ॐ अनुकृतेस्तस्य च ॐ

६. अनुकृत्यधिकरणम्

सूत्रभाष्यम्

अदृश्यत्वादय परमेश्वरगुणा उक्ता । "तेषां सुखं शाश्वतं नेतरेषाम् । तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्’ (क.उ.५-१२,१४) इत्यादिना ज्ञानिसुखस्याप्य-निर्देश्यत्वमज्ञेयत्वं चोच्यत इत्यतो वक्ति

॥ ॐ अनुकृतेस्तस्य च ॐ ॥ २२ ॥

"तमेव भान्तमनुभाति सर्वम्’ (क.उ.५-१५) इत्यनुकृते, "तस्य भासा सर्वमिदं विभाति’ इति (क.उ.५-१५) वचनाच्च परमात्मैवानिर्देश्यसुखरूप । न हि ज्ञानिसुख-मनुभाति सर्वम् । न च तद्भासा । "अहं तत्तेजो रश्मीत्’ इति नारायणभासा हि सर्वं भाति ॥

सत्तकदीपावली

अदृश्यत्वेत्यादेरयमर्थ । "तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं’ "कथं नु तद्विजा-नीयाम्’ इति श्रुतौ ज्ञानिसुखस्यानिर्देश्यत्वादिकमुच्यते । अत परमात्मैवादृश्यत्वादिगुणक इति यदुक्तं प्राक् तन्न सिध्यतीति चेन्मैवम् । "तस्य भासा सर्वमिदं विभाति’ इति वाक्यशेषात् "अहं तत्तेजोरश्मीन्’ इति श्रुत्यन्तरविरोधात् । "यदादित्यगतं तेज’ इत्यादिवाक्यविरोधात् "तत्तेजो विद्धि मामकम्’ इति मत्तेजसा प्रवर्तितमित्यर्थ ।

तत्त्वप्रदीपिका

"तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्’ इत्यत्र तेषां सुखं शाश्वत-मिति हि प्रस्तुति पूर्वपक्षोत्थापिका । "तमात्मस्थम्’ इति सिद्धान्तबीजम् । "तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयाम्’ इति विषयवाक्यम् । "अनुकृतेस्तस्य च’ ॥ अनुभानं नाम तदिच्छानुरोधेन भानम् । अनुकृतिशब्देन अनुभानमुच्यते । भानस्यापि क्रियारूपत्वात् । अन्यकृतीनामप्युपसङ्ग्रहार्थमनुकृतेरित्युक्तम् । नहि काचिदपि कृतिर्हरीच्छानु-रोधनमन्तरेण भवति । भानश्रुत्याऽपि कृतिरुपसङ्गृहीता । भानपूर्वकत्वात्कृते । अतोऽनु-कृतेरिति युक्तमुक्तम् । अहं तत्तेजो मदपेक्षया रश्मिरूपाणामल्पानामन्येषां तेजसां प्रेरकम् ।

तत्त्वप्रकाशिका

अत्राऽऽनुकूल्येन गृह्यमाणत्विलङ्गस्य भगवति ज्ञानिसुखे च सुखशब्दवृत्त्या साधारणस्य विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं च दर्शयति ॥ अदृश्यत्वादय इति ॥ पूर्वमदृश्यत्वादिगुणा परमेश्वर-स्योक्ता । तेषामदृश्यत्वाज्ञेयत्वे कस्यचिदानुकूल्येन गृह्यमाणस्य काठके कथ्येते । "तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति न वा’ इति आनुकूल्येन गृह्यमाणत्वं नाम कथं नु तद्विजानीयामिति ज्ञानार्थं प्रार्थितत्वम् । तस्य चान्यनिष्ठत्वेऽ-निर्देश्यत्वं न भवतीत्युक्ताज्ञेयत्वं चान्यस्यैव प्रसज्ज्येतेत्यवश्यं निर्णेतव्यत्वम् । तदानुकूल्येन गृह्यमाणत्वमत्र विषय । विष्णोरन्यस्य वेति सन्देह । प्रागुक्तसाधारण्यं सन्देहबीजम् । ज्ञानिसुखस्य तल्लिङ्गमिति पूर्व पक्ष । परमं सुखमिति सुखोक्ते । न च सुखश्रुतिर्विष्णावपि सावकाशेति तद्ग्रह "एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा य करोति । तमात्मस्थं येऽनुपश्यन्ति धीरा तेषां सुखं शाश्वतं नेतरेषाम्’ इति ज्ञानिसुखस्य प्रकृतत्वात् । तस्यैव तदेतदिति मन्यन्त इति परामर्शात् । न च वाच्यं भगवतोऽपि प्रकृतत्वात्तत्परामशोऽयम-स्त्विति। तस्य नपुंसकसुखशब्देनाप्रकृतस्य तदित्यादिपरामर्शायोगात् । सम्भवत्समीपस्थपरामर्शं विहाय दूरस्थपरामर्शग्रहणे कारणाभावाच्च । अतो ज्ञानिसुखस्यैवाऽऽनुकूल्येन गृह्यमाणत्त्वात् तस्यैवानिर्देश्यत्वादीत्यर्थ । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ कथं नु तद्विजानीयामित्यानुकूल्येन गृह्यमाणो विष्णुरेव । न च सुखश्रुतिविरोध । परमं सुखमिति सुखश्रुतेरपि तत्परत्वात् । तेषां सुखमिति ज्ञानिसुखस्य प्रकृतत्वात्तस्यैव तदेतदिति परमर्शान्नेति चेन्न । "चेतनश्चेतनानाम्’ इत्यादौ परमात्मनोऽपि प्रकृतत्वात् । न च परमात्मनो नपुंसक-सुखशब्देनाप्रकृतत्वात्तदेतदिति परामर्शायोग इति वाच्यम् । यदनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामित्यानुकूल्येन गृह्णन्ति तदनिर्देश्यं सुखमेतत्प्रकृतपरमात्मनो रूपमिति मन्यन्त इति वाक्ययोजनोपपत्ते । न च वक्तव्यं समीपस्थपरामर्शं विहाय कथञ्चिदेव दूरस्थग्रहणे कारणाभाव इति । "तमेव भान्तमनुभाति सर्वम्’ इति वाक्यशेषे सूर्यादीनामेतदधीन-प्रकाशश्रवणात् "तस्य भासा’ इति सर्वजगत तत्प्रभाप्रकाश्यत्वप्रतीतेश्च । अत समीपोक्त-परित्यागे कारणसद्भावेन दूरोक्तपरमात्मग्रहणोपपत्तेस्तस्य च सुखरूपत्वातिशयेन नपुंसक-सुखश्रुत्युपपत्ते विष्णुरेव आनुकूल्येन गृह्यमाणा इति तस्यैव अनिर्देश्यत्वादीति भाव । नन्वेतदधीनतया सूर्यादीनां भानोक्तावेतस्य सर्वजगत्प्रकाशकत्वोक्तौ च कुत समीपोक्त-ज्ञानिसुखपरामर्शपरित्याग इत्यत आह ॥ न हीति ॥ सर्वं सूर्यादिजगत् भातीति शेष । अस्त्वेतदुभयं ज्ञानिसुखेऽनुपपन्नं तथापि कुतोऽनेन परमात्मग्रहणमित्यत आह ॥ अहमिति ॥ एतदुभयस्य ज्ञानिसुखेऽसम्भवात्परमात्मनि सम्भवाद् दूरोक्तस्यापि समीपोक्तपरित्यागेन ग्रहण-मिति भाव । तदुक्तं "व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेत्’ इति । इति श्रुतेरिति शेष । रश्मीदिति सूर्यादितेजसां नारायणाधीनत्वमुच्यते । तेज इति सर्वजगत्प्रकाशकत्वं नारायणभासा तदधीनभासा तदीयभासा च सर्वं सूयादिजगच्च भाति प्रकाशते प्रकाश्यते च ॥

गुर्वर्थदीपिका

यद्यपि "किमु भाति’ इति श्रुतौ ज्ञेयत्वमप्युक्तम् । तथाऽपि ज्ञानप्रार्थनिलङ्गात्सा कोटि-रित पूर्वमसिद्धैव । अत परिशेषान्न भातीत्येव कोटिरुत्कटेति भावेनोक्तं न भातीत्युक्ताज्ञेयत्वं चेति । तमेव भान्तमनुभाति सर्वमित्यत्र भान्तं तं परमात्मानमनु अनुसृत्य भाति लोके प्रकाशत इत्युक्तम् । सर्वं भगवत्प्रकाशानुसारिप्रकाशसहितं परप्रकाशकं तेजोरूपं सूर्यचन्द्राग्न्-िविद्युदादिकमेव गृह्यते । "तस्य भासा सर्वमिदं विभाति’ इत्यत्र तु भास्यमानं जगदेवोच्यते । भासेति करणार्थकतृतीयोक्तेर्विभातीत्यस्य प्रकाश्यत इत्येवार्थ । अतो न पौनरुक्त्यम् ।

भावबोध

कथं नु तद्विजानीयामित्यानुकूल्येन ग्रहणं कस्येति विचार्यमिति न्यायविवरणे पूर्ववाक्यात् साधारणपदमनुवर्तत इति भावेन तत्सूचितमानुकूल्येन गृह्यमाणत्वस्योभयत्र प्रसिद्धिं तत्कारण-प्रदर्शनपूर्वकमाह अत्रानुकूल्येनेति ॥ सुखशब्दवृत्त्या साधारणस्येति ॥ अनेनोभयत्र प्रसिद्धिसाहचर्यादुभयत्र प्रसिद्धमित्युक्तं भवति । "यो वै भूमा तत्सुखम्’ इत्यादौ भगवति सुख-शब्दवृत्तिर्ज्ञेया ॥ पूर्वमिति ॥ भाष्ये "अदृश्यत्वादिगुणक’ इति सूत्रतदुपात्त "यत्तदद्रेश्यम्’ इति श्रुतिग्रहणवत् "गतिशब्दाभ्याम्’ इति सूत्रांशतदुपात्ताहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति श्रुत्यो परिग्रहणात् तदुक्ताज्ञेयत्वस्याप्याक्षेपादव्यवहितपूर्वाधिकरणसङ्गतिरपीति भाव ।

ननु उदाहृतवाक्ये आनुकूल्येन गृह्यमाणं न प्रतीयत इत्यशङ्कापरिहारार्थं कथं नु तद्विजानीयामित्यानुकूल्येन ग्रहणमिति न्यायविवरणांशाभिप्रायमाह आनुकूल्येनेति ॥ विष्णोरिति ॥ अत्रानुकूल्येन गृह्यमाणत्वं ज्ञानिसुखस्योत विष्णोरिति चिन्ता । तदर्थं परमं सुखमिति सुखशब्द किं ज्ञानिसुखपर उत परमात्मपर इति । तदर्थं नपुंसकिलङ्गसुखशब्द-समानाधिकृत "तदेतदिति मन्यन्त’ इति वाक्यस्थतच्छब्दादिना "तेषां सुखम्’ इत्यव्यवहित-पूर्ववाक्यगतनपुंसकिलङ्गसुखशब्देन प्रकृतस्य ज्ञानिसुखस्य परामर्श उत "नित्यो नित्यानाम्’ इति व्यवहितवाक्यगतपुल्लिङ्गतादृशशब्देन प्रकृतस्य परमात्मन इति । तदर्थं तथा प्रकृतज्ञानि-सुखग्रहणे बाधकमन्यथा प्रकृतपरमात्मग्रहणे साधकञ्च किं नास्त्युतास्तीति । तदर्थं तदेतदिति कथं नु तदिति तच्छब्दसमानार्थकमित्यादितच्छब्दोपेतमेवभान्तमित्यादि वाक्योक्तस्य सर्व-प्रकाशकत्विलङ्गस्य विष्ण्वैकनिष्ठत्वे प्रमाणं नास्त्युतास्तीति । भाष्योदाहृतश्रुतिलिङ्गं तस्य तेषामित्यस्य ज्ञानिपरत्वज्ञापनार्थम् । तमात्मस्थमित्यंशस्तावदुदाहर्तव्य । तथा च तद्गत-तच्छब्दार्थज्ञापनार्थम् एको वशीत्यादितत्पूर्वभागोऽप्युदाहृत इति ज्ञातव्यम् ॥ नपुंसकसुख-शब्देनेति ॥ नपुंसकिलङ्गशब्देन सुखशब्देन चेत्यर्थ ॥ तदित्यादीति ॥ आदिपदेन सुखशब्दादिग्रहणम् । तथा च पूर्वं परमात्मनो नपुंसकशब्देनाप्रकृतत्वादित्यादिशब्दै सुख-शब्देनाप्रकृतत्वात् परमं सुखमिति सुखशब्देन परामर्शायोगादित्यर्थ । अनेन "तदेतदिति मन्यन्ते’ "कथं नु तद्विजानीयाम्’ इति "तेषां सुखं शाश्वतं’ इत्युक्तज्ञानिसुखपरामर्श इति विपरीतश्रुतिभ्रम इति न्यायविवरणमपि व्याख्यातं भवति । अत्र भ्रमविषयभूतश्रुतिवैपरीत्यं तु परमात्मन आनुकूल्येन गृह्यमाणत्वस्य वाचकानाम्’ एको वशीत्यादि’ "तदेतत्’ इत्यादि-शब्दानां भिन्निलङ्गत्वादिरूपमिति भाव । तदेतदिति मन्यन्ते कथमित्यादिन्यायविवरणस्य तदेतदित्यादिना तेषां सुखमिति समीपोक्तज्ञानिसुखग्रहणं; न तु दूरोक्तपरमात्मग्रहण-मित्यर्थान्तरमभिप्रेत्याह सम्भवत्समीपेति ॥ "अनुकृते’ इति सूत्रे "आनन्दमयोऽभ्यासात्’ इत्यादाविव समन्वेतव्यशब्दादेर्विष्णुपरत्वे एव हेतुर्नोच्यते । किं त्वनिर्देश्यं सुखमित्यत्र व्यवहितपरमात्मग्रहणे समीपोक्तज्ञानिसुखपरित्यागे च हेतुरुच्यत इत्यभिप्रेत्य भाष्ये परमात्मैवा-निर्देश्यसुखरूप इत्युक्तमितिभावेन प्रधानसाध्यादिप्रदर्शनपूर्वकं भाष्यं व्याचष्टे कथं नु तदित्यादिना ॥ परमं सुखमिति सुखश्रुतेरिति ॥ "तेषां सुखम्’ इति वाक्यगतसुख-श्रुतिव्यावर्तनाय "परमं सुखम्’ इतीत्युक्तम् ॥ चेतनश्चेतनानामिति ॥ अनेन यस्य ज्ञाना-च्छाश्वतं सुखं स भगवानिति न्यायविवरणं परमात्मन प्रकृतत्वप्रदर्शनार्थं प्रवृत्तमित्युक्तं भवति । "चेतनश्चेतनानाम्’ इति वाक्यगतशान्तिपदस्यापि सुखपरत्वात् ॥ यदनिर्देश्यमिति ॥ अनेन यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्त इति न्यायविवरणं व्याख्यातं भवति ॥ तस्यैवानिर्देश्यत्वादीति ॥ अनेन परमात्मैवानिर्देश्यसुखरूप इति भाष्यं समन्वयोक्तिफल-प्रदर्शनपरमपीत्युक्तं भवति । सूत्रे तस्येति । तस्य भासेति वाक्यप्रतीकग्रहणमिति ज्ञापयितुं भाष्ये वचनादित्युक्तमित्याशयेनोक्तम् । तस्य भासेतीति भाष्ये सर्वशब्दोऽप्रकाशघटादिसाधारणे न सम्भवतीत्यतस्तेजपर इत्याह सर्वं सूर्यादीति ॥ सर्वशब्दस्य तेजपरत्वेन व्याख्यातत्वा-द"नु’शब्दसमभिव्याहृतस्य भातीत्यस्य भासयतीत्यर्थत्वात् सर्वं भातीत्यस्य न च तद्भासे-त्यत्रानुवृत्त्यसम्भवाच्छेषं पूरयति जगद्भातीति शेष इति ॥ अहं तत्तेजो रश्मीदिति भाष्यमुक्त-लिङ्गद्वयस्य विष्णुलिङ्गत्वप्रतिपादकत्वेन व्याचष्टे ॥ रश्मीदिति ॥ सूर्यादितेजसामित्यादिना ।

भावदीप

अत्र न्यायविवरणे कथं नु तद्विजानीयामित्यानुकूल्येन ग्रहणं कस्येति विचार्यमित्युक्तम् । तत्र पूर्वस्माल्लिङ्गं साधारणमिति पदानुवृत्तिं सूचयन् आनुकूल्येन ग्रहणं कस्येत्युक्त्यैव लब्ध-साधारण्यं व्यनक्ति ॥ अत्रानुकूल्येनेति ॥ भगवति ज्ञानिसुखे च साधारणस्येत्यन्वय । सुखे तावदुक्तिलङ्गं प्रसिद्धमेव । अनुकूलवेदनीयत्वं सुखत्वमिति सर्वसिद्धत्वात् । भगवतोऽपि ज्ञानिनं प्रति प्रियो हि ज्ञानिनोऽत्यर्थमहम् इत्युक्तनिरुपाधीष्टत्वात् । ज्ञानिनं प्रति स्वसुख इव भगवत्यपि तल्लिङ्गं सिद्धमिति भगवति ज्ञानिसुखे च साधारणस्येत्युक्तम् । परमात्मैवानिर्देश्य-सुखरूप इति भाष्योक्तिसूचितं साधारण्यमाह ॥ सुखशब्दवृत्त्येति ॥ प्राक्तनचशब्दोऽत्राप्य-न्वेति। परमं सुखमित्युक्तसुखशब्दस्य तेषां सुखं शाश्वतमिति पूर्वत्र ज्ञानिसुखे यो वै भूमा तत्सुखमिति भगवति च प्रयोगेण चेत्यर्थ । भाष्यं सङ्गतिपरत्वेन तावद्य्वाचष्टे ॥ पूर्वमिति ॥ अदृश्यत्वनये ॥ तेषामदृश्यत्वाज्ञेयत्वे इति ॥ तेषां मध्ये अद्रेश्याग्राह्यपदोक्ते इत्यर्थ । ज्ञानिसुखस्योच्यत इत्यस्यार्थ ॥ कस्यचिदिति ॥ केनेत्यत तदेतदिति पूर्वभाष्यमिति मत्वाऽऽह ॥ तदेतदिति ॥ भाष्ये पूर्वपक्षयुक्तिसूचनाय एकदेशमात्रोक्तावपि आदिपदोपात्त-लिङ्गार्पकांशमाह ॥ कथं नु तदिति ॥ पूर्वार्धेनानिर्देश्यत्वस्य उत्तरार्धेन न भातीत्यज्ञेयत्वस्य चोक्तेरिति भाव ।

अत्र भाष्ये परमात्मैवानिर्देश्यसुखरूप इत्युक्त्याऽऽनुकूल्येन गृह्यमाणत्वं सुखत्वरूप-लिङ्गमिति भाति । तथात्वे न्यायविवरणे कथं नु तद्विजानीयामित्यानुकूल्येन ग्रहणमित्युक्तिर्न युक्ता तद्वाक्ये सुखत्विलङ्गाप्रतीतेरित्यतो लिङ्गस्वरूपं विविच्याऽऽह ॥ आनुकूल्येनेति ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङिति स्मरणात् । विजानीयामिति लिज्ञानार्थं ज्ञेयस्य प्रार्थना प्रतीतेरिति वा । कथं पुत्रं पश्येयम् आयाति न वेत्यत्र दर्शनार्थं पुत्रागमन-प्रार्थनप्रतीतेरिव कथं नु इति वाक्ये ज्ञानार्थमाविर्भावरूपभानप्रार्थनप्रतीतेरिति वाऽभिप्राय । सुखरूप इति भाष्यं तु फिलतोक्तिपरमिति भाव । तेषां सुखमित्यादेर्भावमाह ॥ तस्य चेति ॥ प्रकृतज्ञानिसुखवाचिसुखश्रुत्या ज्ञानिसुखनिष्ठत्व इत्यर्थ । ज्ञानिसुखस्यानिर्देश्यत्वमज्ञेयत्वं चोच्यत इत्यस्य भावमाह ॥ अनिर्देश्यत्वमिति ॥ प्राग्विष्णुधर्मतयोक्तमिति योज्यम् । इत्यवश्येत्युक्तार्थम् । निर्णेतव्यत्वम् । आनुकूल्येन गृह्यमाणस्येत्यनुषङ्ग । पूर्वपक्षादिपरत्वेनापि व्याकुर्वन् ज्ञानिसुखस्येत्येतत्प्रतिज्ञापरत्वेन व्याचष्टे ॥ ज्ञानिसुखस्यैतल्लिङ्गमिति ॥ कथं नु तदिति वाक्योक्तमानुकूल्येन गृह्यमाणत्वरूपमित्यर्थ । अनिर्देश्यमित्यादिपूर्वभाष्यलब्धं हेतुमाह ॥ परमं सुखमितीति ॥ तस्यैव च कथं नु तदिति तच्छब्देन परामर्शादिति भाव । तदेतदिति मन्यन्ते कथं नु तद्विजानीयामिति तेषां सुखं शाश्वतमित्युक्तज्ञानिसुखग्रहणमिति विपरीत-श्रुतिभ्रम इत्यन्यत्रोक्तरीत्या सुखश्रुतेर्निरवकाशत्वाय तद्विशेषणभूततदादिसर्वनामश्रुतेर्निरवकाश-त्वोक्तिपरतया तेषामित्यादिभाष्यं शङ्कापूर्वं व्याचष्टे ॥ न चेति ॥ सुखविशिष्टेति सूत्रे लक्षणं परमानन्द इत्युक्तदिशा वा भूमा सम्प्रसादादित्यत्रोक्तदिशा यो वै भूमा तत्सुखमित्युक्त्या वेति भाव । तेषामिति तच्छब्दार्थसूचनाय एको वशीति त्रिपाद्युक्ति । आत्मस्थं स्वस्थितम् । तदिति प्रातिपदिकश्रुते सावकाशत्वमाशङ्क्य नपुंसकिलङ्गेन तस्या निरवकाशत्वमाह ॥ न चेति ॥ तथा च तस्यैवेत्ययुक्तमिति भाव ॥ प्रकृतत्वादिति ॥ तत्रैव मन्त्रे । एको वशीति प्रकृतत्वादित्यर्थ ।

ननु पूर्वत्र एष आत्मेत्यत्र एतच्छब्दस्य पूर्वोक्तज्योतिपरत्वेऽपि विधेयात्मापेक्षया पुल्लिङ्गत्व- वदिहापि विधेयसुखापेक्षया नपुंसकत्वमस्त्वित्याशङ्कानिरासायोक्तं तदित्यादित्यादिपदम् । तदेतच्छब्दयोरेकस्य तथात्वेऽप्येकस्योद्देशकत्वावश्यम्भावेन द्वयोर्नपुंसकत्वायोगादित्यर्थ । अङ्गीकृत्य चेदमुदितम् । वस्तुतस्तु तदिति प्रातिपदिकश्रुतिरेव स्वतो निरवकाशेति भावेनाह ॥ सम्भवदिति ॥ दूरस्थेति ॥ ज्ञानिसुखेन व्यवहितेत्यर्थ । अन्यथा पूर्वत्रापि तस्मिन्य-दन्तरित्यत्राप्याकाशपरामर्शित्वं तच्छब्दस्य न स्यात् । व्यवहितपुण्डरीकपरत्वमेव स्यादिति भाव ॥ अत इति ॥ सन्निहितपरामर्शिनपुंसकं तदेतत् श्रुतिसमानाधिकृतसुखश्रुत्यनुरोधा-दित्यर्थ ॥ अनिर्देश्यत्वादीति ॥ काठके आथर्वणे च श्रुतमिति योज्यम् । भाष्ये परमात्मै-वेत्यनन्तरम् आनुकूल्येन गृह्यमाण इति शेषं मत्वा भाष्यमाकांक्षाक्रमेण व्याचष्टे ॥ कथं नु तदिति ॥ सुखरूप इत्यस्यार्थ इति भ्रमनिरासाय कथं नु इति वाक्योक्ति । अनिर्देश्यसुखरूप इति भाष्यं प्रागुक्तसुखश्रुते सावकाशत्वोक्तिपरतया तात्पर्यतो व्याचष्टे ॥ न चेति ॥ ननु तदेतत् श्रुतिसामानाधिकरण्यात्साऽपि निरवकाशेत्युक्तमिति शङ्कते ॥ तेषामिति ॥ नेति चेदिति ॥ सुखश्रुतेर्विष्णुपरत्वं नेति चेदित्यर्थ । यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्म अनिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्त इत्यन्यत्रोक्तं वाक्यमत्र व्याकुर्वन् तदुत्तरत्वेन भगवानित्यन्तस्य भावमाह ॥ चेतन इति ॥ यद्ब्रह्मेत्यादे पूर्वकृतशङ्कान्तर-निवर्तकत्वेनार्थमाह ॥ न चेत्यादिना ॥ यदिति ॥ "यतो वाचो निवर्तन्ते’ इत्यादौ प्रसिद्धं यदनिर्देश्यमित्यर्थ । गृह्णन्ति ज्ञानार्थं प्रार्थयन्त इत्यर्थ ।

काठकभाष्ये तु तदेव भगवद्रूपं परमं सुखं ज्ञानिसुखं तु विप्लुण्मात्रमिति सुखं विधेय-मित्यर्थान्तरमुक्तम् । तत्र तत् गुह्यं ब्रह्मेत्युपक्रान्तम् एतत् एकं रूपमिति मध्ये चोक्तं ब्रह्मणो रूपं परमं सुखमित्यर्थ इति नपुंसकोपपत्तिरुक्ता चन्द्रिकायाम् । इदानीं तमेवेत्यादिभाष्यं सम्भवत्समीपेत्यादिना पूर्वोक्तशङ्काव्यावर्तकत्वेन व्याचष्टे ॥ न च वक्तव्यमिति ॥ दूरस्थेति ॥ यद्यपि तेषां सुखमित्युक्तज्ञानिसुखात् एको वशीत्यादिनोक्तो विष्णुर्दूरस्थ । चेतनश्चेतना-नामित्युक्तस्तु सन्निहित एव । एतन्मन्त्रस्य तेषां सुखमित्यतोऽनन्तरमाम्नानात् अनेनैव मन्त्रेण पूर्वं प्रकृतत्वस्योक्ते । तथाप्यभ्युपेत्यवादेन वा चेतन इति मन्त्रेऽपि तेषां शान्ति शाश्वती नेतरेषामिति श्रवणेन शान्तिशब्दितसुखव्यवधानं चेतन इत्यस्याप्यस्तीति वा दूरस्थेत्युक्तम् । अनुभानं नाम तदिच्छानुरोधेन भानम् अनुकृतिशब्देन अनुभानमुच्यते । भानस्यापि क्रिया-रूपत्वात् । अन्यकृतीनामप्युपसङ्ग्रहार्थमनुकृतेरित्युक्तमिति तत्वप्रदीपोक्त्या अनुकृतेरित्यस्य अनुभानादित्यर्थं मत्वाऽऽह ॥ एतदधीनप्रकाशेति ॥ सर्वमित्यस्यार्थ ॥ सूर्यादीनामिति ॥ एतदधीनेत्युक्त्या सूत्रे तस्येति पदमानुकूल्येन गृह्यमाणपरं सत् अनुकृतेरित्यत पूर्वमण्यन्वेति स्वस्थाने च स्थितं सत् तस्य भासेति वाक्यप्रतीकं च भवतीति दर्शितम् । स्पष्टीकृतं चैतत्तन्त्र-दीपिकायामस्माभि । भाष्ये अनिर्देश्यसुखरूपत्वे च अनुकृत्यादेर्हेतुत्वोक्त्या समीपस्थदूर-स्थत्यागोपादानयोर्हेतुत्वं लिङ्गसमन्वयहेतुत्वं च लब्धमिति दर्शयन् भाष्यस्य फिलतोक्तिपरत्वेन भावमाह ॥ अत इति ॥ उक्तिलङ्गद्वयाभावादित्यर्थ । सर्वं सूर्यादीत्युक्त्या श्रौतसर्वशब्दोऽपि सूर्यादितेजोमात्रपरो न सर्वजगत्पर इति व्याख्यातं भवति । न च तद्भासेति भाष्ये शेषमाह ॥ जगद्भातीति शेष इति ॥ तेन तस्य भासेति श्रुतौ सर्वशब्दो जगत्परो न तेजोमात्रपर इति दर्शितम् । न हीत्यादेर्भावमाह ॥ एतदुभयस्येति ॥ सर्वतेजोनियन्तृत्वसर्वजगत्प्रकाशकत्व-रूपोभयस्येत्यर्थ ॥ तदुक्तमिति ॥ चतुर्थस्कन्धतात्पर्ये विंशेऽध्याये भगवत्पादोदाहृत-शब्दनिर्णयवाक्ये सन्निधेरपि योग्यताया बलीयस्त्वमुक्तमित्यर्थ । इति शब्दानन्तरं श्रुतेरिति शेषमाह ॥ इति श्रुतेरिति शेष इति ॥ प्रकृतार्थद्वयं श्रुतौ व्यनक्ति ॥ रश्मीदिति ॥ अग्न्ीदित्यस्य अग्न्सिमिन्धकत्वमिव रश्मीच्छब्दस्य रश्मिसमिन्धकत्वमर्थ इत्युपेत्योक्तम् ॥ सूर्यादीति ॥ नारायणेति ॥ नारायणं पुरुषमिति वाक्यशेषादिति भाव । एषा च श्रुति-रन्तर्नयोक्ता व्याख्याता च । श्रुत्यनुरोधेन भाष्यस्थपदानामप्यर्थद्वयमाह ॥ नारायणेति ॥

अभिनवचन्द्रिका

अत्रानुकूल्येनेति ॥ आनुकूल्येन गृह्यमाणसुखं "अनुकूलवेद्यं सुखं, प्रतिकूलवेद्यं दुखम्’ इति प्रसिद्धेः, अनुकूलवेद्ये तस्मिन् "अनिर्देश्यं परमं सुखम्’ इति सुखशब्दवृत्तेश्च । सुखशब्दश्च "यो वै भूमा तत्सुखम्’ इति श्रुत्या भगवति लोकव्यवहाराच्च ज्ञानिसुखे प्रसिद्ध इति सुखशब्दविषयमात्रनिष्ठम् । आनुकूल्येन गृह्यमाणत्विलङ्गम्, उभयत्र प्रसिद्धप्रायमित्यर्थः । एतेन सुखशब्दस्योभयत्र प्रसिध्या प्रकृतिलङ्गस्योभयत्र प्रसिद्धत्वकथनमयुक्तमिति परास्तम् । न च पादान्तर्भावाभावः । साक्षादुपचारेण वा साधारणशब्दानामिह समन्वयस्य विवक्षितत्वात् ।  अदृश्यत्वाज्ञेयत्वे इति ॥ नन्वत्र काठके अज्ञेयत्वमेवोच्यते नत्वदृश्यत्वम् । "अनिर्देश्यम्’ इत्यस्य निर्देष्टुमशक्यमित्यर्थकत्वेनाऽदृश्यार्थकत्वाभावादिति चेत्, सत्यम् अनिर्देश्यमित्येतत् स्वभावात् निर्देष्टुमशक्यस्यैव प्रतिपादकम्, तथापि महावराहपुराणे

"सम्यग्भाति न भातीति जानीयां तत्कथं न्वहम् ।

तत्प्रसादमृते दिव्यमनिर्देश्यं परं सुखम् ॥’

इति अनिर्देश्यमितिपदेन अदृश्यत्वस्याऽभिहितत्वेन तत्समानाख्यानादिहापि तदेव ग्राह्य-मिति भावेन अदृश्यत्वाज्ञेयत्वे कस्यचिदानुकूल्येन गृह्यमाणस्य काठके कथ्येते इत्युक्तम् । पुराणवाक्ये "अनिर्देश्यम्’ इत्यनेनाऽदृश्यत्वमेवोक्तमित्यभ्युपेयम् । तथा हि  "जानीयां तत्कथं न्वहमित्यपरोक्षज्ञानप्रार्थनमुक्त्वा तत्प्रसादमृतेऽनिर्देश्यमित्युक्ते तत्प्रसादमृते द्रष्टुमशक्यत्वस्यैव लाभात् । भगवत्प्रसादमृते भगवान् नैव द्रष्टुं शक्यः, मम तु भगवत्प्रसादाभावात् कथं जानीया-मिति योजनासम्भवात् । अन्यथा भगवत्प्रसादं विना निर्देश एव न स्यात्, दर्शनन्तु भवेदेवेति "कथं नु तद्विजानीयाम्’ इति प्रार्थनाऽनुपपन्ना स्यात् । इक्षुक्षीरगुडादीनां माधुर्यस्य पार्थक्येन निर्देष्टुमशक्यत्वेऽपि अनुभवस्यानुभवसिद्धत्वात् । अनेनास्याऽधिकरणस्याऽदृश्यत्वाधिकरणेन तदधिकरणप्रतिपाद्यनिष्ठाऽदृश्यत्वाज्ञेयत्ववत्प्रमेयप्रतिपादकत्वमेव सङ्गतिरित्युक्तं भवति ॥तदे-तदितीति ॥ तदेतत् पूर्वोक्तं भगवद्रूपम्, अनिर्देश्यं, परमं सुखं परमसुखात्मकमिति ज्ञानिनो मन्यन्ते । तत्सुखात्मकं भगवद्रूपम्, कथं न्वहं जानीयाम् । भगवद्रूपं दर्शनायोग्यं किमिति पृच्छति ॥ किमिति ॥ उत्तरमाह ॥ भाति न भाति वेति ॥ भगवदनुग्रहे भाति, अन्यथा न भातीत्यर्थः ॥  तस्येति ॥ नपुंसकशब्देनाऽप्रकृतस्य तदिति परामर्शायोगादित्यर्थः । सुखपदन्तु कोऽसौ नपुंसकशब्द इति शङ्कापरिहारायेति बोध्यम् । यदनिर्देश्यमिति ॥ अस्मिन्नेव मन्त्रे "परमं सुखम्’ इति यन्मन्यन्ते इति नपुंसकसुखशब्देन परमात्मानम्, आदौ निर्दिश्य, पश्चात्तदेतदिति तच्छब्देन परामर्शाङ्गीकारात् नपुंसकसुखशब्देनाऽप्रकृतपरामर्शो नेति भावः ।

अस्तु वा "एको वशी’ इति वाक्योक्तदूरस्थपरामर्शः, तथापि न तत्परामर्शे कारणा-भावाख्यो दोष इत्याह ॥ न च वक्तव्यमिति ॥ ज्ञानिसुखस्यैव तच्छब्देन परामर्शाङ्गीकारो युक्तः, न तु दूरस्थस्य परमात्मनः नपुंसकशब्देन परामर्शसिद्धये पूर्वोक्तयोजनाङ्गीकारो युक्तः । स्वरसत एव नपुंसकसुखशब्देन प्रकृतं ज्ञानिसुखमपहाय, दूरस्थपरमात्मग्रहणे कारणाभावादिति न वक्तव्यमिति भावः । एतेन पूर्वोक्तयोजनापक्षे ज्ञानिसुखापेक्षया अतिसमीपस्थपरामर्शलाभात् दूरस्थपरामर्शे कारणाभाव इत्युक्तमिति परास्तम् । न हीति वाक्यगतसर्वशब्दार्थमाह ॥ सर्वं सूर्यादिजगदिति ॥ "न च तद्भासा’ इति वाक्ये शेषमाह ॥ भातीति शेष इति ॥ तथापि कुत इति ॥ ज्ञानिसुख इव तदुभयमपि अत्रानुपपन्नमिति भावः । अत्र गुणसूत्रम् "अपि स्मर्यत’ इति । नन्वत्राऽपिशब्दस्य समुच्चयार्थकत्वात् स्मर्यतेऽपीति वक्तव्यम्, लघु चैवं सति सूत्रं स्यादिति चेत्, सत्यम् अपिशब्दः समुच्चयार्थक इति अन्ते प्रयोक्तव्य इति तथापि अन्त एव समुच्चयशब्दः प्रयोक्तव्य इति न नियमः । आदावपि प्रयोगो युक्त इति द्योतनायैवमुक्तम् । अत एव "अपि च किं च’ इति आदौ समुच्चयमुक्त्वा दूषणाद्यभिधानं दृश्यते ।

वाक्यार्थमुक्तावली

सुखशब्दवृत्या साधारणस्येति ॥ अनेनोभयत्र प्रसिद्धसाहचर्यादुभयत्र प्रसिद्धमित्युक्तं भवति । परमसुखशब्दस्य येऽनु पश्यन्ति धीरास्तेषां सुखं शाश्वतमिति ज्ञानिसुखे यो वै भूमा तत्सुखमिति भगवति च प्रयोगादुभयत्र प्रवृत्तिर्ज्ञेया ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहिताधि-करणसङ्गतिरपि गतिशब्दाभ्यामित्यत्र अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति परमेश्वर-स्यादृश्यत्वमुक्तम् । तच्चानुकूल्येन गृह्यमाणस्योच्यत इति अदृश्यत्वाधिकरणेनाक्षेपिकीति स्फुटैव। अदृश्यत्वादय परमेश्वरगुणा उक्ता तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुख-मित्यादिनाऽनिर्देश्यत्वमज्ञेयत्वं चोच्यत इत्यंशमुक्त्वा, इत्यतपरं तेषां मध्ये इति अज्ञेयत्वं चेत्यत परं, कस्यचिदित्यध्याहारेण सङ्गतिपरतया योजयति पूर्वमिति ॥ अद्रेश्यमग्राह्य-मित्युक्तादृश्यत्वाज्ञेयत्वे अनिर्देश्यं, न भातीति, पदाभ्यां काठके कथ्येते इत्यर्थ । न त्वानु-कूल्येन गृह्यमाणत्वं नामानुकूल्येन वेदनीयत्वं, तच्च सुखशब्दप्रवृत्तिनिमित्तम् । तथा च लिङ्ग-समन्वयविरोध । अन्यथातिप्रसङ्ग ।

किं च तस्य सुखमात्रनिष्ठत्वेनोभयत्र प्रसिद्धत्वायोग । किं च ज्ञानिसुखस्याप्य-दृश्यत्वमज्ञेयत्वं च परमात्मैवानिर्देश्यसुखरूप इति भाष्यवाक्यद्वयपर्यालोचनायामनुकूल-वेदनीयत्वरूपसुखत्वं लिङ्गमिति प्रतीयते । तच्च "कथं नु तद्विजानीयाम्’ इत्यानुकूल्येन ग्रहणमिति न्यायविवरणविरुद्धं, तद्वाक्ये सुखत्वरूपिलङ्गप्रतीतेरित्यत लिङ्गस्वरूपं विविच्याह ॥ आनुकूल्येनेति ॥ आनुकूल्येनाभिलषितज्ञानतया, ग्रहणमुच्चरणं स्वीकरणं चेति न्यायविवरणटीकोक्ते ज्ञानार्थं प्रार्थितत्वं लभ्यत इति ज्ञेयम् । श्रुतितस्तल्लाभस्तु, विधिनिमन्त्र-णाधीष्टसम्प्रश्नप्रार्थनेषु लिङिति स्मरणात् तदनिर्देश्यं परमं सुखं स्वतो भाति वेत्यत तत्प्रसादमृते कथं वा जानीयां किन्तु तत्प्रसादादेव जानीयामिति ज्ञानार्थं प्रसादस्य प्रार्थितत्वे, ज्ञेयस्यापि प्रार्थितत्वं लभ्यते । यद्वा, यदनिर्देश्यं परमं सुखं तत्प्रसादे सति किमु भाति तत्प्रसादमृते न भाति वा । व्यवस्थितविकल्पार्थौ किमु वा शब्दाविति हेतोस्तत्प्रसादमसम्पाद्य कथं नु केन प्रकारेण तद्विजानीयामत तत्प्रसन्नं भवत्विति ज्ञानार्थं प्रार्थयन्ति । तदनिर्देश्यं परमं सुखमेतस्य प्रकृतस्य परमात्मनो रूपमिति मन्यन्त इति योजनायां ज्ञानार्थं प्रार्थितत्वं लभ्यते । अथवा, कथं नु पुत्रं पश्येमायाति नवेत्यत्र दर्शनार्थं पुत्रागमनप्रार्थनाप्रतीतेरिव कथं नु इतिवाक्ये ज्ञानार्थमाविर्भावरूपभानप्रार्थनाप्रतीतेरिति द्रष्टव्यम् । ज्ञानिसुखस्येति भाष्यन्तु पूर्वपक्षसिद्धान्ततत्फलप्रदर्शनपरमिति वक्ष्यत इति भाव ॥ विष्णोरन्यस्य वेति ॥ आनुकूल्येन गृह्यमाणत्वं किं ज्ञानिसुखस्योतविष्णोरिति तदर्थं सुखश्रुति विष्णावनवकाशवती उत सावकाशेति, तदर्थं तदेतदिति मन्यत इति तच्छब्देन तेषां सुखमिति अव्यवहितज्ञानि-सुखपरामर्श उत नित्यो नित्यानामिति व्यवधानेन प्रकृतपरमात्मपरामर्श इति, तदर्थम् अव्यवहितज्ञानिसुखं परित्यज्य व्यवहितपरमात्मपरामर्श हेतुर्नास्त्युतास्तीति । इत्यादिना ज्ञानिसुखस्योच्यत इति भाष्यमानुकूल्येन गृह्यमाणत्वमिति पदाध्याहारेण सयुक्तिकपूर्वपरतया योजयति ज्ञानिसुखस्येत्यादिना ॥ परमं सुखमितीति ॥ तस्यैव कथं नु तदिति तच्छब्देन परामर्शादिति भाव ॥ न चेति ॥ भूमादिकरणोक्तरीत्येत्यर्थ । तेषामित्युक्तानां ज्ञानित्व-लाभाय परमात्मनोऽपि प्रकृतत्वशङ्कोत्थापनाय च एको वशीत्यादि पूर्वांशोदाहरणम् । नपुंसकसुखशब्देनेति ॥ नपुंसकशब्देनेत्यर्थ ॥ तदित्यादीति ॥ आदिपदेन एतत्सुख-शब्दादिग्रहणम् ।

एतेनैतदपि निरस्तम् । पूर्वसूत्रे एष आत्मेत्यत्रैतच्छब्दस्य, पूर्वोक्तज्योतिपरत्वेऽपि विधेयात्मापेक्षया पुल्लिङ्गवदिहापि विधेयसुखापेक्षया नपुंसकत्वमस्त्विति । अङ्गीकृत्य चेद-मुदितम्। वस्तुतस्तु तदितिश्रुतिरेव स्वतो निरवकाशेति भावेनाह ॥ सम्भवदिति ॥ अतो ज्ञानिसुखस्येति एतेन ज्ञानिसुखस्यापीति भाष्यं पूर्वपक्षफलप्रतिपादकं न तु सुखत्वस्य लिङ्गत्वाभिप्रायेणेत्युक्तं भवति । सूत्रे आनन्दमयाधिकरण इव समन्वेतव्यशब्दस्य विष्णुपरत्व एव हेतुर्नोच्यते । किं त्वनिर्देश्यं परमं सुखमित्यत्र व्यवहितपरमात्मग्रहणे समीपोक्तज्ञानि-सुखपरित्यागे च हेतुरुच्यत इत्यभिप्रेत्य परमात्मैवानिर्देश्यसुखरूप इत्युक्तमिति भावेन प्रधान-साध्यादिप्रदर्शनपूर्वकं व्याचष्टे ॥ कथं नु तदित्यादिना ॥ परमं सुखमितीति ॥ परमत्व-विशेषितसुखश्रुतेरित्यर्थ ॥ प्रकृतत्वादिति ॥ शाश्वतमिति परमत्वेनैव प्रकृतत्वादिति भाव ॥ आनुकूल्येन गृह्णन्तीति ॥ अभिलषितज्ञानतया गृह्णन्ति वदन्ति स्वीकुर्वन्ति वा ज्ञानार्थं प्रार्थयन्तीति यावत् ॥ एतदित्यस्यार्थ प्रकृतेति ॥ दूरस्थेति ॥ ननु तेषां सुखमित्युक्त-ज्ञानिसुखात् यद्यप्येको वशीत्यादिनोक्तो विष्णुर्दूरस्थ तथापि चेतनश्चेतनानामित्युक्तस्तु सन्निहित एव । एतन्मन्त्रस्य तेषां सुखमित्यनन्तरं पठितत्वात् । अत एव चेतनश्चेतनानामिति परमात्मनो प्रकृतत्वादित्युक्तम् । अन्यथा एको वशीति प्रकृतत्वादित्यवक्ष्यदिति चेन्न । परेण हि कथं नु तद्विजानीयामित्यस्याव्यवहितपूर्वमन्त्रे नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां शान्ति शाश्वती नेतरेषामिति शान्तिशब्देन सुखस्य प्रकृतत्वेऽपि तदेतदिति न तत्परामर्श कर्तुं युक्त । स्त्रीलिङ्गशान्तिपदेन प्रकृतस्य नपुंसकसुखशब्देन परामर्शायोगात् । अतस्तत्पूर्वमन्त्रे तेषां सुखमित्युक्तस्य परामर्श इत्यभ्युपगतं तत्र चैको वशीत्यस्य व्यवहितत्वमुक्तं, तदभ्युपेत्य वा व्यवहितमन्त्रेऽपि शान्ति-शब्दितसुखव्यवधानं, चेतन इत्युक्तस्यास्तीति वा दूरस्थेत्युक्तम् । नपुंसकसुखश्रुत्यनुपपत्ते-रुक्तत्वात्कथञ्चिदित्युक्तम् । अनुभानं नाम तदिच्छानुरोधेन भानम् । अनुकृतिशब्देनानुभान-मुच्यते । भानस्यापि क्रियारूपत्वात् । अन्यकृतीनामप्युपसङ्ग्रहार्थमनुकृतेरित्युक्तमिति तत्वप्रदीपोक्त्यानुकृतेरित्यस्यानुभानादित्यर्थं मत्वाऽऽह ॥ एतदधीनप्रकाशेति ॥ सूत्रे तस्येति प्रतीकग्रहणमिति भावेन भाष्ये वचनाच्चेत्युक्तमिति मत्वा व्याचष्टे ॥ तस्य भासेति ॥ भाष्येऽनिर्देश्यसुखरूप इति वचनं सुखश्रुते सावकाशत्वाय समन्वयोक्तिफलप्रदर्शनपरमपीत्युक्तं भवति । सर्वशब्द तेजोमात्रपर इत्याह ॥ सर्वं सूर्यादीति ॥ सर्वशब्दस्य तेजोमात्रपरत्वात्, अनुशब्दसमभिव्याहृतस्य भातीत्यस्य भासयतीत्यर्थत्वात् सर्वं भातीत्यस्य न च तद्भासेत्यत्रानु-वृत्यसम्भवात्तच्छेषं पूरयति ॥ जगद्भातीति शेष इति ॥ सूत्रे तस्य चेति शब्द यथायुक्ति-समुच्चायक तथा लिङ्गद्वयस्य विष्णुनिष्ठत्वे श्रुतिसमुच्चायकोऽपि भवति इति भावेन भाष्ये तदुदाहरणमित्यभिप्रेत्यावतारयति ॥ अस्त्वेवं तदुभयमिति ॥ व्यवधानेनेति ॥ अत्र सन्निधेरपि योग्यता बलीयसीत्युक्तमिति भाव ॥ रश्मीदितीति ॥ रश्मीनीरयतीति व्युत्पत्येति भाव । तथैव हि तत्वप्रदीपोक्ते । चन्द्रिकायामग्न्ीच्छब्दस्याग्न्सिम्बन्धिकत्वमिव रश्मीच्छब्दस्य रश्मिसम्बन्धिकत्वमर्थ इत्युक्तम् ॥ नारायणेति ॥ नारायणं पुरुषमिति वाक्यशेषादिति भाव । तदीयेति तदधीनभासा सूर्यादि प्रकाशते तदीयभासा जगत्प्रकाश्यत इत्यर्थ । नारायणभासा सर्वं भातीत्यस्य श्रुत्यनुरोधादर्थद्वयमेतदिति ज्ञेयम् । सूत्रे आनुकूल्येन गृह्यमाणमिति योग्यतया-न्वेति ॥ मुख्यत एवोक्तावनुकृतिस्तत्रैव हेतुरिति प्रतीयेत, न चैवम् । किं त्वनुकृतिर्व्यवहित-परमात्मग्रहणे समीपप्रकृतज्ञानिसुखत्यागे च हेतुरिति सूचयितुं मुखतोऽनुक्ति ।

सूत्रे तस्येति वाक्यविशेषप्रतीकग्रहणात्समन्वेतव्यलाभाच्च ॥ तस्येत्यावर्तते ॥ एकस्यानु-कूल्येन गृह्यमाणस्येत्यर्थ । अपरस्य प्रतीकरूपत्वम् । आनुकूल्येन गृह्यमाणस्यान्वयानुसारेण सूर्यादीनां भानरूपकृते क्रियाश्रवणात्तस्य च तस्य भासा सर्वमिदं विभातीति वाक्ये सर्वस्यापि तत्प्रभाप्रकाश्यत्वश्रवणाच्च । न चैतल्लिङ्गद्वयं वैष्णवमिति कुत इति वाच्यम् । अहं तत्तेज इत्यत्र तयोर्वैष्णवत्वस्य तत्रोक्तत्वादिति सूत्रार्थ । सूर्यादिगत, तापन, शोषण, पाचनादिक्रियाणामपि तदायत्तत्वद्योतनायानुभानादित्यनुक्त्वा कृतिग्रहणमिति तत्त्वप्रदीपे स्पष्टम् ।

तत्त्वसुबोधिनी

उभयत्र प्रसिद्धशब्दसाहचर्येणोभयत्र प्रसिद्धिमाह ॥ सुखशब्दवृत्या साधारणस्येति ॥ यो वै भूमा तत्सुखमित्यादौ भगवति सुखशब्दवृत्तिर्ज्ञेया । अत्र पूर्वाधिकरणन्यायेन तद्वैषम्येण वा पूर्वपक्षोत्थानादनन्तरसङ्गति ॥ तदेतदिति ॥ यत्तत्सुखमनिर्देष्टुमशक्यं परमप्रकृष्टं प्राकृत-वाङ्मनसयोरगोचरं एवं भूतं तत्प्रत्यक्षमिति ये ब्राह्मणा मन्यन्ते तत्कथं नु विजानीयां इद-मित्यात्मबुद्धिविषयमापादयेयं तत्किं भाति दीप्यते प्रकाशात्मकं तद्यतोऽस्मद्बुद्धिगोचरत्वेन विभाति स्पष्टं दृश्यते । किं वा नेतीति वा वाक्यार्थ।

ननु उदाहृतवाक्ये आनुकूल्येन गृह्यमाणं न प्रतीयत इत्यत आह ॥ आनुकूल्येनेति ॥ न चानेन ज्ञानार्थं प्रार्थनं प्रतीयत इति वाच्यम् । विजानीयामिति लिङा ज्ञानार्थं ज्ञेयस्य प्रार्थनाधीरित्यभिप्रेत्य कथं नु पुत्र पश्येयं स आगच्छति वा न वेत्यत्र यथा पुत्रज्ञानार्थं तदा-गमनप्रार्थनाधी तथा कथं नु तद्विजानीयामिति वाक्ये ज्ञानार्थमाविर्भावरूपमानप्रार्थनाधी-रित्यभिप्रेत्योक्तमिति भाव । एक स्वगतभेदरहित । वशी सर्वमस्य वशे वर्तत इति वशी । सर्वभूतान्तरात्मा सर्वभूतान्तर्यामी य । एकं रूपं बहुधा करोत्यवतारादिना तमात्मस्थं ये धीरा अनुपश्यन्ति तेषां शाश्वतं सुखं नेतरेषामित्यर्थ । न च समग्रवाक्योदाहरणं किमर्थमिति वाच्यम् । भाष्योदाहृतश्रुतिगतस्य ज्ञानिपरत्वज्ञापनार्थं तमात्मस्थमित्यंशस्तावदुदाहर्तव्य । तथा च तद्गततच्छब्दार्थज्ञापनार्थं एको वशीत्यादि तत्पूर्वभागोऽप्युदाहृत इति ज्ञातव्यम् । नपुंसक-सुखशब्देनेति ॥ नपुंसकिलङ्गशब्देन सुखशब्देन चेत्यर्थ ॥ तदित्यादीति ॥ आदिशब्देन सुखशब्दादिग्रहणम् । तथा च पूर्वं परमात्मनो नपुंसकशब्देनाप्राकृतत्वात्तदित्यादिशब्दे सुखशब्देनाप्रकृतत्वात्परमं सुखमिति सुखशब्देन परामर्शायोगादित्यर्थ ।

किञ्च समीपोक्तपरामर्शे सम्भवति दूरस्थपरामर्शस्यान्याय्यत्वात्समीपोक्तज्ञानिसुखस्यैवात्र परामर्श इत्याह ॥ सम्भवादिति ॥ अनुकृतेरिति सूत्रे आनन्दमयोऽभ्यासादित्यादाविव समन्वेतव्यशब्दादेर्विष्णुपरत्व एव हेतुनोच्यते किन्तु अनिर्देश्यसुखमित्यत्र अविहितपरमात्म-ग्रहणे समीपोक्तज्ञानिसुखपरित्यागे च हेतुरुच्यत इत्यभिप्रेत्य भाष्ये परमात्मा वाऽनिर्देश्य-सुखरूप इत्युक्तमित्यभिप्रेत्य प्रधानसाध्यादिप्रदर्शनपूर्वकं भाष्यं व्याचष्टे ॥ कथं नु तदित्या-दिना॥ परमं सुखमिति ॥ सुखश्रुतेरिति । तेषां सुखमिति वाक्यगतसुखश्रुतिव्यावर्तनाय परमं सुखमित्युक्तम् ॥ तस्येति ॥ तस्य भासेति वाक्यं प्रतीकग्रहणमिति ज्ञापयितुं भाष्ये वचनादित्युक्तम् । न हि ज्ञानिसुखमिति भाष्ये सर्वशब्द प्रकाश्यघटादिसाधारणो न सम्भव-तीत्यतस्तेज पर इत्याह ॥ सर्वं सूर्यादीति ॥ सर्वशब्दस्य तेजपरत्वेन व्याख्यातत्वा-दनुशब्दसमभिव्याहृतस्य भातीत्यस्य भासयतीत्यर्थत्वात् सर्वं भातीत्यस्य न च तद्भासेत्य-सम्भवात् जगद्भातीतिपदद्वयमध्याहार्यमित्याह ॥ जगद्भातीतिशेष इति ॥ अहं तत्तेजो रश्मीदिति भाष्यं उक्तिलङ्गद्वयस्य विष्णुनिष्ठत्वप्रतिपादकत्वेन व्याचष्टे ॥ रश्मीदिति ॥ सूर्यादितेजसामिति ॥ अग्न्ीच्छब्दस्याग्न्सिमिन्धकत्वमिव रश्मीच्छब्दस्य रश्मिसमिन्धकत्वमर्थ इति भाव ॥ नारायणभासेति भाष्यस्य सूर्यादितेजसां नारायणाधीनप्रकाशकत्वं नारायणस्य सर्वजगत्प्रकाशकत्वं चार्थ इति अभिप्रेत्य तदनुगुणतया नारायणभासेतिपदं सर्वपदं भातीति पदञ्चार्थद्वयपरतया व्याचष्टे ॥ तदधीनभासेत्यादिना॥

वाक्यार्थमञ्जरी

आनुकूल्येन गृह्यमाणत्वेति । आनुकूल्येन अनुकूलत्वेन अत्यन्तमिष्टत्वेन गृह्यमाणं कथमनुभवामीत्यनेन प्रकारेण ज्ञानार्थं प्रार्थितं सुखं तस्य भावस्तत्त्वं सुखादन्यस्य अत्यन्त-मिष्टत्वाभावात् । अत एव भाष्ये अनिर्देश्यसुखमित्युक्तम् । अत एव चन्द्रिकाकारै केचित्त्वे-तद्भाष्यानुसारन्यायविवरणोक्तमानुकूल्ये गृह्यमाणत्वं सुखमेवेत्याहुरिति स्वोत्प्रेक्षितपक्षो दर्शित प्रसिद्धं चानुकूलवेद्यं सुखं प्रतिकूलवेद्यं दुखमिति ॥ उभयत्र ॥ सुखशब्दवृत्त्येति ॥ यो वै भूमा तत्सुखमित्यादौ भगवति सुखशब्दवृत्तिर्ज्ञेया ॥ तदेतदिति ॥ तद्रूपं रूपं प्रतिरूपो बभूव’ इत्यत्र प्रकृतम् एतत् एकं रूपं बहुधा य करोतीत्यत्र च प्रकृतं भगवद्रूपम् अनिर्देश्यं साकल्ये-नादृश्यं परमं सुखमिति मन्यन्ते ज्ञानिन । नु इदानीम् अहं तत्सुखं कथं केन प्रकारेण विजानीयां तत्सुखं मत्प्रयत्नेन तथा भाति न वेत्यर्थ । नात्रानुकूल्येन गृह्यमाणपदं श्रूयत इत्यत आह ॥ आनुकूल्येनेति ॥ कथं नु पुत्रं पश्येयं स आगच्छति न वेत्यत्र यथा पुत्रज्ञानार्थं तदागमनप्रार्थनाधीस्तथा कथं नु तद्विजानीयामित्यादिवाक्ये ज्ञानार्थमाविर्भावरूपज्ञान-प्रार्थनाधीरित्यभिप्रेत्यैवमुक्तमिति ध्येयम् ॥ एको वशीति ॥ य एक स्वगतभेदवर्जित सर्वमस्य वशे वर्तत इति वशी सर्वभूतानामन्तर्नियामक एकं स्वात्मरूपं नियम्यानां बहुत्वा-त्तद्गतत्वेन बहुधा करोतीति तमात्मनि देहे जीवे वा तिष्ठतीति आत्मस्थं भगवन्तं ये धीरा पण्डिता अनुपश्यन्ति तेषामेव शाश्वतं नित्यमभिव्यक्तं सुखं नेतरेषामित्यर्थ ॥ नपुंसक-सुखशब्देनेति ॥ नपुंसकिलङ्गशब्देन सुखशब्देन चेत्यर्थ ॥ ॐ अनुकृतेस्तस्य च ॐ ॥ आनुकूल्येन गृह्यमाणं ब्रह्मैव कुत अनुकृते अनुमानात् । तमेव भान्तमनुभाति सर्वमिति सूर्यादीनां तदधीनभानश्रवणादिति यावत् । किंच तस्य वाक्यप्रतीकग्रहणमेतत् । तस्य भासा सर्वमिदं विभातीति सर्वस्य तत्प्रकाश्यत्वोक्तेरित्यर्थ ॥ परमं सुखमिति ॥ तेषां सुखमिति वाक्यगतसुखश्रुतिव्यावर्तये परमशब्द ॥ चेतनश्चेतनानामिति ॥ चेतनानां चेतनत्वप्रद परम-चेतन इति वाक्यार्थ । पूर्वोक्तयोजनायां सत्यामेव योजनान्तरमाह ॥ यदिति ॥ गृह्णन्ति ज्ञानार्थं प्रार्थयन्ते । प्रतीतयोजनात्यागात्कथंचिदित्युक्तम् ॥ तमेव भान्तमिति ॥ सर्वं सूर्यादितेजो जातं भान्तं प्रकाशमानं तं भगवन्तम् अनुसृत्य भाति प्रकाशते । सर्वमिदं जगत्तस्य परमात्मनो भासा प्रकाशेन विभाति प्रकाश्यत इत्यर्थ । सर्वशब्दस्य तेजपरत्वेन व्याख्यात-त्वादनुशब्दसमभिव्याहृतस्य भातीत्यस्य भासत इत्यर्थत्वात्सर्वं भातीत्यस्य न च तद्भासेत्यत्रानु-वृत्त्यसम्भवात्तच्छेषं पूरयति ॥ जगद्भातीति शेष इति ॥ तदुक्तं चतुर्थतात्पर्ये अहं तत्तेजोर-श्मीदित्यादिभाष्यं मुक्तिलङ्गद्वयस्य विष्णुनिष्ठत्वप्रदिपादकत्वेन व्याचष्टे । रश्मीदित्यादिना ॥

 


Load More