्भवात् । न च प्रत्यक्षप्रमित-व्यतिरेकयोरन्नभूम्योरेकतावकाशः । न च तुल्यबलयोर्वाक्ययोरन्यतरपरित्यागो न्याय्यः । न चात्र सावकाशनिरवकाशन्यायः । अतोऽप्रामाण्यमित्यतो वक्ति ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ । ‘ता अन्नमसृजन्त’ इति पृथिव्यन्नशब्देनोच्यते । ‘तत्तेजोऽसृजत तदपोऽसृजत’ इति भूतसृष्टिप्रकरणत्वादस्य । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इत्यन्नस्य कृष्णरूपवचनाच्च । पृथिवी वाऽन्नमिति तैत्तिरीयके अपौरुषेयत्वेनादोषस्य वाक्यद्वयस्या-प्रामाण्यासम्भवात्, अन्यस्य निरवकाशत्वाच्चान्नशब्देन पृथिव्येवोच्यत इति युक्तिः । न चाद्भ्यः पृथिवी’ इत्यन्नमुच्यत इति वाच्यम् । प्रकरणविरोधात् । ‘पृथिव्या ओषधयः ओषधीभ्योऽन्नम्’ इत्यन्नस्य पृथगुक्तेश्च । कार्यशब्देन च कारणोक्तिर्युक्ता घृताब्धिम्’ इतिवत् । परिहृतं च कार्यशब्दत्वं शब्दान्तरोपन्यासादेव । एवं चात्रान्नशब्दः सावकाशो योजनीयः । यथाऽविरुद्धता च स्यात् । यथा मिथो मानान्तरेण चाविरोधस्स्यादिति ।
तत्त्वप्रकाशिका
एवं सर्वस्य साक्षादन्यद्वारा वा ब्रह्मजातत्वे सिद्धेऽत्रोक्तसमन्वयसिद्ध्यर्थं द्वारविषयश्रुतिविरोध परिहारादस्ति शास्त्रादिसङ्गतिः । वस्त्वन्तरद्वारा साक्षाद्वा ब्रह्म जगत्कारणमित्युक्तम् । तत्र द्वारकारण विषयश्रुतीनां विरोधेनाप्रामाण्ये समन्वयासम्भवात्तन्निरासः कार्य एव । प्रकृता आप एवात्र विषयः । किमन्नस्य द्वारकारणम् उत पृथिव्या इति सन्देहः । किमस्य सन्देहस्य बीजं किं च तत्र प्राप्तमिति । तत्र श्रुतिविगानं सन्देहबीजं दर्शयन् पूर्वपक्षयति ।। ता इति ।। नापः पृथिव्याः कारणं नाप्यन्नस्य । श्रुतिद्वयस्य परस्परविरुद्धत्वात् । निरवकाशत्वेनान्यतरग्रहणायोगात् । न चान्नशब्दस्य पृथिव्यर्थत्वेनाविरोधः । अन्नश्रुतेः प्रसिद्धान्नपरत्वेन स्वीकारे बहुवाक्यानु-सारित्वगुणलाभात् । तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तद्ध्यन्नाद्यं जायते अन्नमशितं त्रेधा विधीयत इति प्रसिद्धान्नलिङ्गाच्च । न च पृथिवीपदेनान्नग्रहः । अद्भ्य एवान्नसृष्ट्यङ्गीकारे ‘अद्भ्यः पृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नम्’ इति श्रुतिविरोधात् । नापि पृथिव्यन्नयोरद्भ्य एवोत्पत्तिः उक्तश्रुतिविरोधादेव । न चान्नस्यैवाद्भ्य इव ओषधीभ्योऽपि जन्म । बहुकल्पनापातात् । न चाद्भ्यः परम्परयान्नमुत्पद्यत इत्यविरोधः । मुख्यार्थत्यागे कारणाभावात् । अतः श्रुतिद्वयस्य परस्परविरुद्धत्वादप्रामाण्यमेवेति न श्रुतिसमन्वयो ब्रह्मणि युक्त इति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। नात्रापां द्वारकारणत्वानिर्णयात् श्रुतिद्वयस्याप्रामाण्यं कल्प्यम् । अपां पृथिवीकारणत्वात् । न च ‘ता अन्नमसृजन्त’ इति श्रुतिविरोधः । यतस्तत्र पृथिव्यन्नशब्देनोच्यत इत्यर्थः । कुतोऽसावन्नशब्दः पृथिवीपर इत्यत आह ।। भूतेति ।। ‘तत्तेजोऽसृजत’ ‘तदपोऽसृजत’ ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इत्यादेरस्य प्रकरणस्य भूतविषयत्वादित्यर्थः ।
नन्वन्नश्रुतौ जाग्रत्यां कथं प्रकरणमात्रेण निर्णय इत्यत आह ।। कार्ष्ण्येति ।। ‘यदग्ने रोहितं रूपं तत्तेजसो यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इत्यस्यां श्रुतावन्नस्य कृष्णरूपं प्रतीयते । तच्च प्राचुर्येण पृथिव्या एव लिङ्गम् । अतः प्रकरणलिङ्गाभ्यामुक्तश्रुतिबाध इति भावः । ननु कार्ष्ण्यस्य चान्नेऽपि सम्भवतः कथं पृथिवीलिङ्गत्वमित्यत आह ।। नेति ।। तथा विशेषः पृथिवीवत्कार्ष्ण्य-प्राचुर्यम् । न केवलं प्रकरणलिङ्गाभ्यामन्नश्रुतेरवाचिकाया एव पृथिवीपरत्वमुच्यते अपि तु पृथिव्यामपि तस्या विद्यते वाचकत्वशक्तिः श्रौतप्रयोगादिति भावेनाह ।। आपश्चेति ।। न च वृष्टिजत्वलिङ्गविरोधः । पार्थिवपदार्थानां वृष्ट्युत्पन्नार्थत्वेनोपपत्तेः । नाप्यन्नमशितमिति लिङ्गविरोधः । तेजोऽशितमितिवत्पार्थिवार्थत्वोपपत्तेः । किमन्नश्रुतेरर्थान्तरकल्पनया श्रुतिद्वयाप्रामाण्यमेव किं नाभ्युपेयते इत्यत आह ।। आदीति ।। सूचितेति शेषः । अत्रायं प्रयोगः । वेदो नाप्रमाणम् अप्रामाण्यकारणदोषशून्यत्वात्प्रत्यक्षवदिति । न च हेतोरसिद्धिः । अपौरषेयवाक्ये दोषासम्भवात् । आदिपदेनाप्तवाक्यानुसारित्वादिति । एवं युक्तिबलाद्वेदप्रामाण्यसिद्धौ विरोधावभासेऽन्यार्थतैव कल्प्या नाप्रामाण्यमिति भावः । अत्रैव स्मृतिमाह ।। कौर्मे चेति ।। यदुक्तं प्राचुर्येण कृष्णा पृथिवीति तत्र प्रमाणमाह ।। रक्त इति ।। एवमेवेत्युक्तमेव दर्शयति ।। विष्ण्विति ।। एवं श्रुत्यविरोधेनापां पृथिवीकारणत्वसिद्धेर्युक्तः श्रुतिसमन्वयो हराविति सिद्धम् ।
गुर्वर्थदीपिका
‘अद्भ्य एव तदन्नाद्यं जायते’ इत्याद्यनेकवाक्यसिद्धत्वात् बहुवाक्यानुसारित्वेनेत्युक्तम् । नाप्यन्नमशितमिति लिङ्गविरोध इत्यस्य अशितत्वाख्यलिङ्गविरोध इत्यर्थः । अन्नमशितमित्य-न्नेऽशितत्वोक्तेर्मृद्रूपपृथिव्यां चाशितत्वादर्शनात्कथं साऽन्नपदवाच्येति भावः । तेजोऽशितमिति-वत्पार्थिवार्थत्वोपपत्तेरित्यत्र पार्थिवा एवार्थो यस्याः श्रुतेस्सा पार्थिवार्था । तस्य भावः पार्थिवार्थत्व-मित्यर्थः । यथा आतपादिरूपतेजसोऽशितत्वाभावेऽपि रक्तवर्णतया तेजःप्रधानानां मधुधृतादी-नामशितत्वमेव तच्छ्रुतेरर्थः । तथा पार्थिवानां धान्यफलादीनामशितत्वमेव ‘अन्नमशितम्’ इति श्रुतेरर्थो भवतु । अतोऽन्नपदेन पृथिवीग्रहणेऽपि नानुपपत्तिरिति भावः ।
भावबोधः
अवसरलक्षणामनन्तरसङ्गतिमाह– एवं सर्वस्येति ।। ‘न वियदश्रुतेः’ ‘एतेन मातरिश्वा व्याख्यातः’ इत्यधिकरणाभ्यां नभोवाय्वादेः साक्षाद् ब्रह्मजातत्वे ‘तेजोऽतस्तथा ह्याह’ ‘आपः’ इत्यधिकरणाभ्यां च वाय्वादीनाम् आकाशादिद्वारा ब्रह्मजातत्वे सिद्धे इत्यर्थः । अन्यद्वारा ब्रह्मजातत्वानिश्चये द्वारविषयकश्रुतिविचारस्यानवसरग्रस्तत्वादिति भावः । अनन्तरसङ्गत्यन्तरं सूचयन् विषयमाह– प्रकृता इति ।। किमन्नस्येति ।। अत्र पृथिवीत्यनन्तरम् अनिर्णय उत पृथिव्या एवेति ज्ञेयः । अन्यथा नापः पृथिव्याः कारणं नाप्यन्नस्येति नात्रापां द्वारकारणत्वानिर्णयात् श्रुतिद्वयस्याप्रामाण्यं कल्प्यमिति पूर्वपक्षसिद्धान्तानानुगुण्यापत्तेः । अत्र ‘ता अन्नमसृजन्त, ता आप ऐक्षन्त’ इति श्रुतिद्वयं परस्परविरुद्धत्वेन, अप्रमाणमुत प्रबलानुरोधेन दुर्बलस्यार्थान्तरकल्पनया श्रुतिद्वयं प्रमाणं वेति चिन्ता । तदर्थमापः किमन्नस्य पृथिव्या वा द्वारकारणमित्यनिर्णय उत पृथिव्या एवेति निर्णय इति । तदर्थं ता ‘अन्नमसृजन्त’ इति श्रौतोऽन्नशब्दः किं प्रसिद्धान्नपरः किं वा पृथिवीपर इति । तदर्थं श्रौतान्नशब्दस्य प्रसिद्धान्नपरत्वसाधिका बहुवाक्यानुवृत्तित्ववृष्टि-जत्वादियुक्तिः किं निरवकाशोत सावकाशेति । तदर्थं तद्युक्तिबाधकमन्नशब्दस्य पृथिवीपरत्वसाधकं च प्रमाणं नास्त्युतास्तीति । अतो विरुद्धत्वादप्रामाण्यमिति भाष्याभिप्रायमाह– नापः पृथिव्या इत्यादिना ।।
ननु वियदाद्यधिकरणवदन्यतरश्रुत्यप्रामाण्येन पूर्वपक्षेऽपि ब्रह्मणो जगज्जन्मादिकारणत्वाक्षेप-सम्भवात् परस्परविरुद्धत्वेन उभयाप्रामाण्येन पूर्वपक्षः कुत इत्यत आह– निरवकाशत्वेनेति ।। अद्भ्यो वा अन्नमुत्पद्यत इत्याद्युक्तप्रसिद्धान्नाख्यार्थाविरोधेन प्रसिद्धान्नस्वीकारे बहुवाक्यानुवर्तितेति गुणलाभः इति न्यायविवरणं ता अन्नमिति श्रुतेर्निरवकाशत्वोपपादकत्वेन योजयति– अन्न श्रुतेरिति ।। न्यायविवरणे आदिपदागृहीतां लिङ्गप्रतिपादकश्रुतिमुदाहरति तस्मादिति । विरुद्ध-त्वादप्रामाण्यमिति भाष्यानुरोधेन न्यायविवरणमुपलक्षणीकृत्य अद्भ्यः पृथिवीति श्रुतेर्निरवकाशत्वं स्वयमुपपादयति– न च पृथिवीपदेनेति ।। उक्तश्रुतिविरोधादिति ।। ‘ओषधीभ्योऽन्नम्’ इति श्रुतिविरोधादित्यर्थः । बहुकल्पनापातादिति ।। अन्नस्याब्जन्यत्वम् ओषधिजन्यत्वं पृथिव्या अब्जन्यत्वं चेति बहुकल्पनापातादित्यर्थः । मुख्यार्थत्याग इत्यर्थः ।। भूतविषयत्वादिति ।। अन्नस्य भौतिकत्वेन भूतत्वाभावात् । भूतशब्देन भौतिकमेव व्यावृत्य तेन भूताभिमानिदेवतापीति ज्ञातव्यम् । प्रकरणस्य भूतविषयत्वादित्यादिना पृथिवीवत् कार्ष्ण्यप्राचुर्यमित्यन्तेनाधिकारादीनां निरवकाश-त्वाच्चेति न्यायविवरणमपि व्याख्यातं भवति । तत्रादिपदेन रूपाख्यलिङ्गस्यापौरुषेयत्वादियुक्तीनां च ग्रहणमिति बहुवचनोपपत्तिरिति च ज्ञातव्यम् । अन्नशब्दस्य प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्त्वादिति न्यायविवरणानुसारेण ता अन्नमित्यादि भाष्यमवतारयति । इदानीं पृथिव्यामपीति, बहुवाक्यानुरोधोऽप्यत्रैवेति न्यायविवरणानुसारेण पूर्वोक्तयुक्तेः सावकाशत्वमाह– न च वृष्टिजत्वे-त्यादिना ।। अद्भयो वा अन्नमुत्पद्यत इत्यादावन्नशब्देन पृथिव्यास्त‘स्माद्यत्र क्व च शोचति’ इत्यादावन्नशब्देन पार्थिवस्य ग्रहणमिति बहुवाक्यानुरोधेऽपि सिद्धान्त एवेति न्यायविवरणवाक्यार्थः ।। तेजोऽशितमितिवदिति ।। तत्र तेजस एव भक्षणासम्भवाद्यथा तेजश्शब्दस्तैजसपरस्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपर इत्यर्थः ।
भावदीपः
अधिकरणसङ्गतिमाह ।। एवं सर्वस्येति ।। वियन्मुख्यप्रमाणयोः साक्षात्तदन्यस्यान्यद्वारेत्यर्थः । यद्वा वाय्वादौ स्थितस्य भगवतो वाय्वादिस्थशक्तिप्रेरणया तद्द्वारा तेजः प्रभृतिकार्यस्य कृति-विषयत्वमिव साक्षादपि भगवत्कृतिविषयत्वमस्तीति सर्वस्य साक्षादित्युक्तम् । अन्यगतशक्ति-प्रेरकत्वमप्यस्तीति भावेनान्यद्वारा वेत्युक्तम् । अत एवाग्रे वस्त्वन्तरद्वारा साक्षाद्ब्रह्मकारणमिति समुच्चयेनानुवादः । तथा च पूर्वं द्वारमनुसृत्यैवेत्युक्त्या साक्षान्नेति कारयितृत्वमेवेश्वरस्य स्यान्न साक्षात्कर्तृत्वमिति जन्मादिसूत्रोक्तसर्वकर्तृत्वभङ्ग इति चोद्यानवकाश इति भावः । अयं च एतस्माज्जायते कर्ता सर्वस्य कुरुते सर्वमित्यादिपूर्वभाष्योक्तवचनलब्धस्यानुवादः । अन्यद्वारेत्यंशानु-वादस्यैव प्रकृतोपयोगित्वेऽपि साक्षादित्यंशानुवाद उक्तदिशा शङ्कानिरासाय । अत्रेत्यस्य सङ्गतिपदेनान्वयः ।। श्रुतिविरोधेति ।। श्रुत्योरन्योन्यविरोधेत्यर्थः । चिन्ताफलमाह ।। वस्त्वन्तरेति ।। इत्युक्तमिति ।। जन्मादिसूत्रे इत्यर्थः । आक्षेपसौकर्यायैवमनुवादः । तर्ह्यपां द्वारत्वश्रुतिविरोध-निरासे किं बीजमित्यत आह ।। प्रकृता आप इति ।। किमन्नस्येति ।। अत्र पूर्वपक्षे सौत्रादि-पदव्यावर्त्यस्य श्रुतिद्वयाप्रामाण्यस्य सिद्धान्ते तत्प्रामाण्यस्य चोक्त्या तदनुरोधेन किं श्रुतिद्वयम-प्रमाणमुत नेति सन्देहे प्रदर्शनीयेऽप्येवं सन्देहोक्तिः पूर्वोत्तरपक्षयोः श्रुतिद्वयाप्रामाण्यबीजभूतयो-र्विरोधाविरोधयोः स्फोरणाय । अन्नपदेन पृथिव्यगृहीतिगृहीतिभ्यां विरोधाविरोधयोर्व्यक्तत्वात् ।
यद्वा किमन्नस्य द्वारकारणमित्यादि सन्देहेऽपि नोभयस्यापीत्येवंरूपेण चोद्यस्य सम्भवान्न पूर्वपक्षानानुगुण्यं संशयकोट्यन्यतरकोट्यवलम्बिनौ पूर्वोत्तरपक्षावित्यस्य प्रायिकत्वात् । विरुद्धत्वादप्रामाण्यमिति भाष्यमप्रामाण्यशब्दार्थं विवृण्वन्व्याचष्टे ।। नाप इत्यादिना ।। ननु विरुद्धत्वेऽपि पूर्वत्रेवान्यतराप्रामाण्यमेव स्यान्न तु द्वयोरित्यतो भाष्याभिप्रेतं हेतुमाह ।। निरवकाशत्वेनेति ।। श्रुतिद्वयस्येत्यनुकर्षः । अद्भ्यो वा अन्नमुत्पद्यत इत्याद्युक्तप्रसिद्धा-न्नस्यान्यार्थाविरोधेन प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तितेति गुण इत्यन्यत्रोक्तयुक्तिं तावदन्न-श्रुतेर्निरवकाशतोपपादकत्वेन शङ्कापूर्वं योजयति ।। न चेत्यादिना ।। बहुवाक्येति ।। अद्भ्यो वा अन्नमुत्पद्यत इत्यादीति न्यायविवरणस्थादिपदोक्तबहुवाक्यानां प्रसिद्धार्थपरत्वरूपगुणलाभा-दित्यर्थः । न केवलं प्रसिद्धान्नपरत्वे बहुवाक्यानुसारिता । लिङ्गद्वयमप्यस्तीत्याह ।। तस्मा-दित्यादिना ।। छान्दोग्ये षष्ठे । यत्र क्व च वर्षतीति अन्नमशितमिति च वाक्यद्वयेन वर्षजत्वाश्य-मानत्वरूपलिङ्गाच्चेत्यर्थः । एवं न्यायविवरणरीत्यान्नश्रुतेरर्थान्तरपरत्वाभावरूपनिरवकाशतामुपपाद्य पृथिवीश्रुतेरपि तां विवरितुमद्भ्यः पृथिवीति प्रसिद्धपूर्वप्रकृतश्रुतिप्रतीकोक्त्या सूचितां युक्तिं शङ्कापूर्वमाह ।। न च पृथिवीति ।। ओषधीभ्योऽन्नमिति श्रुतिविरोधादित्येव वाच्ये अद्भ्य इत्याद्यंशोक्तिर्युक्तेर्भाष्यसूचितत्वसूचनायेत्येके । अन्नहेत्वोषधिजनकत्वविरोधात् पृथिवीपदेन नान्नस्य ग्रहणमिति युक्त्यन्तरसूचनायेत्यन्ये ।। उक्तश्रुतीति ।। ओषधीभ्योऽन्नमिति श्रुतीत्यर्थः ।। बहुकल्पनेति ।। पृथिवीपदस्यान्नार्थत्वं तस्य च अब्जन्यत्वमोषधिजन्यत्वं चेति बहुकल्पनेत्यर्थः । अन्नश्रुतेः प्रकारान्तरेण सावकाशत्वमाशङ्क्याद्भ्योऽन्न सृष्टिःश्रूयत इति भाष्यसूचितयुक्त्या निराह ।। न चाद्भ्य इति ।। मुख्यार्थेति ।। साक्षाद्धेतुत्वरूपमुख्यार्थेत्यर्थः । एतेन न्यायविवरणे इति गुण इत्यनन्तरं न चाद्भ्य इति शङ्काध्याहारं मुख्यार्थपरित्यागप्राप्तेरिति पूर्ववाक्यानुकर्षणं च सूचयति ।। अत इति ।। उक्तरीत्यानन्यार्थतया निरवकाशत्वादित्यर्थः । प्रागुक्तशङ्कानिवर्तकत्वं व्यञ्जयितुं प्रतिज्ञाहेतू बहिरेवोक्त्वा तत्र श्रुतिविरोधनिरासे हेतुपरतया सूत्रभाष्ये व्याचष्टे ।। नात्रापामिति ।। ननु ता ‘अन्नमसृजन्त’ इत्यतः पूर्वं तत्तेजोऽसृजत ‘तदपोऽसृजत’ इति तेजोजलरूपभूतोपक्रमेऽपि प्रकरणमन्नपरमस्तु ह्वयाम्यग्निमित्युपक्रमेऽपि प्रकरणस्य सावित्रत्ववदित्यतो भूतपरमुत्तरवाक्यं चाह ।। तासां त्रिवृतमिति ।। तेजोबन्नानामित्यर्थः । भौतिकान्नान्नत्रिवृत्करणमस्तीति भावः । यथा कं ब्रह्म खं ब्रह्मेत्युपक्रमवाक्याद् ब्रह्मपरात्स एनान्ब्रह्म गमयतीत्युत्तरवाक्याच्च मध्ये स्थिताग्निप्रयुक्ताहं-शब्दरूपा श्रुतिर्ब्रह्मपरेत्युक्तमन्तरनये तथात्राप्युपक्रान्तस्याग्रेऽपि श्रवणेन भूतप्रकरणविच्छेदा-भावात्तन्मध्यपतितान्नश्रुतिरपि तत्परेति भावः ।
ननु या इमास्तिस्रो देवतास्तासां त्रिवृतमिति तेजोऽबन्नानां देवतात्वं श्रुतमभिमानिनयन्याय-सिद्धं च । देवतानां त्रिवृत्करणप्रकारश्च छान्दोग्यभाष्य एव षष्ठे व्यक्तः । तथा च कथं प्रकरणस्य भूतविषयत्वमिति चेत्सत्यम् । शरीररूपकविन्यस्तगृहीतेरिति न्यायेनाभिमन्यमानसहिता-नामेवाभिमानिनां तत्र गृहीतेः । अत एव वक्ष्यति मांसादिभौममित्यत्र यत्कठिनं सा पृथिवी यद्द्रवं तदाप इत्यादि ।। कथमिति ।। यद्यपि द्युभ्वादिनये जुष्टं यदा पश्यत्यन्यमीशमिति रुद्रप्रापकेशश्रुतेर्द्वे विद्ये वेदितव्ये इति प्रकरणेन प्रसिद्धार्थत्याग उक्तः । प्रकरणादिति सूत्रे आत्मा प्रकरणादित्यत्र च चतुर्थे ‘य आत्मा अपहतपाप्मा इत्यादिब्रह्मप्रकरणेन परंज्योतिरुपसम्पद्य’ इति ज्योतिः श्रुतेरा-दित्यादितेजसि प्रसिद्धाया बाधो वक्ष्यते तथात्रापि तत्र श्रुतेः सावकाशत्वं प्रकरणस्यानवकाशत्व-मुपेत्य बाध उक्तः । अत्र पुना रूपोक्तिस्वारस्याय तदनाश्रित्य जातिप्रयुक्तप्राबल्यादिमात्रं शब्दादेवेत्यत्रोक्तमुपेत्येयं शङ्का प्रवृत्तेत्यदोषः । अत एव नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारादित्यत्र व्याप्ता ह्यात्मान इत्यत्र बहुवचनश्रुतेरधिकारमात्रेण बाधायोगात्स्वशब्दोन्मानाभ्यां चेति श्रुति-लिङ्गोक्तिरग्रे स्पष्टा । रूपबोधकवाक्यस्य भाष्येऽनुक्तेः स्वयमाह ।। यदग्नेरिति ।। यत्कृष्णं तदन्नस्येत्येव वाच्ये यदग्नेरित्याद्युक्तिस्तत्रापि भौक्तिकान्नमेवास्त्विति शङ्काव्युदासाय भूतप्रायपाठ-विरोधं वक्तुमिति भावः । कार्ष्ण्येत्यादिभाष्यं योजयति ।। तच्चेति ।। प्रकरणलिङ्गाभ्यामिति ।।
ननु द्वाभ्यामपि दुर्बलाभ्यां कथं प्रबलश्रुतेर्बाधः । तयोः स्वभावो बलवानित्युक्तेरिति चेत्सत्यम् । अधिकारादीनां निरवकाशत्वाच्चेति न्यायविवरणोक्त्या निरवकाशेत्यपि योज्यम् । भूतविषयत्वादित्युक्त्यैव प्रकरणस्य निरवकाशत्वमुक्तं रूपस्य शङ्कापूर्वं तदाह ।। नन्विति ।। यद्वात्र श्रुतेर्बाधो नाम नानार्थकस्य गोशब्दादेरर्थात्प्रकरणाल्लिङ्गादिति न्यायेन प्रकरणादिना वाच्यरूपार्थान्तरज्ञापनमेव न त्वत्यन्तास्वारस्यम् । तच्च लिङ्गप्रकरणाभ्यामपि सेत्स्यतीति तथैवोक्तम् । अन्यत्र निरवकाशत्वोक्तिरभ्युच्चयत्वेनेति भावः । अन्नशब्दस्य प्रयोगबाहुल्या-त्पृथिव्यामपि शक्तिमत्त्वादित्यन्यत्रोक्तरीत्यार्थं वदन्नापश्चेत्यादिभाष्यमवतारयति ।। एवं प्रकरणेति ।। भाष्ये बहुवाक्योदाहरणेन बहुवाक्यानुरोधोऽप्यत्रैवेति न्यायविवरणं विवृतं भवति । तेनैव लिङ्गबोधकवाक्यानुरोधोऽप्युक्त इति भावेनाह ।। न चेति ।। तस्माद्यत्र क्व च वर्षतीति प्रागुदाहृतवाक्योक्तेरित्यर्थः ।। तेजोऽशितमितिवदिति ।। तत्र तेजःशब्दो यथा तैजसपरः तेजोऽश-नासम्भवात्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपरः इत्यर्थः ।। आप्तवाक्येति ।। विरोधो वाक्ययोरित्यानुरोधान्नाप्रामाण्यमिति वा ज्ञायते । ततोऽद्भ्य एवान्नं पृथिवी त्वन्नरूपिणीत्यादि छान्दोग्यभाष्याद्युक्तस्मृतिरूपाप्तवाक्यानुसारित्वान्नाप्रामाण्यमिति वा भाष्यस्यार्थः सूचितः ।। अत्रैवेति ।। विरोधेऽन्यार्थकल्पनेत्यत्रेत्यर्थः ।। एवमिति ।। अधिकारादिभिरन्नश्रुतेः पृथिव्यर्थत्व-मित्युक्तप्रकारेणेत्यर्थः ।
अभिनवचन्द्रिका
सन्देहबीजं पूर्वपक्षं च पृच्छति – किमस्येति ।। सन्देहबीजं पूर्वपक्षं च भाष्यकार एव दर्शयतीत्याह– तत्र श्रुतिविगानमिति ।। तत्र शङ्कायां सत्यामित्यर्थः ।। श्रुतिद्वयस्य परस्परविरुद्धत्वादिति ।। ‘ता अन्नमसृजन्त’ इति श्रुतिः, अन्नसृष्टेरबानन्तर्यं वक्ति । ‘अभ्द्यः पृथिवी’ इति श्रुतिस्तु पृथिव्या अबानन्तर्यं वक्ति । ततश्व अन्नस्याबानन्तर्यं विरुणद्धि, पृथिव्यास्तदानन्तर्यम् अन्नानन्तर्यं विरुणद्धीति श्रुत्योः परस्परविरुद्धत्वादित्यर्थः । एतेन अपामुभयकारणत्वसम्भवान्न विरोध इति परास्तम् । अन्नस्यैवाप्सृष्ट्यनन्तरं सृष्टिः पृथिव्यास्तु तदानन्तर्यम् । अथवा पृथिव्या एवाऽप्सृष्ट्यानन्तर्यम्, अन्नस्य तु तदानन्तर्यमित्यभ्युपगमे न विरोध इत्यत आह– निरवकाशत्वेनेति ।। द्वयोरपि श्रुत्योर्निरवकाशत्वेन अन्यतरपक्षपाताऽयोगान्नैव विरोधः परिहर्तुं शक्य इति भावः । अविरोधमाशङ्क्य निषेधति न चेति ।। प्रकारान्तरेणाऽविरोधमाशंक्य निषेधति न चेति ।। सव्येतरविषाणवत् उभयोरप्यबानन्तर्यमाशंक्य निषेधति नापीति ।। उक्तश्रुतिविरोधादिति ।। ‘ओषधीभ्योऽन्नम्’ इत्युक्तश्रुतिविरोधादित्यर्थः । पृथिवीजन्यौषधिजन्यत्ववचनात् नाऽन्नस्य पृथिव्या सहोत्पत्तिरिति भावः । आदिसृष्टौ परमात्मनः सकाशादुत्पन्नानां देवानां सृष्ट्यन्तरे कश्यपादुत्पत्तिवत् पृथिव्या सहोत्पन्नस्याप्यन्नस्य सृष्ट्यन्तरे ओषधिजन्यत्वं सम्भवतीत्याशङ्क्य निषेधति – न चान्नस्यैवेति ।। बहुकल्पनेति ।। अन्नस्य सृष्टिद्वयकल्पनम्, एकस्यां सृष्टौ पृथिव्या सहैव जन्मकल्पनम्, ‘अभ्द्यः पृथिवी’ इति श्रुतौ अन्नपरित्यागे ‘ता अन्नमसृजन्त’ इति श्रुतौ पृथिवीपरित्यागे च कारणं परिकल्पनीयमित्यनेककल्पनापातादित्यर्थः ।। न चेति ।। श्रुत्योर्द्वयोरपि निरवकाशत्वेऽपि ‘गङ्गायां घोषः’ इत्यादाविव ‘ता अन्नमसृजन्ते’ति श्रुते र्मुख्यार्थत्याग इति भावः ।। कारणाभावादिति ।। गङ्गायां घोष इत्यादौ आप्तवाक्यत्वेन प्रामाण्यस्य सिद्धत्वान्मुख्यार्थ-त्यागोऽङ्गीक्रियते । न चात्र प्रामाण्यमस्तीति न मुख्यार्थस्त्याज्य इति भावः ।
पूर्वपक्षस्तु – न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वं युक्तम् । द्वारकारणश्रुतीनां परस्परं विरोधेनाऽप्रामाण्यात् । तथा हि ‘ता अन्नमसृजन्ते’ इति अन्नसृष्टेरप्सृष्ट्यानन्तर्यमुच्यते । ‘अद्भ्यःपृथिवी’ इति पृथिवीसृष्टेः अप्सृष्ट्यानन्तर्यम् । न चोभयं सम्भवति विरोधात् । न च तत्रान्नशब्देन पृथिव्येव विवक्षितेति वाच्यम् । अन्नश्रुतेः प्रसिद्धान्नपरत्वे बहुवाक्यानु-सारित्वगुणलाभात् । ‘तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति अन्नमशितं त्रेधा विधीयत’ इति प्रसिद्धान्नलिङ्गाच्च । न च पृथिवीपदेनाऽन्नसंग्रहः अद्भ्य एव अन्नसृष्ट्यङ्गीकारे ‘अद्भ्यःपृथिवी, पृथिव्या ओषधयः, ओषधीभ्योऽन्नम्’ इति श्रुतिद्वयस्य परस्परं विरुद्धत्वात् अप्रामाण्यमेवेति न श्रुतिसमन्वयेन ब्रह्मणो जगत्कारणत्वं युक्तमिति ।
सिद्धान्तस्तु– युक्तमेव विष्णोः श्रुतिसमन्वयेन जगत्कारणत्वम् । श्रुत्योर्विरोधाभावात् । तथा हि ‘ता अन्नमसृजन्त’ इत्यत्राऽन्नशब्देन पृथिवी विवाक्षिता ‘तत्तेजोऽसृजत तदपोऽसृजेत’ इति भूतप्रकरणात् । यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपाम्, यत्कृष्णं तदन्यस्ये’ इति अन्नस्य कार्ष्ण्यश्रवणाच्च । न चैवं लक्षणा ‘आपश्च पृथिवी चान्नं, पृथिवी वा अन्नम्’ इति शब्दान्तरे पृथिव्या अन्नशब्दाभिधेयत्वाभिधानात् । न च वृष्टिजत्वलिङ्गविरोधः, पार्थिवपदार्थानां वृष्ट्युत्पन्नत्वार्थत्वेनोपपत्तेः । ननु श्रुतेः किमर्थांतरकल्पनया । श्रुत्योर्विरोधेन अप्रामाण्यमेव किं न स्यादिति चेत्, न वेदो नाऽप्रमाणम् अप्रामाण्यकारणदोषशून्यत्वात् प्रत्यक्षवदित्यादियुक्ति-विरोधात् । एवं च विरोधाभावात् हरेः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अवसरलक्षणामनन्तरसङ्गतिमाह ।। एवं सर्वस्येति ।। अव्याकृताकाशादेर्मुख्यवायोश्च साक्षाद्द्वारवाय्वादिभूतानामाकाशादिद्वारेत्यर्थः ।। अन्यद्द्वारा ब्रह्मकारणत्वानिश्चये द्वारविषय-श्रुतिविचारस्यानवसर इति भावः । अनन्तरसङ्गत्यन्तरं सूचयन् विषयमाह ।। प्रकृता इति ।। किमन्नस्येति ।। अत्र पृथिव्या इतीत्यनन्तरम् अनिर्णय उत पृथिव्या एवेति निर्णय इति विशेषः । अन्यथा अनिर्णयेन पूर्वपक्षस्य पृथिव्या एवेति निर्णयेन सिद्धान्तस्य चायोगात् । तथाचापः-पृथिव्यन्नयोरन्यतरस्य द्वारकारणत्वमिति निर्णयो न घटते घटत इति चिन्ता । तदर्थं ता आप ऐक्षन्त ता अन्नमसृजन्त अद्भ्यः पृथिवीति, श्रुतिद्वयं परस्परं विरुद्धं सदप्रमाणमुतनेति चिन्ता । तदर्थमन्नमिति श्रुतौ अन्नशब्दः किं प्रसिद्धान्नपर उत प्रकरणादिना पृथिवीपर इति ।। अतो विरुद्धत्वादप्रामाण्यमिति भाष्यस्य यत एवमुभयथा श्रुतिरस्ति अतो विरुद्धत्वादुभयमप्यप्रमाण-मित्यभिप्रायमाह ।। नापः पृथिव्या इत्यादिना ।।
ननु वियदाद्यधिकरणवदन्यतरश्रुत्यप्रामाण्येन पूर्वपक्षेऽपि ब्रह्मणो जगत्कारणत्वाक्षेपसम्भवा-त्परस्पर विरोधेनोभयाक्षेपेण पूर्वपक्षःकुत इत्यतआह ।। निरवकाशत्वेनेति ।। अद्भ्यः पृथिवीति च क्वचित्पृथिवीसृष्टिरित्युक्त्या अन्नसृष्टिर्बहुवाक्ये प्रतिपाद्यत इति सूचितम् ।। प्रसिद्धनामस्वीकारे बहुवाक्यानुसारितेत्युक्तन्यायं सङ्गमयति ।। नचान्नशब्दस्येत्यादिना ।। बहुवाक्य इति ।। अद्भ्योवा अन्नं तस्माद्यत्र क्वचनेत्यादिबहुवाक्य इत्यर्थः । न केवलं प्रसिद्धान्नस्वीकारे बहुवाक्यानुसारित्वं किन्तु तत्र प्रतीतलिङ्गद्वयाच्चेत्याह ।। तस्मादिति ।। वृष्टिजन्यत्वमस्यमानत्वं चेति लिङ्गद्वयेनान्न-शब्दस्य निरवकाशत्वमुपपाद्य पृथिवीशब्दस्यापि तदाह ।। न च पृथिवीपदनेति ।।
अद्भ्य एवेति ।। पृथिवीपदेनान्नं विवक्षित्वाद्भ्य एवान्नमित्यङ्गीकारे इत्यर्थः ।। विरोधादिति ओषधीभ्योऽन्नमित्यनेन विरोधात् । ओषधीजनकस्यान्नस्यौषधीजन्यत्वविरोधाच्चेत्यर्थः । एतेनाद्भ्यः पृथिवीति क्वचिद्वाक्यविशेषेऽद्भ्य एवान्नसृष्टिरुच्यत इत्यङ्गीकारे अतो विरुद्धत्वादत एव वाक्यादस्यैव वाक्यस्य विरुद्धत्वादप्रमाणं स्यात् । अतोऽद्भ्यः पृथिवीति वाक्ये पृथिवीसृष्टिरेवोच्यते नान्नसृष्टिरिति रीत्यन्तरेण भाष्यार्थ उक्तो भवति ।। नापीति ।। अद्भ्यः पृथिवी ओषधीभ्योऽन्न-मित्युक्तश्रुतिविरोधादुभयोरप्यद्भ्य उत्पत्तिर्नेत्यर्थः । एतेनाद्भ्यः पृथिवीत्यत उक्तश्रुतिविरुद्धत्वाच्छ्रुति-द्वयमुभयोरप्येकस्मादुत्पत्तौ न प्रमाणमिति भाष्यं व्याख्यातं भवति ।
ननु नोक्तश्रुतिविरोधः अन्नस्य पृथिव्या सहाद्भ्यः पश्चादोषधीभ्य इति द्विवारमुत्पत्युपपत्ते-रित्याशंक्य परिहरति ।। न चान्नस्यैवेति ।। बह्विति ।। अन्नस्याब्जन्यमोषधिजन्यत्वं पृथिव्या अब्जन्यत्वमिति बहुकल्पनापत्तेरित्यर्थः । बुहश्रुतिलिङ्गप्राप्ताद्भ्य एवोत्पत्तिं विहायोषधीभ्योन्न-मित्येकवाक्यबलात् कल्पने कल्पनागौरवमिति भावः ।। परम्परयेति ।। ओषधीद्वारेत्यर्थः ।। मुख्यार्थेति ।। अपामन्नं प्रति साक्षात्कारणत्वलक्षणमुख्यार्थ इत्यर्थः । अत एव भाष्ये अद्भ्योन्नसृष्टिः श्रूयत इति उक्तमिति भावः । प्रागुक्तशंकापरिहाराय प्रतिज्ञाहेतू बहिरेवोक्त्वा तत्र श्रुतिविरोधनिरासहेतुतया सूत्रभाष्ये व्याचष्टे ।। नात्रापामित्यादिना ।। ननु ता ‘अन्नमसृजन्त’ इत्यतःपूर्वं तेजोजलरूपभूतोपक्रमेऽपि, ता आपो अन्नमसृजन्तेति वाक्यं प्रसिद्धान्नपरं भवत् पृथिव्या ओषधय इत्यत्र पूर्वं भूतोपक्रमेऽप्योषधिपदस्य पार्थिवौषधिपरत्वस्वीकारवदुपपत्तेरित्यतो भूतपरमुत्तर-वाक्यं चाह ।। तासां त्रिवृतमिति ।। तासां तेजोऽबन्नानामिति उत्तरत्रापि भूताभूतानुवृत्तेः प्रकरणविच्छेदाभावात् । प्रत्युतान्नस्य तेजोवत्समानकक्ष्यतया त्रिवृत्करणोक्तेरन्नश्रुतिरपि भूतपरेति भावः ।
ननु इमास्तिस्त्रो देवतास्तासां त्रिवृतमिति तेज आदीनां देवतात्वं श्रुतमभिमानिनयसिद्धम् । तथा च प्रकरणस्य भूतविषयत्वमिति चेन्न । तथापि शरीररूपकविन्यस्तगृहीतेरिति न्यायेनाभि-मन्यमानसहितानामेवाभिमानिनां तत्र गृहीतेः । अत एव मांसादिनये यत् कठिनं सापृथिवीत्यादि वक्ष्यति ।। भूतविषयत्वादिति ।। अन्नस्य भौतिकत्वेन भूतत्वाभावादिति भावः । भूतशब्देन भौतिकमेव व्यावर्त्यं नाभिमानिदेवतापीति ज्ञेयम् ।। कथं प्रकरणेति ।। यद्यपि द्युभ्वादिनये, प्रकरणादिति सूत्रे, निरवकाशप्रकरणस्यान्यमीशमिति, ईशश्रुतिबाधकत्वम् । तथा आत्मा प्रकरणादित्यत्र, निरवकाशप्रकरणस्य, परञ्ज्योतिरिति ज्योतिःश्रुतिबाधकत्वमुक्तम् । तथाप्यत्र पुनः रूपोक्तिस्वारस्याय तदनाश्रित्य जातिश्रुतिप्रयुक्तप्राबल्यमात्रं शब्दादेवेत्यत्रोक्तमुपेत्येयं शङ्केत्यदोषः । अत एव नाणुरतच्छ्रुतेरित्यत्र बहुवचनश्रुतेरधिकारमात्रेण बाधायोगात् स्वशब्दोन्मानाभ्यां चेति श्रुतिलिङ्गोक्तिरग्रे स्पष्टा ।। कार्ष्ण्यस्यान्नेऽपीति ।। कार्ष्ण्यप्राचुर्यस्येत्यर्थः । शक्तिमत्वमित्युक्त-सिद्धान्तन्यायप्रदर्शकतया आपश्चेत्यादिभाष्यमवतारयति ।। एवं प्रकरणेति ।। अन्नश्रुतेः पृथिव्यां सावकाशत्वोक्तेरुपलक्षणत्वं मत्वा लिङ्गयोरपि सावकाशत्वमाह ।। न च वृष्टीति ।। वृष्ट्युत्पन्नार्थत्वेनेति ।। पार्थिवानां वृष्ट्युत्पन्नार्थत्वाविवक्षायां ता आपोऽन्नमसृजंत पृथिवी वा अन्नमिति व्याख्यानमनुपपन्नं स्यात् । अन्नस्य वृष्टिजन्यत्वेनाब्जन्न्यत्वे बाधकाभावात् । व्याख्यातं चान्नपदं श्रुतौ पृथ्विपरतया तेन जानीमो वर्षजन्यमन्नं पार्थिवमेव न तु प्रसिद्धमिति भावः । अत एवात्र टीकायां लिङ्गविरोधोऽत्र निरस्त इति ज्ञेयम् । तेजोऽशितमिति तत्र तेजस एव भक्षणासम्भवाद्यथा तेजःशब्दः तैजसघृतादिपरस्तथा पृथिवीपरोऽन्नशब्दः पार्थिवपर इति भावः । भाष्ये एवमेव वर्णान्तरगतिः कृष्णवर्णातिरिक्तवर्णगतिरेवमेव निमित्तविशेषेणैवेत्युक्तम् । निमित्तविशेषान्तरमाह ।। विष्ण्विति ।। सूत्रेऽन्नमित्यध्याहारः । शब्देत्येव वाच्ये अन्तरेत्युक्तिः शाखान्तरस्य सूचनाय वा ता आपोऽन्नमसृजन्त पृथ्वी वा अन्नमित्येवं व्याख्यानरूपशब्द-विशेषद्योतनाय वेत्यवगन्तव्यम् ।
तत्त्वसुबोधिनी
अवसरलक्षणमनन्तरसङ्गतिमाह ।। एवं सर्वस्येति ।। न वियदश्रुतेरेतेनेत्यधिकरणाभ्यां नभोवाय्वोः साक्षाद्ब्रह्मजत्वे तेजोऽतस्तथा ह्याह । आप इत्यधिकरणाभ्यां च वागादीनामाकाशादि-द्वारा ब्रह्मजातत्वे सिद्ध इत्यर्थः । अन्यद्वारा ब्रह्मजत्वानिश्चये द्वारविषयश्रुतिविचारस्यानवसर-ग्रस्तत्वादिति भावः । अनन्तरसङ्गत्यन्तरं सूचयन् विषयमाह ।। प्रकृत इति ।। अतो विरुद्धत्वादप्रामाण्यमिति मन्तव्यमित्यर्थः ।
भाष्याभिप्रायमाह ।। नाप इत्यादिना ।। अन्यतरश्रुत्यप्रामाण्येन पूर्वपक्षेऽपि ब्रह्मणो जगज्जन्मादिकारणत्वाक्षेपसम्भवात् परस्परविरोधेन उभयाप्रामाण्येन पूर्वपक्षः कुतः कृतः इत्यत आह ।। निरवकाशत्वेनेति ।। अन्नश्रुतेः प्रसिद्धान्येति ।। अद्भ्यो वा अन्नमित्यादिबहुवाक्यानां प्रसिद्धार्थपरत्वरूपगुणलाभादित्यर्थः । न केवलं प्रसिद्धान्नपरत्वे बहुवाक्यानुसारिता किन्तु लिङ्गद्वयमप्यस्तीत्याह ।। तस्मादिति ।। अद्भ्यः पृथिवीति श्रुतेर्निरवकाशत्वमुपपादयति ।। न चेति ।। उक्तश्रुतिविरोधादेवेति ।। ओषधीभ्योऽन्नमिति श्रुतिविरोधादेवेत्यर्थः ।। बहुकल्पनापातादिति ।। अन्नस्याब्जन्यत्वमोषधीजन्यत्वं पृथिव्याश्चाब्जन्यत्वं चेति बहुकल्पनापातादित्यर्थः ।। मुख्यार्थत्याग इति ।। साक्षात्कारणत्वरूपमुख्यार्थत्याग इत्यर्थः ।। भूतविषयत्वादिति ।। अन्नस्य भौतिकत्वेन भूतत्वात् भूतशब्देन भौतिकमेव व्यावर्तते न तु भूताभिमानी देवतापीति भावः । पूर्वोक्तयुक्तेः सावकाशत्वमाह ।। न च वृष्टिजन्यत्वेति ।। तेजोऽशितमितिवदिति ।। अत्र तैजस एव भक्षणासम्भवात् यथा तेजश्शब्दः तैजसपरः तथा पृथिवीवाचको अन्नशब्दः पार्थिवपर इत्यर्थः । सा पृथिवी पीतेत्यभिधीयते अत्र हेतुः नाभीति नाभिजात पद्मस्य पीतत्वेन तत्सम्बन्धात् पृथिव्याः अपि पीतत्वमिति भावः । पृथिवी रक्तेत्यभिधीयते तत्र हेतुः ।। क्षत्रेति ।। पृथिव्यामन्योन्यं क्षत्राणां युद्धे सति तदीयरक्तसम्बन्धादित्यर्थः ।। पृथिवी शुक्लत्वमेति ।। अत्र हेतुः उदकबहुत्वत इति ।। उदकाय शुक्लत्वेन तत्सम्बन्धबाहुल्यात्तस्या अपि शुक्लत्वमित्यर्थः । उक्तन्यायमन्यत्रातिदिशति ।। एवमिति ।। वर्णान्तरमपि तत्सम्बन्धबाहुल्यादेव मन्तव्यमित्यर्थः ।
वाक्यार्थविवरणम्
द्वारविषयेति ।। आवान्तरकारणापरपर्यायद्वारकारणविषयेत्यर्थः ।। प्राप्तमिति ।। शङ्काया-मित्यर्थः । ननु श्रुतिद्वयमध्ये अन्यतरश्रुतिः प्रमाणतया गृह्यत इति न विरोध इत्यत आह ।। निरवकाशत्वेनेति ।। श्रुतिद्वयस्यापीति शेषः । बहुवाक्यानुसारित्वमेव दर्शयति ।। तस्मादित्या-दिना ।। यस्मादादौ अन्नमब्जन्यं तस्मात् । इदानीमपीति शेषः ।। प्रसिद्धान्नेति ।। ‘अशितं’ इत्युक्त्या अश्यत्वरूपप्रसिद्धान्नलिङ्गादित्यर्थः । न हीदं लिङ्गं पृथिव्यां सम्भवतीति भावः । पुनरविरोधमाशङ्क्य निषेधति ।। न चेति ।। श्रुतिविरोधादिति ।। अन्नस्यौषधिजातत्वप्रतिपादक-श्रुतिविरोधादित्यर्थः ।
ननु तथापि न विरोधः । उभयत्रापि श्रुतौ पृथिव्यन्नशब्दयोः प्रसिद्धपृथिव्यन्नपरत्व-स्यैवाङ्गीकारात् । न च पुनर्विरोधानिस्तार इति वाच्यम् । पृथिव्यन्नयोरुभयोरपि अद्भ्य एवो-त्पत्त्यङ्गीकारेणापां पृथिव्यन्नोभयोत्पत्तौ द्वारकारणत्वाङ्गीकारादित्याशङ्क्य निषेधति ।। नापीति ।। उक्तेति ।। अन्नस्याब्जन्यत्वे । औषधीभ्योऽन्नमित्यन्नस्यौषधिजन्यत्वप्रतिपादकश्रुतिविरोधा-देवेत्यर्थः । ‘अद्भ्यः पृथिवी’ ‘ता अन्नमसृजन्त’ इति श्रुत्योः पुनरविरोधमाशङ्क्य निषेधति ।। न चेति ।। परम्परया ।। पृथिव्यौषधिजननद्वारेत्यर्थः ।। मुख्यार्थेति ।। ‘ता आप अन्नमसृजन्त’ इति साक्षादब्जन्यत्वरूपमुख्यार्थेत्यर्थः ।। अस्य प्रकरणस्येति ।। ‘ता आप ऐक्षन्त’ इत्याद्यस्य प्रकरणस्येत्यर्थः ।। प्रकरणमात्रेणेति ।। श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वादिति भावः ।। अवाचकायाः ।। पृथिव्यवाचकायाः ।। पृथिवीपरत्वमिति ।। लक्षणादिना पृथिव्यां तात्पर्यं गङ्गाशब्दस्य तीर इवेत्यर्थः ।। तस्याः ।। अन्नश्रुतेः । वाचकत्वरूपा शक्तिः ।। लिङ्गेति ।। अश्यत्वरूपलिङ्गेत्यर्थः ।। आप्तेति ।। तथा च वेदो नाप्रमाणम् । विष्ण्वाद्याप्तवाक्यभूतपञ्चरात्राद्यनु-सारित्वादित्यनुमानं द्रष्टव्यम् । आदिपदेन फलसंवादादिग्रहणम् । बुद्धिदोषनिरासमात्रकारणत्वा-द्युक्तीनां न प्रामाण्यस्य स्वतस्त्वभङ्गः । अत एव नाप्रमाणमित्यप्रामाण्याभाव एव साधित इति द्रष्टव्यम् । ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इत्येतद्धदि कृत्वोक्तपरिहारप्रकारं दर्शयति । एवं युक्ति । कल्प्या । अन्नश्रुतेरिति शेषः । ‘भाष्ये यत्रेत्यस्य यदेत्यर्थः । सा पृथिवी पीतेत्यभिधीयत इत्यन्वयः । रक्ता । इत्यभिधीयत इति वर्तते । भूयस्त्वादिति वक्ष्यमाणन्यायेनोदकबहुत्वतः शुक्लत्वमेतीत्यन्वयः । वर्णान्तरगतिः । स्वाभाविककृष्णवर्णापेक्षया यद्वर्णान्तरं पीतादि तद्ग्रति-रेवमेव । निमित्तान्तरसमावेशेनेत्यर्थः ।। एवमेवेत्युक्तमेवेति ।। एवमेवेत्यनेनोक्तमेव निमित्तान्तरं दर्शयतीत्यर्थः । एवं ‘च भुवः पीतत्वमिष्यत’ इति यत्तन्न केवलं नाभिपद्माभिसम्बन्धात् किन्तु विष्णुवीर्याभियोगाच्चेति व्याख्येयम् । एवं च निमित्तान्तरप्रदर्शन एव भारो न वर्णान्तरविधौ, येनात्र वर्णान्तरं नोच्यते । किन्तु पूर्वोक्त एव पीतवर्णः कथ्यत इति कथमेतदिति चोद्यानवकाश इति ध्येयम् । केचित्तु वर्णान्तरस्य पीतादेर्गतिरेवमेव नाभिपद्माभिसम्बन्धादित्येवमादिप्रकारेणैवेत्यर्थः । तथा चैवमेवेत्युक्तमेव दर्शयतीति टीकाया एवमादीत्यादिशब्दोक्तं प्रकारं स्वयमेव दर्शयतीत्यर्थः । इत्याहुः ।
ननु विष्णुवीर्याभियोगेऽपि कुतो भुवः पीतत्वमित्यतस्तदुपपादयति ।। स्वर्णवीर्यो हीति ।। सुवर्णे च पीतरूपमस्तीति भावः । एतदुपलक्षणम् । नाभिपद्मक्षत्ररक्तबहूदकसम्बन्धेऽपि कुतो भुवः पीतत्वरक्तत्वशुक्लत्वानीति शङ्कापरिहाराय पीतं हि भगवन्नाभिपद्मं, रक्तवर्णं हि क्षत्ररक्तं, शुक्लं ह्युदकं प्रसिद्धमतस्तत्सम्बन्धाद्भुवोऽपि पीतत्वादि । जपाकुसुमसम्बन्धात् स्फटिके लौहित्य-मिवेत्युपपादनं च द्रष्टव्यम् ।
वाक्यार्थमञ्जरी
साक्षादन्यद्वारा वेति ।। न वियदश्रुतेरेतेन मातरिश्वाव्याख्यात इत्यधिकरणाभ्यां महाकाश-वाय्वोः साक्षाद्ब्रह्मजातत्वे तेजोतस्तथा ह्याह आप इत्यधिकरणाभ्यां भूतवाय्वादीनामाकाशादिद्वारा ब्रह्मजातत्वे च सिद्धे सतीत्यर्थः ।। द्वारविषयेति ।। अवान्तरकारणविषयेत्यर्थः । तत्र कोटिद्वये किमस्येत्यादिप्रश्नद्वयोत्तरमाह ।। तत्र श्रुतीति ।। शङ्कायामित्यर्थः । सावकाशत्वादिना व्यवस्थास्त्वित्याह ।। निरवकाशत्वेनेति ।। श्रुतिद्वयस्येति वर्तते । अन्यतरसावकाशत्वमाशङ्क्य निराकरोति ।। न चेत्यादिना ।। बहुवाक्येति ।। ता अन्नमसृजन्त ता आपोऽन्नमसृजन्त अद्भ्य एव तद्ध्यन्नाद्यं जायत इत्यादि बहुवाक्येत्यर्थः ।। तस्मादिति ।। तस्मादन्नस्याप्कार्यत्वादेव यत्र क्वच देशे वर्षति तत्रैव भूयिष्ठमन्नं भवति ।। अन्यथासिद्धिं निरस्यति ।। अद्भ्य एवेति ।। तदन्नाद्यं प्रसिद्धान्नप्रभृतिपार्थिवमद्भ्य एव जायते नान्यस्मादित्यर्थः । अशितं भक्षितं त्रेधा पुरीषमांस-मेदोरूपेण ।। लिङ्गादिति ।। वृष्टिजन्यत्वाद्यत्वपुरुषाद्यात्मना परिणामरूपादित्यर्थः । उक्तश्रुति-विरोधादिति पृथिवीजन्यौषधिजन्यत्वप्रतिपादकौषधीभ्योऽन्नमिति श्रुतिविरोधादित्यर्थः ।। बहुकल्पनापातादिति ।। अन्नस्याब्जन्यत्वमौषधिजन्यत्वं पृथिव्याश्चाब्जन्यत्वं चेति बहुकल्पना-पातादित्यर्थः ।। मुख्यार्थेति ।। साक्षादब्जन्यत्वरूपेत्यर्थः ।। ॐ पृथिव्यधिकाररूपशब्दान्तरा-दिभ्यः ॐ ।। अन्नं पृथिव्यैव न प्रसिद्धान्नं कुतः अधिकारात्तत्तेजोऽसृजत’ इत्यादिभूतप्रकरणात् । यत्कृष्णं तदन्नस्येति कृष्णरूपात् पृथिवी चान्नमिति शब्दान्तरात् वेदो नाप्रमाणमपौरुषेयत्वादिति युक्तेश्चेत्यर्थः । तासामिति तासां तेजो बन्नादिदेवतानां मध्ये एकैकदेवतां त्रिवृतं त्रिवृतं स्वाभिमन्य-मानभूतेन सहान्योन्यप्रविष्टामकरोदित्यर्थः ।। भूतविषयत्वादिति ।। अन्नं च भौतिकमेव न भूतमिति भावः । ननु देवतानामन्योन्यप्रवेशे एकैकत्र कार्यं त्रयेण भाव्यं तत्कथमित्यतो यदग्नेरित्यादिवाक्यं प्राप्तं तस्यार्थः । अग्नेर्यद्रोहितं लोहितं रूपं तत्तेजसो रूपं तेजोऽभिमानिश्रीरूपसम्भवम् । अग्नेर्यच्छुक्लं रूपं तदपां रूपम् अम्नामकवायुरूपजन्यम् अग्नेर्यत्कृष्णं रूपं तदन्नाभिमानिरुद्ररूप-सम्भवम् ।। जानीयादिति ।। तेजोऽशितमितिवदिति ।। तत्र तेजस एव भक्षणासम्भवात् यथा तेजःशब्दः तैजसपदार्थ परस्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपदार्थपर इत्यर्थः । प्रत्यक्षवत् साक्षिवत् पद्मस्वर्णगतपीतयोर्लोकेऽवान्तरविशेषदर्शनान्न भाष्ये पुनरुक्तिः शङ्क्या ।
।। इति पृथिव्यधिकरणम् ।।