ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ
११. मुक्तिफलाधिकरणम्
सूत्रभाष्यम्
।। ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ।। ५१ ।।
एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः । ‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृत(त्व)मेत्येव ब्रह्म संस्थोऽमृत(त्व) मेत्येव’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।
अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ।।
न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति नारायणाध्यात्मे ।। ५१ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये
तृतीयाध्यायस्य चतुर्थः पादः ।। ३ ।। ४ ।।
तत्त्वप्र्रदीपिका
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । यथोपासकस्याऽरब्धप्रतिबन्धकाभाव इहैव दर्शनं जायते, तद्भावे यावद्भिर्जन्मभिस्तत्क्षयस्तावद्भिरेवेति नियमः । सर्वथेह जन्मन्येवेति न नियमः । एवं दर्शनवतो मुक्तिरस्त्येवेति नियमः । तच्छरीरपातानन्तरमेवेत्यनियमः । प्रारब्धकर्माभाव इहैव तद्भावे तत्क्षय एवेति कुतः । ‘एत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थेऽमृतम्’ इति सम्यग्दर्शिनः सर्वथा मुक्त्यवधारणात् सर्वपुरुषार्थप्राप्तिर्दर्शनात्’ इत्युक्तेऽपि इतरेषामानुषङ्गिकत्वं साक्षात्फलत्वं मुक्तेरेवेति फलशब्द इति ।।
।। इति तत्त्वदीपिकायां तृतीयाध्यायस्य चतुर्थः पादः ।।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनज्ञानस्य स्वोत्पत्तिजन्मानन्तरमेव प्रतिबन्धाभावे मुक्तिसाधनत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानस्य मुक्तिसाधनत्वाभावप्रसङ्गात्तत्समर्थनीयम् । प्रकृतज्ञानसाध्यो मोक्षोऽत्र विषयः । किं यच्छरीरे ज्ञानमुत्पन्नं तत्पातानन्तरमेव भवत्युत नेति सन्देहः । उभयथाऽप्यदृष्टफलदृष्टिः सन्देहबीजम् । तद्देहानन्तरमेवेति पूर्वः पक्षः । कारणे सति कार्यानुदये कारणाभावात् । न च ज्ञानवदुपपत्तिः । तत्र प्रतिबन्धकसद्भावात् । न चात्र प्रतिबन्धकं पश्यामः । निष्कारणं कारणे सति कार्यानुदये कदाप्यनुदयः स्यात् । एवं चानियम इत्युक्तव्याघात इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। एवमिति ।। यथा ज्ञानेऽनियमस्तथा मुक्तिफलेऽपि तच्छरीरपातानन्तरमेव मोक्ष इति नियमो नास्ति । किं तु शरीरपातानन्तरं जन्मान्तरं प्राप्य वा । न च निष्कारणमनियमे कदापि मोक्षाभावप्रसङ्गः । प्रारब्धप्रतिबन्धभावाभावयोरनियमकारणत्वात् । कुतोऽत्र प्रतिबन्धककल्पनम् । श्रुतौ हि ब्रह्मसंस्थस्य मोक्षावधारणात् । प्रतिबन्धकाभावे तदनुपपत्तेरिति भावः । अनियमे कदापि मोक्षाभाव इत्येतद्युक्त्या परिहृतम् । तत्रैषा श्रुतिः प्रमाणम् । मोक्षानियमे वा ज्ञानिनो मोक्ष एवावधार्यते न तु शरीरपातानन्तरमेवेति नियम इति भावः । नियमानुक्तिमात्रं नानियमसाधकमित्यत आह ।। विद्वानिति ।। बहूनीति जन्मान्तरे तात्पर्यम् । सर्वस्य प्रामाणिकत्वसूचनाय द्विरुक्तिः । तदुक्तं ‘सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । अध्यायान्ते द्विरुक्तिः स्यात्पूर्वोक्तस्याऽवधारणे’ । इत्यतो ज्ञानिनां प्रतिबन्धाभावे मोक्षस्याऽ-विदूरत्वादुक्तं युक्तमिति सिद्धम् ।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां तृतीयाध्यायस्य चतुर्थः पादः ।।
गुर्वर्थदीपिका
अल्पाधिकारिणां मनुष्याणां ब्रह्मणश्चरमदिनावसाने तस्मिन्नेव जन्मनि अपरोक्षदर्शनम् । तद्देहपातानन्तरमेव लिङ्गदेहभङ्गः न पुनर्मध्ये जन्मान्तरापेक्षेति भावेनोक्तम् ।। प्रारब्धकर्माभाव इति ।। ब्रह्मसंस्थस्य मोक्षावधारणादित्यतः परं क्वापि ब्रह्मसंस्थानामेव ब्रह्मादीनां मोक्षदर्शनाच्चेति वाक्यमध्याहार्यम् । अन्यथाऽर्थानुपपत्तेरिति ज्ञेयम् ।
भावबोधः
मुक्तिसाधनत्वमहिम्न इति ।। अत्र पूर्वाधिकरणोक्तसाध्यस्यातिदेशात् कर्मक्षयहेत्वपरोक्षज्ञानो-त्पत्त्यनन्तरमपि यदा प्रतिबन्धकसद्भावः किमु तदा तदुत्पत्तेः पूर्वमिति पूर्वाधिकरणोक्ते कैमुत्य-प्रदर्शनाद्वा पूर्वाधिकरणे श्रवणादिजन्यत्वेन निर्णीतापरोक्षज्ञानस्य मुक्तिसाधनत्वसमर्थनाद्वाऽनन्तर-सङ्गतिरिति भावः ।। किं यदिति ।। अत्र मोक्षः किं ज्ञानोत्पत्त्यवच्छिन्नशरीरपातानन्तरमेव भवति उत तदुत्तरशरीरपातानन्तरमपीति चिन्ता । तदर्थं क्वचित् ज्ञानोत्पत्त्यवच्छिन्नशरीरपातानन्तरं मुक्त्यनुत्पत्तिः किं तयोः कार्यकारणभावाभावनिबन्धनोत प्रतिबन्धकसद्भावनिबन्धनेति । तदर्थं ज्ञानमोक्षयोः कार्यकारणभावादौ प्रमाणं नास्त्युतास्तीति । विरोधाभावात् साधनसम्पूर्तिजन्मन्येवा-परोक्षज्ञानं मुक्तिश्चेति न्यायविवरणे जन्मनीत्यस्य साधनसम्पूर्तिजन्मान्तरमित्येतदुपलक्षकत्वमभिप्रेत्य तदनुसारेण पूर्वपक्षमाह– तद्देहानन्तरमेवेत्यादिना ।। कारणे सतीति ।। अनेन विरोधाभावा-दित्येतत्कारणे सति कार्योत्पत्तौ विरोधाभावादिति व्याख्यातं भवति ।
अतिदेशप्रयोजकामभ्यधिकाशङ्कामाह– न च ज्ञानवदिति ।। न चात्र प्रतिबन्धकमिति ।। अनेन विरोधाभावादित्ययमंशः प्रतिबन्धकसद्भावलक्षणविरोधाभावादिति प्रकारान्तरेण व्याख्यातो भवति ।। प्रारब्धप्रतिबन्धकभावाभावयोरिति ।। प्रारब्धकर्माभाव इति तद्भाव सति च भाष्य-व्याख्यानपरेणानेन प्रतिबन्धे सति तन्निरासेन त्वरयैव सिद्ध्युपपत्तेरिति न्यायविवरणांशस्यापि तात्पर्यमुक्तं भवति ।। कुतोऽत्रेति ।। व्यभिचारात् ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति किं न स्यादिति भावः ।। तदनुपपत्तेरिति ।। श्रौतकार्यकारणभावानुपपत्तेरित्यर्थः । श्रुतेरर्थान्तरं वक्तुं पूर्वोक्तमर्थमनुवदति– अनियमेऽपीत्यादिना ।। युक्त्येति ।। प्रतिबन्धकसद्भावलक्षणयुक्त्येत्यर्थः । तत्र चैषा श्रुतिः प्रमाणमिति । तत्र प्रतिबन्धकसद्भावरूपयुक्तौ प्रमाणं श्रुतार्थापत्तिरूपतयेत्यर्थ इत्याह– मोक्षानियमे वेति ।। शब्दविधयेत्यर्थः । तदेवोपपादयति– ज्ञानिन इति ।। एकद्विजन्म-प्राप्त्यनन्तरमपि जायमानमुक्तिसङ्ग्रहार्थमाह– बहूनीति जन्मान्तर इति ।।
अत्र पादे आद्याधिकरणमपरोक्षज्ञानस्याशेषपुरुषार्थसाधनत्वरूपैकार्थप्रतिपादकमेका पेटिका । द्वितीयतृतीयाधिकरणद्वयं ब्रह्मज्ञानाधिकारिरूपैकार्थप्रतिपादकमेका पेटिका । तत्राद्ये अध्ययनादि-विशिष्टानामेव ब्रह्मज्ञानाधिकारो न सर्वेषामिति प्रतिपादनम् । द्वितीये च अधिकारिविशेषेणा-ध्ययनादौ तारतम्यप्रतिपादनम् । चतुर्थं अपरोक्षज्ञानस्य सदसत्प्रवृत्तावपि मोक्षसाधनत्वनियम-रूपैकार्थप्रतिपादकमेका पेटिका । पञ्चमषष्ठाधिकरणद्वयं अपरोक्षज्ञानादेरधिकारिमात्रप्राप्यत्व-प्रतिपादनमेका पेटिका । तत्राद्ये अपरोज्ञानस्य तत्प्रतिपादनम् । द्वितीये तन्नियतदेवादिपद-स्याधिकारिमात्रप्राप्यत्वप्रतिपादनम् । सप्तमं अपरोक्षज्ञानस्य स्वनियामकदेवादीनामपि फलदत्व-रूपैकार्थप्रतिपादकमेका पेटिका । अष्टमं अपरोक्षज्ञानाधिकारिषु यतीनां गृहस्थादिभ्योऽतिशय-रूपैकार्थप्रतिपादकमेका पेटिका । नवमं ज्ञानस्यायोग्येषु गोप्यत्वरूपैकार्थप्रतिपादकमेका पेटिका । तदुत्तरमधिकरणद्वयं प्रतिबन्धाभावे अपेक्षितप्राप्तिरूपैकार्थप्रतिपादकमेका पेटिका । तत्राद्ये साधनरूपापरोक्षज्ञानस्य, द्वितीये तत्फलमोक्षस्य तत्प्रतिपादकमिति ।।
।। इति श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृते श्रीमज्जयतीर्थ
पूज्यचरणविरचिततत्त्वप्रकाशिकाभावबोधे तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ।।
भावदीपः
स्वोत्पत्तीत्यादि ।। एतेन यथा पूर्वत्र ज्ञानमैहिकमेवेत्यतिनियम एवं मोक्षफलमपि तद्देह-पातादनन्तरमेवेति न नियम इति साधनात्पूर्वसङ्गतिरपि सूचिता ।। अन्यथेति ।। प्रतिबन्धाभावे तदनन्तरमेवेत्यसाधने कदापि मोक्षानुदयप्रसङ्गेन ज्ञानस्य मुक्तिहेतुत्वं न स्यात् । तथा च विद्यैव त्वित्याद्युक्तमयुक्तमिति भावः । सङ्गत्यन्तरं सूचयति ।। प्रकृतेति ।। साधनचिन्तानन्तरं तत्साध्य-चिन्ताऽत्रेति भावः । अदृष्टफलदृष्टिः अदृष्टफलस्य स्वर्गादेरुभयथाऽनुवादः पुराणादौ तत्र तत्रोच्यमान उपलभ्य इति भावः । पूर्वनयपूर्वपक्षन्यायविवरणे मुक्तिश्चेति नियम इति मुक्ति-पदस्योपादानमत्रत्यपूर्वपक्षाभिप्रायमित्युपेत्य पूर्वत्रेव पूर्वपक्षं व्यनक्ति ।। तद्देहेति ।। पूर्वेण गतार्थत्वमाशङ्क्य निराह ।। न चेति ।। ज्ञान इव प्रतिबन्धभावाभावाभ्यामनियमोऽस्त्वित्यर्थः । तद्वैषम्येणाभ्यधिकाशङ्कामाह ।। तत्रेति ।। ज्ञानोत्पत्तावित्यर्थः ।। पश्याम इति ।। कल्पकप्रमाणाभावादिति भावः ।। एवं चेति ।। मोक्षस्य कदाप्यनुदये सत्यनियमः सर्वेषामिति ज्ञानस्य नियमेन मुक्तिहेतुत्वोक्तिरयुक्ता स्यादित्यर्थः ।। एवं शब्दार्थं विवृण्वन्नेवानियम इत्यन्वय-मुपेत्य भाष्यार्थमाह ।। यथेति ।। प्रारब्धेत्यादिभाष्यं मुक्तिफलानियम इति सूत्रांशफलितार्थोक्ति-परतया व्याचष्टे ।। किं त्विति ।। भाष्ये बहुत्वमविवक्षितमित्युपेत्योक्तम् ।। जन्मान्तरमिति ।। प्राप्येति शेषोक्तिः । एवं तर्हि भाष्ये तावदेव वाच्यं न तु प्रारब्धकर्माभाव इति । तद्भाव इति च कृत्यभावादित्यतः शङ्कानिवर्तकयुक्तिसूचकत्वेन तदुक्तिरित्यभिप्रेत्य प्रागुक्तशङ्कामनूद्य भाष्य-भावोक्त्या निराह ।। न चेत्यादिना ।। हेतोरसिद्धिवारकतया भाष्यशेषं व्यनक्ति ।। कुत इति ।। अर्थापत्तिसूचकत्वेन श्रुतेर्भावमाह ।। तदनुपपत्तेरिति ।। ब्रह्मसंस्थस्य मोक्षावधारणानुपपतेरित्यर्थः ।
ननु यदि मोक्षानियम एव प्रमितः स्यात्तदा प्रतिबन्धकसद्भावकल्पनादिचिन्ता । स एवाप्रामाणिक इत्यतो भाष्यशेषस्य प्रकारान्तरेण तात्पर्यं वक्तुं प्रागुक्तार्थं निष्कृष्याह ।। अनियम इति ।। प्रारब्धकर्माभाव इत्यादिनोक्तानियम इत्यर्थः ।। युक्त्येति ।। प्रारब्धप्रतिबन्धभावाभावयोर-नियमकारणत्वादित्युक्तयुक्त्येत्यर्थः ।। तत्रेति ।। प्रारब्धप्रतिबन्धकसद्भावेऽर्थापत्तिसूचकतया प्रमाणमुक्तमित्यर्थः ।। मोक्षानियमे वेति ।। तद्देहपातानन्तरं वा मोक्षः जन्मान्तराणि प्राप्य वेति यो मोक्षानियम उक्तः स कुत इत्यतो धर्मी स्वर्गमित्यादिभाष्यशेषः प्रवृत्त इति वार्थ इत्यर्थः । तथा च मोक्षानियमो नाप्रामाणिक इति भावः । पूर्वयोजनापक्षे मोक्षस्यैवेति भाष्यस्थैवकारस्य न तु कदाचिदपि मोक्षानुदय इत्यर्थकत्वस्याभिमतत्वादनियमपक्षे कथमेवकारार्थ इत्यत आह ।। ज्ञानिन इति ।। नियमव्यावृत्तिरेवैवकारार्थोऽस्मिन्पक्ष इति भावः । श्रुतावरुच्या स्मृत्युक्तिर्भाष्य इत्याह ।। नियमेति ।। ब्रह्मसंस्थ इति श्रुतौ तद्देहपातानन्तरमेवेति नियमानुक्तिमात्रमित्यर्थः ।। इत्यत आहेति ।। स्मृतौ न चेद्बहूनि जन्मानि प्राप्येति स्पष्टमुक्तेरिति भावः । श्रुतिरप्येतत्तात्पर्यकेति हृदयम् । बहुत्वमविवक्षितमित्याह ।। बहूनीतीति ।। सौत्रद्विरुक्तेः कृत्यस्यात्र भाष्येऽनुक्तेरन्यत्रोक्तं स्वयमाह ।। सर्वस्येति ।। तदुक्तमिति ।। ऐतरेयभाष्ये द्वितीयप्रघट्टके प्रथमेऽध्याये उक्तमित्यर्थः । अध्यायमूलमारभ्य पूर्वोक्तस्यार्थस्य सर्वप्रमाणसिद्धत्वं वक्तुमध्यायान्ते द्विरुक्तिः स्यात् । कुत्रेत्यतोऽवधारणे निर्णायकग्रन्थे इत्यर्थः ।। अत इति ।। ज्ञानिमोक्षावधारकश्रुत्यादिबलादित्यर्थः ।। उक्तमिति ।। अनियमः सर्वेषामित्युक्तं युक्तमिति फलोक्तिः । अत्र सूत्रे फलपदं पुरुषार्थोऽत इत्युक्तावपि मुक्तेरेव साक्षाज्ज्ञानफलत्वमन्येषामानुषङ्गिकत्वमिति सूचनायेत्युक्तं तत्वप्रदीपे ।
।। इति श्रीमद्भाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिकृते तृतीयाध्यायस्य चतुर्थः पादः ।।
अभिनवचन्द्रिका
स्वोत्पत्तिजन्मानन्तरमेवेति ।। ननु इदं महिमवर्णनमयुक्तम् । असत्त्वात् । न हि कस्यापि प्रतिबन्धाभावोऽस्ति । येन ज्ञानस्य स्वोत्पत्त्यनन्तरमेव मोक्षजनकत्वरूपं माहात्म्यं सत्यं स्यात् । प्रारब्धकर्मणामतिबहुत्वेन प्रमितत्वात् । उक्तं चानुव्याख्याने ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः । ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्बह्मणस्तथा । रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश । अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसंक्षय’ इति । तस्मादनारम्भणीयमिदमधिकरणमिति चेत्, न केषाञ्चि-दल्पाधिकारिणां ज्ञानोदयजन्मन्येव सर्वप्रारब्धक्षयसद्भावेन तद्देहपातानन्तरमेव तेषां मोक्षसम्भवात् । तदुक्तम् ‘विद्वानमृतमाप्नोति नाऽत्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ।। न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशय’ इति । अनुव्याख्यानन्तु उत्तममध्यमविषयं द्रष्टव्यम् । यद्यपि अत्राधिकरणे ज्ञानफलस्य मोक्षस्य तद्देहपातानन्तरमेवेति नियमाभावः साध्यते, तथापि प्रतिबन्धकाभावे स्वोत्पत्तिजन्मानन्तरमेव मोक्षो भवतीत्यर्थस्य अर्थाल्लाभात्, ‘प्रतिबन्धकाऽभावे मुक्तिसाधनत्वमहिम्नो वर्णनादित्युक्तम् । तद्देहानन्तरमेवेति ।। तद्देहपातानन्तरमेव मोक्षो भवतीत्यङ्गीकारो युक्तः न तु विलम्बाङ्गीकारो युक्त इति पूर्वः पक्ष इत्यर्थः । कुतो विलम्बाङ्गी-कारो न युक्त इत्यत आह – कारणे सतीति ।। न चात्रेति ।। ‘ज्ञानाग्निः सर्वकर्माणि भस्म-सात्कुरुतेऽनघ’ इति वचनादिति भावः । अनियम इति ।। ‘अनियमः सर्वेषाम्’ इति सूत्रोक्त-मोक्षनियमव्याघात इत्यर्थः । न च निष्कारणमिति । कारणाभावेऽपि कस्यचिद्देहपातानन्तरमेव मोक्षः कस्यचिन्नेत्यङ्गीकारे, यस्य देहपातानन्तरं न मोक्षः, तस्य कदापि न स्यादित्यर्थः । कुतोऽत्र प्रतिबन्धकल्पनमिति । पतिबन्धकवशात् देहपातानन्तरमेव न मोक्षः, किं तु प्रतिबन्ध-कापगमे मोक्ष इति कुतः कल्प्यते मोक्षाभाव एव किं न स्यादित्यर्थः । ननु भाष्ये ‘एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः । तद्भावे जन्मान्तराणीत्यनियम’ इति प्रतिज्ञाय ‘धर्मी स्वर्गं विधर्मी निरयमेत्येव । ब्रह्मसंस्थोऽमृतत्वमेत्येव ब्रह्मसंस्थोऽमृतत्वम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणादिति हेतुरुक्तः । न चासौ युक्तः । ब्रह्मसंस्थमोक्षावधारणस्याऽनियम-प्रयोजकत्वात् । ‘प्रतिबन्धकसद्भाव’ इत्यादेः हेतुगर्भविशेषणत्वेन अनियमप्रयोजकस्य तेनैव लाभाच्चेत्यत आह– अनियमे कदापीति ।। नायम् ‘अनियम’ इति प्रतिज्ञातार्थे हेतुः, किन्तु अनियम इति प्रतिज्ञाने कुत इति आकाङ्क्षोत्पन्ना । अनियमे कदापि मोक्षाभाव इति बाधकप्रत्ययश्चोत्पन्नः । तत्र हेत्वाकाङ्क्षाशान्तये प्रारब्धकर्माभावे, तद्भावे, इति द्वे विशेषणे प्रयुक्ते । तयैव युक्त्या कदापि मोक्षाभाव इति शङ्कापि परिहृता । तत्र प्रतिबन्धकसद्भावे एषा श्रुतिरर्था-पत्त्युपस्थापनद्वारा प्रमाणमित्यर्थः । प्रतिज्ञातार्थ एवैषा श्रुतिः प्रमाणमित्याह– मोक्षानियमे वेति ।। देहपातानन्तरं मोक्षो भवत्येवेति नियमाभाव इत्यर्थः । ननु भाष्ये ‘बहूनि जन्मानि’ इत्युक्तम् । एकजन्मप्रारब्धसद्भावे बहुजन्माङ्गीकारायोग इत्यत आह– बहूनीति ।। अत्र ‘बहूनि जन्मानि’ इत्यस्य प्रतीकेनोपादानमिति द्रष्टव्यम् । एतेन बहूनीत्यस्य जन्मान्तरमित्यर्थत्वे जन्मानीतिपदं पुनरुक्तं स्यादिति परास्तम् ।
पूर्वपक्षस्तु– अपरोक्षज्ञानोदयदेहपातानन्तरमेव मोक्षो भवतीत्यङ्गीकारो युक्तः । न तु विलम्बाङ्गीकारः । विलम्बे कारणाभावात् । एवमेव कस्यचिन्मोक्षविलम्बाङ्गीकारे तस्य न कदापि मोक्षः स्यात् । तत्साधनानां गतवीर्यत्वात् । न हि जीर्णानां धान्यानामङ्कुरकार्यकारिता । ततश्च ‘अनियम’ इत्युक्त व्याघात इति ।
सिद्धान्तस्तु– ज्ञानोदये देहपातानन्तरमेव मोक्ष इति न नियमः किं तु प्रतिबन्धकाभावे तद्देहपातानन्तरम् । अन्यथा तु ‘जन्मान्तरं प्राप्या’ इत्यनियमः । ‘धर्मी स्वर्गं विधर्मी नरकम्’ इति श्रुतेः, ‘विद्वानमृतमाप्नोति’ इति स्मृतेः । अतो ज्ञानिनां प्रतिबन्धाभावे मोक्षस्यादूरत्वात् उक्तं युक्तमिति सिद्धम् ।
मोक्षमार्गरतांश्चक्रे सतोऽभिनवचन्द्रिका ।
विदोषा रामचन्द्रस्य तृतीयाध्यायसङ्गता ।। १ ।।
।। इति श्रीसत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां तृतीयाध्यायस्य चतुर्थः पादः तृतीयाध्यायश्च समाप्तः ।।
वाक्यार्थमुक्तावली
अत्र पूर्वोक्तहेतुसाध्यातिदेशादातिदेशिक्यनन्तरसङ्गतिः । अत्र ज्ञानजन्मपातानन्तरमेव ज्ञानेन मोक्षनियमस्यौत्सर्गिकत्वसमर्थनेन ज्ञानस्य तद्धेतुत्वमहिमवर्णनादित्यर्थः ।। अन्यथेति ।। उक्त-नियमस्यातिदृढत्वेन ज्ञानजन्मपातानन्तरमेव ज्ञानस्य मोक्षहेतुत्वेन प्राप्त्यङ्गीकारे प्रायशस्तद-भावज्ञानस्य तत्साधनत्वापगमेन मोक्षस्य ज्ञानेन कदाप्यनुदयः स्यात् । क्वचिदुदयस्तु काकतालीय इति शङ्कानिरासाय नियमस्यौत्सर्गिकत्वं वर्णनीयमिति भावः ।। किमिति ।। किं मोक्षो ज्ञानशरीरपातानन्तरमेव भवतीति नियम अतिदृढ उत औत्सर्गिक इति चिन्ता । तदर्थमपवाद-कारणं प्रमाणं च नास्त्युतास्तीति ।। उभयथाप्यदृष्टफलदृष्टिरिति ।। अदृष्टजन्यफलस्य यच्छरीरे दृष्टमुत्पन्नं तदपगमानन्तरं कुत्रचिद्बहुजन्मव्यवधानेन शास्त्रदृष्टिरित्यर्थः । अत्रापि दृष्टान्ते विरोधिनो मोक्षप्रतिबन्धकस्य प्रारब्धस्य कारणस्य प्रमाणस्य च प्रदर्शनात्सूचितं विरोधहानिरित्युक्त-न्यायमेवेहापि व्यनक्ति ।। कारणे सतीति ।। नन्वेवं चेत्पातानन्तरमेव न पूर्वपक्षयितव्यं किन्तु ज्ञानजन्मन्येवेति वक्तव्यं कारणे सति कार्यानुदये कारणाभावात् । एकगुणोपासकानां ज्ञान-जन्मन्येव शरीरोत्क्रमणदर्शनाच्च । यदि च मोक्षशब्देन भोगादिर्विवक्षितस्तदापि कारणे सतीति न्यायेन ज्ञानानन्तरमेव भोगादिकं स्यादित्यपि वक्तव्यम् । यदि चरमशरीरोत्क्रान्तिरपि सामग्री(कायै)को यैर्निवेश्यते तदा कारणे सतीति व्याहन्येतेति चेन्न । इह मोक्षशब्देन सान्तानिकभोगस्य विवक्षितत्वात् । तत्र च दृष्टस्य शरीरस्य प्रतिबन्धकत्वात्तत्पातानन्तरमदृष्ट प्रतिबन्धे प्रमाणाभावाभावादित्यभिप्रेतत्वाद्गतार्थतामाशङ्क्याभ्यधिकाशङ्कामाह ।। न च ज्ञानवदिति ।। यथोपासकस्य प्रारब्धप्रतिबन्धकाभावे इहैव दर्शनं जायते तद्भावे यावद्भिर्जन्मभि-स्ततःक्षणस्तावद्भिरेवेत्यनियमः । एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षस्तदभावे जन्मान्तराणीति मुक्तिफलेऽप्यनियम इत्यतिदेशसूत्रखण्डार्थं स्पष्टयति ।। यथेत्यादिना ।।
ननु देहपातानन्तरं मोक्षाभावे प्रमिते व्यभिचाराज्ज्ञानस्य मोक्षसाधनत्वमेव त्यज्यतां किं प्रतिबन्धककल्पनयेत्यभिप्रेत्य शङ्कते ।। कुत इति ।। तदनुपपत्तेरिति ।। प्रतिबन्धाभावेऽपि ज्ञानान्मोक्षाभावे ब्रह्मसंस्थस्य मोक्षावधारणानुपपत्तेरित्यर्थः । श्रौतकार्यकारणेन वाऽनुपपत्तेरिति भावः । यद्वा कुतः प्रमाणात्प्रतिबन्धककल्पनमिति शङ्कार्थः ।। तदनुपपत्तेरिति ।। अवधारणा-त्कार्यकारणाभावो निश्चितः । दृश्यते च क्वचिज्ज्ञानजन्मानंतरं मोक्षाभावोऽतस्तदन्यथानुपपत्त्या प्रतिबन्धकं कल्प्यत इत्यर्थः । श्रुतेरर्थान्तरं वक्तुमुक्तार्थमनुवदति ।। अनियम इत्यादिना ।। अनियमे ज्ञानजन्मन्येवेति ।। तत्रैव युक्तिसिद्धमोक्षनियम एव । अर्थान्तरमाह ।। मोक्षेति ।। मोक्षानियम इत्यर्थः । विद्वानमृतमिति भाष्ये एव त्वरयासिद्धिरित्युक्तन्यायः प्रदर्शितो ज्ञेयः । जन्मद्वये प्रारब्धभोगसम्भवाद्बहूनीति कथमित्यत आह ।। बहूनीति ।। मुक्त्यनियम इति वक्तव्ये फलेत्युक्तेरभिप्रायस्तत्त्वप्रदीपे उक्तः । सर्वपुरुषार्थप्राप्तिदर्शनादित्युक्तेऽपीतरेषामानुषङ्गिकत्वं साक्षा-त्फलत्वं मुक्तेरेवेति फलशब्द इति ।। पेटिका तु भावबोधे स्पष्टा ।
।। इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन विरचितायां श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमुक्तावल्यां तृतीयाध्यायस्य चतुर्थः पादः ।।
तत्त्वसुबोधिनी
तदवस्थावधृतेः मुक्तिसाधनत्वमहिम्न इति । अत्र पूर्वाधिकरणोक्तकैमुत्यप्रदर्शनाद्वा पूर्वाधिकरणे श्रवणादिजन्यत्वेन निर्णीतापरोक्षज्ञानस्य मुक्तिसाधनत्वसमर्थनाद्वा पूर्वान्तरसङ्गतिरिति भावः । अतिदेशप्रयोजिकाभ्यधिकाशङ्कामाह ।। न च ज्ञानवदिति ।। सत्यपि कारणे प्रतिबन्धकाभावेऽपि कार्याभावो भवत्वित्यत आह ।। निष्कारणमिति ।। कुतोऽत्रेति ।। व्यभिचारात् । ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति किं न स्यादिति भावः ।। तदनुपपत्तेरिति ।। श्रौतकार्यकारण-भावानुपपत्तेरित्यर्थः । श्रुतेरर्थान्तरं वक्तुं पूर्वोक्तमर्थमनुवदति ।। अनियमेऽपीति ।। युक्त्येत्यर्थः । तत्रैषा श्रुतिः प्रमाणमिति । तत्र प्रतिबन्धकसद्भावलक्षणयुक्तौ प्रमाणं श्रुतार्थापत्तिरूपतयेत्यर्थः ।। मोक्षानियमे वेति ।। शब्दविषयेत्यर्थः ।। तदेवोपपादयति ।। ज्ञानिन इति ।। एकद्विज-प्राप्त्यनन्तरमपि जायमानमुक्तिसङ्ग्रहार्थमाह ।। बहूनीति जन्मान्तर इति ।। अत्र प्रमाणमाह ।। तदुक्तमिति ।। आध्यायमूलतः अध्यायमूलमारभ्य यावत्पूर्वोक्तं तस्य पूर्वोक्तस्यावधारणे अवधारण-पूर्वकं तस्य प्रमाणसिद्धत्वं वक्तुं अध्यायान्ते द्विरुक्तिः स्यादिति सम्बन्धः ।।
।। इति तत्वप्रकाशिकाटीकायां तत्वसुबोधिन्यां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ।।
वाक्यार्थविवरणम्
फलदृष्टिरिति ।। पुण्यफलदृष्टिरित्यर्थः । ‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते’ इति वचनात् पुण्यफलमेतच्छरीरेणैव भुज्यते शरीरान्तरेणापीति दृष्टम् । मोक्षोऽपि पुण्यफलमत उक्तरीत्या सन्देह इत्यर्थः ।। तद्देहेति ।। यस्मिन् देहे ज्ञानमुत्पन्नं तद्देहपातानन्तरमेव मोक्ष इत्यर्थः ।। ज्ञानवदिति ।। श्रवणादिसाधनसम्पूर्तावपि ज्ञानं जन्मान्तरे भवतीत्यङ्गीकृतम् । तथा च कारणसद्भावेऽपि कार्या-दर्शनात् । इहापि तद्देहपातरूपकारणसद्भावेऽपि मोक्षरूपकार्यानुदयः सम्भवतीत्यर्थः ।। प्रतिबन्धकेति ।। प्रारब्धकर्मरूपेत्यर्थः ।। एवं चेति ।। ज्ञानवतोऽपि मोक्षानुदये सतीत्यर्थः ।। ज्ञाने अनियम इति ।। साधनसम्पूर्तिजन्मन्येवेति नियमो नास्तीत्यर्थः ।। शरीरपातेति ।। यस्मिन् शरीरे ज्ञनमुत्पन्नं तच्छरीरपातानन्तरमित्यर्थः ।। अनियमे ।। तच्छरीरपातान्तरमेवेति नियमाभावे ।। अनियमकारणत्वादिति ।। अनियमेत्युपलक्षणम् । नियमोऽपि ग्राह्यः । तथा च प्रारब्धकर्म-भावाभावयोरनियमनियमकारणात्वादित्यर्थः ।। कुतोऽत्रेति ।। यस्मिन् शरीरे ज्ञानमुत्पन्नं तच्छरीरपातानन्तरं मोक्षाभावेन व्यभिचारात् । ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति किं न स्यादिति भावः ।। ब्रह्मसंस्थस्येति ।। ब्रह्मणि विषये संस्था संस्थितिः । धातूनामनेकार्थत्वात् ज्ञानमिति यावत् । यस्य असौ ब्रह्मसंस्था अपरोक्षज्ञानी । तस्य अमृतमेत्येवेति मोक्षावधारणा-दित्यर्थः ।। तदनुपपत्तेरिति ।। प्रतिबन्धककल्पनाभावे तच्छरीरपातानन्तरमेव केषाञ्चिज्ज्ञानिनां मोक्षानुपलम्भात् ज्ञानमोक्षयोः श्रुत्युक्तकार्यकारणभावोऽनुपपन्नः स्यात् । अतः प्रतिबन्धकसद्भावः कल्पनीय इत्यर्थः । अर्थान्तरं वस्तुं पूर्वोक्तमनुवदति ।। अनियम इति ।। तच्छरीरपातानन्तरं मोक्ष इति नियमाभावे कदापि न मोक्षः स्यात् । कारणे सति कार्यानुदयायोगादित्येतत् प्रतिबन्दक-सद्भावयुक्त्या परिहृतम् । न हि प्रतिबद्धं कारणं कार्यमजनयदकारणं भवति । तथात्वे वन्हेरपि स्फोटं प्रति अकारणतत्प्रसङ्गादिति भावः ।। तत्रेति ।। प्रतिबन्धकसद्भावरूपयुक्तावित्यर्थः ।। एषा श्रुतिः ।। ‘धर्मी स्वर्गम्’ इत्यादिश्रुतिः ।। प्रमाणमिति ।। ब्रह्मसंस्थस्य मोक्षावधारणं कदाचित् प्रतिबन्धकाकल्पनेन सम्भवतीत्येवं श्रुतार्थापत्तिरूपतया प्रमाणमित्यर्थः । एव पूर्वोक्तमनुद्यार्थान्तर-माह ।। मोक्षानियमे वेति ।। ज्ञानिनामपि केषाञ्चिन्मोक्षः केषाञ्चिन्नेत्येवरूपो नियमो नास्ति । किन्तु सर्वेषामपि ज्ञानिनां मोक्ष इत्येवं रूपनियममात्र एव । ‘धर्मी स्वर्गम्’ इत्येषा श्रुतिः प्रमाणमित्यर्थः । तदेवोपपादयति ।। ज्ञानिन इति ।। नियम इति ।। भाव इति ।। तथा च तच्छरीरपातानन्तरं जन्मान्तरं प्राप्येत्यनियमोऽपि सम्भवतीति भावः ।। नियमानुक्तीति ।। तच्छरीरपातानन्तरमेवेति नियमानुक्तिमात्रमित्यर्थः ।। अनियमेति ।। तच्छरीरपातानन्तरमेवेति नियमो न । किन्तु जन्मान्तरप्राप्येति नियमाभावसाधकमित्यर्थः ।। विद्वानितीति ।। तत्र न चेद्बहूनि जन्मानि प्राप्येत्युक्तत्वात् तच्छरीरपातानन्तरमेवेति नियमाभावसिद्धेरिति ज्ञातव्यम् । प्रमाणे आरब्धं कर्म अवसन्नं भोगेन क्षीणशक्तिकं सत् गच्छति नश्यतीत्यर्थः । ननु यस्य जन्मद्वया-पादकमेव प्रारब्धकर्मास्ति तस्य बहूनि जन्मानि प्राप्येत्ययुक्तं स्यादत आह ।। बहूनीतीति ।। तथा च बहूनीत्यनेकत्वोपलक्षणमिति भावः । अत्र तच्छरीरपातानन्तरमेव मोक्ष इत्येतन्मनुष्योत्तमेष्वपि ये अधमाः आत्मत्वमात्रोपासकाः तद्विषयमित्यवगन्तव्यमिति सम्प्रदायविदः ।। अध्यायमूलतः ।। अध्यायमूलमारभ्योक्तस्येत्यर्थः ।
।। इति तत्त्वप्रकाशिकावाक्यार्थविवरणे श्रीनिवासवर्यकृते तृतीयाध्यायस्य चतुर्थः पादः ।।
वाक्यार्थमञ्जरी
तद्देहानन्तरं तद्देहपातानन्तरम् ।। ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्त दवस्थावधृतेः ॐ ।। एवं ज्ञान इव मुक्तिफले मोक्षरूपेप्यनियमः ज्ञानोत्पत्तिजन्मान्तरमेव भवतीति नियमो नास्ति किन्तु प्रारब्धप्रतिबन्धकसद्भावे देहान्तरावसानेऽपि भवति कुतस्तदवस्थावधृतेः तस्मिन्ब्रह्मणि अवस्थाऽवस्थितिर्निष्ठा यस्य तस्यावधृतेर्ब्रह्मसंस्थ इति श्रुतौ मुक्तिफलावधारणादित्यर्थः ।। कुतोऽत्रेति ।। व्यभिचाराज्ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति न स्यादिति भावः ।। तदनुपपत्तेरिति ।। श्रुतौ कार्यकारणभावानुपपत्तेरित्यर्थः । श्रुतेरर्थान्तरं वक्तुं पूर्वोक्तमर्थमनुवदति । अनियमे कदापीत्यादिना ।। युक्त्येति ।। प्रतिबन्धक सद्भावरूपयुक्त्येत्यर्थः । तत्र चैषा श्रुतिः प्रमाणमिति तत्र प्रतिबन्धकसद्भावरूपयुक्तौ प्रमाणं श्रुतार्थापत्तिरूपतयेत्यर्थः ।। मोक्षनियमे वेति ।। शब्दविधयेत्यर्थः । तदेवोपपादयति ।। ज्ञानिन इति ।। एकजन्मप्राप्त्यनन्तरमपि जायमानमुक्ति-सङ्ग्रहार्थमाह ।। बहूनीति ।। जन्मान्तर इत्यर्थः ।
।। इति श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां तृतीयाध्यायस्य चतुर्थः पादः ।।
।। इति मुक्तिफलाधिकरणम् ।। ११ ।।
।। इति चतुर्थः पादः समाप्तः ।।