ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ
२. अथ न विलक्षणत्वाधिकरणम्
सूत्रभाष्यम्
। ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ।। ४ ।।
नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामाण्यम् । विलक्षणत्वात् । नित्यत्वात्तदनु-सारित्वाच्च । न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रामाण्यम् । अन्यथाऽनवस्थितेः । ‘न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदा ह्येवैनं वेदयन्ति’ इति भाल्लवेयश्रुतेश्च । नित्वत्वं च शब्दादेव प्रतीयते ‘वाचा विरूप नित्यया’ (ऋ.मं.८-६४-६) इत्यादेः । ‘अनादिनिधना नित्या’ इति च स्मृतिः ।
सत्तर्कदीपावली
पशुपत्यादिकृतागमस्य तु विप्रलम्भादिकर्तृदोषसम्भवेनापि यथोक्तफलादर्शनोपपत्तेः । स प्रतिबन्धककर्मादिनेवेति निश्चेतुं शक्यत्वात् । तदाह न विलक्षणत्वादित्यादिना । ननु जगज्जन्मादि-कारणे नारायणे नित्यस्यापि निखिलवेदस्य प्रामाण्यं न युज्यते । प्रमाणान्तरसंवादाभावादित्यत आह स्वतश्चेत्यादिना ।। प्रमाणस्य प्रमाणान्तरसंवादेनैव प्रामाण्ये संवादकप्रामाण्यस्यापि प्रमाणान्तरसंवादेनैव प्रामाण्यम् । तस्यापि प्रमाणान्तरसंवादेनैव प्रामाण्यमित्यनवस्था स्यात् । अतः प्रामाण्यं स्वत एवेत्यङ्गीकर्तव्यमित्यर्थः । संवादनिरपेक्षाणामेव वेदानां विष्णुबोधकत्वं श्रुत्या साधयति ।। न चक्षुरिति ।।
तत्त्वप्रदीपिका
परसमयसाधारणसमीरितमेतमेव दोषं स्वसमयेऽपि समानं समाशङ्क्यमानमपनोनुद्यते । ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ । न चेतरस्मृतिवद्वेदस्योक्तफलोपलम्भ एव प्रामाण्यम् । नित्यत्वात् । पुंवाक्ये विप्रलम्भादिदोषाः सम्भवन्ति । न नित्यवाक्ये ते कल्प्याः । प्राप्त्यभावात् । नित्यवाक्यप्रामाण्यानङ्गीकारे धर्माधर्माद्यसिद्धिरिति चावादिष्म । स्वतश्च प्रामाण्यमङ्गीकर्तव्यम् । परतश्चेत्तस्यापि परत इत्यनवस्था । न च नित्यप्रमाणस्य प्रामाण्यं परतो भवितुमर्हति । कदाचिदप्रामाण्ये सदा तथात्वप्रसङ्गात् । ननु स्वतः प्रामाण्यवादिनामपि वेदे दोषाभावः प्रमाणान्तराज्ज्ञायते । तदप्यदोषमेव दोषाभावे प्रमाणम् । तददोषत्वमन्यसाध्यमित्यनवस्था तत्रापि तुल्येति । नायं दोषः । साक्ष्यवधित्वाद्दोषशङ्कायाः । यत्र हि साक्षी निर्दोषत्वं निश्चिनोति, न तत्र दोषशङ्का स्यात् । न च साक्षिणो दोषः कल्प्यः । तदनुभूतस्यानन्यथात्वनियमा । अन्यथा प्रमाणाप्रमाणविवेकाभावप्रसङ्गात् । न च साक्षिनिर्दोषत्वज्ञानं मानान्तरापेक्षम् । स्वसंवेद्यत्वात्तस्य । तस्मान्नास्मत्पक्षेऽनवस्था ।
नन्वस्मत्पक्षेऽपि प्रामाण्यशङ्कानुत्पत्तौ न मानान्तरापेक्षेति नानवस्थेति चेत्किमाशङ्कानिवारकम् ? यथा शङ्क्या व्याहतिः स्यात्सा नैवोत्पद्यते, तस्माद्व्याघातो निवारकः, तदवधिरेवाऽशङ्का स्यात्, अतः परतः प्रामाण्येऽपि नानवस्थेति चेदेवं तर्हि व्याघातानुभवस्य स्वतः प्रामाण्यमिष्टम् । अतस्तस्य साक्षिणः स्वप्रामाण्य एव सर्वव्यवहारावस्थितिः तद्वद्वेदस्यापि स्वप्रामाण्यं स्थितम् । स्वतःप्रामाण्यं च शब्दात्प्रतीयते न चक्षुरित्यादेः । नित्यत्वं च ‘तस्मै नूनम्’ इत्यादेः । हे विरूप तस्मा अभिद्यवे सुष्टुतिं चोदस्व । अभितो द्योतत इत्यभिधुः । वृषा श्रेष्ठः । सुष्ठु स्तुतिं प्रति प्रेरयेति प्रार्थनं विरूपस्य ऋषेरन्तर्यामिविषयं भवति । ‘ऋचः सामानि जज्ञिर’ इत्यादिशब्दादुत्पत्तिमत्त्वमाशङ्क्याह ।। अनादिनिधनेत्यादि ।। अनादिनिधनत्वेन नित्या, नत्वनिधनत्वमात्रेण ।
तत्त्वप्रकाशिका
अत्र विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रामाण्यस्य युक्तिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । श्रुत्यादिप्रामाण्याद्विष्णोर्जगत्कारणत्वं सिध्यतीत्युक्तम् । श्रुत्यादिप्रामाण्यस्य च युक्तिविरोधे न ब्रह्मणो जगत्कारणत्वसिद्धिः । अतोऽसौ परिहर्तव्य एव । श्रुत्याद्येव विषयः । प्रमाणं न वेति सन्देहः । उभयविधवाक्योपलब्धिः सन्देहबीजम् । श्रुत्यादिकं न प्रमाणमिति पूर्वः पक्षः । ‘कारीर्या यजेत वृष्टिकामः’ इत्यादिश्रुतेः कारीर्याद्यनुष्ठानेऽपि वृष्ट्याद्यदृष्ट्याऽविद्यमानार्थाभिधायकत्वात् । तथा स्मृतीनामप्यनुपलभ्यमानफलाभिधायकत्वेनाविद्यमानार्थत्वात् । अविद्यमानाभिधायकानां च पाशुपतादिस्मृतिवदप्रामाण्यनियमात् । अविद्यमानाभिधात्रीणामपि श्रुतिस्मृतीनां प्रामाण्ये अन्य-स्मृतीनामपि तत्प्रसङ्गात् । न ह्यविद्यमानाभिधायकत्वसाम्येऽपि श्रुत्यादेरेव प्रामाण्यं नान्यस्येति विभागे हेतुरस्ति । एवं च वेदाद्येकदेशस्याप्रामाण्येऽन्यदेशप्रमाणतायामनाश्वासान्न विष्णो-र्जगत्कारणत्वसिद्धिरिति । सिद्धान्तयत्सूत्रमुपन्यस्य प्रतिज्ञांशं तावद्व्याचष्टे ।। नेति ।। अस्य श्रुत्यादेस्तथात्वं पाशुपतादिस्मृतिवदुक्तानुपलब्धिहेतुना नाप्रामाण्यं कल्प्यमिति भावः । तत्र हेत्वा-काङ्क्षायां सौत्रं हेतुमुपन्यस्य व्याचष्टे ।। विलक्षणत्वादिति ।। श्रुतेः पाशुपतादिस्मृतितो नित्यत्वाख्यवैलक्षण्यात्स्मृतेस्तदनुसारित्वाख्यवैलक्षण्यान्न पाशुपतादिस्मृतिवत् श्रुत्यादेरप्रामाण्य-मित्यर्थः ।
ननु नित्यत्वादिसद्भावेऽपि कुतोऽप्रामाण्याभाव इत्यत आह ।। न हीति ।। वाक्याप्रामाण्यं तावद्वक्तृदोषनिबन्धनम् । न हि नित्ये वेदे ते दोषाः कल्पयितुं शक्यन्ते । यतो नित्यत्वाददोषत्वं ततोऽप्रामाण्याभावः श्रुतेः सिध्यति । प्रमाणानुकूलत्वात्स्मृतेरपि तत्सिद्धिरिति भावः । फलव्यभिचारेऽपि न पाशुपतादिस्मृतिवद्वेदादेरप्रामाण्यमित्यत्रोक्तवैलक्षण्याख्यं हेतुं प्रकारान्तरेण व्याचष्टे ।। स्वतश्चेति ।। भवेदुक्तानुपलब्ध्या वेदाद्यप्रामाण्यकल्पनं यदि पाशुपतादिस्मृतिवत्फलोपलब्ध्यादि संवादाधीनज्ञानं तत्प्रामाण्यं स्यात् । नैतदस्ति । वेदादिप्रामाण्यस्य संवादनिरपेक्षतज्ज्ञानादेव सिध्द्यङ्गीकारात् । न हि निर्दोषतदनुसारितत्स्वरूपग्रहे पुनः प्रामाण्योपलब्ध्यै संवादसापेक्षताऽनुभूयते । न च पाशुपतादिस्मृतीनामपि तथात्वं वाच्यम् । निर्दोषत्वाद्यनिश्चयादिति भावः । प्रामाण्यं संवादाधीनज्ञानमेव किं न स्यादित्यत आह ।। अन्यथेति ।। यदि प्रामाण्यं संवादादेव ज्ञायते तर्हि संवादकप्रामाण्यमपि संवादान्तरेण ज्ञायते स्वत एव वा । आद्ये तदप्येवमित्यनवस्था स्यात् । द्वितीये परम्पराकल्पनं व्यर्थं स्यात् । आद्यप्रामाण्यस्यैव स्वतस्त्वाभ्युपगमोपपत्तेरिति भावः । कदाचित्प्रामाण्य- जिज्ञासायामेव संवादापेक्षणान्नानवस्थेति चेन्मैवम् । प्रामाण्याध्यवसायं विना प्रवृत्त्यनुपपत्त्या तज्जिज्ञासाध्रौव्यात् । फलसन्देहेऽपि कृष्यादौ प्रवृत्तिर्दृश्यत इति चेत्सत्यम् । सापि न निःशङ्का । यावच्छङ्कमेव संवादापेक्षणान्नानवस्थेति चेत्तत्र वक्तव्यम् । किं शङ्का सर्वत्रानुवर्तते क्वचिन्नोत्पद्यत एव वा । आद्ये कथमनवस्थाऽभावः । द्वितीयो निरस्तप्रायः । अपि च संवादकमप्रामाण्यशङ्कां निवर्तयति प्रामाण्यं ज्ञापयति वा । आद्ये प्रामाण्यस्य स्वतस्त्वप्राप्तिः । द्वितीये शङ्काभावेऽपि संवादापेक्षा स्यात् । संवादकमुभयत्रापि प्रवर्तत इति चेन्न । कल्पकाभावात् । बाधकवदुभयत्र व्यापारः किं न स्यादिति चेन्न । अप्रामाण्यशङ्काशून्यस्य प्रामाण्यज्ञाने संवादनिरपेक्षत्वात् । बाधकेन विना निवृत्ताप्रामाण्यशङ्कस्याप्यप्रामाण्यबुध्द्यनुदयानुभवात् । यदपि प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवदिति । तदप्युक्तप्रतिकूलतर्कपराहतमनुकूलतर्कपराहतमनुकूलतर्कशून्यं च । संशयस्य च दोषादेवोपपत्तेः । स्वतस्त्वेनाभ्युपगतोपमानानुमानप्रामाण्येऽपि संशयदर्शनाच्च । अनभ्यासदशायामपि सन्देहाभावस्यापि दर्शनाच्चेत्यलम् ।
वेदस्य स्वतःप्रामाण्ये सूत्रसूचितां श्रुतिं चाह ।। नेति ।। अत्र चक्षुरादीनां परमात्मा-प्रमापकत्वमुक्त्वा वेदस्यैव तत्प्रमापकत्वोक्तेः संवादानपेक्षतया प्रामाण्यमित्युक्तं भवति । वेदस्य नित्यत्वं कुत इत्यत आह ।। नित्यत्वं चेति ।। अनेन तथात्वमित्युभयतः सम्बध्यत इत्युक्तं भवति । तस्मै सर्वतः प्रकाशायातिसमर्थाय विष्णवे नित्यया वेदवाचा साध्वीं स्तुतिं प्रेरय कुर्वित्यर्थः । विरूपेति स्वात्मानं प्रतिसम्बोधनम् । बहुकालीनत्वमात्रेण नित्यत्वोपचारः किं न स्यादित्यत आह ।। अनादीति ।। अनादिनिधनतया नित्या न तु बहुकालीनतामात्रेण नित्यत्वोपचार इत्यर्थः । न च वाच्यं वेदप्रामाण्ये विवदमानं प्रति कथं तत्प्रामाण्योपपादनायोपन्यस्तयोर्नित्यत्वस्वतःप्रामाण्ययोः साक्षितया श्रुत्युपादानं युक्तमिति । परेणापि फलव्यभिचारेणाप्रामाण्ये वेदस्यापि तत्प्रसङ्ग इत्यापादन-मात्रस्य क्रियमाणत्वात् । युक्तेश्चोपन्यस्तत्वात् ।
गुर्वर्थदीपिका
संवादनिरपेक्षतज्ज्ञानादेवेत्यत्र तज्ज्ञानपदेन निर्दोषतया वेदस्वरूपज्ञानं निर्दोषवेदानुसारितया स्मृतिस्वरूपज्ञानं चोच्यते । शङ्काभावेऽपि संवादापेक्षा स्यादित्यत्र न चेष्टापत्तिः स्वकरतल-स्थितरेखाज्ञानप्रामाण्यग्रहणे तदनपेक्षणस्य सर्वानुभवसिद्धत्वादित्युपस्कर्तव्यम् । संवादकमुभय-त्रापि प्रवर्तत इत्यत्रोभयत्र शङ्कानिवृत्तौ तदुत्तरकालीनप्रामाण्यज्ञाने चेत्यर्थः । परस्याभिमत-शङ्कारहितस्थले तु निःशङ्कार्थनिश्चयादेव प्रवृत्त्युपपत्तेः प्रामाण्यज्ञानमपेक्षितमेव न । अतो नानवस्था । नापि प्रामाण्यस्य स्वतस्त्वमिति भावः । कल्पकाभावादित्यस्येदृशस्थलेऽपि लाघवादप्रामाण्यशङ्कानिवृत्तिकारणत्वेनैव चरितार्थत्वे प्रामाण्यज्ञानं प्रत्यपि कारणत्वे कल्पका-भावादित्यर्थः । बाधकवदुभयत्र व्यापार इत्यत्र बाधकवत् नेदं रजतमिति बाधकज्ञानवत् । यथा नेदं रजतमिति बाधकज्ञानं रजतज्ञाने प्रामाण्यशङ्कां निवर्तयति, अप्रामाण्यज्ञानं च जनयति । तथोभयत्र प्रामाण्यशङ्कानिवृत्तौ प्रामाण्यज्ञाने च । बाधकं विनाऽप्रामाण्यबुद्धेः क्वाप्यनुदयस्य सर्वानुभवसिद्धत्वात् । अस्तु वा बाधकज्ञानस्योभयत्र कारणता, बाधकज्ञानं विना रजतत्वा-भावोपनायकाभावेन बहिरस्वतन्त्रेऽप्रामाण्यग्राहके साक्षिणि बाधकान्वयव्यतिरेकयोः सत्त्वात् । अत एवाप्रामाण्यग्रहस्य परतस्त्वम् । बाधकज्ञानात्प्राक् साक्षिणा रजतज्ञानग्राहिणाऽपि तदप्रामाण्याग्रहणात् । यदि च दोषप्रतिरुद्धः साक्षी प्राक् न गृह्णातीति वदसि तर्हि दोषशङ्का-निवृत्त्युत्तरकालं अप्रामाण्याश्रयेण तेनैव ज्ञानेनोपनीतमप्रामाण्यं गृह्णीयात् । न च तद्युक्तम् । रजतत्वाभावघटिताप्रामाण्यस्योपनायकान्तरं विना ग्रहणासम्भवात् । स्वकरतलस्थितामलक-ज्ञानप्रामाण्यस्य तेनैव व्यवसायेनोपनीतत्वात् विनैव संवादं सर्वैरनुभूयमानत्वेन तद्व्यतिरेके तद्व्यतिरेकादर्शनात् नात्रापि कारणतेत्याह ।। अप्रामाण्यशङ्काशून्यस्येत्यादि ।। अनभ्यास-दशायामपि सन्देहाभावस्येत्यत्र तदानीं कुम्भकारानीतघटे इत्युपस्कर्तव्यम् । ‘दिवु क्रीडा-विजिगीषा’ इति धातोरभितः द्यवे इत्यस्य फलितार्थकथनं अतिसमर्थायेति ।। तस्यैवार्थान्तर-कथनं सर्वतः प्रकाशायेति । वृष्णे इत्यस्यार्थकथनं विष्णव इति ।। पूष्णे इतिवदयं शब्दो ज्ञातव्यः । आपादनमात्रस्येत्यत्र कापिलपाशुपतादिभिरपि वेदप्रामाण्यस्याङ्गीकृतत्वात्तान्प्रति तदुपन्यासस्यादोषत्वादिति भावः । ‘स्वतश्च प्रामाण्यम्’ इत्यत्र स्वतः आप्तोक्तत्वगुणरूप-परमुखनिरीक्षणं विना नित्यत्वाख्यस्वभावादेव वेदस्य प्रामाण्यम् । अन्यथाऽनवस्थानात् । धर्माधर्मव्यवस्थानादिति भाष्यवाक्यस्यार्थान्तरमभिप्रेत्योक्तम् ।। युक्तेश्चोपन्यस्तत्वादिति ।। अन्यत्र स्वकृतग्रन्थान्तरे उपन्यस्तत्वादित्यर्थः । ग्राहकपरम्परयाऽनवस्थानस्य स्वतस्त्वसम्पादक-त्वेऽपि नित्यत्वे इयमेव युक्तिरनुसन्धेयेति भावः ।
भावबोधः
‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः’ इत्यनुव्याख्यानानुसारेणाधिकरणोपाधिमाह– युक्ति- विरोधपरिहारादिति ।। श्रुत्यादिप्रामाण्यस्य च युक्तिविरोध इति ।। अनेन ‘इतरेषामनुपलब्धेः’ इत्युक्तसिद्धान्तन्यायेनात्र पूर्वपक्षोत्थानादनन्तरसङ्गतिः सूचिता भवति ।। प्रमाणं न वेति ।। अत्र श्रुत्यादिप्रामाण्याद्विष्णोर्जगत्कारणत्वं सिध्यतीति वाक्यसूचितश्रुत्यादिसमन्वयेनोक्तं विष्णोः कारणत्वादि न युक्तमुत युक्तमिति प्रधानचिन्ता द्रष्टव्या । तदर्थं श्रुत्यादिकमप्रमाणमुत प्रमाण-मिति । तदर्थं ‘वृष्टिकामः कारीर्या यजेत’ इत्यादिवेदवाक्यं किं युक्तिविरुद्धं भवत्युत नेति । तदर्थं वेदाद्युक्तकारीर्याद्यनुष्ठानेऽपि वृष्ट्यादिफलानुपलब्धिर्वेदाद्यप्रामाण्यनिबन्धनोत कतृवैगुण्यादि-निबन्धन इति । तदर्थं वेदादिप्रामाण्यं किं पाशुपतादिस्मृतिवत् फलसंवादाधीनज्ञानमुत स्वत इति । तदर्थं वेदादेर्निर्दोषप्रमा न सम्भवत्युत सम्भवतीति । तदर्थं वेदापौरुषेयत्वादौ प्रमाणं नास्त्युतास्तीति । एवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामाण्यमिति भाष्याभिप्रायमाह ।। कारीर्येत्यादिना ।। भाष्यगतैवंशब्दार्थः पाशुपतादिस्मृतिवदिति । अनेन रुद्रादिस्मृतिसाम्यमिति न्यायविवरणमपि व्याख्यातं भवति । नैवमित्यादिभाष्यस्यास्य न तथात्वमिति सौत्रप्रतिज्ञा-व्याख्यानरूपत्वं दर्शयति अस्य श्रुतेरित्यादिना । अनेनान्यस्मृतीत्युक्तश्रुत्यनुसारिपञ्चरात्रादि-स्मृतिस्तत्सन्निधापिता श्रुतिश्च सूत्रेऽस्येति परामृश्यते । ‘इतरेषां चानुपलब्धेः’ इति सूत्रोक्तं ‘तथात्वम्’ इत्यनेन परामृश्यत इत्युक्तं भवति । ‘नित्यत्वात् पुरुषोद्भवैः । वर्जितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ।’ इत्यनुव्याख्यानानुसारेण भाष्याभिप्रायमाह ।। वाक्याप्रामाण्यमिति ।। प्रमाणानुकूलत्वादिति ।। अनेन भाष्ये ‘नित्यः’ इत्यनन्तरं ‘तदनुसारिणि च’ इति पूरितं भवति । किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वादिति न्यायविवरणानुसारेण भाष्याभिप्रायमाह– वेदादिप्रामाण्यस्येत्यादिना ।।
ननु यथार्थज्ञानजनकत्वरूपवेदप्रामाण्यस्य ज्ञानादेव सिद्धिः कथमित्यत आह ।। न हीति ।। करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियत इति सुधोक्तरीत्या करणप्रामाण्यस्य परतस्त्वपक्षे निर्दोषत्व तदनुसारित्वाभ्यामेव यथार्थज्ञानजनकत्वरूपप्रामाण्यानुमानं न संवादेनेत्यर्थः । तेषामपि ज्ञान-जनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति सुधोक्तरीत्या स्वतस्त्वे तु निर्दोषतदनुसारिज्ञानजनकस्वरूपग्रहे यथार्थज्ञानजनकत्वरूपप्रामाण्योपलब्धौ संवादा-पेक्षा नास्तीत्यर्थः ।। सापि न निश्शङ्केति ।। तथा च प्रामाण्याध्यवसायस्य निःशङ्कप्रवृत्तिं प्रत्येव हेतुत्वेन न व्यभिचार इति भावः ।। क्वचिन्नोत्पद्यत एवेति ।। व्यासङ्गकोटिस्मरणाभावादिनेति शेषः ।। द्वितीयो निरस्तप्राय इति ।। ज्ञानस्याबुभुत्सितग्राह्यतया तीव्रसंवेदनत्वेन ज्ञाते च तस्मिन् प्रामाण्याप्रामाण्यानुपलब्धौ निःशङ्कप्रवृत्तेः प्रामाण्याध्यवसायसाध्यत्वेन तदर्थं प्रामाण्यरूपविशेष-जिज्ञासाध्रौव्ये तत एव व्यासङ्गकोटिस्मरणाद्यसम्भवेन शङ्काया आवश्यकत्वादिति भावः ।। बाधकवदुभयत्रेति ।। यथा बाधकस्य प्रामाण्यशङ्कानिरासा प्रामाण्यज्ञापनयोर्व्यापारस्तथा संवादस्याप्रामाण्यशङ्कानिरासप्रामाण्यज्ञापनयोर्व्यापारः किं न स्यादित्यर्थः ।। अप्रामाण्यशङ्का-शून्यस्येति ।। सुखादिज्ञानेऽप्रामाण्यशङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यस्यानुभूयमानत्वेन व्यतिरेकव्यभिचारान्न संवादस्य प्रामाण्यज्ञापने व्यापार इत्यर्थः । बाधकेन विनेति । तथा चानन्यथासिद्धान्वयव्यतिरेकाभ्यां बाधकस्याप्रामाण्यज्ञापने व्यापार इति भावः । प्रामाण्यस्य स्वतस्त्वे तत्संशयानुपपत्तेर्बाधकस्य सत्त्वात् कथमनुकूलतर्कशून्यत्वमित्यत आह ।। संशयस्य च दोषादेवेति ।। संशयदर्शनाच्चेति ।। तथा चानुभवसिद्धतत्संशयोपपत्तिवदत्रापि तदुपपत्तिरिति भावः ।। अनभ्यासदशायामपीति ।। प्रत्यग्रोत्पन्नसुखादिस्थल इत्यर्थः । तथा च भागासिद्धो हेतुरिति भावः ।। स्वतःप्रामाण्ये सूत्रसूचितामिति ।। अनेन ‘तथा त्वं’ च स्वतःप्रामाण्यलक्षणवैलक्षण्यं ‘च’ शब्दान्न चक्षुरिति श्रुतेरिति सूत्रांशो भाष्येण व्याख्यात इत्युक्तं भवति ।। अनेनेति ।। नैवं तदुक्तानुपलब्धेरप्रामाण्यमिति व्याख्याय नित्यत्वरूपविलक्षणत्वं ‘च’शब्दादिव्याख्यानेनेत्यर्थः । ‘अभिद्यव’ इत्यस्यार्थः सर्वतः प्रकाशायेति ।। ‘वृष्ण’ इत्यस्यार्थो अतिसमर्थायेति ।। अनादि-निधनतयेति ।। अन्यथा पुनरुक्तिः स्यादिति भावः ।। श्रुत्युपादानमिति ।। स्वतःप्रामाण्य-नित्यत्वयोः सिद्धौ वेदप्रामाण्यसिद्धिः । तत्सिद्धौ च प्रमाणभूतवेदेन तत्सिद्धिरित्यन्योन्याश्रय इत्यर्थः । प्रकारान्तरेणान्योन्याश्रयं परिहरति ।। युक्तेश्चेति ।। भाष्ये आप्त्यनिश्चयान्नित्यत्वापेक्ष-त्वाच्च मूलप्रमाणस्येति देवताधिकरणे वेदनित्यत्वेऽन्यथानवस्थितेरित्यत्र प्रामाण्यस्वतस्त्वे च युक्ते-श्चोपन्यस्तत्वादित्यर्थः । तथा च युक्तिसिद्धार्थे श्रुतेः संवादित्वेनोपन्यासान्नान्योन्याश्रय इति भावः ।
यद्वा वेदाप्रामाण्यवादिनोऽप्यत्र पूर्वपक्षित्वे तं प्रत्याह– युक्तेश्चेति ।। तथा च तं प्रत्युपन्यस्त- युक्त्यैव वेदे नित्यत्वादिप्रसाधनं न श्रुत्येति नान्योन्याश्रयप्रसङ्ग इति भावः ।
भावदीपः
उक्तेति ।। शास्त्रयोनिसूत्र इत्यर्थः ।। युक्तीति ।। तदुक्तानुपलब्धेरप्रामाण्यमिति भाष्ये वक्ष्यमाणयुक्तीत्यर्थः । अत्र विष्णोरित्युक्त्या शास्त्रे युक्तीत्युक्त्या पादे विरोधेत्याद्युक्त्याऽध्याये च सङ्गतिरुपपादिता बोध्या । एवमग्रेऽपि । पूर्वसङ्गतिमाह ।। श्रुत्यादीति ।। न ब्रह्मण इति विच्छेदः । सौत्रतथात्वपदेन प्राक्तनसाध्यहेत्वोरपि स्मृत्यप्रामाण्यरूपदृष्टान्तस्य च परामर्श इति भावेन प्रवृत्तमेवमित्याद्यप्रामाण्यमित्यन्तभाष्यमाकाङ्क्षाक्रमेण व्यनक्ति ।। श्रुत्यादिकमिति ।। श्रुतेरित्येतद्व्यनक्ति ।। कारीर्येति ।। तदनुसारिस्मृतेश्चेत्येतद्व्याचष्टे ।। तथेति ।। पाशुपतादिस्मृति-वदित्यर्थकैवंशब्दार्थं व्यनक्ति ।। अविद्यमानेति ।। अप्रयोजकत्वनिरासाय विलक्षणत्वादिति हेतुव्यावर्त्यं श्रुतेः रुद्रादिस्मृतिसाम्यमित्यन्यत्रोक्तं व्यनक्ति ।। अविद्यमानेति ।। श्रुतेरित्युपलक्षणं मत्वा श्रुतिस्मृतीनामित्युक्तम् । अस्त्वेवं दृष्टार्थकभागस्य, ‘यतो वा’ इत्याद्यदृष्टार्थकभागस्य किमायातमित्यत आह ।। एवं चेति ।। तत्सामान्यादितरेषु तथात्वमिति जैमिनीयन्यायादिति भावः । व्याख्येयसौत्रपदानि दर्शयन् भाष्यं व्याचष्टे ।। अस्येति ।। श्रुत्यादेरित्युक्त्या भाष्य-दिशा अस्या इत्युक्तिः स्यादिति प्रत्युक्तम् । एवमित्यस्यार्थः पाशुपतादिस्मृतिवदिति । श्रुते-रित्यनेन भाष्ये श्रुतिस्मृतिपदे यथायोगमत्राप्यन्वीयेते इति दर्शितम् । एतेन किन्तु साक्षि-प्रत्यक्षसाम्यमेव निरपेक्षत्वादिति न्यायविवरणस्थवाक्यशेषः । कर्तृनिरपेक्षत्वान्नित्यत्वेन साक्षि-साम्यमिति विवृतो भवति ।। वक्तृदोषेति ।। ‘नित्यत्वात्पुरुषोद्भवैः । उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत्’ इत्यनुभाष्योक्तेरिति भावः । एतेन वेदा ‘नित्यत्वान्मानमुत्तमम्’ इत्यणुभाष्यमपि स्मृत्युपलक्षणतया व्याख्यातं ध्येयम् । श्रुतेरित्यादिन्यायविवरणस्थमाद्यं साम्यपदं संवादाधीन-ज्ञानप्रामाण्यरूपसाम्यपरम् । द्वितीयं तु तदनधीनसिद्धिकप्रामाण्यरूपसाम्यपरमिति प्रकारान्तरेण तद्वाक्यं विवृण्वानो भाष्यं व्याचष्टे ।। भवेदिति ।। स्वतःशब्दार्थः ।। संवादनिरपेक्षतज्ज्ञाना-देवेति ।। वेदादिस्वरूपज्ञानादेवेत्यर्थः । एतेन निरपेक्षत्वादित्यन्यत्रोक्तो हेतुः संवादनिरपेक्ष-त्वादिति विवृतः ।। तत्तत्स्वरूपेति ।। वेदादिस्वरूपेत्यर्थः । उत्पत्तौ प्रामाण्यस्वतस्त्वस्य देवतानये स्वतः प्रामाण्यप्रसिद्धेश्चेति भाष्ये व्युत्पादितत्वादुत्तरहेत्वनुरोधेन ज्ञप्तौ स्वतस्त्वपरत्वेनैव भाष्यं व्याख्यातम् । न चैवं करणप्रामाण्यज्ञप्तिस्तु परत एवेन्द्रियलिङ्गशब्दानां यथायथमनुमान-प्रत्यक्षादिवेद्यत्वात् यथार्थज्ञानसाधनत्वस्य त्वनुमानवेद्यत्वादिति पद्धतिवाक्येन ‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’ इत्यनुव्याख्यानव्याख्यावसरोक्तेन करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियत एवेत्यादिसुधावाक्येन च विरोध इति वाच्यम् । इहापि प्रामाण्यग्रहे संवादा-नपेक्षतायामेव तात्पर्येण करणस्वरूपग्राहकेणैव तत्प्रामाण्यग्रह इत्यत्र तात्पर्याभावात् ।
यद्वा अन्यत्र शक्तिशक्तिमतोर्भेदमुपेत्य स्वरूपग्राहकाग्राह्यत्वरूपपरतस्त्वोक्तावपि इहाभेद-मुपेत्य स्वरूपग्राहकमेव ज्ञानजनकशक्तिग्राहकम् । तदेव च प्रमाजनकशक्तिरूपप्रामाण्यग्राहक-मिति भावेन संवादनिरपेक्षतज्ज्ञानादेवेत्याद्युक्तम् । ज्ञानजनकशक्तिग्राहकमात्रग्राह्यत्वरूपप्रमा-जननशक्तिरूपप्रामाण्यस्वतस्त्वं तु ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वरूप-प्रामाण्यस्य तदीयस्य ग्राह्यत्वरूपं स्वतस्त्वमिति सुधोक्त्यानुमतमेवेति भावः । प्रामाण्यनिश्चयं विनापि प्रवृत्तिदृष्ट्या प्रामाण्यजिज्ञासोपपत्तौ नानवस्थेति भावेन शङ्कते ।। फलेति ।। सापीति ।। तथा च बह्वायाससाध्ये कर्मणि निश्शङ्कं प्रवृत्तये निश्चयोऽपेक्षित एवेत्यनवस्थैवेति भावः ।। निरस्तप्राय इति ।। प्रामाण्याग्रहणे शङ्काया आवश्यकत्वादिति शेषः ।। स्वतस्त्वेति ।। बुद्धिदोषनिरासमात्रकारणत्वाद्युक्तीनामिति तत्वनिर्णयोक्त्या संवादकस्यान्यत्रोपयोगे तदनपेक्ष-ज्ञानग्राह्यत्वस्य प्राप्तेः स्वतस्त्वप्राप्तिरित्यर्थः ।। शङ्काभावेऽपीति ।। अप्रामाण्यशङ्कानिवृत्ता-वपीत्यर्थः ।ननु यथा विसंवादादिरूपबाधकस्य प्रामाण्यशङ्कानिरासाप्रामाण्यज्ञानयोः व्यापारस्तदन्वय-व्यतिरेकानुविधायित्वहेतुना कल्प्यते । तथेहापि तेनैव हेतुना कल्प्यतामिति शङ्कते ।। बाधक-वदिति ।। बाधकेऽव्यभिचरितान्वयव्यतिरेकाभ्यां तथा कल्पनेऽपि नेह तथा । सुखादिज्ञाने स्वत एव निवृत्ताप्रामाण्यशङ्कस्य प्रामाण्यज्ञानोदयेन व्यतिरेकव्यभिचारादिति भावेनाह– अप्रामाण्येति ।। अप्रामाण्यज्ञप्तौ बाधकस्य व्यतिरेकव्यभिचारो नेत्याह ।। बाधकेनेति ।। उक्तेति ।। अनवस्था-रूपेत्यर्थः ।। अनुकूलेति ।। अस्तु संशयविषयत्वं मास्तु परतो ज्ञेयत्वमित्यत्र बाधकाभावादिति भावः । धर्मिग्राहकेण तत्प्रामाण्याग्रहणे स्वतस्त्वभङ्गापत्या प्रामाण्यग्रहणावश्यम्भावे विशेष-दर्शनात्संशयानुपपत्तिरेवानुकूलतर्क इत्यत आह ।। संशयस्य चेति ।। यथा परमते जाति-व्यक्त्योरेकवित्तिवेद्यत्वनियमेऽपि इदमिति शुक्तिज्ञाने सत्यपि सादृश्यादिदोषवशाच्छुक्तित्वाज्ञाने-नेदं रूप्यमित्यादिभ्रमस्तथेहापि धर्मिज्ञाने सत्यपि तत्र तात्पर्यभ्रमादिजन्यत्वादिशङ्कारूपदोष-वशात्प्रामाण्याग्रहणोपपत्त्या संशयोपपत्तेरित्यर्थः । प्राचीनतार्किकमतावष्टम्भेनाह ।। स्वत-स्त्वेनेति ।। बौद्धचार्वाकादिविप्रतिपत्त्याऽनुमानप्रामाण्येऽपि संशयदर्शनादित्यर्थः ।
यद्वा लिङ्गादिज्ञानप्रामाण्यसन्देहे न तज्जन्यानुमितिसंशयदर्शनादित्यर्थः । हेतोर्भागासिद्धिं चाह ।। अनभ्यासेति ।। इत्यलमिति ।। विस्तरस्तु तर्कताण्डवे । भाष्ये श्रुतेश्चेत्यस्य स्वतश्च प्रामाण्यमिति साध्येनान्वयं दर्शयन्नाह ।। वेदस्येति ।। स्वतः संवादानपेक्षज्ञानग्राह्येत्यर्थः ।। श्रुतिं चेति ।। तेन भाष्ये श्रुतेश्चेति चशब्देनानवस्थितेरित्युक्तहेतुसमुच्चय इति सूचितम् । तथात्वं च शब्दादिति सूत्रखण्डस्यैकमर्थमुक्त्वार्थान्तरोक्तिपरं भाष्यं नित्यत्वं चेत्यादि । तद्व्याचष्टे ।। वेदस्य नित्यत्वमिति ।। ननु पूर्वं तथात्वमित्यस्याप्रामाण्यमित्यर्थं मत्वा पूर्वान्वितत्वेन भाषित-त्वात्स्वतश्च प्रामाण्यमिति नित्यत्वं चेति च कस्यार्थ इत्यत आह ।। अनेनेति ।। स्वत-श्चेत्यादिभाष्येणेत्यर्थः । ‘तस्मै नूनमभिद्यवे वाचा विरूपनित्यया’ । ‘वृष्णे चोदस्व सुष्टुतिम्’ इति समग्रमन्त्रार्थमाह ।। तस्मा इति ।। अभिद्यवे सर्वतः प्रकाशाय । वृष्णे अतिसमर्थाय । चोदस्व प्रेरय । स्वात्मनोऽन्यस्याभावादाह ।। कुर्वित्यर्थ इति ।। कस्यचिदृषेर्नाम विरूपेति । अपौनरुक्त्याय हेतुहेतुमद्भावेन व्याचष्टे ।। अनादिनिधनतयेति ।। आद्यन्तशून्यतयेत्यर्थः । भाष्ये यथासूत्रं न चक्षुरित्यादिशब्दमात्रे वाच्येऽनवस्थितेरित्युपलक्षणतया युक्तेरप्युक्तेरुपयोगं वक्तुं शङ्कामाह ।। न च वाच्यमिति ।। विवदमानमितिपाठः साधुः । भासनोपसम्भाषाज्ञान-यत्नविमत्युपमन्त्रणेषु वद इत्यात्मनेपदविधानात् । विवदन्तमितिपाठे तु ‘चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्’ इत्युक्तेः परस्मैपदं समाधेयम् ।। आपादनेति ।। अन्यहेतुकस्याप्रामाण्यस्या-भावं स्वीकृत्य विसंवादहेतुकाप्रामाण्यशङ्कामात्रस्य क्रियमाणत्वादित्यर्थः । सूत्रे शब्दादित्युप-लक्षणमिति भावेनाह ।। युक्तेश्चेति ।। वेदस्य नित्यत्वे देवतानयभाष्ये स्वतः प्रामाण्ये चात्र युक्तेरुपन्यस्तत्वादित्यर्थः । तथा च श्रुतौ विवादेत्युक्त्या तयोः साधनमस्त्विति भावः । यद्वा युक्त्या वेदस्य नित्यत्वस्वतःप्रामाण्ययोः सिद्धिं मत्वा सूत्रेऽभ्युच्चयत्वेन शब्दादित्युक्तिरिति भावः ।
अभिनवचन्द्रिका
नन्विन्दमधिकरणम् ‘एतेन योगः प्रयुक्त’ इति पूर्वसूत्रेण सहैकाधिकरणम् । तथा हि वेदप्रामाण्यमाक्षिपति – एतेन योगः प्रत्युक्त इति ।। एतेन पाशुपतादिस्मृत्यप्रामाण्याय भवदुपन्यस्तेन उक्तफलानुपलम्भेन, योगः श्रुतिप्रामाण्ययोगः, प्रत्युक्तः निराकृतो वेदितव्यः । एवं प्राप्तं पूर्वपक्षं प्रतिक्षिपति । ‘न विलक्षणत्वादस्य तथात्वं च शब्दात्’ इति । उक्त-फलानुपलम्भेऽपि पाशुपतादिस्मृतिवदप्रामाण्यं न मन्तव्यम् । नित्यत्वेन ततो विलक्षणत्वात् । न हि नित्ये दोषाः कल्प्याः । अस्य तथात्वं च ‘वाचा विरूपनित्यया’ इति शब्दात् । फलानुपलम्भोऽसिद्ध इत्याह– दृश्यते तु, अधिकारिणां फलम् । अतस्तदनुपलम्भो वैगुण्यनिमित्त इति । अवश्यं च एतदेवं विज्ञेयम्, न विलक्षणत्वादिति निषेधसौकर्यात् । पूर्वपक्षमनूद्य निषेधे हि सौकर्यं भवति । अन्यथा नेत्युक्ते कस्य पुनर्निषेधो विज्ञायेतेति । तस्मादिदमधिकरणं प्राचीनसूत्रेणैकाधिकरणमिति चेत्, सत्यम्, एवं योजनायां सौलभ्यं भवतीति, तथापि नैकाधिकरणत्वं सूत्रकृद्विवक्षितम्, यदयं योगविभागं करोति तत् ज्ञापयत्याचार्यः ‘एतेन योगः प्रत्युक्त’ इति सूत्रं योगशास्त्राभ्यधिकाशङ्कानिरासाय पूर्वाधिकरणशेषः, पाशुपताद्यागमा-प्रामाण्याभिधानेन तन्न्यायसाम्यात् बुद्धौ परिवर्तमानाया वेदाप्रामाण्यशङ्काया निरासाय ‘न विलक्षणत्वात्’ इत्यादि पृथगाधिकरणम्’ इति । अन्यथा ‘विकारशब्दान्नेति चेत् इत्यादिवत् एकं सूत्रं विदध्यात्, योगशास्त्राभ्याधिकाशङ्कानिरासश्च न कृतः स्यादिति । हेतोरप्रयोजकता-माशङ्क्य परिहरति – अविद्यमानाभिधात्रीणामिति ।। नित्यत्वाख्यवैलक्षण्यादिति ।। यत्फलविसंवादि तदप्रमाणमित्युत्सर्गः । वेदे नित्यत्वेन, स्मृतौ तदनुसारित्वेन, निर्दोषत्वावगमाद-प्रामाण्याभावः सिद्ध इति पाशुपतादिस्मृतिवत् फलविसंवादेन नाप्रामाण्यमिति कल्प्यम् । उत्सर्गस्य बाधकैकापवाद्यत्वादिति भावः । एतेन फलविसंवादस्य श्रुतौ व्यभिचारान्न तेन पाशुपतादि-स्मृत्यप्रामाण्यसाधनं युक्तमिति परास्तम् ।। फलव्यभिचारेऽपीति ।। अङ्गीकारवादोऽयमिति बोध्यम् । एतेन फलादर्शनस्य कर्तृवैगुण्यादिसहकारिविरहप्रयुक्तत्वस्य वक्ष्यमाणत्वात् सहकारि-विरहप्रयुक्तफलादर्शनस्य चाव्यभिचारात् ‘फलव्यभिचारेऽपीत्युक्तमयुक्तमिति परास्तम् ।। प्रकारान्तरेण व्याचष्ट इति ।। पूर्वं नित्यत्वेन वैलक्षण्यादिति व्याख्यातम्, अधुना तु संवादनिरपेक्षप्रामाण्यकत्वादिति व्याख्यायते । तात्पर्यन्तु पूर्ववदिति बोध्यम् । एतेन अधुनापि पूर्ववदेव ‘वेदादिप्रामाण्यस्य संवादनिरपेक्षतज्ज्ञानादेव सिध्द्यङ्गीकारात्’ इत्यादिना प्रामाण्यसिद्धि-रूपबाधकसद्भावात् न फलविसंवादेनाऽप्रामाण्यसिद्धिरिति वक्ष्यमाणत्वान्नेदं व्याख्यानान्तरमिति परास्तम् । तात्पर्यस्यैकत्वेऽपि वैलक्षण्यप्रयोजकधर्मनिरूपणमात्रे व्याख्यानान्तरमित्यङ्गीकारात् ।। प्रामाण्यमिति ।। करणप्रामाण्यमात्रमित्यर्थः ।
ननु करणप्रामाण्यस्य संवादाधीनज्ञानत्वाङ्गीकारेऽनवस्थाऽभिधानमयुक्तम् । संवादस्योपलब्धि- रूपत्वेन तत्प्रामाण्यस्य स्वतस्त्वादित्यतः संवादकप्रामाण्यमपि संवादकात् गृह्यते, उत स्वत इति विकल्प्य द्वितीयदूषणं शिष्यैरेवोह्यमिति भावेन प्रथमपक्षे भाष्यकृताऽनवस्थोक्तेति न किञ्चिदनुपपन्नमित्याशयेनाह– यदीत्यादिना ।। स्वत एवेति ।। संवादाभावेऽपि साक्ष्यादि-प्रमाणान्तरेणेत्यर्थः । आद्यकल्पे ‘अन्यथाऽनवस्थितेः’ इति मूलमुपतिष्ठत इत्याह ।। आद्ये तदप्येवमिति ।। आद्यप्रामाण्यस्यैवेति ।। संवादातिरिक्तनिर्दोषत्वादिलिङ्गवेद्यत्वोपपत्तेरित्यर्थः । उपलब्धिरूपसंवादकप्रामाण्यस्यापि संवादवेद्यत्वमङ्गीकृत्याऽनवस्थां परिहारति – कथञ्चिदिति ।। प्रामाण्याध्यवसायं विनेति ।। संवादकप्रामाण्याध्यवसायं विना वेदप्रामाण्यनिश्चयायोगेन प्रवृत्त्यसम्भवात् प्रवृत्त्यर्थं संवादकप्रामाण्यजिज्ञासाध्रौव्यादित्यर्थः ।। यावच्छङ्कमिति ।। यद्यपि संवादकानुभवप्रामाण्यनिश्चये संवादकान्तरापेक्षा, तथापि नाऽनवस्था यावच्छङ्कमेव संवादापेक्षाङ्गीकारादित्यर्थः ।। द्वितीयोऽपि निरस्तप्राय इति ।। ‘प्रामाण्याध्यवसायं विना प्रवृत्त्यनुपपत्या’ इति पूर्वोक्तदिशा निरस्तप्राय इत्यर्थः । ‘शङ्का सर्वत्र नाऽनुवर्तत’ इति द्वितीयपक्षे विकल्पमुखेन दूषणान्तरमाह– अपि चेति ।। आद्ये प्रामाण्यस्येति ।। पुरुषेण गोक्षुरकाद्यपसरणे कृते गतिसमर्थो गजो यथा स्वयमेव गच्छति, तथा संवादेनाऽप्रामाण्य-शङ्कानिवृत्तौ निर्दोषत्वादिना स्वरूपग्रहे प्रामाण्यनिश्चये न किञ्चिदपेक्षितमिति भावः ।। संवादकमुभयत्रापीति ।। अप्रामाण्यशङ्का सर्वत्र नानुवर्तते, यत्राऽप्रामाण्यशङ्का, तत्र संवादकमप्रामाण्यशङ्कां निवर्तयित्वा प्रामाण्यं ज्ञापयति । एवं च प्रामाण्यज्ञानेऽपि संवादक-प्रवृत्त्यङ्गीकारान्तरत्वापत्तिः । अप्रामाण्यशङ्काभावस्थले प्रामाण्यग्रहस्यैवाऽभावात् शङ्काभावेऽपि संवादकापेक्षा स्यादिति दोषोऽपि नेति भावः । कल्पकं शङ्कते – बाधकवदिति ।। अप्रामाण्यशङ्कानिवृत्तिप्रामाण्यज्ञानयोरेतदन्वयव्यतिरेकाऽनुविधानमेव कल्पकमिति भावः । प्रामाण्यग्रहस्य संवादान्वयव्यतिरेकानुविधायित्वमेव नास्तीत्याह– अप्रामाण्यशङ्केति ।। संवादकानुभवप्रामाण्यस्य परतस्त्वसाधकमनुमानमनूद्य दूषयति – यदपीत्यादिना ।।
ननु अनुकूलतर्कशून्यं चेत्ययुक्तं यदि प्रामाण्यं स्वतो गृह्येत तर्हि संशयो न स्यादित्यनुकूल-तर्कसद्भावादित्यत आह– संशयस्येति ।। एवशब्देन संशयस्य प्रामाण्याग्रहणप्रयुक्तत्वं नेत्याचष्टे । कुतः संशयस्य प्रामाण्याग्रहणप्रयुक्तत्वं नेत्यत आह– स्वतस्त्वेनेति ।। वक्ष्यमाण-समुच्चये चशब्दः । प्रामाण्यग्रहणेऽपि संशयदर्शनात् प्रामाण्यग्रहणस्य संशयं प्रति व्यतिरेक-व्यभिचार इति भावः । अन्वयव्यभिचारमप्याह– अनभ्यासदशायामपीति ।। अनभ्यासदशाया-मपीत्यनेन प्रामाण्यग्रहणं सूचयति । ततश्च प्रामाण्यग्रहणेऽपि कदाचित्संशयाभावस्यापि दर्शनादन्वयव्यभिचार इति भावः । एतेन ‘संशयाभावस्यापि दर्शनाच्च’ इति वाक्यस्याऽनन्वय इति परास्तम् ।। उभयतः सम्बध्यत इति ।। अनेन तथात्वमित्यस्याऽप्रामाण्यमिति पूर्वं व्याख्याय नित्यत्वं चेति पुनर्व्याख्यानेन तथात्वमित्यस्य न तथात्वमिति नञा ‘तथात्वं चशब्दात्’ इति शब्दपदेनापि सम्बन्ध इत्युक्तं भवतीत्यर्थः । ‘तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम्’ इति ऋचं व्याचष्टे – तस्मै सर्वत इति ।। स्वात्मानं प्रतीति ।। विरूपेति सम्बोधनमिति वक्तव्ये स्वात्मानं प्रतीति वचनं विरूपस्य यमावतारत्वद्योतनार्थम् । एतेन विष्णुतत्वनिर्णयटीकायां पद्मनाभतीर्थैः ‘धर्मेण विरूप ऋषिं प्रत्युच्यत’ इति उक्तत्वात् ‘स्वात्मानं प्रति’ इति वचनं विरुद्धमिति परास्तम् ।। न च वाच्यमिति ।। वेदस्य पाशुपताद्यागमवैलक्षण्यसिद्धौ प्रामाण्यसिद्धिः, तत्सिद्धौ तत्सिद्धिरिति अन्योन्याश्रयात् कथं श्रुत्युपादनमिति न वाच्यमित्यर्थः । अत्र टीकायां ‘श्रुत्यापादनं युक्तमित्यतः परं’ युक्तेरुपन्यस्त-त्वादित्यतः पूर्वं ‘परेणापि फलव्यभिचारेणाप्रामाण्ये वेदस्यापि तत्प्रसङ्ग इत्यापादनमात्रस्य क्रियमाणत्वात्’ इति प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् वेदाप्रामाण्यस्यापादनमात्रमेव न तु साधनमित्यस्याऽर्थस्य ‘वेदादिप्रामाण्यस्य युक्तिविरोधपरिहारात्’ इति पूर्ववाक्येन ‘प्रमाणं न वेति सन्देह’ इति वाक्येन, ‘श्रुत्यादिकं न प्रमाणम्’ इति पूर्वपक्षवाक्येन, ‘एवं च वेदाद्येकदेशस्याप्रामाण्ये अन्यदेशप्रमाणताया मानाश्वासात्’ इति वाक्येन च, विरुद्धत्वात् । पूर्वपक्षे वेदप्रामाण्याक्षेपाभावेन सिद्धान्ते तत्साधनवैय्यर्थ्याच्चेति ।। युक्तेश्चोपन्यस्तत्वादिति ।। देवताधिकरणे वेदप्रामाण्ये युक्तेरुपन्यस्तत्वादित्यर्थः । देवताधिकरणोक्तयुक्त्या सिद्धेन नित्यत्वेन वेदप्रामाण्यस्येह साधितत्वात् अभ्युच्चयेन श्रुत्युपन्यासो नानुपपन्न इति भावः ।
पूर्वपक्षस्तु – वेदः, वैष्णवस्मृतिश्च न प्रमाणं, तदुक्तानुष्ठानेऽपि फलानुपलम्भात् । यदि फलानुपलम्भे प्रामाण्यं तर्हि पाशुपतादिस्मृतीनामपि तत्प्रसङ्गः । न हि फलानुपलम्भसाम्येऽपि वेदादेरेव प्रामाण्यं न पाशुपतादिस्मृतीनामिति विभागे हेतुरस्ति । एवं च फलानुपलम्भेन वेदाद्येकदेशस्याप्रामाण्ये तदेकदेशान्तरप्रामाण्येऽनाश्वासात् न विष्णोर्जगत्कारणत्वसिद्धिरिति ।
सिद्धान्तस्तु – प्रमाणमेव वेदादि । अपौरुषेयत्वतदनुसारित्वाभ्याम् । न च अपौरुषेयत्वमेव कुत इति वाच्यम् । प्रागेव सामान्यसिद्धिपरिशेषाभ्यां तस्य साधितत्वात् । ‘वाचा विरूप नित्यया’ इत्यादि श्रुतेश्च । न च फलविसंवादादप्रामाण्यम् । अधिकारिणां फलोपलम्भेन फलाऽनुपलम्भस्य कर्तृवैगुण्यादिनोपपत्तेः । अतो वेदप्रामाण्यस्य युक्तिविरोधाभावात् तेन जगत्कारणत्वं हरेर्युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रमाणत्वेनोक्तेति ।। शास्त्रयोनित्वसूत्रे इत्यर्थः । अत्र पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्ते-रनन्तरसङ्गतिः ।। प्रमाणं न वेति ।। श्रुत्यादिकं पाशुपतादिव दृष्टफलानुपलम्भादप्रमाणं उत श्रुतिसिद्धादपौरुषेयत्वस्वतःप्रामाण्याख्यतद्वैलक्षण्यात् प्रमाणमिति चिन्ता । तदर्थं फलानुपलम्भ-दोषापवादादौत्सर्गिकस्वतः प्रामाण्यत्यागः उत अधिकारिणां फलदर्शनेन क्वचिदनुपलम्भस्य कर्त्रादिवैगुण्यनिमित्तकत्वेनापौरुषेयतया निर्दोषस्य वेदस्य निरपवादमेव स्वतः प्रामाण्यमित्येवं श्रुतेरित्युक्तभाष्यानुसारेण पूर्वपक्षमाह ।। श्रुत्यादिकमिति ।। तदुक्तानुपलब्धेरित्यस्य विवरणं कारीर्येत्यादि ।। एवमित्यस्य पाशुपतादिवदिति । तदुक्तानुपलब्धेः श्रुतेः स्मृतेस्तदेकदेशस्य यथा प्रामाण्यमेवं श्रुतेः स्मृतेस्तदेकदेशान्तरस्याप्यप्रामाण्यमाश्वासकारणाभावादिति भाष्यस्यार्थान्तरं मत्वा व्याचष्टे ।। एवं चेति ।। नैवमित्यादिभाष्यस्य सूत्रपदारोहं दर्शयति ।। अस्य श्रुत्या-देरिति ।। अन्यस्मृत्यनवकाशेत्यत्र पञ्चरात्रादिस्मृतितत्साहाय्यवच्छ्रुत्योः प्रकृतत्वादस्येति परामर्शः । पाशुपतादेरितरेषां चेति सूत्रोक्तमिति भावेन फलानुपलम्भहेतुकमप्रामाण्यं तथात्व-मित्यनेन परामृश्यत इति भाष्ये एवं पाशुपतवत्तदुक्तानुपलब्धेरप्रामाण्यमिति भावः । ‘नित्यत्वा-त्पुरुषोद्भवैः । वर्जितं सर्वदोषैश्च कथं नो मानतां व्रजेत्’ इत्यनुव्याख्यानानुसारेण भाष्यभावमाह ।। वाक्यप्रामाण्यमिति ।। प्रमाणानुकूलत्वादित्यनेन नित्ये’ इत्यनन्तरं तदनुसारेण च इति पूरितं भवति । यत्फलव्यभिचारि तदप्रामाण्यमित्युत्सर्गः । वेदे नित्यत्वेन स्मृतौ तदनुसारित्वेन निर्दोषत्वावगमादप्रामाण्याभावः सिद्ध इति न पाशुपतादिवत्फलविसंवादेनाप्रामाण्यं कल्प्यम् । उत्सर्गतः प्राप्तस्य बाधने अपवादौचित्यादिति भावः । फलव्यभिचारेऽप्यङ्गीकारवादोऽयम् । तदुक्तरीत्या साङ्गानुष्ठाने तद्व्यभिचाराभावात् प्रकारान्तरेणेति । पूर्वं वैलक्षण्यं नित्यत्व-रूपमित्युक्तम् अधुना संवादनिरपेक्षत्वमिति भावः ।
ननु तज्ज्ञानादेव सिद्धिर्नाम प्रामाण्यस्य किं स्वरूपज्ञानमेव परामर्शरूपं सत् प्रामाण्य-मनुमापयति । उत स्वरूपज्ञान एव तत्प्रामाण्यं भासत इति । नाद्यः धर्मिमात्रज्ञानस्य परामर्श-रूपत्वात् । न द्वितीयः करणप्रामाण्यस्य ज्ञप्तौ स्वतस्त्वप्राप्तेः । तथात्वे करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियत इत्यादि सुधाविरोधादित्यतश्चाद्यपक्षमभ्युपगम्य तत्रोक्तदोषमुद्धरति ।। न हीति ।। नास्माभिः केवलधर्मिज्ञानपरामर्शरूपं सत् प्रामाण्यमनुमापयतीत्युच्यते । किन्तु निर्दोषितया तदनुसारितया च अपौरुषेयत्वाद्यनुमानेन तत्स्वरूपग्रहे वेदोऽयं निर्दोष इति ज्ञानं परामर्शरूपं सत् प्रामाण्यमनुमापयतीति निर्दोषित्वादिप्रतीत्याकारकतज्ज्ञानादेव प्रामाण्य-सिद्ध्यङ्गीकारान्न संवादापेक्षेत्युच्यते । न चैवं निर्दोषत्वमपौरुषेयत्वानुमानेन प्रामाण्यं निर्दोष-त्वानुमानेनेति वक्ष्यमाणस्वतस्त्वभङ्ग इति चेदुत्तरत्र स्वतस्त्ववचनं संवादानपेक्षत्वविवक्षये-त्यनुपपत्तेरिति भावः । अथवा द्वितीयं पक्षमभ्युपगम्य तत्रोक्तदोषमुद्धरति ।। न हीति ।। वाक्यदोषा हि अबोधकत्वविपरीतबोधकत्वादयः । तद्राहित्येन वेदादिस्वरूपग्रहे प्रामाण्य-स्फुरणादेतादृशं स्वतस्त्वं नानिष्टमिति सर्वथा संवादस्योपयोग इति भावः ।
न च स्वतस्त्वे ग्रन्थान्तरविरोध इति वाच्यम् । तत्र वेदधर्मिणः श्रोत्रग्राह्यत्वं याथार्थ्य-स्यानुमेयत्वमिति परतस्त्वमुक्तम् । इह तु ज्ञानजननशक्तिमत्वस्य विपरीतबोधनशक्त्यभावस्य चातीन्द्रियत्वात् । ज्ञानजननशक्तिमत्वेन विपरीतज्ञानजननशक्त्यभाववत्वेन च वेदवादिग्राहकमेव यथार्थज्ञानजनकत्वलक्षणशक्तिग्राहकम् । तयोः शक्त्योरैक्यादन्यथोत्पत्तौ स्वतस्त्वहानेरिति शक्त्यैक्यमादाय ज्ञप्तौ स्वतस्त्वाङ्गीकारे न विरोधः । तदुक्तं सुधायाम् । तेषामपि ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयग्राह्यत्वमिति ।। प्रामाण्यमिति ।। करण-प्रामाण्यं फलोपलब्धिसंवादाधीनं किं न स्यादित्यर्थः ।
ननु उपलब्धेः स्वतःप्रामाण्यस्य व्यवस्थापितत्वान्नानवस्थेत्यतस्तदुपलम्भकविवक्षा नानव-स्थेह विवक्षितेति भावेन व्याचष्टे ।। यदीति ।। आद्यप्रामाण्यस्येति वेदादिप्रामाण्यस्यैवोक्तरीत्या ज्ञानादिजनकत्वग्राहकादेव ग्रहणोपपत्तेः । अथवा संवादनिरपेक्षत्वोपपत्तेरित्यर्थः । संवादक-प्रामाण्यस्यापि संवादवेद्यत्वमङ्गीकृत्यापि अनवस्थाभावमाशङ्कते ।। कदाचिदिति ।। प्रामाण्या-ध्यवसायं विनेति । संवादकप्रामाण्याध्यवसायं विना वेदप्रामाण्यनिश्चयायोगेन फलसन्देहेन तदुक्तफलार्थिनस्तत्र प्रवृत्यसम्भवात् प्रवृत्यर्थं संवादकप्रामाण्यजिज्ञासाया आवश्यकत्वादित्यर्थः । प्रवृत्तेः फलनिश्चयाधीनत्वव्याप्तेर्व्यभिचारमाशङ्कते ।। फलसन्देहेऽपीति ।। सापीति ।। निःशङ्काप्रवृत्तेः फलनिश्चयाधीनत्वमस्माभिरुच्यते । कृष्यादिप्रवृत्तिस्तु न निःशङ्का । पारत्रिकी प्रवृत्तिस्तु न तथा भवितुमर्हतीति भावः । प्रकारान्तरेणानवस्थाभावमाशङ्कते ।। यावच्छङ्कमिति ।। यावत्पर्यन्तं प्रामाण्यसंशय इत्यर्थः ।। क्वचिदिति ।। व्यासङ्गकोटिस्मरणाभावादिनेत्यर्थः ।। द्वितीयो निरस्तप्रायेति ।। अबुभुत्सितग्राह्ये ज्ञाने गृहीते तत्प्रामाण्यानुपलब्धेः निःशङ्कप्रवृत्यनु-पपत्या तदर्थं प्रामाण्येऽवश्यं ज्ञातव्ये तत एव कोटिस्मरणभावेन शङ्कायाः आवश्यकत्वादिति भावः । शङ्कायाः क्वचिदनुत्पत्यङ्गीकारेऽपि अनवस्था दुर्वारेति भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायमनुस्मृत्य विकल्पमुखेन दूषयति ।। अपि चेति ।। स्वतस्त्वेति ।। पुरुषेण गोक्षुरकापसरणे गजस्य स्वयमेव गतिवत् संवादकानामप्रामाण्यशङ्कां निवर्तयित्वा प्रामाण्यं ज्ञापयति । एवं च प्रामाण्यज्ञानेऽपि संवादकप्रवृत्यङ्गीकारादप्रामाण्यशङ्कानिवृत्तौ स्वत एव प्रामाण्यनिश्चयोपपत्तिरिति भावः ।। संवादकमुभयत्रेति ।। न स्वतस्त्वापत्तिः । अप्रामाण्य-शङ्काभावस्थले प्रामाण्यग्रहस्यैवाभावाच्छङ्काभावेऽपि संवादकापेक्षा स्यादिति दोषोऽपि नेति भावः । कल्पकमाशङ्कते बाधकादिति ।। रजतज्ञानान्तरमिदं प्रमाणं न वेति शङ्कायां बाधक-ज्ञानोत्पत्तौ शङ्कानिवृत्यप्रामाण्यग्रहणयोस्तदन्वयव्यतिरेकानुविधायित्वानुभवात् यथा तस्योभयत्र व्यापारः । तथाऽत्राप्यप्रामाण्यशङ्कानिवृत्तिप्रामाण्यज्ञानयोरेतदन्वयव्यतिरेकानुविधानमेव कल्पक-मिति भावः ।
बाधकेऽव्यभिचारितान्वयव्यतिरेकाभ्याम् । तथाकल्पनेऽपि नेह तथा सुखादिज्ञाने साक्षिरूपे स्वत एवाप्रामाण्यशङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यज्ञानोदयेन व्यतिरेकव्यभिचारादिति भावेनाह ।। अप्रामाण्यमिति ।। अप्रामाण्यज्ञप्तौ तु बाधकस्य व्यतिरेकव्यभिचारो नेत्याह ।। बाधकेनेति ।। निवृत्तप्रामाण्यशङ्कस्य पुरुषस्य बाधकेन विना प्रामाण्यनिश्चयानुदयानुभवा-दित्यन्वयः ।। उक्तप्रतिकूलेति ।। अन्यथाऽनवस्थितेरित्युक्तेत्यर्थः ।
ननु यदि प्रामाण्यं यदि स्वतो गृह्येत तर्हि संशयो न स्यादित्यनुकूलतर्कसद्भावात्कथं तद्राहित्यमित्यत आह ।। संशयस्येति ।। जातिभानसामग््रयाः व्यक्तिभानसामग्रीनियतत्वेऽपि दोषवशादिदमिति शुक्तिशकले भासमानेऽपि शुक्तित्वाप्रतीत्या संशयदर्शनादिति भावः । एवं परकीयानुकूलतर्कस्याप्रयोजकत्वमुक्त्वा जरन्नैय्यायिकरीत्या अन्वयव्यभिचारमाह ।। स्वतस्त्वे-नेति ।। बौद्धचार्वाकादिविप्रतिपत्या अनुमानप्रामाण्येऽपि संशयदर्शनादित्यर्थः । यद्वाऽनु-मानस्यानुकूलतर्काभावमुक्त्वा व्यभिचारमाह ।। स्वतस्त्वेनेति ।। भागासिद्धिमप्याह ।। अनभ्यासेति ।। प्रत्यग्रोत्पन्नसुखादिस्थल इत्यर्थः । श्रुतिं चाहेत्यर्थः । अत्र चक्षुरादीनामिति साक्षात्स्वविषयविषयकमानान्तरसंवादो हि सजातीयसंवादः । अत्र वेदविषये ब्रह्मणि मानान्तर- प्रवृत्युक्त्या तदभावः उक्त इति भावः । अनेन तथात्वं संवादानपेक्षत्वरूपं स्वतस्त्वं केवलं विपक्षे बाधकयुक्त्या शब्दाच्चेति योजितं भवति ।। अनेनेति ।। तथात्वमित्यस्याप्रामाण्यमिति पूर्वं व्याख्याय भाल्लवेयश्रुतेश्च नित्यत्वं च शब्दादेवेत्यनेन तथात्वमित्यस्य न तथात्वमिति नञा तथात्वं च शब्दादेवेति शब्दपदेनेत्युभयत्र सम्बध्यत इत्युक्तं भवतीत्यर्थः । ततश्चायं सूत्रार्थः । अस्य श्रुत्यादेस्तथात्वं शैवादिस्मृतिवत्फलानुपलब्ध्याऽप्रामाण्यं न । कुतः विलक्षणत्वाद-पौरुषेयत्वादनुसारित्वारव्यवैलक्षण्यात् । संवादानपेक्षत्वरूपं तु न चक्षुर्न श्रोत्रमित्यादिशब्दात् विपक्षे बाधकतर्काश्चेति । ‘तस्मै नूनमभिद्यवे वाचा विरूपनित्यया । वृष्ण्ये चोदस्व सुष्टुतिम्’ इति, ऋचं व्याचष्टे ।। तस्मात् इति ।। स्वात्मानं प्रतीति ।। अस्य मन्त्रस्य विरूपो ऋषिरित्यनुक्रमिणोक्तेरिति भावः । स्वस्य आत्मान्तर्यामी तं प्रतीति वा सुष्टुतिं शोभनां स्तुतिं चोदस्व प्रेरयस्वेति विरूपस्य ऋषेरन्तर्यामिविषयमिति तत्त्वप्रदीपोक्तेरिति भावः । विष्णुतत्त्व-निर्णयटीकायां श्रीमत्पद्मनाभतीर्थभट्टारकविरचितायां न्यायरत्नावल्यां धर्मेण विरूपं ऋषिं प्रत्युच्यत इति वचनाद्विरोध इति चेन्न । उभयऋषिकत्वोपपत्तेः । प्रथमं धर्मदृष्टस्य विरूपेण दर्शनं तदा स्वात्मसम्बोधनं पुनर्धर्मोपदेश इत्युपपत्तेः । अत एव तत्त्वनिर्णयटीकायां विरूपमृषिं प्रत्युच्यत इति सामान्येनोक्तम् ।। अनादिनिधनतयेति ।। अन्यथा पुनरुक्तिः स्यादिति भावः ।। श्रुत्युपपादनमिति ।। स्वतः प्रामाण्यनित्यत्वयोः सिद्धौ वेदप्रामाण्यसिद्धिः तत्सिद्धौ च वेदेन तत्सिद्धिरित्यन्योन्याश्रयप्रसङ्गादिति भावः ।। आपादनमात्रस्येति ।। तथा च वेदप्रामाण्यस्य पूर्वपक्षिणाप्यङ्गीकृतत्वान्नान्योन्याश्रयत्वमिति भावः ।
नन्वेतत्पूर्वग्रन्थविरुद्धम् । तत्र वेदादिप्रामाण्यस्य युक्तिपरिहारादिति सङ्गतिवाक्ये प्रमाणं न वेति सन्देह इति वाक्येन प्रमाणमिति पूर्वः पक्ष इति वाक्ये वेदाद्येकदेशस्याप्रामाण्ये अन्यदेश-प्रमाणतायामनाश्वासादित्युपसंहारवाक्ये चाप्रामाण्येन पूर्वपक्षप्रतीतेरिति चेन्न । युक्तिविरोध-परिहारादित्यस्य पाशुपतादेः फलव्यभिचारेणाप्रामाण्ये वेदस्यापि तत्प्रसङ्ग इति तर्कविरोध-परिहारादिति प्रमाणं न वेत्यस्य प्रमाणं वा न वेति प्रसज्येत वेति न प्रमाणमित्यस्य न प्रमाणं प्रसज्येत इति वेदाद्येकदेशस्याप्रामाण्यप्रसक्तावन्यदेशस्यापि तथात्वप्रसङ्गादिति तद्वाक्यार्थाङ्गी-कारादिति ज्ञेयम् ।। युक्तेश्चेति ।। देवताधिकरणभाष्ये नित्यत्वे अनवस्थितेरित्यत्र प्रामाण्य-स्वतस्त्वे च युक्तेरुपन्यासात् युक्तिसिद्धार्थे श्रुत्युपन्यासान्नान्योन्याश्रयत्वमिति भावः । यद्वा वेदप्रामाण्यवादिनाप्यत्र पूर्वपक्षत्वे तं प्रत्याह ।। युक्तेश्चेति ।। तथा च तं प्रति नित्यत्वादिबोधन-युक्त्यैवेति नान्योन्याश्रयत्वम् । अत एव पूर्वग्रन्थस्याप्रामाण्यवादिविवक्षया प्रवृत्तत्वादापादन-मात्रस्येत्यस्य तत्प्रामाण्याभ्युपगमगन्तृविवक्षया प्रवृत्तत्वादिति वाऽविरोध इति ज्ञेयम् ।
तत्त्वसुबोधिनी
एतदधिकरणोपाधिमाह ।। युक्तिविरोधपरिहारादिति ।। अनेनात्र पूर्वपक्षसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेः, अनन्तरसङ्गतिरिति सूचितं भवति । अस्त्वविद्यमानाभिधायकत्वं, ततः किमित्यत आह ।। अविद्यमानेति ।। अविद्यमानाभिधायकत्वेऽपि प्रामाण्यमङ्गीक्रियतामित्यतः आह ।। अविद्यमानाभिधात्रीणामिति ।। तथापि श्रुत्यादिकमेव प्रमाणं न स्मृत्यादिकमत आह ।। न हीति ।। नैवमित्यादिभाष्यस्थस्य न तथात्वमिति सौत्रप्रतिज्ञाव्याख्यानरूपत्वं दर्शयति ।। अस्येति ।। अप्रामाण्यप्रयोजकदोषाभावान्नाप्रामाण्यं इत्यत आह ।। वाक्येति ।। तथापि स्मृतेः कथं प्रामाण्यमित्यत आह ।। प्रमाणानुकूलत्वादिति ।। वेदानुसारित्वादित्यर्थः । ननु वेद-प्रामाण्यं संवादाधीनं चेत् न, तर्हि कस्मात्तत्सिद्ध्यतीत्यतः आह ।। वेदादिप्रामाण्यस्येति ।। ननु यथार्थज्ञानजनकत्वरूपवेदप्रामाण्यस्य वेदज्ञानादेव सिद्धिः । कथमित्यत आह ।। न हीति ।। अत्र हि करणानां ज्ञप्तौ परतस्त्वमित्येकः पक्षः । स्वतस्त्वमित्यपरः । तत्राद्ये पक्षे निर्दोषत्व-तदनुसारित्वाभ्यामेव यथार्थज्ञानजनकत्वरूपप्रामाण्यानुमानं, न संवादेनेति भावः । द्वितीये तु निर्दोषवेदतदनुसारिस्मृत्यादिग्रहे यथार्थज्ञानजनकत्वरूपप्रामाण्योपलब्धौ संवादापेक्षा नास्ति इत्यर्थः । ज्ञानजनकत्वं येन गम्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयत्वस्य ग्राह्यत्वमित्ये-तदेव स्वतस्त्वमिति भावः ।। कदाचिदिति ।। जिज्ञासा च न सर्वत्रेति नानवस्था इति भावः । सन्देहादपि प्रवृत्तेः दृष्टत्वेन न प्रामाण्यनिश्चयस्य प्रवृत्तिकारणत्वमित्याशङ्कते फलेति ।। सापीति ।। तथा च प्रामाण्यावधारणस्य निःशङ्कप्रवृत्तिं प्रति हेतुत्वेन न व्यभिचार इति भावः ।
क्वचिन्नोत्पद्यत एवेति ।। व्यासङ्गकोटिस्मरणाभावादिना इति शेषः ।। द्वितीयो निरस्तप्रायः इति ।। ज्ञानस्य बुभुत्सितग्राह्यतया तीव्रसंवेदनत्वेन तद्भानमावश्यकं ज्ञाते च तस्मिन् प्रामाण्यानुपलब्धौ निःशङ्कप्रवृत्तेः प्रामाण्यावधारणसाध्यत्वेन तदर्थं प्रामाण्यरूपविशेष-जिज्ञासा तत एव व्यासङ्गकोटिस्मरणाभावाद्यसम्भवेन शङ्कायाः अवश्यकत्वादिति भावः ।। आद्य इति ।। संवादस्याप्रामाण्यशङ्कामात्रनिवर्तकत्वेन प्रामाण्यज्ञाने ज्ञानग्राहकातिरिक्तानपेक्ष-णादिति भावः ।। शङ्काभावेऽपीति ।। संवादस्य तत्र कारणत्वादिति भावः ।। उभयत्रेति ।। अप्रामाण्यशङ्कानिवर्तने प्रामाण्यज्ञाने ज्ञानग्राहकातिरिक्तानपेक्षणादिति भावः (वेत्यर्थः) ।। बाधकवदिति ।। यथा बाधकस्य प्रामाण्यशङ्कानिरासाप्रामाण्यज्ञानयोः व्यापारः तथा संवादस्य अप्रामाण्यशङ्कानिरासप्रामाण्यज्ञानयोः व्यापारोऽस्त्वित्यर्थः । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्येण परिहरति ।। अप्रामाण्यशङ्काशून्यस्येति ।। मुखादिप्रज्ञाने प्रामाण्यशङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यस्यानुभूयमानत्वेन व्यतिरेकव्यभिचारान्न संवादकस्य प्रामाण्यज्ञानव्यापारः इत्यर्थः ।। बाधकेन विना इति ।। तथा च क्वचिदपि निवृत्तप्रामाण्यशङ्काया अप्रामाण्यबुद्ध्युदयो नानुभूयते प्रत्युत तदनुदय एवानुभूयते इत्यन्यथा सिद्धान्वयव्यतिरेकाभ्यां बाधकस्य अप्रामाण्यज्ञापने व्यापारः इति भावः ।। उक्तप्रतिकूलतर्केति ।। अनवस्थालक्षणप्रतिकूलतर्कपराहतमित्यर्थः ।
ननु प्रामाण्यस्य स्वतस्त्वे संशयानुपपत्तिरूपबाधकस्य सत्वात् कथमनुकूलतर्कशून्यमित्यत आह ।। संशयस्येति ।। एकदेशिमतेन आह ।। स्वतस्त्वेनेति ।। अनुमानप्रामाण्येऽपि संशयदर्शनाच्चेति ।। बौद्धचार्वाकादिविप्रतिपत्त्यानुमानाप्रामाण्येऽपि संशयदर्शनाच्च इत्यर्थः ।। अनभ्यासदशायामपीति ।। प्रसङ्गायत्तसुखादिस्थले इत्यर्थः । तथा च भागासिद्धो हेतुरिति भावः ।। अनेनेति ।। नैवं तदुक्तानुपलब्धेः अप्रामाण्यमिति व्याख्याय नित्यत्वरूपविलक्षणत्वं च शब्दादिति व्याख्यानेनेत्यर्थः । अभिद्यव इत्यस्यार्थः सर्वतः प्रकाशायेति ।। वृष्णे इत्यस्यार्थः अतिसमर्थायेति ।। अनादिनिधना इति ।। अन्यथा पुनरुक्तिः स्यादिति भावः ।। श्रुत्युपादानमिति ।। तथा च स्वतः प्रामाण्यनित्यत्वयोः सिद्धौ वेदप्रामाण्यसिद्धिः । तत्सिद्धौ च प्रमाणभूतवेदेन तत्सिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। आपादनमात्रस्य क्रियमाणत्वादिति ।। अन्यहेतुकस्याप्रामाण्यस्याभावं स्वीकृत्य संवादे हेतुकप्रामाण्यशङ्कामात्रस्य क्रियमाणत्वान्ना-न्योन्याश्रयः इत्यर्थः ।। श्रुतेश्चेति ।। भाष्येऽनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्येति । देवताधिकरणे वेदनित्यत्वेऽन्यथानवस्थितेरित्यत्र प्रामाण्यस्वतस्त्वे(च) युक्तेश्चोपन्यस्तत्वा-च्चेत्यर्थः । तथा च युक्तिसिद्धेऽर्थे श्रुतेः संवादित्वेनोपन्यासान्नान्योन्याश्रय इति भावः । यद्वा वेदाप्रामाण्यवादिनोऽत्र पूर्वपक्षित्वे तं प्रत्याह ।। युक्तेश्चेति ।। तथा च तं प्रति उक्तयुक्त्यैव वेदनित्यत्वादिप्रसाधनं न श्रुत्येति नान्योन्याश्रयः इति भावः ।
वाक्यार्थविवरणम्
न विलक्षणाधिकरणे ।। जिज्ञासायामेवेति ।। न सार्वत्रिकीति भावः ।। यावच्छङ्कमिति ।। शङ्काऽपि न सार्वत्रिकीत्याशयः ।। उभयत्रापीति ।। अप्रामाण्यशङ्कानिवर्तने प्रामाण्यज्ञापने चेत्यर्थः । कल्पकमाशङ्कते ।। बाधकवदति ।। विसंवादवदित्यर्थः ।। उभयत्रेति ।। प्रामाण्य-शङ्कानिवर्तनेऽप्रामाण्यज्ञप्तौ चेत्यर्थः । प्रामाण्यज्ञाने सुखादिज्ञाननिष्ठप्रामाण्यज्ञाने । तथा चान्वयव्यतिरेकाभावादुभयत्र व्यापारोऽसिद्ध इति भावः । तर्हि प्रामाण्यशङ्काशून्यस्य अप्रामाण्य- ज्ञाने विसंवादनिरपेक्षत्वादप्रामाण्यस्यापि स्वतस्त्वं किं न स्यादिति चेत्तत्राह ।। बाधकेन विनेति ।। बुद्ध्यनुदयस्य बुद्ध्यनुत्पत्तेरनुभवसिद्धत्वादित्यर्थः । तथा च बाधकवदित्युक्तं कल्पक-मसिद्धमिति हृदयम् । प्रामाण्योत्पत्त्यपवादको दोषः । तद्ह्यपवादको विसंवादो बाधकमित्युच्यत इति द्रष्टव्यम् । स्वतस्त्वे ज्ञानग्रहणसमय एव प्रामाण्यस्य निश्चितत्वेन संशयो न स्यादिति हेतूच्छित्तिरेव बाधिकेत्यत आह ।। संशयस्येति ।। दोषात् अप्रामाण्यशङ्कारूपमानसदोषात् । तथा च ज्ञाने गृहीतेऽपि प्रामाण्यमगृहीतमेव । न च स्वतस्त्वभङ्गः । अप्रामाण्यशङ्काशून्यज्ञान-ग्राहकसामग्रीग्राह्यत्वस्यैव स्वतस्त्वेन तदा तदनपायादित्याशयात् ।। स्वतस्त्वेनेति ।। अयं भावः । अनुमितिप्रामाण्यं स्वत एव । तथा हि । परतस्त्वे साशयिकत्वं हि युक्तिः । लिङ्गोपहित-लिङ्गिकभानपक्षे धूमवान् पर्वतोऽग्निमानिति ह्यनुमित्याकारः । तत्र धूमवान् पर्वतोऽग्निमानिति ज्ञानं प्रमाणं न वेति संशयो न स्यात् । कुतः । वह्निमति वह्निप्रकारकज्ञानत्वं हि प्रामाण्यम् । न ह्येतत्प्रामाण्ये संशयो युक्तः । एतद्व्याप्यस्य धूमवति वह्निप्रकारकत्वस्य गृहीतत्वात् । न हि लोके पुरुषत्वव्याप्यशिरःपाण्यादिदर्शने पुरुषत्वे कस्यचित् संशयः । तस्मादनुमितिप्रामाण्यं स्वत एव । एवं गोसादृश्यवानयं गवयशब्दवाच्य इति ज्ञानं प्रमाणं न वेति संशयो न युक्तः । वाच्यत्ववति वाच्यत्वप्रकारकत्वज्ञानत्वरूपप्रामाण्यव्याप्यस्य सादृश्यवति वाच्यत्वरूपधर्मस्य गृहीतत्वेन संशयायोगादुपमितिप्रामाण्यमपि स्वत एवेत्याहुः । एवं चानुमित्युपमितिप्रामाण्ये तद्ग्राहकप्रामाण्यसंशयाहितसंशयदर्शनेन सांशयिकहेतुसद्भावेऽपि परतस्त्वाभावाद्व्यभिचार इत्यर्थः । उपलक्षणमेतत् । धर्मिज्ञानानुव्यवसायौ च ग्राह्यौ । स्वतस्त्वेनाभ्युपगतानुमित्युपमिति धर्मिप्रत्यक्षानुव्यवसायेष्विति सुधोक्तेः । सर्वं ज्ञानं धर्मिण्यभ्रान्तमित्यङ्कीकारेण धर्मिज्ञानप्रामाण्ये कदापि संशयाभावेन तत्प्रामाण्य स्वत एव । तथानुव्यवसायप्रामाण्यमपि । न ह्यजानन् जानामीति प्रत्येति न वा घटे ज्ञाते पटं जानामीति । अतोऽनुव्यवसायत्वस्य प्रामाण्यनियत-त्वात् । तत्प्रामाण्यमपि स्वत एवेत्यङ्गीकृतम् । तत्र व्यभिचारः । निरधिष्ठानवादिशून्यवाद्यु-त्प्रेक्षितप्रमाणाभासदर्शनेन धर्मिज्ञानेऽपि प्रामाण्यसंशयदर्शनात् । एवमनुव्यवसायस्यापि त्वमन्ते मानसत्वेनाप्रामाण्यादौ प्रामाण्यग्राहिणो भ्रमत्वसम्भवेन संशयास्पदत्वादिति । अनुमित्यादि-प्रामाण्ये स्वतस्त्वेनाभ्युपगते आदितः संशय इत्युक्तम् । वस्तुतस्त्वत्र सर्वत्रापि स्वारसिक एव संशय इति सुधाटीकायां गुरुचरणैः । यद्वा स्वारसिक एवात्र सर्वत्र संशयः । संशयकारणस्य ज्ञानत्वरूपसाधारणधर्मदर्शनादेः सम्भवादित्यादिनोपपादितमनुसन्धेयम् । अत्रानुमित्युपमिति-प्रामाण्यस्वतस्त्वोपपादनं कृतम् । व्यापकवति व्यापकप्रकारकज्ञानत्वरूपप्रामाण्यव्याप्यस्य व्याप्यवति व्यापकप्रकारकज्ञानत्वस्य गृहीतत्वान्न संशयो युक्त इति परतस्त्वसाधकसांशयिक-युक्त्यभावादेवमुपमानेऽपीति तत्तुच्छम् । अत्र प्रष्टव्यम् । व्याप्यदर्शनमात्रस्यैव संशयविरोधित्वम्, उत व्याप्यत्वप्रकारकव्याप्यदर्शनमात्रस्य । नाद्यः । तैलं पृथिवी न वेति संशयो न स्यात् । तत्रापि वस्तुगत्या पृथिवीत्वव्याप्यस्य तैलत्वादेर्ग्रहणात् । अतो द्वितीयोऽङ्गीकार्यः । वस्तुगत्या प्रामाण्यव्याप्यस्य हेतुमति साध्यप्रकारकत्वस्य गृहीतत्वेऽपि तत्र प्रामाण्यव्याप्यत्वं न गृहीतमेव । न हि करादिमत्त्वं पुरुषत्वव्याप्यमितिवदत्र व्याप्यत्वं प्रकारीभूय भासत इति । अत एतां युक्तिं विहाय पुनर्यया कयाचिद्युक्त्या तत्प्रामाण्यस्य स्वतस्त्वमङ्गीक्रियताम् । तथापि तत्र संशय-दर्शनात् व्यभिचार इत्याशयात् । अत एव त्वदभ्युपगतेत्युक्तम् ।। उभयत इति ।। विलक्षणत्वा-न्नित्यत्वात्तथात्वं न तद्व्याप्तं नित्यत्वं च । शब्दादेवेति विलक्षणत्वात् शब्दादिति उभयत इत्यर्थः ।
वाक्यार्थमञ्जरी
अप्रयोजकत्वमाशङ्क्याह ।। अविद्यमानाभिधात्रीणामिति ।। नन्वेवमेकदेशाप्रामाण्येऽपि जगत्कारणत्वप्रतिपादकभागप्रामाण्यं किं न स्यादित्यत आह ।। एवं चेति ।। एतद्दृष्टान्तेन तस्याप्यप्रामाण्यसाधनसौलभ्यादिति भावः ।। ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ।। अस्य श्रुतिपञ्चरात्रस्मृतिरूपशास्त्रस्य तथात्वम् । पाशुपतादिवदप्रामाण्यं नास्ति । श्रुते-रपौरुषेयत्वेन स्मृतेस्तदनुसारित्वेन ततो विलक्षणत्वात् । तथात्वं च श्रुतेरपौरुषेयत्वम् । स्मृतेस्तदनु-सारित्वं चशब्दात् । वाचा विरूप’ इति श्रुतेः ‘भारतं पञ्चरात्रम्’ इति स्मृतेश्च सिद्धमित्यर्थः । नित्ये अपौरुषेये । ततः अदोषत्वात् ।। वेदादिप्रामाण्यस्येति ।। यथार्थज्ञानजनकरूपत्वस्ये-त्यर्थः । तज्ज्ञानात् वेदादिज्ञानात् । कुत इत्यत आह ।। न हि निर्दोषेति ।। निर्दोषश्रुतिरूपग्रहे तदनुसारिस्मृतिस्वरूपग्रहे चेत्यर्थः । श्रुतिस्मृत्योः ज्ञानजनकत्वे तावन्न विवादः । निर्दोषत्व-तदनुसारित्वग्रहे यथार्थत्वशङ्कानवकाशत्वेन यथार्थज्ञानजनकत्वरूपप्रामाण्यग्रहे न किञ्चिदपेक्षेति भावः । तथात्वं स्वतः प्रामाण्यम् । स्वत एव संवादस्वरूपग्राहकेणैव । एवं संवादान्तरग्राह्यं प्रामाण्यम् ।। नानवस्थेति ।। यत्र जिज्ञासाविरहस्तत्र संवादानपेक्षणादिति भावः ।। ध्रौव्या-दिति ।। तत्र संवादापेक्षायामनवस्थैवेति भावः ।। फलसन्देहेति ।। फलज्ञानप्रामाण्यसन्देह इत्यर्थः । तथा चात्र व्यभिचारान्न प्रामाण्यनिश्चयस्य प्रवृत्तिहेतुत्वमिति भावः ।। सापि न निः-शङ्केति ।। तथा च प्रामाण्यनिश्चयस्य निःशङ्काप्रवृत्तिं प्रत्येव हेतुत्वोक्तेर्न व्यभिचार इति भावः । यावच्छङ्कमित्यव्ययं सर्वत्र संवादकप्रमाणेषु ।। क्वचिन्नोत्पद्यत इति ।। व्यासङ्गकोटिस्मरणाभावादि नेति शेषः ।। कथमिति ।। शङ्कानिवृत्त्यर्थं संवादपरम्पराया आश्रयणीयत्वादिति भावः ।। द्वितीयो निरस्तप्राय इति ।। ज्ञानस्य बुभुत्सितग्राह्यतया ज्ञाते च तस्मिन्नप्रामाण्यानुपलब्धौ निःशङ्कप्रवृत्तेः तस्याश्च प्रामाण्याध्यवसायाधीनत्वेन तदर्थं विशेषप्रमाणरूपजिज्ञासाध्रौव्ये तत एव व्यासङ्गकोटिस्मरणाभावाद्यसम्भवेन शङ्काया आवश्यकत्वादिति भावः ।। स्वतस्त्वप्राप्तिरिति ।। संवादेनाप्रामाण्यशङ्कानिवृत्तौ स्वरूपग्राहकेणैव प्रामाण्यनिश्चयादिति भावः ।। शङ्काभावेऽपीति ।। अप्रामाण्यशङ्काशून्यसुखादिज्ञानप्रामाण्यज्ञानेऽपीत्यर्थः ।। संवादकमुभयत्रापीति ।। अप्रामाण्य शङ्कानिरसने प्रामाण्यग्रहणे चेत्यर्थः । कुत इत्यत आह ।। कल्पकेति ।। कल्पकं शङ्कते ।। बाधकवदिति ।। विसंवादवदित्यर्थः । तथा च तत्र यथाविसंवादकस्य प्रामाण्यशङ्कानिरासा-प्रामाण्यज्ञापनयोर्व्यापारस्तथात्र किं न स्यादित्यर्थः । तथा च तद्वदेवात्राप्यन्वयव्यतिरेकयोः प्रयोजकत्वमिति भावः । वैषम्यमाह ।। अप्रामाण्यशङ्काशून्यस्येति ।। सुखादिज्ञानेऽप्रामाण्य-शङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यस्यानुभूयमानत्वेन व्यतिरेकव्यभिचारान्न संवादस्य प्रामाण्य- ज्ञापने व्यापार इत्यर्थः ।। बाधकेन विनेति ।। तथा चानन्यथासिद्धान्वयव्यतिरेकाभ्यां बाधकस्याप्रामाण्यज्ञापने व्यापार इति भावः । परतः संवादतः । अभ्यासदशापन्नज्ञानप्रामाण्ये सिद्धिवारणायाभ्यासदशायामित्युक्तम् ।। प्रतिकूलतर्केति ।। अनवस्थारूपेत्यर्थः । स्वतस्त्वे स्वरूपग्राहकेणैव प्रामाण्यनिश्चयेन तत्संशयो न स्यादिति बाधकसत्वात्कथमनुकूलतर्काभाव इत्यत आह ।। संशयस्येति ।। दोषात् प्रामाण्यशङ्कारूपात् । तथा च तर्कस्यान्यथासिद्धिरिति भावः । प्राचीनतार्किकमतावष्टम्भेनाह ।। स्वतस्त्वेनेति ।। बौद्धचार्वाकादिविप्रतिपत्त्या अनुमानादिप्रामाण्येऽपि संशयदर्शनादित्यर्थः । यद्वा लिङ्गादिज्ञानप्रामाण्यसंशयेन तज्जन्यानु-मित्यादिप्रामाण्यसंशयदर्शनादित्यर्थः । यद्वा लिङ्गोपहितलैङ्गिकभानपक्षे अनुमितिप्रामाण्यस्य सादृशाद्यतिदेशवाक्यार्थोपहितवाच्यत्वभानपक्षे उपमितिप्रामाण्यस्य स्वतस्त्वाङ्गीकारात्तयोः प्रामाण्ययोः स्वग्राहकज्ञानप्रामाण्यसंशयाहितसंशयदर्शनादित्यर्थः । तथा चानुभवसिद्धतत्संशयो-पपत्तिवदत्रापि तदुपपत्तिरिति भावः । भागासिद्धिं चाह ।। अनभ्यासेति ।। प्रत्यग्रोप्तन्न-सुखादिस्थल इत्यर्थः । नन्वथापि प्रामाण्यं परतो ज्ञायते प्रामाण्याप्रामाण्यान्यतरमात्रकोटिक-संशयकोटित्वादप्रामाण्यवदित्याद्यनुमानेन परतस्त्वसिद्धिरिति चेन्न । अस्यापि प्रतिकूलतर्क-पराहत्याद्युक्तदोषलङ्घनाजङ्घालुत्वादित्याशयेनाह ।। अलमिति ।। प्रकृतोपयोगाप्रतीतेराह ।। अत्रेति ।। अनेनेति ।। मैवं तदुक्तानुपलब्धेरप्रामाण्यमिति व्याख्याय नित्यत्वरूपविलक्षणत्वं च शब्दादेवेति व्याख्यानेनेत्यर्थः ।। उभयत इति ।। नैवशब्दादित्यनेन चेत्यर्थः । तस्मै नूनमभि-द्यवे, वाचा विरूप नित्यया वृष्णे चोदस्व सुष्ठतिं इति श्रुतिं व्याचष्टे ।। तस्मा इति ।। अभिद्यव इत्यस्यार्थः सर्वतः प्रकाशायेति ।। वृष्णे इत्यस्य अतिसमर्थायेति ।। स्वात्मानमिति ।। अनेन विरूपवाक्यमेवेदमिति सूचयति ।। अनादिनिधनतयेति ।। अन्यथा पौनरुक्त्यमिति भावः । साक्षितया प्रामाण्यतया ।। श्रुत्युपादनमिति ।। स्वतः प्रामाण्यनित्यत्वयोः सिद्धौ वेदप्रामाण्य-सिद्धिः तत्सिद्धौ च प्रमाणभूतवेदेन तत्सिद्धिरित्यन्योन्याश्रयप्रसङ्गादिति भावः ।। अप्रामाण्येति ।। पाशुपतादेरङ्गीकृते ।। आपादनमात्रस्य क्रियमाणत्वादिति ।। तथा च वेदप्रामाण्यस्य एतदधि-करणपूर्वपक्षिणाङ्गीकृतत्वान्नान्योन्याश्रय इत्यर्थः । प्रकारान्तरेण अन्योन्याश्रयं परिहरति ।। युक्तेश्चेति ।। भाष्ये आप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्येति देवतानये वेदनित्यत्वे अन्यथानवस्थितेरित्यत्र प्रामाण्यस्य स्वतस्त्वे च युक्तेश्चोपन्यस्तत्वादित्यर्थः । तथा च युक्ति-सिद्धार्थे श्रुतेः संवादित्वेनोपन्यासान्नान्योन्याश्रय इति भावः ।