ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ
८. स्थानतोऽप्यभेदाधिकरणम्
सूत्रभाष्यम्
स्थानापेक्षया, परमात्मनो(ऽपि) भेदादनुग्राह्यानुग्राहकभाव इत्यत आह–
।। ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।। ११ ।।
स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् ।
‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत’ (ऐ.आ. ३-२-३) इति श्रुतिः ।
‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयत’ इति (हि) मात्स्ये ।।
‘प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः’ इति च भागवते ।।
तत्त्वप्रदीपिका
स्वप्नादिस्थानानां भेदात्तदपेक्षया परस्यापि तत्र तत्र स्थितस्य रूपभेद सम्भवादनुग्राह्यानु-ग्राहकभावस्तद्रूपेष्वपि स्यात् । अतो न पर्याप्तमहिमत्वमित्यत आह ।। ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।। स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् । न हि स्थानभेद-स्तस्योभयत्वस्य कारणं लिङ्गं वा भवति । स्थानभेदेऽपि तद्गतवस्त्वेकत्वोपपत्तेः । स्वप्नाद्यवस्था-भेदेऽपि तद्वतो भोक्तुरेकत्ववत् । प्रतिदृशमनेकधा स्थितमर्कं यथैकं समधिगच्छति विद्वान्, तथा हरिमपि तत्र तत्र स्थितमेकं समधिगतोऽस्मि । विष्णौ भेदोऽस्तीति व्यामोहो भेदमोहः ।
‘जाग्रदादिकरो देवः परमात्मैक एव तु ।
इति वीक्षेत सततं मुच्यते संसृतेरत’ इति प्रकाशिकायाम् ।।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनभक्त्यर्थं तस्य सर्वत्र निर्दोषाशेषसद्गुणत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । स्वगततारतम्ये न तत्र निरतिशया भक्तिर्जायत इति तत्प्रतिषेद्धव्यम् । सर्वावस्थाप्रेरकत्वेन प्रकृतः परमात्मा विषयः । प्रतिशरीरं जाग्रदादिस्थानेषु स्थितः किमन्योन्यं भिन्न उताभिन्न इति सन्देहः । घटादीनां भिन्नत्वदर्शनमाकाशादीनामभिन्नत्वदर्शनं च सन्देहबीजम् । पूर्वपक्षयति ।। स्थानेति ।। सर्वशरीरेषु जाग्रदादिस्थानेषु च स्थितो विश्वादिरूपो हरिरन्योन्यं भिन्न एव । भिन्नस्थानत्वात् घटादिवत् । न चाकाशादिदवदुपपत्तिरिति वाच्यम् । किमीश्वरोऽवयवी पाणिपादाद्यवयवैरनेकस्थान उत समग्ररूपेण वा । नाद्यः । विश्वादीनां सप्ताङ्ग एकोनविंशतिमुख इत्यादिना प्रत्येकं रूपश्रवणात् । द्वितीयेऽसङ्गतो दृष्टान्तः । अतोऽस्त्येव विश्वादीनां भेदः । तथा च भिन्नानां गुणादि-तारतम्यादनुग्राह्यानुग्राहकभावदर्शनाच्च तत्प्रसङ्गः । एवं च निरतिशयैश्वर्याभावान्न तत्र भक्तिर्युक्तेति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। न तत्र तत्राऽऽस्थितो हरिर्मिथो भिन्नः । न च भिन्नस्थानतानुमानविरोधः । सर्वेषु भूतेष्विति श्रुतिविरोधेन बाधितविषयत्वादिति भावः । सर्वेषु भूतेषु चक्षुरादिस्थानेषु एतमेकमेव पूर्णगुणमाचक्षत इत्यर्थः । एकैकदेशतोऽनेकस्थानगतत्वं परस्याविरुद्धं श्रुतिविरुद्धं चेति भावेनोभयत्वमित्यनुक्त्वा उभयलिङ्गमित्युक्तम् । तद्व्याख्यानं भिन्नं रूपमिति । ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ इति वचनात् । समग्ररूपेणानेकस्थानगतत्वं कथमुपपद्यते हरेरन्यत्राऽदृष्टत्वादित्यत आह ।। एकेति ।। सूर्यदृष्टान्तं स्पष्टयन्नुक्तार्थे स्मृत्यन्तरं चाह ।। प्रतिदृशमिति ।। प्रतिदृशं प्रेरकत्वेनैश्वर्यवशान्नैकधा स्थितमर्कं यथैकमेव समधिगच्छन्ति । तथा भूतानां प्रतिहृदयं सामग्य्रेणैश्वर्यबलादनेकधा स्थितमीश्वरमेकं समधिगतोऽस्मीत्यर्थः । मां प्रति मां प्रतीति बहुधा स्थितमिति वा ।
गुर्वर्थदीपिका
उभयत्वमित्यनुक्त्वोभयलिङ्गत्वमित्युक्तमित्यत्रोभयत्वं भिन्नत्वं नास्तीत्युक्ते नानास्थानेषु रूपबाहुल्यमङ्गीकृत्य तद्भेदमात्रं निषेद्धुं पाणिपादाद्यवयवाख्यांशैर्व्याप्तस्यानेकस्थानस्थस्य तैरंशैर्भेदो नास्तीत्येतावताऽपि सूत्रं चरितार्थं स्यात् । तन्मा भूदिति सूत्रकृता उभयलिङ्गत्वमुक्तम् । एवं च स्थानभेदेऽपि भगवतः भिन्नशरीरं नास्तीत्युक्तं स्यात् । तथा च ‘सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामत’ इति न्यायेन नानास्थानेषु विशेष्यभूतं समग्रमङ्गीकृत्य तद्भेदमात्रं निषिद्धं स्यात् । अत उभयलिङ्गमित्युक्तमिति भावः ।
भावबोधः
सर्वावस्थाप्रवर्तकत्वेन प्रकृत इति ।। तथा चातीताधिकरणेषु सर्वावस्थाप्रवर्तकत्वोक्ताववस्थानां भिन्नत्वात्परमात्मनोऽपि भेद इति पूर्वपक्षोत्थानादनन्तरसङ्गतिः । यद्वा, युगपद्भिन्नस्थानत्वेन परमात्मनोऽपि भेदे भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं ‘स एव च’ इत्युक्तमिति सुधोक्तरीत्या ‘स एव च’ इत्युक्ताक्षेपादनन्तरसङ्गतिः । न चैवं तदानन्तर्यमेव स्यादिति वाच्यम्; सार्वदेशिकसार्वकालिकसर्वावस्थाप्रवर्तकत्वप्रदर्शनपरस्य ‘स एव च’ इत्यस्यावस्थाविशेषप्रतिपादनपरात् ‘मुग्धेऽर्धसंपत्तिः’ इत्यतोऽनन्तरं कर्तव्यत्वेऽपि व्यत्यासे निमित्तस्योक्तत्वात् ।। प्रतिशरीरमिति ।। अत्र विश्वादिरूपी परमात्मा प्रतिशरीरं जाग्रदादिस्थानेषु स्थितः किमन्योन्यं भिन्न उताभिन्न इति चिन्ता । तदर्थं भिन्नस्थानत्वानुमानं किं विश्वादीनां भेदसाधकमुत नेति । तदर्थं तदनुमानम् ‘एतमेव ब्रह्मेत्याचक्षते’ इति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थमनुमानं किं ‘कार्यकारणबद्धौ’ इति श्रुत्युपोद्बलितं न वेति । तदर्थमियं श्रुतिः ‘अयं वै हरय’ इत्याद्यभेदप्रतिपादकश्रुतिबाधिता न भवत्युत भवतीति । तदर्थम् ‘अयं वै हरय’ इत्याद्यभेदप्रतिपादिका श्रुतिर्विश्वादिव्यतिरिक्तमत्स्यादिकतिपयरूपाभेदप्रतिपादकत्वेन सावकाशोत सर्वरूपाभेदविषयत्वेन निरवकाशेति । तदर्थं ‘कार्यकारणबद्धौ’ इति भेदप्रतिपादिका श्रुति-र्निर्विषयोत सविषया वेति । तथा च भेदप्रतिपादकश्रुतेर्विषयान्तराभावे तत्प्रामाण्यायोगा-त्तत्सिद्ध्यर्थम् ‘अयं वै हरय’ इति श्रुतेः कतिपयरूपविषयत्वेन सावकाशतया बाधकत्वाभावेन तदबाधितभेदश्रुत्युपोद्बलितत्वेन प्रबलस्य भिन्नस्थानत्वानुमानस्य ‘एतमेव’ इति श्रुत्या बाधा-सम्भवात्, अबाधितेन तेन विश्वादीनां भेदसिद्धिरिति पूर्वपक्षे, भेदश्रुतेः सर्वरूपविषयत्वेन निरवकाशत्वे तद्बाधितभेदश्रुतेरनुमानोपोद्बलकत्वासम्भवेन केवलानुमानस्य ‘एतमेव’ इति श्रुतिबाधितत्वान्न तेन विश्वादीनां भेदसिद्धिरिति सिद्धान्ते च फलफलिभावः ।। सर्वशरीरेष्विति ।। भिन्नस्थानत्वादिति हेतोः स्वरूपासिद्धिशङ्कापरिहारार्थमुक्तम् ।। सर्वशरीरेषु जाग्रदादिस्थानेषु चेति ।। भेदमात्रसाधने सिद्धसाधनत्वप्रसङ्गात् अन्योन्यमिति ।। न चैकस्यैव घटस्य कालभेदेन भिन्नस्थानत्वसम्भवेनाप्रयोजको हेतुरिति वाच्यम्, युगपद्भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात् । अनेन स्थानभेदाद्विष्णोरपि भेद इति न्यायविवरणमपि व्याख्यातम् ।
ननु भिन्नस्थानत्वं कथमन्योन्यं भेदसाधकम् । स्वाभेदेऽपि व्याप्तत्वेन भिन्नस्थानत्वो-पपत्तेरित्यन्यथासिद्धिशङ्कामाशङ्क्य परिहरति– न चाकाशादिवदिति ।। श्रवणादिति । तथा च तद्विरोधः स्यादित्यर्थः ।। असङ्गत इति ।। आकाशस्य समग्ररूपेणानेकस्थानत्वाभावादिति भावः । एतेन भिन्नस्थानत्वहेतोराकाशे व्यभिचार इत्यपि परिहृतम् । समग्ररूपेणेत्यस्य हेतुविशेषणत्वादिति ।। नन्वस्तु परमात्मनो भेदः । तथा च को दोष इत्यत उक्तं भाष्ये भेदादनुग्राह्यानुग्राहकभाव इति ।। तदभिप्रायमाह– तथा चेति ।। तत्प्रसङ्गश्चेति ‘च’ शब्द-सम्बन्धः । अत एव सुधायां तत्प्रसङ्गोऽपीत्युक्तम् । भिन्नानामनुग्राह्यानुग्राहकभावहीनोच्चादिभाव-
निबन्धनत्वाद्गुणतारतम्येत्युक्तम् । तथा च भेदाद्गुणतारतम्यं ततश्चानुग्राह्यानुग्राहकभावः स्यादित्यर्थः ।
ननु भिन्नानामपि केषाञ्चिद्गुणतारतम्यानुपलम्भाद्व्यभिचार इति चेत्, न; चेतनानां परस्पर-भेदस्योत्सर्गतो गुणादितारतम्यव्याप्तत्वात् साम्यग्राहकप्रमाणरूपापवादनिबन्धनस्यादोषत्वात् । तदुक्तम्–
‘उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति ।।’ इति ।
श्रुतावेतमित्येकवचनश्रवणादाह– एकमिति ।। ब्रह्मशब्दार्थमाह– पूर्णगुणमिति ।। ननु सूत्रे ‘परस्योभयत्वम्’ इत्यल्पाक्षरेणैव भेदाभावोक्तिसम्भवे ‘उभयलिङ्गम्’ इति किमर्थमुक्तमित्यत आह– एकैकदेश इति ।। परस्य परमात्मनः । असिद्धं प्रमाणाभावात् । न केवलमप्रामाणिकम् । किं तु सप्ताङ्ग एकोनविंशतिमुख इत्यादिप्रमाणविरुद्धं चेत्यर्थः । तथा च परस्योभयत्वं नेत्येवोक्तौ पाणिपादाद्यवयवरूपैकदेशतोऽप्यनेकस्थानत्वेन भेदाभावो विज्ञायेत । उभयलिङ्गेनेत्युक्तौ तु भिन्नस्थानेषु विद्यमानानां समग्ररूपाणां भेदमात्रनिषेधो विज्ञायेत । विशिष्टनिषेधस्य विशेषण-निषेधपर्यवसानादिति भावः ।
भावदीपः
भेदमात्रनिरासपरत्वभ्रान्तिनिरासाय ‘सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुण’ इत्यनु-भाष्यदिशाऽर्थमाह ।। सर्वत्रेति ।। स्थानेषु रूपेष्विति वाऽर्थः ।। समर्थनादिति ।। स्थान-भेदकृतभेदादिशङ्कानिरासेनेति भावः । तेन ‘अतोऽनन्तगुण’ इति सर्वदोषोज्झितस्तस्मात्’ इत्यणुभाष्योक्तदिशा निर्दोषाशेषगुणत्वस्य पूर्वाध्यायद्वयेनैव सिद्धेः नेदमारभ्यमिति प्रत्युक्तम् । एतेन हृदयस्थादिति पूर्वत्र जीवस्य स्थानभेदेन जाग्रदाद्यवस्थोक्तौ ‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः’ । विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञ इत्यादिश्रुत्या स्थानभेदेनैव विश्वादिरूपस्येश्वरस्य जाग्रदाद्यवस्थाप्रवर्तकत्वोक्तेस्तद्रूपाणामप्यन्योन्यं भेदादि स्यादिति शङ्कनात्पूर्वसङ्गतिरपि ध्येया । सुधायां तु युगपद्भिन्नस्थानत्वेन परमात्मनोऽपि भेदे भिन्नानां च तारतम्यमनुग्राह्यानुग्राहक-भावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमित्युक्तिस्तु एतच्चिन्ताफलोक्तिपरा । स्थानभेदाद्विष्णोरपि भेद इत्यन्यत्रोक्त्यनुरोधेन स्थानेति भाष्यं स्थानभेदापेक्षयेत्यर्थमुपेत्य व्याचष्टे ।। सर्वशरीरेष्वित्यादिना ।।
ननु सर्वत्र प्रसिद्धोपदेशादित्यधिकरणे निचाय्यत्वादेवं व्योमवच्चेति गुणसूत्रे व्योमदृष्टान्तेनैकस्य परमात्मनोऽनेकस्थानेषु स्थितिरुपपादिता । यथोक्तमनुव्याख्याने । ‘महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् । यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् । स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् । एकत्राप्यनवस्थस्य कुत एवाखिलस्थता’ इत्यादि । तथा च कथमेवमाशङ्का । हेतोरप्रयोजकत्वादित्यतो व्योमवैषम्योक्त्या प्रागुक्ताक्षेपेण सौत्रलिङ्गपदव्यावर्त्यविवरणेन पूर्वपक्ष-मुज्जीवयति ।। न चेत्यादिना ।। विश्वेति ।। ‘सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः । स्वप्नस्थानोंऽतःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पाद’ इत्यादिना माण्डूके दक्षिणाक्ष्यादिषु जाग्रदादिप्रवर्तकत्वेनोक्तविश्वादीनां प्रत्येकं पाणिपादादि-समग्ररूपश्रवणात् । तथा श्रुतौ ‘अक्षिस्थस्य तस्य भूरिति शिरः, भुव इति बाहू, स्वरिति पादौ’ इत्युक्तेरित्यर्थः । चत्वारो बाहवः, द्वौ पादौ, हस्तिमुखत्वादेको मुखकर, इति सप्ताङ्गः । ‘वैश्वानरो जागरितस्थानगो गजवक्त्रकः । निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः । मध्यमं तु गजाकारं चतुर्बाहुधरः (बाहुःपरः) पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरित’ इति तद्भाष्योक्तेः । यद्यप्यत्र ‘सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरो मुखम्’ । ‘विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात्’ । इत्यादिना पाणिपादादेरपि व्याप्तत्वोक्तेस्तद्विरोधो वक्तुं शक्यस्तथाप्यस्याल्पश्रुतेरित्यत्रोक्तन्यायेन समाधानस्य स्पष्टत्वाद्वा ‘अणोरणुतरै रूपैः पाणिपादादिसंयुतैः । सर्वत्र संस्थितत्वात्स सर्वतः पाणिपादवान्’ । इत्यादिना गीतातात्पर्ये त्रयोदशे व्याख्यातत्वेन सप्ताङ्गेतिश्रुतिविरोधोक्त्यैव तुल्यार्थतया तद्विरोधस्याप्युक्तप्रायत्वाद्वा मुखतोऽनुक्तिः ।। दृष्टान्त इति ।। आकाशादिवदुपपत्ति-रित्युक्तदृष्टान्त इत्यर्थः । तस्यैकदेशेनैव नानास्थानेषु स्थितेरिति भावः । एतेन विष्णोरपीत्य-न्यत्रोक्तवाक्ये व्योमवदनेकस्थानेषु स्थितत्वेनोक्तस्यापि स्थानभेदाद्भेद एवेत्यपि शब्दार्थो दर्शितः ।
नन्वेषापि शङ्काऽल्पश्रुतेरिति चेत्तदुक्तमिति दहरनयगुणसूत्रे एव परिहृतेति चेन्न । तत्राऽऽकाशवदंशतोऽनेकत्र वृत्तिरयुक्ता । अंशस्यापि व्याप्तत्वादित्याशङ्कैव श्रुतिबलान्निरस्ता । यथोक्तं तत्र भाष्ये । ‘एष म आत्माऽन्तर्हृदये ज्यायान’ इति श्रुत्युक्तत्वाच्चेति । अत्र तु समग्रावयवरूपैरनेकत्राऽवस्थानं तेषां भेदं विना न युक्तमिति शङ्का निरस्यत इति भेद इति भावः । एतेनांऽशो नानाव्यपदेशादित्यधिकरणेन पौनरुक्त्यं तत्रैव भगवद्रूपाणां प्रकाशादिवन्नैवं परः स्मरन्ति चेत्यादिना भेदाभावस्योक्तेर्जीवानामीश्वरांशत्वे मत्स्यादिसाम्यमाशंक्य जीवानां मत्स्यादिरूपाणां च भगवद्भिन्नाभिन्नांशत्वेन साम्यनिरासस्य तत्र भाष्यादौ स्पष्टत्वादिति निरस्तम् । जीवेन तेषां भिन्नांशत्वोक्तावेव तात्पर्याद्वा मत्स्यादीनां तथात्वेऽप्यक्ष्यादिस्थानभेदेन स्थितानां विश्वादीनां भेदादेवावश्यकत्वमित्यादिविशेषशङ्कानिरासाद्वाऽपौनरुक्त्यादिति । यत्तु शास्त्रयोनित्वात् श्रुतेस्तु शब्दमूलत्वादित्यादौ सूत्रे ‘नैषा तर्केण मतिरापनेया’ इत्यादिश्रुतौ चेश्वरस्य तर्कागोचरत्वोक्तेः कथं स्थानभेदादीश्वरभेदानुमानप्राप्तिरिति । तन्न सर्वकर्तृत्वेन गुणपूर्णत्वाद्यनुमानवत् श्रुतिसमर्पितेश्वररूपेषु स्थानभेदेन भेदानुमानोपपत्तेः । स्वतन्त्रानुमाना-योग्यत्वस्यैव प्रागभिधानात् । अन्यथा मीमांसानारम्भापत्तेः । पूर्वोक्तस्यैवात्र प्रपञ्चनाद्वा । भाष्यशेषं योजयति ।। तथा चेति ।। स्थानापेक्षया भेदादित्यस्य निर्बाधे सतीत्यर्थः । भाष्ये भेदादिति हेतुरुपलक्षणमिति भावेन मध्ये हेत्वन्तरमाह ।। भिन्नानामिति ।। समगुणत्वेऽनुग्राह्यत्वादि-भावायोगात्तदुपपादकत्वेन गुणशक्तिक्रियादितारतम्येत्युक्तम् । तदुभयोपपादकत्वेन भिन्नानामिति । तत्प्रसङ्गः गुणादितारतम्यादिप्रसङ्ग इत्यर्थः ।। एवं चेति ।। गुणादितारतम्यादौ सतीत्यर्थः । ननु यद्रूपं सर्वानुग्राहकं पूर्णगुणं च तत्र भक्तिः स्यादेव तावताऽपि बन्धनिवृत्तिसम्भवादिति चेन्मैवम् । तद्रूपमिदमिति निर्णयायोगात् पूर्वं जाग्रदाद्यवस्थाप्रेरकत्वोक्तेर्भक्त्यर्थत्वेन तस्य विश्वतैजसादिनाना-रूपगतत्वेनैकत्रैव भगवत्यभावेन तदुक्तेर्भक्त्यर्थत्वानापत्तेः । अधिकारिभेदेन विश्वादिरूपाणां तत्तदधिकारियोग्यबिम्बतया सर्वरूपेषु भक्तेरावश्यकत्वादिति भावः ।
परमात्मना रूपाणामभेदस्यैव प्रतीत्या रूपाणामन्योन्याभेदाप्रतीतेर्भाष्यसूत्रे तात्पर्यतो व्याचष्टे ।। न तत्र तत्रेति ।। श्रुतिबलात्स्थानानां भेदस्तस्याभेद एवेति व्यवस्थोपपत्तेरित्यन्यत्रोक्त्यनुरोधेन शेषस्य तात्पर्यमाह ।। न चेत्यादिना ।। बाधितेति ।। प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत-मिति तत्वनिर्णयोक्तस्मृतेरदृष्टे विषये आगमस्य प्राबल्यादुपजीव्यत्वाच्चेति भावः । प्रकृतोपयोगितया श्रुत्यर्थमाह ।। सर्वेष्विति ।। भूतपदमुपलक्षणं मत्वाऽऽह ।। चक्षुरादिस्थानेष्विति ।। स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतेति पूर्वत्रैतरेये भूतहृदयगुहाप्रविष्टस्य तस्य त्रय आवसथास्त्रयः स्वप्ना इति चक्षुरादिस्थानानामप्युक्तेः । अत एवोत्तरत्र चक्षुर्मय इत्याद्यप्युच्यत इति भावः । एतमित्येकवचनार्थ एकमिति । ब्रह्मेत्याचक्षत इतीतिशब्दः प्रकारवाचीति भावेनाह ।। पूर्णगुणमाचक्षत इति ।। एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकमित्यैतरेयभाष्योक्तेरिति भावः । लिङ्गपादे शब्दविशेषादित्यत्र तु ब्रह्मशब्दवाच्यमाचक्षत इत्यर्थोऽभिमतः । भिन्नं रूपमित्यस्य व्याख्येयप्रदर्शनपूर्वमुपयोगमाह ।। एकैकेति ।। परस्याविरुद्धमिति ।। सर्वगतस्यापि परमात्मनो व्योमवदेकदेशतोऽनेकस्थानत्वस्य निचाय्यत्वादेवं व्योमवच्चेत्यत्रैव व्युत्पादितत्वेनाविरुद्धमित्यर्थः । तथा च तत्र विरोधाभावात् न स्थानतोऽपि परस्योभयत्वमिति न वक्तव्यं स्यादिति भावः । तर्हि न स्थानतोऽपि परस्योभयलिङ्गमित्यपि न वक्तव्यमित्यतो व्यावर्त्यविशेषशङ्कां पूर्वपक्ष्युक्तां स्मारयति ।। श्रुतिविरुद्धं चेति ।। सप्ताङ्ग इत्यादिश्रुतिविरुद्धं चेत्यर्थः । वस्तुतस्तु परस्येत्यस्य पूर्वपक्षिण इत्येवार्थः । तावता को दोष इत्यत आह ।। श्रुतीति ।। इत्युक्तमिति ।। सूत्र इत्यर्थः ।। तद्व्यख्यानमिति ।। तथा च सविशेषणे हीति न्यायेन सर्वत्र समग्ररूपेषु सत्सु तेषां भिन्नत्वमात्रं निषिद्धं भवतीति भावः । लिङ्गपदस्य स्वरूपार्थत्वे सप्तमस्कन्धतात्पर्ये द्वितीयाध्यायोक्तं वचनमाह ।। लिङ्गमिति ।। ज्ञापकमेवेत्यन्तोक्त्या न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं वा भवतीति तत्त्वप्रदीपोक्तयोजनान्तरमपि बोध्यमिति सूचयति । तेनोभयरूपमित्येव सूत्रेण किं न कृतमिति निरस्तम् । ऐश्वर्यादित्यस्य व्यावर्त्यं कथमुपपद्यत इति ।। सूर्यवदित्यस्य व्यावर्त्यं अन्यत्रा-दृष्टत्वादिति ।। शेषपूर्त्या दृष्टांतांशं व्याचष्टे ।। प्रतिदृशमिति ।। तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानामिति पूर्वार्धगतपदानामर्थमाह ।। तथेत्यादिना ।। विशब्दार्थः सामग्य्रेणेति ।। ऐश्वर्यबलादिति ।। आत्मनि चैवं विचित्राश्च हीत्युक्तदिशाऽघटितघटका चिन्त्य-शक्तिबलादित्यर्थः । वेरर्थान्तरमनेकधेति । विशेषेण विविधतया च स्थितं विष्ठितमित्युक्तं भवति ।। अजमित्यस्येश्वरमिति ।।
अभिनवचन्द्रिका
सर्वत्राशेषगुणवत्वसमर्थनादिति ।। यद्यपि अत्राधिकरणे न सर्वत्राशेषगुणत्त्वं समर्थ्यते किंतु भेदो निराक्रियते । तथापि भेदकनिराकरणस्य सर्वत्र गुणपूर्णतासिध्द्यर्थत्वात् अधिकरणफलाभि-प्रायेण गुणपूर्णतासमर्थनादित्युक्तम् ।। स्वगततारतम्य इति ।। ईश्वरात्मकानां विश्वादीनां परस्परभेदे तत एव च तारतम्ये ईश्वरस्यानन्तरूपेण गुणपूर्णत्वरूपमहामहिमत्वाभावात् पूर्णत्वप्रयुक्तभक्ति-सम्भवेऽपि न निरतिशया भक्तिः स्यादित्यर्थः ।। घटादीनामिति ।। घटादीनां भिन्नस्थानस्थितानां भेददर्शनम् । आकाशादीनां स्थानभेदेऽपि अभेददर्शनं सन्देहबीजमित्यर्थः । साध्यं विनापि हेतोः सिद्धिमाशङ्क्य निषेधति न चेति ।। इतः परं टीकायां श्रूयमाणं ‘किमीश्वरोऽवयवी पाणिपादा-द्यवयवैरनेकस्थान, उत समग्ररूपेण । नाद्यः विश्वादीनां ‘सप्ताङ्ग एकोनविंशतिमुख’ इत्यादिना प्रत्येकं रूपश्रवणात् द्वितीये इत्यन्तं वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । भावानभिज्ञेन हेतोरन्यथासिद्धिशङ्कायां कृतायां, स्वाऽभिप्रेतहेतोराविष्करणीयत्वेन तं प्रति विकल्पकरणायोगात् । कुतो न वाच्यमित्यत आह– असङ्गत इति ।। यत इति शेषः । सामस्त्येन भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात् असङ्गतो दृष्टान्त इति भावः । उपसंहरति अत इति ।।
ननु श्रुतेर्विश्वादीनां मूलरूपाभेदप्रतिपादकत्वेऽपि विश्वादीनां परस्परमभेद प्रतिपादकत्वाभावात् कथमेतच्छ्रुत्युदाहरणमित्यतः श्रुत्यर्थमाह– सर्वेषु भूतेष्विति ।। सर्वेषु भूतेषु सर्वेषां चक्षुरादिषु एतं विश्वादिरूपिणं एकमेवाऽऽचक्षते तथा चक्षुःस्थितं विश्वं कण्ठादिस्थिततैजसादिना एकम् अभिन्नं पूर्णगुणं चाऽऽचक्षत इति श्रुत्यर्थ इति भावः । इतः परं टीकायां श्रूयमाणं ‘एकैकदेशतोऽनेक-स्थानत्वं परस्याऽसिद्धं श्रुतिविरुद्धं चेति भावेनोभयत्व मनुक्त्वा’ इत्यन्तं प्रक्षिप्तम् । ‘उक्तमिति च प्रक्षिप्तम् । तच्छब्दश्च प्रक्षिप्तः । अस्येत्युच्छिन्नम् । ततश्च एवं टीकावाक्यपाठः ‘उभयलिङ्गमित्यस्य व्याख्यानं भिन्नरूपम्’ इति । अवश्यं चैतदेवं विज्ञेयम् । सामस्त्येनाऽनेकस्थानस्थित्यभिप्रायकेण ‘स्थानत’ इति पदेन भावानभिज्ञस्यै कैकदेशतोऽनेकस्थानस्थितत्वभ्रमसम्भवेऽपि तस्योभयत्वमिति-पदोच्चारणप्रयुक्तत्वाऽभावात्, तदनुत्पादायोभयत्वमित्यनुक्त्वेत्युक्त्ययोगात् । न हि यदुच्चारणप्रयुक्तो भ्रमो भवति तत्परित्यागमनुक्त्वा, यदुच्चारणप्रयुक्तो भ्रमो न भवति तत्परित्यागकथनं युक्तिमत् । भाष्ये एकरूप इति ।। सर्वत्र अक्ष्यादिस्थानेषु सामस्त्येन विद्यमानो विश्वादिरूपो विष्णुः एकरूपः एक एव अभिन्न एव नाऽत्र संशयः कार्यः, कथमेकस्य नानास्थानेषु सामस्त्येनाऽ-वस्थानमन्यत्रादृष्टत्वेनासम्भावितत्वादित्यत उक्तम् ऐश्वर्यादिति ।। एकं च एकमपि तद्रूपम् ऐश्वर्यात् बहुधा=नानास्थानेषु सामस्त्येन वर्तते, सूर्यवदीयते सूर्यदृष्टान्तकेनाऽनुमानेन ज्ञायत इत्यर्थः । भाष्ये विधूतभेदमोह इति ।। ईश्वरावतारेषु इदं च विधूतभेदमोहः । निरस्तभेदभ्रम इत्यर्थः । टीकायां ‘समधिगतोऽस्मि’ इत्यर्थ इत्यतः परं ‘मां प्रति मां प्रतीतिबहुधास्थितमिति वा’ इति वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । अस्य व्याख्यानस्य नास्त्येवेश्वरस्याऽनेकं रूपं किंतु सूर्यमण्डलवत्पतीतिमात्रमिति विरुद्धार्थप्रतिपादकत्वात्, जाग्रदवस्थाया अविद्याकार्यत्वाभावात् ...... ........ ।
तत्प्रवर्तकस्य विश्वस्य कार्यबद्धत्वकथनमयुक्तमित्यत आह– कार्यभ्रमेति ।। अत्र जाग्रच्छब्देन जाग्रदवस्थागतज्ञानमुच्यते । ज्ञानमात्रस्याऽविद्याकार्यत्वाभावेऽपि तद्विशेषस्याविद्याकार्यत्वात्तद्बद्ध उच्यत इति भावः । तैजसस्य कार्यबद्धत्वमुपपादयति तत्कारणेति ।। सः जाग्रत्कालीनो भ्रमः कारणं यस्य भ्रमस्येति विग्रहः । तथा च जाग्रत्कालीन भ्रमकार्यस्वाप्नभ्रमबद्धस्तैजसः कार्यबद्ध (इति) उच्यत इति भावः । उभावपि अविद्यारूपकारणेन बन्धकत्वात् ‘कारणबद्धौ’ उच्यते इति ग्राह्यम् । एतेन विश्वतैजसयोर्द्विविधबन्धवत्वं प्रतिज्ञाय एकैकबन्धकथनमयुक्तमिति परास्तम् ।। तत्कारणाज्ञानेति ।। द्विविधभ्रमकारणाज्ञानरूपसुप्तिबद्ध इत्यर्थः । शङ्कते नैतच्छ्रुतिबाध इति ।। एतच्छ्रुत्या ‘एष त आत्माऽन्तर्यान्यमृत’ इत्यादि श्रुत्या ‘कार्यकारणबद्धौ तौ’ इति भेदश्रुते-र्विषयापहारो नेत्यर्थः ।। तासामिति ।। अभेदश्रुतीनां कतिपयविषयत्वेन भिन्नविषयत्वसम्भवादिति भावः । ‘अयमात्मा’ इत्यन्तिमश्रुतेर्विषयसङ्कोचोऽपि न कार्य इति भावेनाह– अन्तिमश्रुतौ चेति ।। विश्वाद्यनन्तरूपाणामिति ।। विश्वाद्यनन्त रूपाणामभेदेन विशिष्य पठितत्वादित्यर्थः ।
ननु अनन्तरूपत्वमेव ‘अनन्तमात्र’ इत्यनेन पठ्यते न तु परस्पराऽभेदवैशिष्ट्येन । तत्कथ-मुच्यते विश्वादीनामभेदेनैव पठितत्वादितीत्याशङ्कां परिहरन् ‘चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति’ इति भाष्यं शेषपूरणेन समीकरोति चशब्दात्समुच्चितमिति शेष इति ।। अनेनाऽनन्त-रूपत्वन्तु अनन्तमात्रं चेति चशब्दादभेदेन समुच्चितं कृत्वा पठन्ति’ इति भाष्यं व्याख्यातं भवति । एतेन श्रुतौ अमात्रोऽनन्तमात्रश्च’ति पदाभ्यां विश्वादीनां मूलरूपेणाऽभेदप्राप्तावपि विश्वादीनां परस्परमभेदाप्रतीतेः ‘अभेदेनैवाऽनन्तरूपत्वं पठन्ति’ इत्ययुक्तमिति परास्तम् । ‘अभेदेनैव चशब्दात्’ इति भाष्यस्य योजनान्तरमभिप्रेत्याह– अभेदेन सहैवेति ।। अनेन ‘एके शाखिनः चशब्दात् चशब्दसहितात् अनन्तमात्रशब्दात् अभेदेनैव सह अत्यन्ताभेदेनैव सह ईश्वरस्यानन्त-रूपत्वं पठन्तीति भाष्ययोजनोक्ता भवति । पूर्वयोजनायां चशब्दादित्यतः परं समुच्चितमिति शेषोऽभिमतः, इह तु नेति विशेषः ।। का गतिरिति ।। भेदकबद्धत्वादिव्यपदेशस्य का गतिरित्यर्थः । भेदकधर्मा भेदनिर्वाह्या भवन्ति । न चेदीश्वररूपेषु भेदः । तर्हि केन भेदेन ते निर्वाह्या इति भावः । अत्र टीकायाम् ‘अभेदेऽपि भेदव्यपदेशोऽचिन्त्यैश्वर्यात्’ इत्युक्तम् । अनन्योऽप्यन्यशब्दन’ इति वाक्यं प्रक्षिप्तमिति ध्येयम् । अवश्यं चैतदेवं विज्ञेयम्, ‘अभेदेऽपि भेदव्यपदेश’ इति भाष्ये भेदव्यपदेशे स्थानभेदमात्रस्य हेतुत्वेनोक्तावपि ऐश्वर्यस्य तद्धेतुत्वेनाऽ-नुक्तेः । ऐश्वर्ययोगादित्यत्र चशब्दाऽभावात् । अत एव टीकाकृता ‘अक्ष्यादिस्थितो बद्धोऽन्यत्राबद्ध उच्यत इति भावः’ इत्येव व्याख्यातम् । अन्यथा ‘ऐश्वर्ययोगाच्च बद्धोऽबद्ध इत्युच्यत’ इत्यवक्ष्यत् । अत एव च अभिन्नस्य स्थानभेदः कुत इत्यत आहेति ‘ऐश्वर्या’दित्येतत् स्थानभेदो-पपादकतयाऽवतारितम् । ‘अनन्योऽप्यन्यशब्देन’ इति प्रमाणस्य ऐश्वर्ययोगादनन्योऽप्यन्य-शब्दवाच्यो भवतीत्यर्थकत्त्वेन ऐश्वर्ययोगाद्भेदक धर्मव्यपदेश इत्यर्थकत्वाभावाच्च । भावबोधे तु गङ्गाजलानुप्रविष्टयामुनोदकवत्तदपि वाक्यं सेव्यमेवेति भावेन व्याख्यातम् ।
पूर्वपक्षस्तु सर्वशरीरस्थितो विश्वादिरूपो हरिः परस्परं भिन्न एव । भिन्नस्थानत्वात् घटादिवत् । न च अभेदेऽपि आकाशवद्भिन्नस्थानत्वोपपत्तिरिति वाच्यम् । कार्त्स्नेन भिन्नस्थान-त्वस्य हेतुत्वेन विवक्षितत्वात् । अतोऽस्त्येव विश्वादीनां भेदः । ततश्च अनुग्राह्याऽनुग्राहक-भावस्याऽवर्जनीयत्वात् निरतिशयैश्वर्याभावेन न तत्र भक्तिर्युक्तेति ।
सिद्धान्तस्तु विश्वादिरूपी हरिः भिन्नस्थानोऽप्यभिन्न एव प्रतिपत्तव्यः । भेदसाधक-भिन्नस्थानत्वाऽनुमानस्य ‘सर्वेषु भूतेष्वेतमेव’ति श्रुतिबाधितत्वात् । ननु न विश्वादीनामभेदो युक्तः ‘कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यत’ इति भेदकधर्मव्यपदेशादिति चेत्, न ‘एष तु आत्माऽन्तर्याम्यमृतः, अयमेव सः, अयं वै हरयः अयमात्मा ब्रह्म’ इति प्रत्येकमभेदवचनात् । अपि च ‘अमात्रोऽनन्त मात्रश्च द्वैतस्योपशमः शिवः । ॐकारो विदितो येन स मुनिर्नेतरो जनः’ इति विश्वाद्यनन्तरूपाणां परस्परं मूलरूपेण च अभेदमेके शाखिनः पठन्ति । अतो हरेः स्वगतभेदशून्यस्य सर्वगुणपूर्णत्वात् युक्ता तत्र भक्तिरिति सिद्धम् ।
वाक्यार्थमुक्तावली
सर्वत्र निर्दोषाशेषेति ।। सर्वरूपेष्वपि स्थानभेदकृतभेदाभावेन तारतम्याभावात् सर्वत्र निर्दोषाशेषसद्गुणत्वसमर्थनादित्यर्थः ।। स्वगततारतम्य इति ।। ईश्वरावतारत्वेनोक्तानां विश्वादीनां स्थानभेदकृतभेदेन स्वगततारतम्ये अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नामेत्युक्तदिशा भक्तिप्रयोजकगुणोन्नत्वाभावेन निरतिशया भक्तिर्न जायत इत्यर्थः । सर्वावस्था-प्रवर्तकत्वेन प्रकृत इति ।। स्थानभेदनिरूपणानन्तरं स्थानिनि भेदशङ्कावसर इति । मोहान्तस्थान-निरूपणानन्तरमस्याधिकरणस्य प्रवृत्तिरित्यनन्तरसङ्गतिरिति भावः ।। प्रतिशरीरमिति ।। विश्वादिरूपी परमात्मा स्थानभेदाद्भिन्न उताभिन्न इति चिन्ता । तदर्थं भेदसाधकं स्थानभेदानुमानं एतमेव ब्रह्मेत्याचक्षत इति श्रुतिबाधितं न भवत्युत बाधितं भवतीति । तदर्थमनुमानं श्रुत्युपोद्बलितं न वेति । तदर्थं तदुपोद्बलिका कार्यकारणबद्धौ ताविति श्रुतिरयं वै हरयो अमात्रोऽनन्त-मात्रश्चेत्याद्यभेदप्रतिपादकश्रुत्या बाधिता न भवत्युत बाधितेति ।। घटादीनामिति ।। भिन्नस्थान-स्थितानामिति पूरणीयम् ।। आकाशादीनामिति ।। आदिपदेन तदतिरिक्तविभुपदार्थग्रहणम् । अत्रापि भिन्नस्थानगतानामिति पूरणीयम् । स्थानभेद इत्युक्तन्यायप्रदर्शकं भाष्यमवतार्य व्याचष्टे ।। पूर्वपक्ष इतीति ।। स्थानापेक्षयेत्यस्य स्थानभेदापेक्षयेत्यर्थमभिप्रेत्याह ।। भिन्नस्थानस्थितत्वादिति ।। हेतोरसिद्धिपरिहारार्थमुक्तं सर्वशरीरेषु जाग्रदादिस्थानेषु चेति ।। भेदमात्रसाधने सिद्धसाधनप्रसङ्गात् अन्योन्यमिति । न चैकस्य घटस्य कालभेदेन भिन्नस्थानत्वसम्भवादप्रयोजकत्वमिति वाच्यम् । युगपद्भिन्नस्थानस्थितत्वस्य हेतुत्वेन विवक्षितत्वात् । साध्यं विना हेतोःसिद्धिमाशङ्क्य निषेधति ।। न चेति ।। यथाकाशादिविभुपदार्थस्य घटमठादिभिन्नभिन्नस्थानगतत्वेऽपि न भेदः तथा ईश्वरस्यापि भेदं विनैव भिन्नस्थानत्वोपपत्तिरित्यर्थः । यद्यप्याकाशे व्यभिचार इति शक्यते वक्तुं तथाप्य-न्यथासिद्धेः पक्षे व्यभिचारचोदनारूपत्वात् अन्यत्र तदनुक्तिः ।
आकाशदृष्टान्तेन भिन्नस्थानगतत्वस्यान्यथासिद्धिं वदन्प्रष्टव्यः । हस्तवितस्त्याद्यंशैर्भिन्नस्थान-गतत्वस्यांशिन आकाशस्येव हस्तपादाद्यवयवैः दक्षिणाक्ष्यादिभिन्नस्थानगतस्येश्वरस्य भेदं विनापि भिन्नभिन्नस्थानगतत्वोपपत्तिरित्युच्यत उत समग्ररूपेण भिन्नस्थानगतस्येत्याशयेन विकल्पयति ।। किमीश्वर इति ।। किमीश्वरोऽवयवी पाणिपादाद्यवयवैरनेकस्थानगत इति हस्तवितस्त्याद्यवय-वैरनेकस्थानगतस्याकाशाद्यवयविन इव भेदं विना भिन्नस्थानगतत्वोपपत्तिरित्युच्यते उत समग्ररूपेणैव भिन्नस्थानगत इत्यन्थोपपत्तिरित्युच्यते वेत्यर्थः ।। श्रवणादिति ।। तथा च पाणिपादाद्यवयवैर्भिन्नस्थानगतत्वस्य प्रमाणविरुद्धस्यास्माभिर्हेतूकर्तुमशक्यत्वान्नाकाशदृष्टान्तेना-न्यथासिद्धिचोदनेत्यर्थः ।। द्वितीय इति ।। प्रमाणविरोधाभावेनास्मद्विवक्षितत्वेऽप्यन्यथासिद्ध्यु-द्भावनाय त्वदुपात्तो दृष्टान्तोऽसङ्गतः । ईश्वरस्यैवांशिन आकाशस्य सामग्य्रेण भिन्नस्थानगतत्वा-भावादिति भावः । ननु भावानभिज्ञानहेतोरन्यथासिद्धावाशङ्कितायां स्वाभिप्रेतहेतोरेवाविष्करणीय-त्वेन विकल्पायोग इति चेत् अस्मदभिप्रायमजानता केनाभिप्रायेणास्मत्प्रयुक्तहेतोरन्यथासिद्धि-राशङ्कितेति विकल्पकरणोपपत्तेः । नन्वस्तु परमात्मनो भेदः को दोषस्तत इत्यत अपिशब्दा-दनुग्राह्यानुग्राहक इति भाष्यतात्पर्यमाह ।। तथा चेति ।। तत्प्रसङ्ग इति ।। तयोः गुणादि-तारतम्यानुग्राह्यानुग्राहकभावयोः प्रसङ्ग इत्यर्थः । अनुग्राह्यानुग्राहकभावोऽपीति तारतम्य-समुच्चायकापिशब्दस्य सम्बन्धः । तथा च भेदाद्गुणतारतम्यं ततश्चानुग्राह्यानुग्राहकभावः स्यादिति भाष्यार्थो ज्ञेयः । ननु भिन्नानामपि केषाञ्चिद्गुणादितारतम्यालाभाद्व्यभिचार इति चेत् चेतनानां परस्परं भेदस्योत्सर्गतो गुणादितारतम्यव्याप्तत्वात् । साम्यग्राहकप्रमाणरूपापवादनिबन्धनव्यभिचार-स्यादोषत्वात् । तदुक्तम् । ‘उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति’ इति ।
सूत्रे स्थानेति तद्भेदो लक्ष्यते । आद्यादिभ्य उपसङ्ख्यानात्सप्तम्यर्थे तसिः । उभशब्द-पर्यायोऽत्रोभयशब्दः । उभयशब्दश्च सङ्ख्याभेदयोर्वाचकः । उभादुदात्त इति सूत्रे द्व्यर्थस्य वृत्त्यादावुक्तत्वात् । एवं चोभयहेतुकेत्यत्र सङ्ख्यापरत्वेऽपि भिन्नपरत्वं न विरुध्यते । भेदश्चात्रा-न्योन्याभावलक्षणो गुणतारतम्यलक्षणोऽनुग्राह्यानुग्राहकभावलक्षणश्च विवक्षितः । ‘न स्थान-भेदतोऽप्यस्य भेदः कश्चित्परेशितुः’ । इत्यनुव्याख्याने कश्चिदित्युक्तत्वात् । अपिशब्दश्च परस्य पूर्णस्य समग्ररूपस्यापि स्थानभेदाद्भेदः । अतो नाकाशादिवदुपपत्तिरिति पूर्वपक्ष्यभिप्रायेण सम्बध्यते । अत एव पूर्वपक्षभाष्ये परमात्मनोऽपीत्युक्तम् । हेतोरप्रयोजनकत्वद्योतनाय स्थान-तोऽपीति यथाश्रुतं च सम्बध्यते । ततश्च स्थानभेदे सत्यपि परस्योभयलिङ्गं भिन्नं रूपं नास्ति । कुतः? हि यस्मात् कारणात्सर्वत्र सर्वभूतेषु चक्षुरादिस्थानेषु च परस्योभयलिङ्गं नेत्येतत् हि सर्वभूतेषु एतमेव ब्रह्मेत्याचक्षत इत्यादौ प्रसिद्धं तस्मादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ।। न च तत्रेति ।। श्रुतावेतमेवेत्येकवचनश्रवणादाह ।। एकमिति ।। ब्रह्मशब्दार्थमाह ।। गुणपूर्णमिति ।। ननु सूत्रे परस्योभयत्वमित्यल्पाक्षरेणैव भेदाभावोेेक्तिसम्भवे लिङ्गमिति किमर्थमधिकोक्तिरित्यत आह ।। एकैकदेशत इति ।। परस्य परमात्मनः । असिद्धं प्रमाणाभावात् । सप्ताङ्ग एकोनविंशति इत्यादिश्रुतिविरुद्धं चेत्यर्थः । तथा च परस्योभयत्वमित्येवोक्तौ पाणिपादाद्यवयवैकदेशतोऽप्यनेक-स्थानत्वेन भेदाभावोऽपि ज्ञायेत । उभयलिङ्गमित्युक्तौ तु भिन्नस्थानेषु विद्यमानानां समग्ररूपाणां भेदमात्रनिषेधोऽपि ज्ञायते । विशिष्टनिषेधस्य विशेषणनिषेधपर्यवसानादिति भावः । तर्ह्युभयं रूपमिति स्पष्टं वक्तव्यं, किं नानार्थकलिङ्गपदप्रयोगेणेति चेत् हेतोरप्रयोजकत्वज्ञापनार्थमर्थान्तर-ज्ञापनार्थत्वात् । तदुक्तमानन्दमालायाम् । न हि स्थानभेदस्तद्भेदस्य ज्ञापकः कारको वा स्यादिति । तत्त्वप्रदीपे च न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं भवतीति स्थानभेदेऽपि तद्गतवस्तुष्वेकत्वोपपत्तेः स्वप्नाद्यवस्थाभेदेऽपि तद्वतो भोक्तुरेकत्वोपपत्तिरिति ।
अर्भकौकस्त्वादित्यत्र व्योमवत्सर्वगतस्याप्यंशेनैकत्र स्थितिः । अल्पश्रुतेरित्यत्रैकैकस्थितांश-स्यापि पूर्णत्वम् । अत्र तु पाणिपादादिसमग्रावयवैरेकैकस्थितस्य भगवदंशस्य विश्वादेर्भेदाभावः प्रतिपाद्यत इति भेदः ।। अन्यत्रादृष्टमिति ।। ब्रह्माण्डस्य अनेकरोमकूपाश्रयत्वं दृष्टमिति चेत् अनेकरोमकूपानां स्वशक्त्यैवाश्रयत्वेनाण्डशक्त्या तदभावात् । रोमकूपानामनेकत्वसङ्ख्याश्रयत्वेऽपि भेदाभावादिह समग्ररूपेण भिन्नस्थानगतत्वस्यान्यत्रादर्शनोक्तेः । अत एव कृष्णशिरसि मुक्त-किरीटस्य भगवद्रूपेष्वभेदात् तदिच्छया चैव नारायणस्य शीर्ष्ण्यप्यासीदिति नारायणशिरस्य-प्यवस्थानोक्तिरिति ज्ञेयः ।। इत्यत आहेति ।। सर्वत्र हीत्यनेन सूचितं सर्वत्रापि न संशय इति तत्पदगर्भं स्मृतिवाक्यं पठतीत्यर्थः । अयं स्मृत्यर्थः । सर्वत्राक्ष्यादिस्थलेषु विद्यमानः परः पूर्णो विश्वादिरूपी विष्णुरेकरूप एवाभिन्नरूप एव । एकं च एकमपि तद्रूपमचिन्त्यैश्वर्यात् बहुधा नानास्थानेषु सामस्त्येनैव सूर्यवदीयत इति । विधूतभेदमोहः भगवदवतारेषु निरस्तभेदभ्रमः ।। मां प्रतीति ।। प्रतिदृशं दृशं दृशं प्रति मां प्रति प्रत्ययं वर्तत इति नैकधा बहूनामाभिमुख्येन स्थितं अर्कमिव त्वामप्येकं समधिगतोऽस्मीति वार्थ इत्यर्थः । नन्विदं व्याख्यानं समग्ररूपेणैक-स्यानेकस्थानगतत्वमदृष्टमिति शङ्कापरिहारकत्वादसङ्गतमिति चेन्न बहूनामाभिमुख्येऽप्येकत्व-वद्बहुस्थानगतत्वेऽपि तदुपपत्तेरिति सामान्यमात्रे दृष्टान्तमात्रस्य सङ्गतत्वात् । पूर्वव्याख्याने आदित्यस्य ईश्वरत्ववद्द्रव्यपूर्त्यभावेन सामग्य्ररूपेणानेकस्थानत्वाभावात् करचरणादिसामग्रीमात्रे दृष्टान्तत्वस्य विवक्षितत्वात् द्वितीयं व्याख्यानमिति हृदयम् ।
तत्त्वसुबोधिनी
सर्वावस्थाप्रेरकत्वेन प्रकृतेति ।। तथा चातीताधिकरणेषु सर्वावस्थाप्रेरकत्वोक्ताववस्थानां भिन्नत्वात् परमात्मनोऽपि भेद इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । भिन्नस्थानत्वादिति हेतोः स्वरूपासिद्धिशङ्कापरिहारार्थं सर्वशरीरेषु जाग्रदादिस्थानेषु चेति । भेदमात्रसाधने सिद्धसाधनत्वप्रसङ्गात् अन्योन्यमिति ।। न चैकस्यैव घटस्य कालभेदेन भिन्नत्वसम्भवादप्रयोजको हेतुरिति वाच्यम् । युगपद्भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात् । ननु भिन्नस्थानत्वं किमन्योन्यं भेदसाधकं स्वरूपेणोतैकदेशावधानेन भिन्नस्थानत्वोपपत्तेरित्याशङ्क्य निषेधति ।। न चेति ।। रूपश्रवणादिति ।। तथा च तद्विरोधः स्यादित्यर्थः ।। असङ्गत इति ।। आकाशस्थसमग्ररूपेणा-नेकस्थानत्वाभावादिति भावः । न चाकाशे व्यभिचारः समग्ररूपेणेत्यस्याविवक्षितत्वात् । नन्वस्तु परमात्मनो भेदः ततः को दोष इत्यतो भेदानुग्राह्यानुग्राहकभाव इत्यस्याभिप्रायमाह ।। तथा चेति ।। तत्प्रसङ्गश्चेति चशब्दसम्बन्धः । भिन्नानामनुग्राह्यानुग्राहकभावस्य हीनोच्चादिभाव-निबन्धनत्वाद्गुणतारतम्येत्युक्तम् । तथा च भेदाद्गुणतारतम्यं ततश्चानुग्राह्यानुग्राहकभावः स्यादित्यर्थः । भिन्नानामपि केषाञ्चित् गुणतारतम्यानुपलम्भाद्व्यभिचार इति न वाच्यम् । परस्परभेदस्योत्सर्गतो गुणादितारतम्यव्याप्तत्वात् । साम्यग्राहकप्रमाणरूपापवादनिबन्धन-व्यभिचारस्यादोषत्वादिति ।। सर्वेष्विति ।। अस्यां श्रुतौ एकस्यानेकस्थानत्वोक्तेरिति भावः ।। श्रुतिं व्याचष्टे ।। सर्वेष्विति ।। एतमित्येकवचनश्रवणादाह । एकमिति ।। ब्रह्मशब्दार्थः पूर्णगुणमिति ।। ननु परस्योभयत्वमित्यल्पाक्षरेणैव भेदाभावोक्तिसम्भवे उभयलिङ्गमिति किमर्थमुक्तमित्यत आह ।। एकैकदेशत इति ।। परस्य परमात्मनोऽसिद्धं प्रमाणाभावात् । न केवलमप्रामाणिकं किन्तु सप्ताङ्ग एकोनविंशतिमुख इति प्रमाणविरुद्धं चेत्यर्थः । परस्योभयत्वं नेत्येवोक्तौ पाणिपादाद्यवयवरूपैकैकदेशतो ह्यनेकस्थानत्वेन भेदाभावो विज्ञायेत । उभयलिङ्गं नेत्युक्तौ तु भिन्नस्थानेषु विद्यमानानां समग्ररूपाणां भेदमात्रनिषेधो विज्ञायते । ननु भेदमात्रनिषेधज्ञानं कथमिति वाच्यम् । भेदविशिष्टरूपनिषेधे विशिष्टनिषेधस्य विशेषणनिषेधपर्यव-सानादिति भावः । लिङ्गशब्दस्य स्वरूपपरत्वं कुत इत्यत आह ।। लिङ्गमिति ।। प्रतिदृश-मित्यस्यार्थान्तरमाह ।। मां प्रतीति ।।
वाक्यार्थविवरणम्
सर्वत्र ।। सर्वरूपेण ।। प्रतिशरीरमिति ।। प्रतिशरीरस्थितयोरन्योन्यं भिन्न उताभिन्नः । तथा एकस्मिन्नेव शरीरे जाग्रदादिस्थानेषु स्थितो भिन्न उताभिन्न इति संशयविवेको द्रष्टव्यः ।। घटादीनामित्यादि ।। अनेकस्थानस्थितानां घटादीनां भिन्नत्वदर्शनं तथाऽऽकाशादीनां सर्वं व्याप्य स्थितानामभिन्नत्वदर्शनं चेत्यर्थः ।। भिन्नस्थानस्थितत्वादिति ।। अनेकस्थानत्वादित्यर्थः । एकस्यैव घटस्य क्रमेणानेकस्थानत्वेऽपि भेदाभावेन व्यभिचारपरिहाराय युगपदनेकस्थानत्वादिति हेतुर्द्रष्टव्यः । अस्य हेतोराकाशे व्यभिचारमाशङ्कते ।। न चेति ।। आकाशस्य स्वांशैरेवानेक-स्थानत्वेऽपि न परमात्मवत् समग्ररूपेणानेकस्थानत्वमस्ति । हेतावपि समग्ररूपेणेति विशेषण-मभिप्रेतम् । अतो न व्यभिचार इत्याशयेन परिहारमाह ।। किमीश्वर इत्यादिना ।। श्रवणादिति ।। तथा च समग्ररूपेणैवानेकस्थानत्वं श्रूयते, नावयवैरिति भावः ।। द्वितीय इति ।। समग्ररूपेणा-नेकस्थान इति पक्षे व्यभिचारदानायाऽऽकाशवदिति दृष्टान्तोऽसङ्गतः । तस्यांशैरेवानेकस्थान-स्थितत्वेन समग्ररूपेण तदभावादिति भावः ।। अन्यत्र ।। आकाशादौ ।। सूर्यदृष्टान्तम् ।। सूर्य-वदिति प्रमाणोक्तं सूर्यदृष्टान्तमित्यर्थः । ‘तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्म-कल्पितानाम्’ इति पूर्वार्धतात्पर्यमाह ।। तथेति ।। हृदि हृदीति वीप्साया तात्पर्यं प्रतिहृदयमिति । विष्ठितमित्यत्र वीत्यस्य तात्पर्यं सामग्य्रेणैश्वर्यबलादनेकधेति । प्रतिदृशमित्यस्य प्रतिदृशं प्रेरकत्वेन स्थितमित्येकमर्थमुक्त्वा अर्थान्तरमाह ।। मां प्रतीत्यादिना ।। मदाभिमुख्येनेत्यर्थः । अयं सूर्यो मा प्रति मां प्रतीत्याभिमुख्येन वर्तते । प्रतिदृशं विषयत्वेनानेकधा बहुधा स्थितः अर्कः यथेत्यर्थः । पृथिवीत्यारभ्यान्तर्यामीत्यन्तेन एष त आत्मेति श्रुतिर्व्याख्याता । यश्चायमित्यारभ्यायमेव स इत्यादिनेत्यन्तेन ‘अयमेव स’ इति श्रुतिर्व्याख्याता । अयं मूलरूप्येवेत्यारभ्य इत्यर्थः इत्यन्तेन ‘योऽयमात्मा’ इत्यादि अनन्तानि चेत्यन्तं व्याख्यातम् ।
वाक्यार्थमञ्जरी
सर्वत्र सर्वरूपेषु ।। स्वगतेति ।। स्वरूपस्थेत्यर्थः । तथात्वेऽनुग्राह्यानुग्राहकभावप्राप्तेरित्यर्थः । घटादीनामनेकस्थानस्थितानां भिन्नस्थानत्वात् ।। असङ्गत इति ।। आकाशस्य समग्ररूपेणानेक-स्थानस्थत्वाभावादिति भावः । ततः किमित्यत आह ।। तथा चेति ।। तत्प्रसङ्गश्चेति चशब्दसम्बन्धः । तथा च भेदाद्गुणतारतम्यम् । ततश्चानुग्राह्यानुग्राहकभावः स्यादित्यर्थः । भेदस्य तारतम्यव्याप्तिरौत्सर्गिकीति न व्यभिचारः शङ्क्यः । ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।। स्थानतोऽपि स्थानभेदतोऽपि । परस्य हरेः । उभयलिङ्गम् । भिन्नरूपं नास्ति । कुतः ? हि यस्मात्सर्वत्र सर्वस्थानस्थितरूपेषु निर्भेदत्वादिना श्रूयत इत्यर्थः । एतमित्येकवचनश्रवणादाह ।। एकमिति ।। ब्रह्मशब्दार्थः पूर्णगुणमिति ।। ननु सूत्रे परस्योभयत्वं नेत्येतावन्मात्रेण पूर्तौ लिङ्गग्रहणं किमर्थमित्यत आह ।। एकैकदेशत इति ।। पादाद्यवयवैरित्यर्थः । परस्य परमात्मनः । असिद्धं प्रमाणाभावात् । श्रुतिः सप्ताङ्ग इत्यादिका । तथा च परस्योभयत्वं नेत्येवोक्तौ पाणिपादाद्यवयवरूपैकदेशतोऽप्यनेकावस्थानत्वेन भेदाभावोऽपि ज्ञायते । उभयलिङ्गं नेत्युक्तौ तु भिन्नस्थाने विद्यमानानां रूपाणां भेदमात्रानिषेधोऽपि ज्ञायेत । विशिष्टनिषेधस्य विशेष्यनिषेध-पर्यवसानादिति भावः । प्रतिदृशं प्रतिनेत्रं नैकधा अनेकरूपेण । समधिगच्छन्ति सम्यग्जानन्ति । ‘तमिममहमजं शरीरभाजां हृदि विष्टितमात्मकल्पितानाम्’ इति पूर्वार्धतात्पर्यमाह ।। तथेति ।। प्रतिदृशमित्यस्यार्थान्तरमाह ।। मां प्रतीति ।। मदभिमुखेनादित्यो वर्तत इत्यादीत्यर्थः ।