ॐ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॐ
७. भाक्ताधिकरणम्
सूत्रभाष्यम्
‘अपाम सोमममृता अभूम’ (ऋ. सं. ८-४-३) इत्यादिश्रुतिविरोध इत्यतो वक्ति –
।। ॐ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॐ ।। ७ ।।
भागतस्तदमृतत्वम् । ‘नान्यः पन्था अयनाय विद्यत’ (तै.आ.३-१३) इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दात्पारम्पर्येणाऽऽत्मविदपेक्षया वा । तथा हि श्रुतिः– ‘स एनमविदितो न भुनक्ति यथा वेदो वाऽऽननूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽऽत्मनो यद्यत्कामयते तत्तत्सृजते’ (बृ.उ.३-४-१५) ‘अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनुर्यावदादित्यः’ । ‘कर्मणा ज्ञानमातनोति ज्ञानेनामृती-भवति अथामृतानि कर्माणि यत एनममृतं (एनममृतत्वं) नयन्ति’ इति च ।
तत्त्वप्रदीपिका
यद्येवमिष्टादिकारिणां धूमादिमार्गेण स्वर्गं गतानां पुनरावृत्तिरिष्यते, ‘अपाम सोमममृता अभूम’ ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादि श्रुतिविरोधः स्यात् । अत्र हि कर्मणैव मोक्षो ज्ञायते । युज्यते च नित्यनैमित्तिककर्मानुष्ठानेन क्षपितकल्मषाणामभूतप्रत्यवायानां काम्यप्रतिषिद्धवर्जनेनासञ्जातप्रजननहेतूनाम् । यथाऽऽहुः केचिदित्यत आह– भाक्तं वेत्यादि सूत्रम् ।। कालभागतस्तस्यां श्रुतावुक्तममृतत्वमल्पकालीनम् । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ ‘तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ ‘न चेदिहावेदीन्महती विनष्टिः’ इत्यादिश्रुतेरात्मविद एव ह्यनन्तकालीनममृतत्वम् । पारम्पर्येणाऽत्म-विदपेक्षया वा तदमृतत्वम् । तथाचायमर्थः स्यात् । सोममपाम, देवानविदाम, ज्योतिरगन्म, अमृता अभूमेति । ज्योतिर्ब्रह्मेत्युदितम् । न भुनक्ति न पालयति । अन्ततः स्वल्पफलदानान्ततः । ‘महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत्’ इति हि भारते । ‘निष्फल’ इति स्वल्पफलापेक्षया । य आत्मानमेव आश्रयमुपास्ते दर्शनपर्यन्तं न हास्य कर्म क्षीयते । वाशब्दादित्यादेरन्योऽर्थः । वाशब्दा-त्पारम्पर्येण कर्मणाऽमृतत्वं ज्ञानोत्पत्तिद्वारेण । तथाहि दर्शयति ‘कर्मणा ज्ञानमातनोति’त्यादि । आत्मविदपेक्षया वा तदमृतत्वं आत्मविदां कर्मापेक्षयेत्यर्थः । तथा हि दर्शयति ‘स य आत्मानम्’ इत्यादि । न च कर्मणैव सर्वकर्मक्षयः प्रमातुं शक्यते । प्रमाणाभावात् । न च काम्यप्रतिषिद्धवर्जनं सर्वात्मना शक्यते । अमात्यादिना प्रसङ्गात् । न च पुण्यानां प्रायश्चित्तविधिः । न च पापाना-मनन्तानां निष्कृतिः शक्या । अतो न कर्मणा मोक्षः ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्त्यर्थं वैराग्यादेरेवावश्यकसाधनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । यदि वैराग्यादेर्नावश्यानुष्ठेयत्वं तर्हि नास्य शास्त्रस्यावश्यमारम्भणीयत्वं स्यादतस्तत्साधनीयम् । वैराग्यादिसाधनमेव विषयः । किं मुमुक्षुणावश्यमनुष्ठेयमुत नेति सन्देहः । उभयविधसाधनदर्शनं सन्देहबीजम् । पूर्वपक्षयति ।। अपामेति ।। न मुमुक्षुणावश्यमनुष्ठेयं वैराग्यादि । तद्विनापि कर्मणैव मोक्षसम्भवात् । ‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेः । अन्यथैतच्छ्रुतिविरोधात् । अतो ‘र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ । इति न्यायेन सुशकेन कर्मणा मोक्षसिद्धौ वैराग्यादिना कृत्याभावाद्व्यर्थमिदं शास्त्रमिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अवश्यानुष्ठेयमेव मुमुक्षुणा वैराग्यादि । तद्विना मोक्षासिद्धेः । न चैवं श्रुतिविरोधः । तस्या अन्यार्थत्वात् । तथा हि । कर्म द्विविधम् । काम्यमकाम्यं च । तत्र यद्यस्यां श्रुतौ सोमयागः काम्यो भवेत् तदा तत्साध्यममृतत्वं नाम किंचित्कालीनमिति गौणार्थतया श्रुतिरुपपन्नेति भावः । मुख्यामृतत्वमेव श्रुत्यर्थः किं न स्यादित्यत आह ।। नान्य इति ।। न कर्मणा मुख्यामृतत्वं लभ्यं येन तत् श्रुत्यर्थः स्यात् । काम्यकर्मिणामनात्मवित्त्वात् । ‘तमेवं विद्वान्’ इति श्रुत्याऽऽत्मविदो मुख्यामृतत्वस्यान्येषां तदभावस्यैवोक्तत्वादिति भावः । काम्यकर्मणा तत्फलस्यैव हि सिद्धिः । अथाकाम्यकर्म विवक्षितं तदप्युभयथा । जिज्ञासूनां ज्ञानिनां चेति । द्विविधमपि न मोक्षसाधनं साक्षादित्याह ।। वाशब्दादिति ।। इति सूचितमिति शेषः । यद्यत्र जिज्ञासूनामकाम्यं कर्म विवक्षितं तदामृतपदेन मुख्यामृतत्वमेव । किं नाम तच्च कर्मणा न साक्षाद्भवति । कर्मभिः शुद्धान्तःकरणस्य वैराग्यादि तद्वतो जिज्ञासा तस्य ज्ञानं तस्य मोक्ष इति पारम्पर्येणैव ‘अगन्म ज्योतिः’ इति । अथ ज्ञानिनोऽकाम्यं कर्म तथापि न तेन मोक्षः किं त्वात्म-विदमपेक्ष्यैव । आत्मज्ञानलब्धे मोक्षेऽकाम्यकर्मणा अतिशयो भवति । सर्वथा न कर्मणा संसार-निवृत्तिरिति भावः । एवमस्याः श्रुतेरुक्तार्थत्रयसमर्थनाय श्रुतीरुदाहरति ।। तथा हीति ।। आत्मविदामेव मुख्यामृतत्वं नानात्मविदामित्यर्थे ‘स एनम्’ इति श्रुतिः प्रमाणम् । ‘आत्मानमेव लोकमुपासीत’ इत्यादि श्रुत्यैवाऽऽत्मविदपेक्षयेत्यर्थसिद्धिः । न भुनक्ति नामृतत्वं भोजयति । उपास्ते जानाति च स मुक्तो यद्यत्कामयते तत्तत्परमात्मप्रसादद्वारा कर्म सृजतीत्यर्थः । भागतस्तदमृतत्व-मित्यस्मिन्नर्थेऽमृत इति श्रुतिः । पारम्पर्येणेत्यत्र कर्मणेति श्रुतिः । अतो वैराग्याद्यनुष्ठानमन्तरेण मोक्षासिद्धेर्न तत्प्रतिपादकशास्त्रवैयर्थ्यमिति सिद्धम् ।
गुर्वर्थदीपिका
किञ्चित्कालीनमिति वदता भागत इति भाष्यकारीयभागशब्दस्य मुक्तिकालापेक्षया अल्पकालभाग एवार्थ इति सूचितम् । न च वाच्यं ‘तमेवं विद्वानमृत’ इति श्रुतावप्यमृत इत्येवोक्तेः कथं मुख्यामृतत्वलाभ इति । ‘यावदिन्द्र’ इत्यादिवदवध्यनुक्तेः । ‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्ययः’ इति वचनादमृतपदेन मुख्यामृतमेव लभ्यते । ‘नान्यः पन्था अयनाय विद्यते’ इति श्रुतिशेषेऽयन-पदेन मुख्यामृतत्वरूपमोक्षस्यैव प्रस्ताव्यमानत्वाच्च । ‘श्रेयो निःश्रेयसामृतम्’ इति मुख्यामृत एवामृतशब्दानुशासनात् । सर्वथा मृतिराहित्यरूपार्थस्य तत्रैव सम्भवाच्च । अगन्म ज्योतिरित्यस्य ज्योतिः ज्योतीरूपपरमात्मानं अगन्म गत्यर्थानां ज्ञानार्थत्वात् अजानीम देवानप्यविदाम । तारतम्येनाविदाम अजानीमेत्यर्थः । अविदितस्तु परमात्मा एनं कर्मकर्तारं न भुनक्तीति यथाश्रुतक्रियाया असङ्गतेरर्थमाह न भुनक्ति न भोजयतीति ।
भावबोधः
वैराग्यादेरावश्यकसाधनत्वसमर्थनादिति ।। तथा चात्र प्रथमाधिकरणे ‘सम्परिष्वक्त’ इत्यनेन न मरणमात्रे भूतवियोगः । किं तु मुक्तिरूपमरण एवेत्यत्र ज्ञानसदसद्भावे एव नियामक इति यत्सूचितं तदयुक्तम् । मोक्षस्य कर्मसाध्यत्वोक्तेरिति शङ्कापरिहारादनन्तरसङ्गतिरिति भावः । न चैवं तदानन्तर्यं स्यादिति वाच्यम् । प्रश्ननिरूपणरूपहेतुसमर्थनपराधिकरणपञ्चकस्यावश्यकत्वेन तदनन्तरमेवावसरप्राप्तत्वादिति भावः । किं मुमुक्षुणावश्यमनुष्ठेयं न वेति सन्देह इति । अत्र वैराग्यादि किं मुमुक्षुणा अवश्यमनुष्ठेयमुत नेति चिन्ता । तदर्थं मोक्षः कर्मसाध्यो न वेति । तदर्थं ‘अपामसोमम्’ इत्याद्यर्थवादः कर्मणो मोक्षसाधनत्वप्रतिपादक उत नेति । तदर्थममृतशब्दः साक्षात्कर्मसाध्यमोक्षरूपमुख्यार्थपर उत गौण्यादिनार्थान्तरपर इति ।। उभयविधसाधनेति ।। यत्र कार्येऽनेकेषां साधनता तत्रैकैकस्यावश्यानुष्ठेयत्वाभावः । यत्र त्वेकमेव साधनं तस्यावश्यमनुष्ठेयत्व-मिति भावः । कर्मैवैतत्साधनमिति न्यायविवरणस्याभिप्रायमाह ।। तद्विनेति ।। कुत इत्यत आह ।। अपामेति ।। अनेन ‘अपाम सोमममृता अभूम’ इति विशेषत एव मोक्षफलस्याप्युक्तेरिति न्यायविवरणमुक्ततात्पर्यकं भवति । इत्यादिश्रुतिविरोध इत्यादिभाष्यं न्यायविवरणैकवाक्यतया योजयति ।। अन्यथेति ।।
नन्वेवमपि कर्मवद्वैराग्यादिसाध्यज्ञानस्यापि मोक्षसाधनत्वाद्यथारुचि तस्याप्यनुष्ठानसम्भवान्न वैराग्यादेर्वैयर्थ्यमित्यत आह ।। अत इति ।। तत्र यद्यस्यामिति भागतस्तदमृतत्वमिति भाष्य-व्याख्यानपरेणानेनामृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेरिति न्यायविवरणं तावदेकेन प्रकारेण व्याख्यातं भवति ।। किञ्चित्कालीनमिति ।। मन्वन्तराद्यवच्छिन्नकालेषु मरणरहितत्वरूपगुण-योगेनामृता इवामृता इति गौणार्थतयेत्यर्थः । काम्यकर्मिणामनात्मवित्त्वादिति । तथा चात्मविद एव हि मुख्यमिति भाष्येण ‘अनात्मवित्त्वात्’ इति सौत्रो हेतुः ‘भाक्तम्’ इत्यत्रैव योजित इति भावः ।। तमेवं विद्वानितीति ।। अनेन ‘नान्यः पन्था अयनाय विद्यते’ इति न्यायविवरण-मप्युक्तार्थं भवति । कुतोऽन्येषां तदभावस्योक्तिरित्यत आह ।। काम्यकर्मणेति ।। ‘हि’शब्दो यस्मादित्यर्थे ।। मुख्यामृतत्वमिति ।। अमृतशब्दस्य मोक्षे योगरूढिलक्षणमुख्यवृत्तेः सद्भावादिति भावः । कर्मनिर्णयटीकायां तु तत्साधनज्ञानलक्षणयेत्यस्मिन्नेव पक्षे प्रकारान्तरमुक्तमित्यवधेयम् ।
यद्यमृतपदेन मुख्यामृतत्वमेवोच्यते तर्ह्यङ्गीकृतं कर्मणो मोक्षसाधनत्वमित्यभिप्रेत्य पृच्छति ।। किं नामेति ।। तच्चेति ।। अनेनामृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेरिति न्यायविवरणं प्रकारान्तरेण व्याख्यातं भवति ।। तथा हि वाक्यशेष इति ।। तथा चायं श्रुत्यर्थः ‘सोममपामामृता अभूम’ इति कर्ममोक्षयोः कार्यकारणभाव उक्तः । स न साक्षात् किं तु परम्परयेत्युच्यते । अगन्म ज्येतिरिति प्रकाशरूपं ब्रह्मागन्म जानीमः । ज्योतिः ज्ञानमगन्म प्राप्नुम इति वा । ततः किमित्यत उच्यते ।। अविदामेति ।। मार्गरूपानर्चिरादि देवानविदाम प्राप्नुम इति । न चैवं सत्याद्यान्तिमपक्षयोरेतद्वाक्यशेषविरोधेन कथं पूर्वश्रुतिस्तदर्थपरेति वाच्यम् । अत्राद्ये पक्षे– कथं कर्मणा स्वर्ग इत्यत उच्यते ।। अगन्मेति ।। चन्द्रमसं ज्योतिरगन्म मार्गरूपान् धूमादि-देवानविदामेत्यस्य तृतीये च सोमयागेन (पानेन) कथमानन्दातिशय इत्यत उच्यते ।। अगन्मेति ।। यतः पूर्वं ज्योतिरपरोक्षज्ञानमगन्म ततो देवान् यथायोग्यं देवादित्वमविदामेत्यर्थस्य सम्भवेन तद्विरोधाभावादिति भावः ।। आत्मज्ञानलब्ध इति ।। तथा च मोक्षलक्षणमुख्यामृतवाचकस्यामृत-शब्दस्य तदेकदेशानन्दातिशये लक्षणया प्रवृत्तिरिति भावः । अनेनामृतशब्दस्य यथायोग्यमेवार्थ-कल्पनोपपत्तेरिति न्यायविवरणं प्रकारान्तरेण व्याख्यातं भवति ।
ननु यदि कर्मण आनन्दातिशयहेतुत्वं तर्ह्यङ्गीकृतमेव मोक्षसाधनत्वम् । तस्यैव मोक्षत्वात् । तद्व्यतिरिक्तस्य कर्मासाध्यस्य ज्ञानमात्रसाध्यस्य मोक्षस्याश्रवणात् । तथा च न तेन मोक्ष इति । आत्मज्ञानलब्धमोक्ष इति च कथमुक्तमित्यत आह ।। सर्वथेति ।।
यच्चोक्तम्–
‘सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्याद्यानन्दचित्रता’ ।। इति ।
इत्यादिश्रुत्यैवेति । आत्मविदामेव मुख्यामृतत्वमित्यर्थान्तरप्रतिपादनायोदाहृतयैवैत्यर्थः । आदिपदेन तत्तदसृजत इत्येतस्य ग्रहणम् । अविदितोऽपि परमात्मा स्वर्गादि भोजयत्येवेत्यतो न भुनक्तीत्येतस्य तात्पर्यमाह ।। नामृतत्वमिति ।। ननूपासककर्मणो ज्ञानहेतुत्वात् कथमात्मविद-पेक्षयेत्यत्रार्थे ‘आत्मानमेव’ इति श्रुतिः प्रमाणमित्यत आह ।। ज्ञानाति चेति ।। परमात्मनः सकाशाद्यद्यत् प्राप्तुमिच्छति तत्सर्वं कर्म स्वयं सृजतीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। स मुक्तो यद्यदिति ।। ‘आत्मविदपेक्षया’ इति, ‘भागतस्तदमृतत्वमित्यस्मिन्नर्थः’ इति ‘पारम्पर्येणेत्यत्र’ इति वाक्यत्रयेण न्यायविवरणोदाहृतयोः ‘स य आत्मानमेव लोकमुपास्ते’ ‘यावदिन्द्रो यावन्मनुः’ इति श्रुत्योरादिपदोपात्तायाः ‘कर्मणा ज्ञानमातनोति’ इत्यादिश्रुतेश्च तत्तदर्थपरत्वमप्युक्तं भवति ।
भावदीपः
वैराग्यादेरिति ।। आदिपदेन भक्तिजिज्ञासाज्ञानानां ग्रहः । कर्मणामस्थिरफलकत्वोक्त्येति योज्यम् । एतेनातीतनयैर्जीवस्यामुक्तिभूतपरिष्वंगभावान्न मृतिमात्रेण मुक्तिरिति तदर्थं वैरोग्यादिकमपेक्षितमित्युक्तम् । इदानीमस्तु आमुक्ति भूतबन्धस्तथापि तन्निवृत्तिः कर्मणैवास्तु किं वैराग्यादिनेत्याशङ्कानिरासेन वैराग्यादेरेवावश्यकत्वं न तु कर्मण इति अत्र समर्थनादनन्तर-सङ्गतिरगतार्थत्वं चेति सूचितम् । तत्त्वप्रदीपे तु यदीष्टादिकारिणां भूतबन्धेन पुनरागमनं तर्हि ‘अपामसोमममृता अभूम’ ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादिश्रुतिविरोध इत्युक्तम् । तद्रीत्या पूर्वाक्षेपात् सङ्गतिः स्पष्टैव । यद्वा इष्टापूर्तादिकारिणो भूतपरिष्वङ्गेन गतिश्रवणवन्मोक्ष-स्यापि श्रवणाक्तिं वैराग्यादिनेत्याक्षेपात्सङ्गतिः । तदुक्तं न्यायविवरणे मोक्षफलस्याप्युक्तेरिति ।। उभयविधेति ।। लोके तृप्त्यर्थं भोजनादिसाधनमवश्यानुष्ठेयं दृश्यते । रसायनसेवनादिरूपं तु अवश्याननुष्ठेयं दृष्टं तथेहापि पूर्वोक्तरीत्या वैराग्यादिकमनुष्ठेयं किं वाऽपामेत्यादिश्रुत्याऽवश्या-ननुष्ठेयमिति भवति सन्देह इत्यर्थः । ‘सङ्गम्यन्ते गुरोर्गिर’ इति प्रतिज्ञानुरोधाद्भाष्यवाक्यमन्यत्रोक्त-वाक्येन सङ्गमयितुं ‘अपाम सोमममृता अभूम’ इति विशेषत एव मोक्षफलस्याप्युक्तेः कर्मैव तत्साधनमित्यन्यत्रोक्तमत्र फलोक्तिपूर्वमर्थतो योजयति ।। न मुमुक्षुणेत्यादिना ।। नन्वनादि-प्रतिबन्धकदुरितस्य जन्महेतुकर्मणां च भावात्कथं सोमयागादिकर्ममात्रेण मोक्षः । कथं च ‘अथ हैनं यजमानं किं न जहाति’ इति भूतावियोगश्रुतिश्चेत्यतो विपक्षे बाधकोक्तिपरतया भाष्यं तत्सङ्ग-तत्वेन योजयति ।। अन्यथेति ।। कर्मणा मोक्षानङ्गीकार इत्यर्थः । नित्यनैमित्तिककर्मानुष्ठानेन क्षपितकलुषाणामभूतप्रत्यवायानां काम्यप्रतिषिद्धवर्जनेनासञ्जातजन्महेतूनामिष्टापूर्तादिकारिणां कर्मणैव मोक्षोपपत्तेः । अत एव प्राक्कर्मणैवेत्येवकारः । प्राचीनश्रुतिस्तु प्रतिबन्धकवदिष्टादिकारिपरा वा अप्रमाणं वेति भावः । कोऽत्र विशेषः । येन वैराग्यादित्यागः कर्मण्यादरश्चेत्यत आह ।। अत इति ।। कर्मणो मुक्तिहेतुत्वस्य श्रौतत्वादित्यर्थः । र्ओ अर्कतरौ । इष्टस्यार्थस्य संसिद्धौ को विद्वान्यत्नमाचरेदित्युत्तरार्धंशः ।। वैराग्यादिनेति ।। अनेनाध्यायाक्षेपोऽपि सूचितः । तदर्थं वैराग्यभक्तिजिज्ञासाज्ञानार्थमित्यर्थः । अस्य शास्त्राद्यारम्भप्रयोजकत्वेऽपि पूर्वषडधिकरणीव वैराग्यप्रयोजकत्वमप्यस्तीत्यत्र पादे निवेश इति भावः । यद्यपि शास्त्रं न वैराग्यभक्त्यर्थं ‘ब्राह्मणो निर्वेदमायात्,’ ‘यमेवैष वृणुते,’ ‘भक्तिमान्परमे विष्णौ’ इत्यादिजिज्ञासासूत्रभाष्योक्त-श्रुतिस्मृतिभिः, ऊर्ध्वरेतस्सु चशब्दे हि । अध्ययनमात्रवतः । अनुबन्धादिभ्यः । भूयस्त्वात्त्वनुबन्ध इत्यादिसूत्रैश्च वैराग्यभक्त्यादेः शास्त्राधिकारिविशेषणत्वोक्त्या तस्य शास्त्रात्पूर्वमेवौपदेशिक-वाक्यार्थज्ञानरूपश्रवणादिनैव सिद्धेः । अन्यथा अन्योन्याश्रयात् । तथा न्यायनिबन्धनात्मक-शास्त्रस्य न्यायानुसन्धानरूपमननार्थत्वेन तदनन्तरभाविनिदिध्यासनार्थत्वस्य तद्द्वारा वा ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा च’ इत्युक्तदिशा चित्तनिरोधद्वारा साक्षादेव वा कथञ्चिदपरोक्षज्ञानार्थत्वसम्भवेऽपि न श्रवणार्थत्वम् । तस्योपनिषद्भाष्यादिरूपोपदेश-जन्यवाक्यार्थज्ञानरूपत्वेन न्यायशास्त्रात्पूर्वभावित्वात् । विवक्षितं च जिज्ञासापदेन त्रितयं एतत्पादसङ्गतिटीकायां श्रवणमनननिदिध्यासनरूपा जिज्ञासैवेत्युक्तेः । तथापि यत्त्वादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितमिति न्यायेन प्राक्सिद्धस्यापि न्यायैरुपपादनेन दार्ढ्यार्थतया वैराग्य-भक्त्यर्थत्वोपपत्तेः । श्रवणेन विना मननायोगेन मननार्थस्य शास्त्रस्यार्थात्तदंगश्रवणाद्यर्थत्वमप्यस्तीति भावेन तदर्थं शास्त्रमित्युक्तमनवद्यमिति । यद्वा तदर्थं वैराग्यादिप्रतिपादकमित्यर्थः । श्रुत्यर्थोक्तिपरतया सूत्रभाष्ये व्याकरिष्यन् श्रुत्यर्थोक्तेरसांगत्यव्युदासाय परिष्करोति ।। अवश्येति ।। इत्यादिश्रुतिबलादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेरित्यन्यत्रोक्तिविवरणपरतया कर्म-विभागोक्तिपूर्वं भाष्यार्थमाह ।। कर्मेति ।। ‘प्रवृत्तं च निवृत्तं च द्विविधं कर्म चोच्यते’ इत्यादेरिति भावः । काम्यो भवेत् स्वर्गरूपफलोद्देशेन कृतो भवेदित्यर्थः ।। तत्साध्यमिति ।। एतेन भाष्ये तदमृतत्वमिति तच्छब्दस्य तस्यां श्रुतौ श्रुतकाम्यसोमयागसाध्यमित्यर्थो दर्शितः । भागतः कालभागत इत्युपेत्यार्थमाह ।। किञ्चिदिति ।। गौणार्थतया अमुख्यार्थतया । नान्य इत्यादिभाष्योक्तहेतुसाध्ययोरसांगत्यव्युदासाय श्रुतिपूर्वांशोक्त्या अर्थं वदन् सूत्रार्थं चाह ।। न कर्मणेति ।। सूत्रे तदमृतत्वमिति शेषः । तदमृतत्वं भाक्तममुख्यमित्यंशस्य भावार्थो न कर्मणा मुख्यानृतत्वं लभ्यमिति । तथा हि दर्शयतीत्यस्यार्थः तमेवमिति ।। भाष्यस्थैवकाराशयमाह ।। अन्येषामिति ।। उक्तत्वादिति ।। अनेन हिर्हेताविति सूचितम् । भाष्यस्थहिशब्दसूचितमाह ।। काम्येति ।। पारम्पर्येणेति भाष्ये तदमृतत्वमित्यस्यानुवृत्त्यान्वयलब्धममृतत्वस्वरूपं वदन् तद्वाक्यं व्याचष्टे ।। यद्यत्रेत्यादिना ।। अत्र श्रुतौ । यत्तु कर्मनिर्णयटीकायां अमृता इति वा मृता इति गौण्या वृत्त्या मन्वन्तरापेक्षयाऽमृतशब्दस्य तत्साधनज्ञानलक्षणया तदेकदेशलक्षणया चेत्यमृत-शब्दस्य त्रेधाऽप्यमुख्यत्वरूपं भाक्तत्वमुक्तं तत्तु प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवतेत्याचार्योक्तेः वाचनिकपदेन मुख्यार्थ एव नाभिमत इति द्योतनाय ।। न साक्षादिति ।। सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति वक्ष्यमाणन्यायादिति भावः । पारंपर्येणात्मविद-पेक्षयेत्यात्मज्ञानजननेऽपि कर्मणः सूचितं पारंपर्यं व्यनक्ति ।। कर्मभिरिति ।। वैराग्यादीत्यादिपदेन भक्तिशमदमादिग्रहः । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य इत्याद्युक्तदिशेति भावः ।। तद्वत इति ।। ऊर्ध्वरेतस्सु चशब्दे हि अध्ययनमात्रवत इत्यादिवक्ष्यमाणदिशेति भावः ।। तस्येति ।। श्रवणादि-रूपजिज्ञासावत इत्यर्थः । प्रकाशश्च कर्मण्यभ्यासात् । तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्य-प्रतिबन्धः फलमित्यत्र ज्ञानार्थं श्रवणादित्रितयकर्तव्यत्वस्य वक्ष्यमाणत्वादिति भावः ।। तस्येति ।। ज्ञानवत इत्यर्थः । विद्यैव तु निर्धारणादिति न्यायादिति भावः । विस्तृतमेतत्तृतीये गीताभाष्ये कर्मणैव हि संसिद्धिमित्यत्र । कर्म कृत्वैव ततो ज्ञानं प्राप्य वेत्यादिना कर्म तु तत्साधनमेवेत्यन्तेन ।
ननु सामान्यवाक्यस्य किं बलादेवं निर्णय इत्यत आह ।। तथा हीति ।। बह्वृचाः पठन्ति । ‘अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्’ इति । तस्यार्थः । सोममपाम । तेन अमृता अभूम । कथं यस्माद्देवानविदाम व्यज्ञासिष्म । ज्योतिश्चरणाभिधानादित्याद्युक्तदिशा ज्योति-श्शब्दितं ब्रह्म अगन्म अगमाम । अद्राक्ष्मेत्यर्थः । गत्यर्थस्य ज्ञानार्थत्वात् । तथा च याजुष-शाखायां पाठः । ‘अपाम सोमममृता अभूम अदर्श्म ज्योतिरविदाम देवान्’ इति । तदुक्तं तत्वप्रदीपे । तथा चायमर्थः स्यात् । सोममपाम देवान् अविदाम । ज्योतिरदर्श्म अमृता अभूमेति ज्योतिर्ब्रह्मेत्युदितमिति च । तथा लोके द्वारपालदर्शनानन्तरं राजदर्शनवदतस्तद्व्यपेक्षयेति अन्तरनयोक्तदिशा वाक्यशेषे पूर्ववदिति देवताप्रसादोपचितेश्वरज्ञानस्योक्त्या तद्द्वारैव कर्म मुक्तिहेतुरिति ज्ञायते । उक्तश्चायं वाक्यशेषाधीनो निर्णयः सन्दिग्धे तु वाक्यशेषादिति जैमिनिसूत्रे । अत्राप्युक्तः पूर्वं प्राणादयो वाक्यशेषात् धर्मान्तरेण वाक्यशेषादिति । तथा प्रथमे श्रवणादित्यत्रापि चरमानुरोधेन पूर्वश्रद्धाशब्दस्यास्वारस्यमुक्तं यदा तदा किमु वाच्यम् ‘अपाम सोमममृता अभूम’ इति वाक्यास्वारस्यमिति भावः । एतेन सूत्रे वा अथवा जिज्ञासोस्तदमृतत्वमकाम्यकर्मणा श्रुतममृतत्वं भाक्तं ज्ञानद्वारकत्वरूपं गौणम् । कुतः तथा हि दर्शयति । अगन्म ज्योतिरिति वाक्यशेषे यतो ज्ञानप्राप्तिमाहेति च योजना सूचिता । अत एव तथा हीति सूत्रांशानुकृतिरिति आत्मानमेवेत्यादिश्रुत्यनुसाराच्च । आत्मविदपेक्षयेत्यस्यार्थान्तरमाह ।। अथ ज्ञानिन इति ।। यद्वा भाष्ये पारम्पर्येण वा आत्मविदपेक्षया वेति वाशब्दस्य प्रत्येकमन्वयमुपेत्य पारंपर्येणेत्यंशं व्याख्यायात्मविदपेक्षयेत्येतद्व्याचष्टे ।। अथ ज्ञानिन इति ।। अतिशय इति ।। शमदमाद्युपेतस्स्या-त्तथापि त्विति अग्निहोत्रादि तु तत्कार्यायैवेत्यादौ च वक्ष्यमाणदिशेति भावः । नन्वेवं सति कर्मणो मुक्तिहेतुता प्राप्तैवेत्यत आह ।। सर्वथेति ।। तथा च वक्ष्यति । अत एवाग्नीन्धनाद्यनपेक्षेति सूत्रकार इति भावः ।। श्रुतीरिति ।। भाष्योक्तवाक्यानामनेकश्रुतित्वद्योतनाय बहुवचनम् । आत्मानमेवेति वाक्योक्तेरुपयोगाप्रतीतेराह ।। आत्मानमेवेति ।। उपासककर्मणोऽक्षय्य फलकत्वपरतया प्रतीतयैव श्रुत्येत्यर्थः । कथमित्यतोऽर्थोक्त्या व्यनक्ति ।। न भुनक्तीति ।। न पालयतीत्यर्थः । भुजोनवन इति अभ्यवहारार्थ एवात्मनेपदस्मृतेः । तस्य फलितार्थमाह ।। नामृतत्वमिति ।। जानाति चेति ।। यदि ह वा इति पूर्ववाक्ये अज्ञकर्मणोऽन्ततः स्वल्पफलदानात्पश्चात्क्षीयत एवेति निन्दानुसारात् । उपास्त इत्युपलक्षणम् । अन्यथाऽसङ्गतिः स्यात् । ज्ञानिकर्मस्तुत्यर्थमेवाज्ञकर्मनिन्दारम्भादिति भावः । श्रुतौ लोकमाश्रयमित्यर्थः । तदुक्तं बृहद्भाष्ये प्रथमेऽध्याये चतुर्थब्राह्मणे । अग्निविप्रार्च-कोऽप्येवं यो न वेद हरिं परम् । आश्रयं सर्वजीवानां हरिस्तं नैव भोजयेत्’ इत्यादिना ब्रह्माण्ड इत्यन्तेन । श्रुतिः प्रमाणमित्यनुषङ्ग । एतेष्वर्थेषु सूत्रयोजना तन्त्रदीपिकायां व्यक्ता । श्रुतावधेत्यस्य तस्मादित्यर्थः । नन्वेवं श्रुत्यादिबलादपामेत्यादिवाक्यस्य त्रेधा स्वार्थपरत्वोक्तौ, यानि तीर्थादि-वाक्यानि कर्मादिविषयाणि च । तावकान्येव तानि स्युरज्ञानां मोहकानि चेत्यादिगीता-भाष्योक्तिविरोध इति चेन्न । अल्पाधिकार्यपेक्षया तथोक्त्युपपत्तेः । स्तुतिवाक्यानामपि स्वार्थ-परत्वस्य कर्मनिर्णये प्रतिपादनात् । उक्तं तत्रैव प्रशंसादीनां तात्पर्यं वाचनिकार्थात्यागेनैवोक्तं स्वयं भगवता भाक्तं वानात्मवित्त्वात्तथा हि दर्शयतीति ।। अत इति ।। कर्मणः साक्षान्मोक्षाहेतुत्वा-
द्वैराग्यभक्तिजिज्ञासाज्ञानद्वारैव मोक्षहेतुत्वादित्यर्थः । अस्य विद्यैव त्वित्यतोऽगतार्थत्वं तत्रैव वक्ष्यते ।
अभिनवचन्द्रिका
ननु सोमयागवत् वैराग्यादेरपि साधनत्वात्, तत्र यस्य रुचिः तं प्रति तच्छास्त्रमत्युपादेयमेव । न हि सर्वाधिकारिकं किमपि शास्त्रमस्तीत्यत आह– अत इति ।। वैराग्यादिना कृत्याभावादिति ।। तत्फलस्याऽन्यत एव सिद्धत्वेन कृत्याभावादिति भावः । व्यर्थमिदं तदर्थं शास्त्रमिति ।। पिपासितं प्रति गीर्वाणतरङ्गिणीसमीपे कूपखननप्रकारोपदेशवत् व्यर्थमित्यर्थः । ननु ‘अपामसोम’ इति श्रुतेरन्यार्थत्वाभिधानमयुक्तं सोमयागस्यापि मुख्यामृतत्वसाधनत्वात् । मुख्यासम्भवेऽमुख्यस्य ग्राह्यत्वादित्यत आह– कर्मेति ।। ननु ‘भाक्तम्’ इति भाक्तार्थत्वमुक्त्वा, ‘वा’ इति मुख्यार्थत्व-कथनमयुक्तं, वस्तुनो द्वैरूप्याऽसम्भवदित्यतो वा आह– कर्मेति ।।
पूर्वपक्षस्तु न मुमुक्षुणाऽनुष्ठेयं वैराग्यादि । कर्मणैव मोक्षसिद्धेः । अपामसोमममृता अभूम’ इति श्रवणात् । न च उभयोरपि साधनत्वात् वैराग्यादिकमनुष्ठेयमिति वाच्यम् । सति हि लघीयस्युपाये गुरूपायस्याऽनादर्तव्यत्वात् । अतः सुशकेन कर्मणा मोक्षसिद्धौ वैराग्यादिना कृत्याभावात् व्यर्थमिदं तदर्थं शास्त्रमिति ।
सिद्धान्तस्तु अवश्यानुष्ठेयमेव मुमुक्षुणा वैराग्यादि । तद्विना मोक्षाऽसिद्धेः । न चैवं श्रुतिविरोधः । द्विविधं हि कर्म । काम्यमकाम्यञ्च । अकाम्यमपि द्विविधम् ज्ञानात्पूर्वभावि, पश्चाद्भावि चेति । तत्सर्वमपि श्रुत्यर्थ एव अधिकारिभेदात् । तद्यदा काम्यकर्मपरा श्रुतिः, न तदा मुख्यामृतत्वमाह किंतु बहुकालजीवनरूपं भाक्तमर्थमाह । यदा तु ज्ञानात् पूर्वभाव्यकाम्यकर्मपरा तदा मुख्याऽमृतत्वसाधनत्वमेवाह, किंनाम न साक्षात् किंतु कर्मणा शुद्धसत्वस्य वैराग्यादिद्वारा मोक्षसाधनत्वमाह । यदा तु ज्ञानोत्तरकर्मपरा तदा ज्ञानेन सिध्यति मोक्षेऽतिशयाधायकत्व मेवाऽऽहेति कथमपि कर्मणां साक्षान्मुख्यमोक्षसाधनत्वाऽनभिधायकत्वात् । अतो वैराग्याद्यनुष्ठान-मन्तरेण मोक्षाऽसिद्धेः न तत्प्रतिपादकशास्त्रवैयर्थ्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र पुनरिति । इह कर्मफलस्वर्गस्य पुरुषार्थत्वोक्त्या वैराग्योत्पादनादनन्तरसङ्गतिरवसेया । यद्येवमिष्टादिकारिणां स्वर्गं गतानामपि भूतापरित्यागेन बन्धस्तर्हि ‘अपाम सोमममृता अभूम’ अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतम्’ इत्यादिश्रुतिविरोध इति तत्त्वप्रदीपोक्तरीत्या पूर्वाक्षेपेण प्रवृत्तेरनन्तरसङ्गतिः । भावबोधे तु रीत्यन्तरेणोक्ता । अत्र वैराग्यादिकं किमनुष्ठेयमुताननुष्ठेयमिति चिन्ता । तदर्थं किं मोक्षः कर्मसाध्यो न वेति । तदर्थमपाम सोमम्’ इति श्रुतिः किं मुख्यामृतत्व-विषयिण्युत गौणार्थेति । विशेष इत्युक्तन्यायप्रदर्शकं पूर्वपक्षभाष्यं व्याचष्टे । न मुमुक्षुणेत्यादिना ।। श्रुतेरिति ।। विशेषश्रुतेरित्यर्थः । नन्वेवमपि कर्मवत् वैराग्यादेरपि ज्ञानद्वारा मोक्षसाधनत्वात् यथारुचि तस्याप्यनुष्ठानसम्भवान्न वैराग्यादेर्वैय्यर्थ्यमित्यत आह ।। अत इति ।। र्ओ स्वगृह-समीपस्थेऽर्कवृक्षे । ओ चेदिति क्वचित्पाठः । अत्राक्कशब्देन गृहे भाण्डनिधानार्थो दीर्घदारु-रित्याहुः । ननु श्रुतेरन्यार्थकथनमयुक्तं सोमयागस्यापि मुख्यामृतत्ववाचकत्वात् । अन्यथा वाशब्देन मुख्यार्थकथनविरोधादित्यत आह ।। कर्मेति ।। पूर्वसूत्रे इष्टादिकारिणामिति सोमयागस्य प्रकृतत्वा-दमृतत्वमित्यत्र लभ्यते । अतश्च तदमृतत्वं तत्साध्यममृतत्वं सार्वकालिकं न भवति किन्तु भाक्तं कालैकदेशनिष्ठतयैव मुख्यमिति सूत्रार्थं मत्वा योग्यतेत्युक्तन्यायप्रदर्शकं भागतस्तदमृतत्वमिति भाष्यं व्याचष्टे ।। तदा तत्साध्यममृतत्वमिति ।। गौणार्थत्वमिति ।। मन्वन्तराद्यवच्छिन्नकाले मरण-रहितत्वगुणयोगेन मृता इव मृता इति यथायोग्यार्थतया श्रुतिरुपपन्नेत्यर्थः । तथा च सोमं सोमरसमपाम धूमादिमार्गदेवान् विदाम । चान्द्रमसं ज्योतिरगन्म । किञ्चित्कालममृता अभूम इति श्रुत्यर्थः ।। इत्यत आहेति ।। इत्यतः आत्मविदिति सूत्रखण्डं च व्याचष्ट इत्यर्थः । आत्मविद एव हि यस्मान्मुख्यं न त्वनात्मनो मुख्यमिति भाष्यलब्धमर्थमाह ।। काम्यकर्मणामनात्मवित्त्वा-दिति ।। एतेनेष्टादिकारिणामनात्मवित्त्वादमृतत्वं भाक्तमिति सूत्रार्थ उक्तो भवति ।
तथा हि दर्शयतीत्येतद्विवरणपरं नान्यःपन्थेति भाष्यं व्याचष्टे ।। तमेवमिति ।। अन्येषां काम्यकर्मिणां मोक्षाय कर्मणो मार्गत्वविधानादिति भावः । ननु ज्ञानं मोक्षैकफलकमिति अयनाय ज्ञानादन्योऽसाधारणहेतुर्नास्तीति तदर्थः । काम्यं कर्म तु मोक्षं तदतिरिक्तं च साधयतीत्यविरोध इत्यत आह ।। काम्यकर्मणेति ।। तत्फलस्यैव क्षयिष्णुफलस्यैव न कदाचिन्मुक्तिफलस्येत्यर्थः । न मोक्षसाधनं साक्षादिति । जिज्ञासुः कर्मणः परम्पराया मोक्षसाधनत्वाज्ज्ञानिकर्मणोऽमृतैकदेशानन्द- साधकत्वात् साक्षान्मोक्षसाधनं नेत्यर्थः । वाशब्दात्पारंपर्येणेत्युक्तसूचनाप्रकारमाह ।। अत्रेति ।। वाशब्दो व्यवस्थित विकल्पे । यदि जिज्ञासूनामकाम्यं कर्म विवक्षितं तदा तदमृतत्वं वा अभाक्तं वा मुख्यमेवेति सूचयतीत्यर्थः । तर्ह्यङ्गीकृतं कर्मणो मोक्षसाधनत्वमिति पृच्छति ।। किन्नामेति ।। तदुत्तरत्वेन पारम्पर्येणेत्येतत् योग्यतेत्युक्तन्यायं रीत्यन्तरेण सूत्रभाष्यारूढं कुर्वन् योजयति ।। तच्चेति ।। अत्रामृतशब्दस्य मुख्यामृतत्वमभ्युपेत्याप्यस्य पक्षस्य वापक्षत्वग्रहणेन सोमयागस्य मुख्यामृतवाचित्वमभ्युपेत्य हेतुत्वमात्रं पारंपरिकत्वादमुख्यमिति सूचितमिति भावः । पारंपरिकत्वं श्रुत्यभिप्रेतं चेत्याह ।। तथा हीति ।। तथा च सोममपाम । अन्तःकरणशुद्धिद्वारा ज्योति-र्ब्रह्मापरोक्षतः परोक्षतश्चागन्म जानीमः । अर्चिरादिदेवान् अविदाम । अमृता अभूमेति श्रुत्यर्थः । कर्मनिर्णयटीकायां त्वमृतशब्दस्य तत्साधनज्ञानसाधनलक्षकत्वमुक्तम् । व्याख्यानान्तरत्वादविरोधः । वाशब्दादात्मविदपेक्षयेति सूचयतीत्युक्तं सूचनाप्रकारमेवाह ।। अथ ज्ञानिन इति ।। आत्म-विदपेक्षयेत्यस्य प्रतिपदं दत्वार्थमाह ।। किन्त्विति ।। एतेन भाक्तं वेत्यस्य तदमृतत्वं वा प्रकारान्तरेण भाक्तम् । आद्यपक्षे किञ्चित्कालीनमृत्यभावरूपपरत्वेन तृतीये अस्मिन्पक्षे यावदनिष्ट-निवृत्तिविशिष्टप्रचुरानन्दानुभवात्मको यो मोक्षः तद्गतानन्दातिशयरूपत्वेन मुख्यमपि भाग-तस्तदमृतत्वमिति योजनोक्ता भवति ।। सर्वथेति ।। आद्ये क्षयिष्णुफलत्वेन संसाररूपस्वर्ग-फलकत्वेन, द्वितीये कर्मणा साक्षात्तदभावेन, तृतीये मुक्तिगतातिशयहेतुत्वेन पक्षत्रयेऽपि न कर्मणा संसारनिवृत्तिरिति भावः । एतेन देवान् तारतम्येन अविदाम । ज्योतिरगन्म । सोममपाम । अमृता आनन्दातिशयवन्तोऽभूमेति श्रुत्यर्थ उक्तो भवति । योग्यतान्यायोऽपि यथायोग्यफलान्तरकल्पनया प्रकारान्तरेण विवृता भवति ।। एनमिति ।। श्रुतिरिति ।। तत्तत्सृजतेत्यन्तेति भावः । इत्यादिश्रुत्यैवेति । आत्मविदामेव मुख्यामृतत्वमित्यर्थान्तरप्रतिपादनाय उदाहृतश्रुत्यैवेत्यर्थः । आदिपदेन तत्तत्सृजत इत्यन्तस्य ग्रहणम् । यथा वेदेनानुक्तः यथाविध्यपठितः फलप्रदो न, अन्यद्वा दृष्टान्तः, यथा वा अकृतं कर्म न फलप्रदं तथा विष्णुरविदित एनं जीवममृतत्वं न भोक्षयतीत्यर्थः । उपासकस्य कर्मक्षयवचनाज्ज्ञानिकर्मणो क्षयफलकत्वे किमायातमित्यत आह ।। जानाति चेति ।। परमात्मनस्सकाशात् यद्यत्प्राप्तुमिच्छति तत्सर्वं कर्म स्वयं सृजतीत्यन्यथा-प्रतीतिनिरासाय व्याचष्टे ।। मुक्तो यद्यदिति ।।
तत्त्वसुबोधिनी
वैराग्यादेरावश्यकेति । तथा चात्र प्रथमाधिकरणे सम्परिष्वक्त इत्यनेन न मरणमात्रे भूतवियोगः, किन्तु मुक्तिरूपमरण एवेत्यत्र ज्ञानसदसद्भावो नियामक इति यत्सूचितं तदयुक्तम् । मोक्षस्य कर्मसाध्यत्वोक्तेरिति शङ्कापरिहारादनन्तरसङ्गतिरिति भावः । न च तदानन्तर्यमेव स्यादिति वाच्यम् । प्रश्ननिरूपणरूपहेतुसमर्थनपराधिकरणपञ्चकस्यावश्यकत्वेन तदन्तरमेवावसर-प्राप्तत्वादिति भावः ।। उभयविधेति ।। यत्र कार्येऽनेकेषां साधनता तत्रैकैकस्यावश्यानुष्ठेयत्वाभावः । यत्र त्वेकमेव साधनं तस्यावश्यानुष्ठेयत्वमिति भावः । कुतो नावश्यं वैराग्याद्यनुष्ठेयमित्यत आह ।। अपामेति ।। अन्यथेति ।। कर्मणो मोक्षसाधनत्वानङ्गीकार इत्यर्थः । नन्वेवं कर्मवत् वैराग्यादिसाध्यज्ञानस्यापि मोक्षसाधनत्वात् यथारुचि तस्याप्यनुष्ठानसम्भवात् न वैराग्यादे-र्वैय्यर्थ्यमित्यत आह ।। अत इति ।। कुत इत्यत आह ।। तद्विनेति ।। वैराग्यादि विनेत्यर्थः ।
नन्वेवं कर्मणो मोक्षसाधनत्वप्रतिपादकापामेति श्रुतिविरोध इत्याशङ्क्य निषेधति ।। न चेति ।। कथमन्यार्थत्वमित्यतस्तद्दर्शयति ।। तथा हीति ।। किञ्चित्कालीनमिति ।। मन्वन्तराद्यवच्छिन्न-कालेषु मरणरहितत्वरूपगुणयोगेनामृत इवामृत इति गौणार्थतयेत्यर्थः । कुतो न कर्मणा मुख्या-मृतत्वमिति तत्राह ।। काम्यकर्मिणामनात्मवित्त्वादिति ।। तथा चात्मविदामेव हि मुख्यमिति भाष्येणानात्मवित्त्वादिति सौत्रो हेतुः भाक्तमित्यत्रैव योजित इति भावः । काम्यकर्मिणामनात्म-त्त्वेऽपि कुतो न मुख्यामृतत्वमित्यत आह ।। तमेवमिति ।। कुतोऽन्येषां तदभावस्योक्तिरित्यत आह ।। काम्यकर्मणेति ।। हिशब्दो यस्मादित्यर्थे ।। मुख्यामृतत्वमिति ।। अमृतशब्दस्य मोक्षे योगरूढिलक्षणमुख्यवृत्तेः सद्भावादिति भावः । यद्यमृतपदेन मुख्यामृतत्वमेवोच्येत तर्ह्यङ्गीकृतं कर्मणो मोक्षसाधनत्वमित्यभिप्रेत्य पृच्छति ।। किन्नामेति ।। तथा हि वाक्यशेष इति ।
तथा चायं श्रुत्यर्थः । सोममपाम अमृता अभूमेति कर्ममोक्षयोः कार्यकारणभाव उक्तः । स न साक्षात् किन्तु परम्परयेत्युच्यते ।। अगन्म ज्योतिरिति ।। प्रकाशरूपं ब्रह्म अगन्म जानीमः । ज्योतिर्ज्ञानमगन्म प्राप्नुम इति वा । ततःकिमित्यत उच्यतेऽविदामेति । मार्गरूपानार्चिरादिदेवान-विदाम प्राप्नुम इति । न चैवं सत्याद्यान्तिमपक्षयोरेतद्वाक्यविशेषविरोधेन कथं पूर्वश्रुतेस्तदर्थ-परत्वमिति वाच्यम् । अत्राद्ये पक्षे कथं कर्मणा स्वर्ग इत्यत उच्यतेऽगन्मेति । चन्द्रमसं ज्योति-रगन्म मार्गरूपान् धूमादिदेवानविदामेत्यर्थस्य, तृतीये सोमयागेन कथं आनन्दातिशय इत्यत उच्यतेऽगन्मेति । यतः पूर्वं ज्योतिरपरोक्षज्ञानमगन्म ततः देवान् यथायोग्यं देवादिमत्वम-विदामेत्यर्थस्य सम्भवेन तद्विरोधाभावादिति भावः ।। आत्मज्ञानलब्ध इति ।। तथा च मोक्षलक्षणमुख्यामृतवाचकस्यामृतशब्दस्य तदेकदेशानन्दातिशये लक्षणया प्रवृत्तिरिति भावः । ननु यदि कर्मण आनन्दातिशयहेतुत्वं तर्ह्यङ्गीकृतमेव मोक्षसाधनत्वम् । तस्यैव मोक्षत्वात् । तद्व्यतिरिक्तस्य च कर्मासाध्यस्य ज्ञानमात्रसाध्यस्य मोक्षस्याश्रवणात् । तथा च न तेन मोक्ष इति आत्मज्ञानलब्धे मोक्ष इति च कथमुक्तमित्यत आह ।। सर्वथेति ।। तच्चोक्तं ‘सर्वदुःखनिवृत्तिश्च ब्रह्मणो निश्चितैव हि । उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इत्यादि श्रुत्यैवेति । आत्मविदामेव मुख्यामृतत्वमित्यर्थान्तरप्रतिपादनायोदाहृतयैवेत्यर्थः । आदिपदेन तत्तत्सृजत इत्येतस्य ग्रहणम् । अविदितोऽपि परमात्मा स्वर्गादिकं भोजयत्येवेत्यतो न भुनक्तीत्यस्य तात्पर्यमाह ।। नामृतत्वमिति ।। ननूपासककर्मणो ज्ञानहेतुत्वात् कथमात्मविदपेक्षयेत्यत्रार्थे आत्मानमेवेति श्रुतिः प्रमाणमित्यत आह ।। जानाति चेति ।। परमात्मनः सकाशात् यत्प्राप्तु-मिच्छति तत्सर्वं कर्म स्वयं सृजति इत्यन्यथा प्रतीतिनिरासाय व्याचष्टे ।। स मुक्तो यद्यदिति ।।
वाक्यार्थविवरणम्
भोजनादिसाधनमवश्यानुष्ठेयं दृश्यते । रसायनादिसेवनादि त्ववश्याननुष्ठेयं दृष्टम् । तथेहापि पूर्वोक्तरीत्या वैराग्यादिकमनुष्ठेयं वाऽपामेत्यादिश्रुत्याऽननुष्ठेयं वेति भवति सन्देह इति भावः । अन्येषाम् अनात्मविदां कर्मिणाम् । नन्वत्र कथं तदभावोक्तिरित्यत आह ।। काम्येति ।। कर्मणा काम्यकर्मणा तत्फलस्य स्वर्गादेरेव सिद्धिर्हि यस्मात् प्रसिद्धा न मोक्षस्य । अतो ज्ञानिनां ‘तमेवम्’ इति मोक्षोक्तावन्येषां तदभावोऽर्थादुक्त एवेति भावः ।। साक्षादितीति ।। तत्र ज्ञानिकृतस्य साक्षान्मोक्षसाधनत्वाभावो नामेतरासहकृतस्य केवलस्य तदभाव इति व्याख्येयम् । तर्हि जितं मया, कर्मणो मोक्षसाधनत्वप्राप्तेरित्याशयेन शङ्कते ।। किन्नामेति ।। उत्तरयति ।। तच्च ।। अमृतत्वमिति ।। जिज्ञासा ।। श्रवणादिरूपा ।। ज्योतिः ।। अपरोक्षज्ञानम् । तथा च सोममपाम पश्चाज्ज्योतिरगमन्म पश्चादर्चिरादिदेवानविदाम प्राप्ताः स्मः पश्चादमृता अभूमेति वाक्यार्थो द्रष्टव्यः ।। न तेनेति ।। इतरासहकृतेन केवलेन तेनानन्दाभिवृद्धिरूपो मोक्षो नेत्यर्थः ।। आत्म-विदाम् ।। भगवदपरोक्षज्ञानमपेक्ष्य सहकारीकृत्य तदंशे समुच्चयसाध्यत्वाङ्गीकारादिति द्रष्टव्यम् । संसारनिवृत्तिः लिङ्गदेहभङ्गरूपमोक्षः । तस्य ज्ञानमात्रसाध्यत्वादिति ध्येयम् । अस्मिन्पक्षे ज्योतिरगन्म पश्चात् सोममपाम पश्चादमृता आनन्दाभिवृद्धिरूपमुक्तिमन्तोऽभूमेति श्रुत्यर्थो द्रष्टव्यः ।। भोजयति ।। अनुभावयति ।
वाक्यार्थमञ्जरी
उभयविधसाधनेति ।। यत्र कार्येऽनेकसाधनानि तत्रैकस्यावश्यानुष्ठेयत्वाभावः । यत्र त्वेकमेव साधनं तत्र तस्यानुष्ठेयत्वमिति भावः । र्ओ प्राङ्गणे ।। ॐ भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॐ ।। कर्मसाध्यममृतत्वं भाक्तं भागविषयं गौणं किंचित्कालीनमिति यावत् । कुतः ? अनात्म-वित्त्वात् कर्मिणः आत्माज्ञानित्वात् । हि यस्मात्तमेवं विद्वानिति श्रुतिः आत्मज्ञानिन एव मुख्यामृतत्वं अन्यस्य त्वमुख्यमिति दर्शयतीत्यर्थः ।। किञ्चित्कालीनमिति ।। मन्वन्तराद्य-वच्छिन्नकालेषु मरणरहितत्वरूपगुणयोगेनामृता इवामृता इति गौणार्थतयेत्यर्थः । कुतोऽन्येषां तदभावस्योक्तिरित्यत आह ।। काम्यकर्मणेति ।। हि यस्मात्काम्यकर्मणः तत्फलस्य स्वर्गादेरेव सिद्धिः तस्मात्कर्मिणां मुख्यामृतत्वमेवोच्येत तर्ह्यङ्गीकृतकर्मणो मोक्षसाधनत्वमित्यभिप्रेत्य पृच्छति ।। किं नामेति ।। अगन्मेति ।। तथा च सोममपाम तेन ज्योतिर्ज्ञानमगन्म प्राप्नुमः । ततो मार्गस्थानर्चिरादिदेवानविदाम आप्नुमः । ततोऽमृता मुक्ताऽभूमेत्यर्थः । काम्यकर्मपक्षे चान्द्रमसं ज्योतिरगन्म । ततो मार्गस्थान्धूमादिदेवानविदामेत्यर्थः ।। आत्मज्ञानलब्ध इति ।। आत्मज्ञानेना-विद्यावरणाद्यनिष्टनिवृत्तिर्भवति । स्वरूपानन्दस्यापि कतिपयस्याभिव्यक्तिः । ज्ञानोत्तरकर्मादिना तत्कालविषयभोगेन यावत्स्वरूपानन्दो व्यज्यते अयमेवातिशयवृद्ध्यादिशब्दार्थः । ‘सर्वदुःख-निवृत्तिस्तु ज्ञानिनो निश्चितैव हि । उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इत्युक्तेः । उक्तं च प्रमेयदीपिकायां, ननु मुक्तः किमर्थं विषयानिच्छेत् । न तावत्सुखार्थं ज्ञानेनावरणरूपाविद्यानिवृत्ता वात्मस्वरूपसुखस्याभिव्यक्तत्वात् । पृथक्सुखस्यानङ्गीकारात् । नापि दुःखनिवृत्त्यर्थं अविद्या-निवृत्त्यैव तत्सिद्धिरिति । मैवम् । नाविद्यैवात्मस्वरूपावरणं किं त्वीश्वरेच्छापि । तथा च वक्ष्यति तथा चाविद्यायां निवृत्तायामशेषानिष्टनिवृत्तिर्भवति । स्वरूपसुखं च बहुतरं व्यज्यते न तु सर्वम् । ज्ञानोत्तरमनुष्ठितेन कर्मणा प्रसन्नपरमेश्वरः मुक्तौ विषयानुत्पाद्य तद्भोगेन ज्ञानानभिव्यक्तमपि स्वरूपसुखं व्यक्तीकरोति । अत्र भाष्यकृतैव प्रमाणान्युक्तानि । अनेनैवाभिप्रायेण श्रुत्यादिषु मुक्तेर्ज्ञानमात्रसाध्यत्वं ज्ञानकर्मसमुच्चयसाध्यत्वं चोच्यत इति । अत एवातिशयातिरिक्तमोक्ष-साधनसूचनाय संसारनिवृत्तिरित्युक्तम् । बन्धनिवृत्तिरूपमोक्ष इत्यर्थः । अस्मिन्पक्षे पूर्वं ज्योतिरगन्म ततः सोममपाम ततोऽमृताऽभूमेत्यर्थः ।। इत्यादिश्रुत्यैवेति ।। आत्मविदामेव मुख्यामृतत्व-मित्यर्थान्तरप्रतिपादनायोदाहृतमेवेत्यर्थः । आदिपदेन तत्तत्सृजतेत्येतस्य ग्रहणम् । अविदितस्यापि स्वर्गादिभोजकत्वादाह ।। नामृतत्वमिति ।। ननूपासनाकर्मणो ज्ञानहेतुत्वात्कथमात्म-विदपेक्षयेत्यत्रात्मानमेवेति श्रुतिः प्रमाणमित्यत आह ।। जानातीति ।। परमात्मनः सकाशात् यत्प्राप्तुमिच्छति तत्सर्वं स्वयं सृजतीति निरासायाह ।। स मुक्त इति ।।
।। इति भाक्ताधिकरणम् ।। ७ ।।