ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ
६. कर्मानुस्मृत्यधिकरणम्
सूत्रभाष्यम्
।। ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।। ९ ।।
न च केषाञ्चित्स्वप्नादिकर्ता न तु सर्वेषामिति ।
‘एष ह्येव साधु कर्म कारयतीति (कौ.उ.३-८) कर्मण्यवधारणात् ।
‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु ।
परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ।।
‘एष स्वप्नान्प्रदर्शयत्येष प्रबोधयत्येष एव परम आनन्द’ इति च श्रुतिः ।
‘आत्मानमेव लोकमुपासीत’ (बृ.उ.३-४-१५) इति च विधिः ।।
तत्त्वप्रदीपिका
न च मन्तव्यमुक्तप्रमाणानुग्रहाय केषाञ्चित्स्वप्नादिकर्ता भवतु न सर्वेषां, सर्वेषां बन्धमोक्षप्रदत्वाभावाच्चेति । ‘एष ह्येव साधुकर्म कारयति एष उ एवासाधुकर्म कारयति’ इति सर्वस्मिन्कर्मणि तस्यैव हेतुत्वावधारणात् । यतः स्वप्नादेर्जनिः । स्वप्नादेर्जनकः प्रदर्शकश्चैक एव । उक्तानुसारिस्मृतेश्च । ‘आत्मानमेव लोकमुपासीत’ इति सर्वाश्रयात्मोपास्तिविधेश्च । यस्य प्रसादादेव सर्वानिष्टहानिः सर्वकामावाप्तिश्च विपर्यये च विपर्ययः । तत्र ह्युपास्तिविधिस्सुयुक्तः । हेतौ वा चशब्दः । तस्मात्स एव परमात्मा सर्वकर्ता नान्यः । न च किञ्चित्स्वभावत एव । स्वभावस्यापि तदधीनत्वादित्यभिप्रायः ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं सर्वावस्थानां तदधीनत्वमहिम्नो निरूपणादस्ति शास्त्रादिसङ्गतिः । सर्वावस्थानां भगवदनधीनत्वे न तस्मिन्निरतिशया भक्तिर्भवेदतस्तन्निरूपणीयम् । प्रकृतावस्था एवात्र विषयः । किं सर्वजीवानां सार्वकालीना भगवदधीना अथ केषाञ्चिक्तिञ्चि-त्कालीना इति सन्देहः । अवस्था भगवदधीना इत्युक्तवाक्यस्योभयार्थसम्भवः सन्देहबीजम् । न सर्वेषां सार्वकालीना अवस्था भगवदधीनाः किं नाम केषाञ्चित्किञ्चित्कालीना इति पूर्वः पक्षः । राजादीनां खण्डेशत्वदर्शनात् । न च लोकविलक्षणमीश्वरस्य सर्वप्रेरकत्वमभ्युपगन्तुं शक्यते । अतिप्रसङ्गात् । न चात्र प्रमाणमस्ति येनादृष्टमपि कल्पयामः । अतः सर्वावस्थाप्रेरकत्वाभावेन न सर्वैश्वर्यं हरेरिति ।
सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। स एवेति ।। स परमात्मैव सर्वावस्थाप्रेरको न तु केषाञ्चित्कादाचित्कावस्थाप्रेरकः । ‘एष ह्येव’ इति सर्वकर्मणां भगवदधीनत्वस्य श्रुतत्वात् । स्वप्नादिप्राप्तेश्च तदन्तर्भावात् ‘प्रदर्शकः’ इति स्मृतेश्च । ‘एष स्वप्नान्’ इति श्रुतेश्च । अवधारणस्य सर्वत्रान्वयेन विवक्षितसिद्धेः । ‘आत्मानमेव’ इति परमात्मन एवोपास्यत्वविधानाच्च । अन्यस्याऽपि प्रेरकस्य सद्भावेऽवधारणानुपपत्तेरिति भावः । चशब्दः पक्षान्तरनिषेधार्थः । स्फुटमभिमतार्थाभि-धायकत्वमनुसारित्वम् । अतः सर्वावस्थाप्रेरके महामहिमि्न ईश्वरे भक्तिर्युक्तेति सिद्धम् ।
गुर्वर्थदीपिका
सर्वावस्थानामित्यत्र सार्वदैशिकसार्वकालिकसर्वावस्थानामित्यर्थः । अन्यथाऽवस्थात्रयस्य भगवदधीनत्वेन प्रागेव वर्णितत्वेन पौनरुक्त्यं स्यात् । एष स्वप्नानिति एष प्रबोधयतीत्युत्तमत्वघटक-हेताववधारणाभावे अथ तस्मात्कारणादेष एव परम इति साध्येऽप्यवधारणं न स्यात् । कालान्तरे देशान्तरे सुप्त्यादिप्रवर्तकानामन्येषामपि परमत्वसम्भवेन एष एव परम इति परमान्तरव्यवच्छेदो न स्यात् । अत एवकारस्य स्थानद्वयेऽप्याकर्ष इति भावेनोक्तं अवधारणस्येति ।।
भावबोधः
सर्वावस्थानामिति ।। प्रत्येकमवस्थानां भगवदधीनत्वोक्तावेवैतद्विचाराङ्गसंशयोत्थानादनन्तर-सङ्गतिरिति भावः ।। सर्वजीवानामिति ।। अत्रावस्थाः किं केषाञ्चित् किञ्चित्कालीना एव भगवदधीना उत सर्वजीवानां सार्वकालीना इति चिन्ता । तदर्थमीश्वरः किं लौकिकराजादिवदुत नेति । राजादीनां पृथग्दर्शनादीशान्तरकल्पनेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– न सर्वेषामिति ।। केषाञ्चित् काश्चिदेवेत्यनेनेशान्तरकल्पनेति न्यायविवरणमुक्तार्थं भवति । राजा-दीनामिति हेतुं व्याख्याति– राजादीनामिति ।। न चात्र प्रमाणमिति ।। ‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च’ इत्यादितत्तदधिकरणोदाहृतवाक्यानां केषाञ्चित् कदाचित् स एवेत्यर्थोपपत्त्या सावकाशत्वाद्विवक्षितार्थे न विशेषप्रमाणत्वमिति भावः । ननु ‘एष ह्येव’ इति । श्रुतिरवस्था-पे्ररकत्वे भगवतः कथं प्रमाणमित्यत आह– स्वप्नादिप्राप्तेश्चेति ।। एष स्वप्नानिति श्रुतेश्चेति । उपलक्षणमेतत् ।
‘देशकालविशेषेऽपि स्वप्नादीनां स एव हि ।
तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत् ।।’
इति न्यायविवरणोक्ता श्रुतिरपि ग्राह्या ।
ननु ईशान्तरसत्त्वेऽपि ‘स एष स्वप्नान्दर्शयति’ इति श्रुतेः सावकाशत्वात् कथं विवक्षितार्थ-साधकत्वमित्यत आह– अवधारणस्येति ।। ‘एष एव परमानन्द’ इति श्रुतस्या वधारणस्यैव ‘स्वप्नान् दर्शयति’ ‘एष प्रबोधयति’ इत्यत्राप्यन्वयेन विवक्षितार्थस्य भगवत एव सर्वेषां सर्वावस्था-प्रेरकत्वस्य सिद्धिरित्यर्थः । स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धिसार्वकालिकावस्थालाभादेव ‘एव’ इत्येवकारेणेशान्तरव्यवच्छेदसिद्धेरिति भावः ।
ननु परमात्मन एवोपास्यत्वविधानेऽप्यवस्थानां भगवदधीनत्वं कुत इत्यत आह– अन्य-स्यापीति ।। अन्यस्यावस्थापे्ररकत्वे तस्याप्युत्तमत्वेनोपास्यत्वप्राप्त्यात्मानमेवेत्यवधारणं नोपपद्यत इति भावः ।
ननु सौत्रः ‘च’शब्दः किमर्थं समुच्चयार्थत्वस्यावधारणविरुद्धत्वादित्यत आह– चशब्द इति ।। ईशान्तरकल्पनारूपपक्षान्तरेत्यर्थः । सौत्रमनुस्मृतीति पदम् ‘अनुस्मृतेश्च’ इत्यादिवत् प्रत्यभिज्ञापरमिति प्रतीतिनिरासार्थमनुसारिस्मृतेश्चेति व्याख्यातम् । तत्र स्मृतेरनुसारित्वं नाम किमित्यत आह– स्फुटमिति ।।
भावदीपः
सर्वावस्थानामिति ।। सर्वेषां जनानां याः स्वप्नादिसकलावस्थाः तासामित्यर्थः । सामान्य-चिन्तानन्तरं विशेषचिन्तावसरः । मोहस्य प्रधानावस्थात्वाभावद्योतनाय ततः पूर्वं चास्य निवेश इति भावः ।। किञ्चित्कालीना इति ।। भगवदधीना इति योज्यम् ।। इत्युक्तवाक्यस्येति ।। स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव चेति । स एव जागरिते स्थापयतीति । एष एव सुप्तं बोधयतीत्यादिवाक्यस्येत्यर्थः । स एवेत्याद्यवधारणसत्वेऽपि सर्वेषामित्यादिसर्वशब्दाभावाद्भवत्येवैवं संशय इति भावः । न चेत्यादिभाष्योक्तं स एव चेति सौत्रचशब्दव्यावर्त्यपूर्वपक्षं व्यनक्ति ।। न सर्वेषामिति ।। राजादीनां पृथग्दर्शनादित्यन्यत्रोक्तहेतुमाह ।। राजेति ।। अतिप्रसङ्गादिति ।। कालाज्ञानादिनिमित्तापेक्षां विनापि कुर्यादित्यर्थः । अक्षरनयादौ लोकदृष्टित्यागेनाणुत्व महत्त्वा-द्यभ्युपगमवादवदस्त्विहापीत्यतः सूत्रशेषव्यावर्त्यमाह ।। न चेति ।। प्रमाणं चात्र सर्वप्रेरकत्वे नास्ति अणुत्वादौ त्वस्तीति भावः ।। अत इति ।। लोकदृष्ट्यनुसारात्प्रमाणाभावाच्चेत्यर्थः ।। सर्वावस्था-प्रेरकत्वाभावेनेति ।। एतेनाग्रेतनेन अनेन सर्वगतत्वमायामयशब्दादिभ्य इत्यनेन पौनरुक्त्यं निरस्तम् । तत्र सार्वत्रिकसृष्ट्यादिकर्तृत्वोक्तावपीह सर्वावस्थाप्रेरकत्वं नेति शङ्कायां तत्समर्थनात् । उक्तश्चायमर्थभेदः सङ्क्षेपभाष्ये अत्र सर्वावस्थाप्रेरकश्चेति । तत्र तु ‘सर्वदेशेषु कालेषु स एकः परमेश्वरः’ इति ।
सूत्रार्थमाह ।। स परमात्मैवेति ।। आत्मनीति प्रकृतात्मपरामर्श इति भावः । एवकार-व्यावर्त्योक्तिपरं न चेति भाष्यं व्याचष्टे ।। न त्विति ।। सूत्रभाष्यशेषयोरर्थमाह ।। एष हीति ।। सर्वत्रेति ।। भाष्यादावित्यर्थः । क्वचित् स्वतःसिद्धेन क्वचित्कृतेनेति योज्यम् । न चेत्यादि भाष्यमुत्सूत्रमिति वाऽवधारणार्थपरमिति वा भ्रमनिरासायाह ।। चशब्द इति ।। स एवेत्युक्त्याऽर्थात् प्राप्तस्यापि श्रौतत्वसिध्यर्थं चशब्दादिति भावः । तत्वप्रदीपे तु हेतौ वा चशब्दः । तस्मात्स एव सर्वकर्ता नान्यः न च किंचित्स्वभाव एव । स्वभावस्यापि तदधीनत्वादित्यभिप्राय इत्यर्थान्तरं चोक्तम् ।। अत इति ।। कर्मानुस्मृत्यादिबलादित्यर्थः ।
अभिनवचन्द्रिका
अवस्था भगवदधीना इत्युक्तवाक्यस्येति ।। अवस्थानां भगवदधीनत्वमित्यस्मिन्नर्थे उक्तानां ‘एष एव सुप्तं प्रबोधयतीत्यादिवाक्यानाम् उभयथाऽर्थसम्भव इत्यर्थः ।। राजादीनामिति ।। अत्र ‘ईश्वरः खण्डेशो भवितुमर्हति, अधिपतित्वात् राजादिवत्’ इति प्रयोगो द्रष्टव्यः ।। अभ्युपगन्तुं शक्यत इति ।। ‘एष एव सुप्तं बोधयति’ इत्याद्यर्थतयेत्यर्थः ।। न चात्र प्रमाणमिति ।। समाख्यारूपमिति शेषः ।। अदृष्टमपीति ।। दृष्ट्यननुगुणमपि सर्वेशत्वं श्रुत्यर्थत्वेन कल्पयाम इत्यर्थः । एतेन प्रमाणसद्भावे तद्बलेनैव सिद्धत्वेन कल्पनाभावात् प्रमाणसद्भाव एव अदृष्टकल्पना कार्या नान्यथेति वचनमयुक्तमिति परास्तम् । ननु ‘एष स्वप्नान् दर्शयति’ इतिश्रुतौ स्वप्नादि-दर्शकत्वमनवधारणेनोक्त्वा ‘एष एव परम आनन्द’ इति सावधारणं परमानन्दत्वाभिधानात् तदेवेश्वरैकनिष्ठम् । स्वप्नादिदर्शकत्वं तु कालान्तरेऽन्यनिष्ठमिति खण्डेशत्वमेवेश्वरस्येत्यत आह– अवधारणस्य सर्वत्रेति ।। ननु सौत्रश्चशब्दः किमर्थः । समुच्चयार्थत्वस्याऽवधारणविरुद्धत्वादित्यत आह– चशब्द इति ।। पूर्वपक्षनिरासार्थ इत्यर्थः । अत एव भाष्ये ‘न च केषाञ्चित्स्वप्नादिकर्ता, न तु सर्वेषामिति’ इति पूर्वपक्षनिषेधः कृतः ।
पूर्वपक्षस्तु न ईश्वरः सर्वेषां सर्वकालीन सर्वाऽवस्थाप्रवर्तकः अधिपतित्वात् राजवत् । न च ‘एष एव सुप्तं प्रबोधयति’ इत्यादिश्रुतिविरोधः । यत्किञ्चिन्नियामकपरत्वेनाऽपि योजयितुं शक्यत्वात् । न च विस्पष्टसमाख्याश्रुत्यभावे युक्तिविरुद्धं सर्वनियामकत्वं श्रुत्यर्थतया प्रतिपत्तुं शक्यतेः । अतः सर्वाऽवस्थाप्रेरकत्वाऽभावेन न सर्वैश्वर्यं हरेरिति ।
सिद्धान्तस्तु ईश्वर एव सर्वकालीनसुप्त्यादिनियामकः सर्वकर्मनियामकत्वात्, सुप्त्यादीनां च तदन्तर्भावात् । न च तत्र प्रमाणाऽभावः ‘एष ह्येव साधुकर्म कारयति’ इति सावधारणश्रुतेः । ‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु । परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इति स्मृतेः, ‘एष स्वप्नान् दर्शयति एष प्रबोधयति, एष एव परम आनन्द’ इति श्रुतेः । ‘आत्मानमेव लोकमुपासीत’ इति विधेश्च । न ह्यन्यस्य स्वप्नादिप्रवर्तकत्वे परमात्मन एवोपास्यत्वं सम्भवति । अतः सर्वावस्थाप्रेरके महामहिमि्न ईश्वरे भक्तिर्युक्तेति सिद्धम् ।
वाक्यार्थमुक्तावली
सर्वावस्थानामिति ।। प्रत्येकमवस्थानां भगवदधीनत्वोक्तावेवैतद्विचाराङ्गसंशयोत्थाना-दनन्तरसङ्गतिरिति भावः ।। सर्वजीवानामिति ।। अत्रावस्थायाः किं केषाञ्चित्किञ्चित्कालीना भगवदधीना उत सर्वजीवानां सर्वकालीना इति चिन्ता । तदर्थं किमीश्वरो लौकिकराजादिसदृश उत तद्विलक्षण इति । अवस्था भगवदधीनेत्युक्तवाक्यस्येति । अवस्था भगवदधीनेत्यत्र पठित-श्रुतीनामित्यर्थः । न केषाञ्चिदित्युत्तरभाष्यानुसारेण पूर्वपक्षयन् पृथग्भव इत्युक्तन्यायं व्यनक्ति ।। न सर्वेषामित्यादिना ।। खण्डेशत्वेति ।। कालविशेषे केषाञ्चिदेवेशत्वदर्शनादित्यर्थः । अनेनेशः खण्डेशो भवितुमर्हति अधिपतित्वात् । राजादिवदिति प्रयोगो दर्शितः । तस्याप्रयोजकत्वपरिहराय विपक्षे बाधकमाह ।। न चेति ।। नन्वीशस्य युगपदणुत्वं महत्त्वं च लोकविलक्षणमप्यङ्गीक्रियते तदिदमपि किन्न स्यादित्यत आह ।। न चात्रेति ।। सूत्रे सर्वावस्थाप्रवर्तक इति शेषमभिप्रेत्य व्याचष्टे ।। स परमात्मैवेति ।। केषाञ्चित्स्वप्नादिकर्ता न तु सर्वेषामिति नेत्येतद्व्याचष्टे ।। न तु केषाञ्चिदिति ।। कर्मेति धर्माधर्मरूपं व्यापारमात्रं वा । तेन तस्येशैकायनत्वश्रुतिर्लक्ष्यते । ‘एष ह्येव साधु कर्म कारयति, एष ह्येवासाधु कर्म कारयति’ इति सर्वकर्मणामीशायत्तत्वश्रुतेरित्यर्थमभिप्रेत्याह ।। एष ह्येवेति ।। ननु ‘एष ह्येव’ इति श्रुतिरवस्थाप्रेरकत्वे भगवतः कथं प्रमाणमित्यत आह ।। स्वप्नादिप्राप्तेश्चेति ।। नन्वीशान्तरसत्त्वेऽप्येषः स्वप्नानिति श्रुतेः सावकाशत्वात्कथं विवक्षितार्थ-साधकत्वमित्यत आह ।। अवधारणस्येति ।। ‘एष एव परमानन्द’ इति श्रुतस्यावधारणस्य एष एव स्वप्नान् प्रदर्शयति एष एव प्रबोधयतीत्यत्रान्वये स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धि-सार्वकालिकावस्थालाभात् एष एवेत्येवकारेणेशान्तरव्यवच्छेदसिद्धेश्चेति भावः ।। अवधारणा-नुपपत्तिरिति ।। प्रेरकान्तरस्याप्युपास्यत्वादात्मानमेवेत्यवधारणानुपपत्तिरिति भावः । एतेन सन्मानेत्युक्तसिद्धान्तन्यायः प्रकारचतुष्टयेन सूत्राक्षरारूढो दर्शितः । ननु स एवेत्यवधारणेन नान्य इतीशान्तरव्यवच्छेदलाभेऽपि न तु केषाञ्चित्स्वप्नादिकर्ता न तु सर्वेषामिति भाष्योक्तस्य पक्षान्तर-निषेधस्योत्सूत्रत्वमित्यत आह ।। चशब्द इति ।। समुच्चयाधिक्यन्यूनाद्यर्थानां प्रकृतानुपयोगादिति भावः । भावबोधे तु चशब्द ईशान्तरकल्पनारूपपक्षान्तरव्यवच्छेदार्थ इत्यर्थ उक्तः । न चैवकारेण तत्सिद्धिरिति वाच्यम् । एवेत्यर्थाल्लब्धस्यापि वाचनिकत्वाय चशब्दसार्थक्यादिति तेषामाशयः । केचित्तु प्रेरकं विनापि अवस्था भवत्विति पक्षान्तरव्यवच्छेदार्थ इत्याहुः । ननु स्मृतेरित्येतवता पूर्तेरनुग्रहणं व्यर्थमित्यत आह ।। स्फुटमिति ।। स्मृतौ सर्वेषां सार्वदेशिकानां परमपुरुषो विष्णुरेक एव स्वप्नादेः प्रेरकस्ततोऽन्यो नास्ति कश्चनेति स्पष्टं विवक्षितार्थोक्तेरिति भावः ।
तत्त्वसुबोधिनी
सर्वावस्थानामिति ।। प्रत्येकावस्थानां भगवदधीनत्वोक्तावेवैतद्विचाराङ्गसंशयोत्थानादनन्तर-सङ्गतिरिति भावः । अवस्था भगवदधीना इत्युक्तवाक्यस्येति । न चैवमाकारस्यैव कस्यापि वाक्यस्याभावात् कथमेवमुक्तमिति वाच्यम् । एतदर्थप्रतिपादकवाक्यजातस्य इत्यर्थस्य विवक्षित-त्वादिति भावः । कुत एतदित्यत आह ।। राजादीनामिति ।। लोके राजादीनां खण्डेशत्वस्य दृष्टत्वादीश्वरस्यापि राजसदृशत्वात् खण्डशत्वमेव वक्तव्यम् । एवं च प्रसिद्धराजवदेव न सर्वावस्थानां तदधीनत्वमित्यर्थः । नन्वीश्वरस्य लोकविलक्षणत्वात् तत्प्रेरणस्यापि लोकविलक्षण-त्वात् युज्यत सर्वावस्थानां तदधीनत्वमित्यत आह ।। न चेति ।। एवं हि अस्मदादीनामपि तादृशप्रेरकत्वादीनां वक्तुं शक्यत्वादित्यतिप्रसङ्ग इत्यर्थः । ननु सर्वावस्थानां भगवदधीनत्वे स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव चेत्यादिप्रमाणस्य विद्यमानत्वात् लोके दृष्टमपि विलक्षणमीश्वरस्य प्रेरकत्वमङ्गीकर्तव्यमित्यत आह ।। न चात्रेति ।। तथा च केषाञ्चित् कदाचित् स एवेत्यर्थोपपत्त्या सावकाशत्वात् विवक्षितार्थे न तस्य विशेषप्रमाणत्वमिति भावः । ननु ‘एष ह्येव’ इति श्रुतिः प्रेरकावस्थात्वे भगवतः कथं प्रमाणमित्यत आह ।। स्वप्नादिप्राप्तेश्चेति ।। एष स्वप्नानिति श्रुतेश्चेति ।। उपलक्षणमेतत् ।। ‘देशकालविशेषेऽपि स्वपदीनां स एव हि । तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत्’ इति श्रुतिरपि ग्राह्या ।
ननु ईशान्तरसत्त्वेऽपि एष स्वप्नान् दर्शयतीति श्रुतेः सावकाशत्वात् कथं विवक्षितार्थ-साधकत्वमित्यत आह ।। अवधारणस्येति ।। ‘एष एव परमानन्द’ इति श्रुतस्यावधारणस्य ‘एष स्वप्नान् दर्शयति’ इत्यत्राप्यन्वयेन विवक्षितार्थस्य भगवत एव सर्वेषां सर्वावस्थाप्रेरकत्वसिद्धि-रित्यर्थः । स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धिसार्वकालिकावस्थानात् एष एवेत्येवकारेणे-शान्तरव्यवच्छेदसिद्धेरिति भावः । ननु परमात्मन एवोपास्यत्वविधानेऽपि अवस्थानां भगवदधीनत्वं कुत इत्यत आह ।। अन्यस्यापीति ।। अन्यावस्थाप्रेरकत्वे तस्योत्तमत्वेनोपास्यत्वप्राप्त्या आत्मान-मेवेत्यवधारणं नोपपद्यत इति भावः । ननु सौत्रश्चशब्दः किमर्थः समुच्चयार्थत्वस्यावधारण-विरुद्धत्वादित्यत आह ।। चशब्द इति ।। ईशान्तरकल्पनारूपपक्षान्तरेत्यर्थः । ननु सौत्रमनुस्मृति-पदमनुस्मृतेश्चेत्यादिवत् प्रत्यभिज्ञानमिति प्रतीतिनिरासार्थमनुसारिस्मृतेश्चेति व्याख्यातम् । तत्र स्मृतेरनुसारित्वं नाम किमित्यत आह ।। स्फुटमिति ।।
वाक्यार्थविवरणम्
अतिप्रसङ्गादिति ।। अन्यथा लोकविलक्षणं शशविषाणमप्यङ्गीकार्यं स्यादित्यर्थः ।। स्वप्नादीति ।। स्वप्नावस्थाप्राप्तेरपि सर्वकर्मान्तर्गतत्वेन एष ह्येवेति श्रुतिर्भगवतः सर्वावस्थाप्रेरकत्वे प्रमाणं भवतीति द्रष्टव्यम् । सद्भाव इत्यनन्तरं तस्याप्युपास्यत्वप्राप्त्येति शेषः ।। अवधारणेति ।। आत्मानमेवेत्यवधारणेत्यर्थः ।। चशब्द इति ।। स एव सर्वावस्थाप्रेरक इत्युक्त्वा स्वयमेव सूत्रकारोऽन्ययोगव्यवच्छेदं चशब्देन दर्शयतीत्यर्थः । एवकारार्थविवरणं स्वयमेव कृतमिति ध्येयम् ।
वाक्यार्थमञ्जरी
खण्डेशत्वेति ।। किञ्चिद्देशकालीनेशत्वेत्यर्थः ।। अतिप्रसङ्गादिति ।। लोकविलक्षणा-निष्टधर्मस्याङ्गीकारप्रसङ्गादित्यर्थः । लोकविलक्षणयुगपदणुत्वमहत्वादिवत्किं न स्यादित्यत आह ।। न चात्रेति ।। अणोरणीयान्महतो महीयान’ इत्यादिश्रुतिः प्रमाणमिति भावः ।। ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।। सर्वावस्थाप्रवर्तकः स एव परमात्मैव नान्यः । कुतः ? कर्मानु-स्मृतिशब्दविधिभ्यः । एष ह्येवैनं साधुकर्म कारयतीति सर्वकर्मणामीशाधीनत्वोक्तेः । प्रदर्शक-स्त्वित्यनुकूलस्मृतेः एष स्वप्नान्दर्शयतीति शब्दात् । आत्मानमेवेत्युपासनाविधेश्चेत्यर्थः । नन्वीशान्तरसत्वेऽप्येषः स्वप्नान्दर्शयतीति श्रुतेः सावकाशत्वात्कथं विवक्षितार्थसाधकत्वमित्यत आह ।। अवधारणस्य चेति ।। एष एव परमानन्द इति श्रुतस्यावधारणस्य एष स्वप्नान्दर्शयत्येष प्रबोधयतीत्यत्राप्यन्वयेन विवक्षितार्थस्य भगवत एव सर्वावस्थाप्रेरकत्वस्य सिद्धेरित्यर्थः । ननु परमात्मन एवोपास्यत्वविधानेऽप्यवस्थानां भगवदधीनत्वं कुत इत्यत आह ।। अन्यस्यापीति ।। अन्यस्याप्यवस्थाप्रेरकत्वे तस्याप्युत्तमत्वेनोपास्यत्वप्राप्त्या आत्मानमेवेत्यवधारणं नोपपद्यत इति भावः । ननु सौत्रश्चशब्दः किमर्थः समुच्चयार्थस्यावधारणविरुद्धत्वादित्यत आह ।। चशब्द इति ।। ईशान्तरकल्पनारूपपक्षान्तरेत्यर्थः । किमिदं स्मृतेरनुसारित्वमित्यत आह ।। स्फुटमिति ।।
।। इति कर्मानुस्मृत्यधिकरणम् ।। ६ ।।