ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ
७. प्रायणाधिकरणम्
सूत्रभाष्यम्
।। ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ ।। १२ ।।
यावन्मोक्षस्तावदुपासनादि कार्यम् ।
‘स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति हि श्रुतिः ।।
‘सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासत’ इति सौपर्णश्रुतिः ।।
‘श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ।।
दृष्टतत्वस्य च ध्यानं यदा दृष्टिर्न विद्यते ।
भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।
आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम्’ इति ब्रह्माण्डे ।। १२ ।।
।। इति प्रायणाधिकरणम् ।। ७ ।।
तत्त्वप्रदीपिका
यावन्नारायणं प्रति प्रयाणात्मको मोक्षः तावदुपासनार्चनादि कार्यम् । आदर्शनादिति वक्तव्ये आमोक्षादित्युक्तं दर्शनवतामपि यदा तद्विच्छेदस्तदाऽवश्योपास्तिकरणार्थम् । ‘स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयति’ इति प्रश्ने ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ इत्यारभ्य तस्य परमध्यातुर्विरिञ्चलोकं नीतस्य ‘स एतस्माज्जीवघनात्’’ इत्यादेस्ततोऽप्युपदेशं प्राप्य पुनरभ्यस्यतः परं पश्यतोऽप्योङ्कारेणै-वायनेनान्वेति विद्वान् । ‘यत्तच्छान्तमजरममृतमभयं परं चे’ इत्यामोक्षादुपास्तिकर्तव्यतायां प्रमाणदर्शनात् ।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनध्यानस्य प्रायणान्तत्वसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा ज्ञानिनां ध्यानफलाभावप्रसङ्गेन मुक्तौ तारतम्याभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतं ध्यानमेव विषयः । किं ज्ञानपर्यन्तमेवावश्यकमुत मुक्तिपर्यन्तमपीति सन्देहः । ज्ञानसाधनत्वं ज्ञानिनामपि तद्दर्शनं सन्देहबीजम् । ज्ञानपर्यन्तमेवावश्यकमिति पूर्वः पक्षः । दर्शनार्थमेव श्रवणादिविधानात् । ज्ञानार्थं विहितस्य मुक्तिपर्यन्तमनुष्ठाने कारणाभावात् । न च ज्ञानसाधनस्यापि ध्यानस्य मोक्षोपयोगित्वा-त्तावदावश्यकत्वमिति वाच्यम् । ज्ञानमात्रस्यैव मोक्षे सामर्थ्यात् । न चानन्दातिशयार्थं ध्यान-नियतिः । आनन्दातिशयार्थं श्रवणादिसाधनान्तरस्यापि कर्तुं शक्यतया तन्नियमायोगात् । ज्ञान एव ध्यानस्य प्राबल्यात् । न ह्येकत्र यस्य प्राधान्यं तस्य सर्वत्रापीति । अतो यावन्मोक्षं ध्यानस्य कर्तव्यत्वाभावाज्ज्ञानिनां शुकादीनां तद्व्यर्थमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। आ प्रायणादिति ।। मुमुक्षुणा मोक्षपर्यन्तं ध्यानमवश्यं कर्तव्यमेव । ध्यानं विनाऽपरोक्षज्ञानाभावेन तावज्ज्ञानपर्यन्तमावश्यकत्वादिति भावः । तथापि मुक्तिपर्यन्तं तदनुवृत्तिः कुत इत्यतो दृष्टं हीति सूचितश्रुतिं दर्शयति ।। स इति ।। एतदेतेषु । ॐकारो हरिः । कैमुत्येनापि ध्यानस्य मुक्तिपर्यन्तत्वं साधयन्नाह ।। सर्वदेति ।। ज्ञानात्पूर्वं श्रवणादियुतध्यानस्य कर्तव्यत्वाज्ज्ञानानन्तरं च सम्यग्ध्याना-लाभे श्रवणादित्यत उपासनादीत्यादिपदम् । उक्तं हि–
भोक्तव्यकर्मण्यक्षीणे जपेन कथयापि वा ।
वर्तयन्ति महात्मानस्तन्निष्ठास्तत्परायणाः ।। इति ।
ज्ञानपर्यन्तं श्रवणादियुक्तं ध्यानम् । ततः प्रायेण केवलं कर्तव्यमेवेत्यत्र स्मृतिं चाह ।। श्रुणुयादिति ।। ‘नेक्षा क्वचन बाध्यत’ इति ।। कादाचित्क्यपि मोक्षसाधनं भवतीत्यर्थः । दृष्टतत्त्वस्य च ध्यानं निरवधिकम् । ज्ञानोत्तरमपि निरवधिकं ध्यानं किं विहितत्वात्क्रियतेऽन्यथा वा । नाद्यः । मोक्षविरोधात् । न द्वितीयः । करणानुपपत्तेरित्यत आह ।। आविमुक्तेरिति ।। स्वत एव स्वभावेनेत्यर्थः । न च वाच्यं ज्ञानोत्तरध्यानस्य फलाभावादकर्तव्यत्वमिति । आनन्दातिशय-फलत्वात् । न चोक्तदोषः । ‘योगारूढस्य तस्यैव शमः कारणमुच्यते’ इति वचनादानन्दवृद्धौ ध्यानस्यैव प्रधानसाधनत्वात् । अतो मोक्षपर्यन्तं ध्यानस्य कर्तव्यत्वेन ज्ञानिनामपि तद्विचित्रफलेन मुक्तौ तारतम्यसिद्धिरिति सिद्धम् ।
गुर्वर्थदीपिका
उक्तदोषः श्रवणादिसाधनान्तरस्यापि कर्तव्यत्वदोषः । शमः कारणमुच्यत इत्यत्र ‘शमो मन्निष्ठता बुद्धेः’ इति वचनाद्बुद्धेर्भगवन्निष्ठता ध्यानमिति यावत् । कारणं मुक्तावानन्दवृद्धेः कारणम् ।।
भावबोधः
अत्र भगवज्ज्ञानसाधनध्यानस्येति ।। भगवज्ज्ञानसाधनत्वेन विहिते यस्मिन् ध्याने पूर्वाधि-करणे आसननियम उक्तस्तस्य ध्यानस्य ज्ञानिनामाप्रायणान्तत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।। ध्यानफलाभावप्रसङ्गेनेति ।। अपरोक्षज्ञानानन्तरकृतध्यानस्य आनन्दादिवृद्धिलक्षण-फलाभावप्रसङ्गेनेत्यर्थः ।। किमित्यादि ।। अत्र ध्यानं किं ज्ञानपर्यन्तमेव कर्तव्यमुत मुक्ति-पर्यन्तमपीति चिन्ता । तदर्थं ज्ञानिकृतध्यानस्य फलं नास्त्युतास्तीति । तदर्थं तत्फलत्वेनाभि-मतानन्दातिशयः किं श्रवणादिसाधनान्तरेणान्यथासिद्धो भवत्युत न भवतीति । यावन्मोक्ष-स्तावदुपासनादीति भाष्यनिवर्तनीयं पूर्वपक्षमाह– ज्ञानपर्यन्तमेवेत्यादिना । अन्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न चानन्दातिशयार्थमित्यादिना ।। ननु श्रवणादित्रयस्य ज्ञानसाधनत्वेऽपि यथाध्यानमेव प्रबलं साधनं तद्वदत्रापि ध्यानस्य प्राबल्यं किं न स्यादित्यत आह– ज्ञान एवेति ।। यावन्मुक्ति ध्यानं न कार्यमिति वदता किं मुक्तेः पूर्वं कदापि ध्यानं न कार्यमित्युच्यते, उतापरोक्षज्ञानानन्तरमेवेति विकल्पं हृदि निधायाद्यपक्षनिराकरणपरत्वेन ध्यानं विनाऽपरोक्षज्ञानाख्यविशेषकार्यानुपपत्तेरिति न्यायविवरणं व्याचष्टे– ध्यानं विनेति ।।
द्वितीयमाशङ्क्य तन्निराकरणपरत्वेन स य इति भाष्यं व्याचष्टे– तथापीति ।। कैमुत्ये-नापीति ।। अनेन ‘तत्रापि’ इति सूत्रांशो विमुक्तावपीति, एतच्छ्रुत्युदाहरणेनोक्ततात्पर्यको भवतीति सूचितम् । भाष्योदाहृतश्रुतिद्वये उपासनामात्रस्य श्रुतत्वात् किमर्थं तत्पूर्वभाष्ये उपासनादि’’ इति ‘‘आदि’’पदप्रयोग इत्यत आह– ज्ञानात् पूर्वमिति ।। ‘भक्तिश्चानन्तकालीना’ इति उत्तरार्धानु-सारेणाह– दृष्टतत्त्वस्य च ध्यानं निरवधिकमिति ।। अनेन दृष्टतत्वस्य पुंसः परमे ब्रह्मणि विषये ध्यानं निरवधिकं स्फुटा भक्तिश्चानन्तकालीना । तत्र हेतुर्यदा यस्मात् दृष्टिः फलत्वेन न विद्यते सिद्धत्वादिति स्मृतियोजना सूचिता भवति ।। मोक्षविरोधादिति ।। ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथाकरणापत्या विधिबन्धवर्जितत्वरूपमोक्षत्वविरोधादित्यर्थः ।। करणानुपपत्तेरिति ।। मोक्षात् पूर्वमित्यर्थः ।। ध्यानस्यैवेति ।। ‘‘शमः कारणम्’’ इत्यत्र शम-शब्देन ध्यानस्यैव विवक्षितत्वादिति भावः ।
भावदीपः
प्रायणांतत्वेति ।। मोक्षपर्यन्तत्वेत्यर्थः । एतेन यस्मिन् ध्याने अविशेषाद्देशादिर्नादर्तव्य इत्युक्ततया तस्य ध्यानस्य मोक्षपर्यन्तकार्यत्वं नापेक्ष्यं मोक्षे तत्कृतविशेषाभावादिति शङ्कोदया-त्पूर्वसङ्गतिरपि सूचिता ।। ज्ञानिनामिति ।। अपरोक्षिणां शुकादीनां यद्ध्यानं तस्य मुक्ता-वानन्दाभिव्यक्तिरूपफलाभावापातेन मुक्तानां यावत्स्वरूपसुखाभिव्यक्तौ यावदधिकारमवस्थिति-रित्यादावुक्तशतगुणोद्रिक्तत्वादितारतम्यं न स्यात् क्लृप्तानन्दस्य मुक्तौ ह्रासादित्यर्थः । तद्दर्शनं ध्यानदर्शनम् । विश्वेदेवा उपासत इत्यादावित्यर्थः । अन्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमित्यन्यत्रोक्तप्रतिज्ञाया ध्यानं च यावदीक्षेति सूचितं भावार्थमाह ।। ज्ञानपर्यंतमेवेति ।। शृृणुयादित्यादिस्मृतिसूचितहेतुमाह ।। दर्शनार्थमिति ।। द्रष्टव्यः श्रोतव्य इत्यादौ श्रवणमननयोरप्युक्तेः श्रवणादीत्युक्तम् । ध्यानस्य विधानादित्यर्थः । तस्यैव प्रकृतोप-योगादिति ज्ञेयम् । हेतोरप्रयोजकत्वं निराह ।। ज्ञानार्थमिति ।। कारणाभावासिद्धिमाशङ्क्य निराह ।। न च ज्ञानेति ।। ज्ञानमात्रस्यैवेति ।। विद्यैव त्वित्यादौ तथैवोक्तेरिति भावः ।
ननु ध्यानस्य ज्ञानोपयोगित्ववचनवत् ज्ञानसमकक्ष्यतया कृत्स्नमोक्षोपयोगित्ववचनाभावेन तदभावेऽपि मोक्षैकदेशोपयोगोऽस्तु । ‘यावत्सेवा परे तत्वे तावत्सुखविशेषता’ इत्युक्तेः । ‘भावं तु बादरायणोऽस्ति हि’ इत्युक्तेश्च । तथा च ज्ञानिनामपि वस्वादीनां ध्यानादावधिकारोक्त्यैवाप्रायणं कर्तव्यत्वसिद्धेर्नात्र पूर्वपक्षोदय इति भावेनाशङ्क्य निराह ।। न चेति ।। कुत इत्यतः प्रागुक्त-न्यायविवरणस्थहेतुं योजयति ।। आनन्देति ।। ज्ञानार्थं विहितस्यापि यावत्सेवेत्यादिवचन-बलेनान्यार्थत्वमपि सम्भवतीति भावेनोक्तं साधनान्तरेति ।। अत एव श्रवणादेरानन्दातिशयहेतुत्वे ज्ञानहेतुता नेति शङ्कानिरासाय प्राक् ध्यानविधानादिति वाच्ये श्रवणादीत्युक्तम् । तर्हि ज्ञानपर्यंतमपि नियमेन तन्न स्यादित्यत आह ।। ज्ञान एवेति ।। तन्निर्धारणार्थनियम इत्यादौ तथोक्तेरिति भावः । अस्तु मोक्षे आनन्दातिशयेऽपि प्राधान्यमित्यत आह ।। न हीति ।। कल्पकाभावादिति भावः ।। अत इति ।। ज्ञानार्थं विहितस्य यावन्मुक्तिकृतौ हेत्वभावान्मुक्ता-वानन्दातिशयस्यान्येनापि सिद्धत्वादित्यर्थः ।। तद्व्यर्थमिति ।। तथा च देवादीनां देवता-नयोक्ताधिकारो ध्यानादन्यश्रवणादावेव न ध्यान इत्युपासनापादे देवानामितरे त्वर्थसामान्यादित्यादौ ध्यानोक्तिरयुक्तेति भावः ।
ननु सम्भवाच्च प्रकाशस्य परमेकमृते हरिमित्युक्त्या ज्ञानेऽतिशयार्थमपि ध्यानस्यावश्यकतया यावत्स्वयोग्यज्ञानपूर्तेर्ध्यानस्य कर्तव्यत्वात्तस्याश्चामुक्तेर्व्यक्त्यतिशयोपेतमित्युक्त्या मुक्तिपर्यन्तत्वा-ज्ज्ञानार्थमप्यामुक्तिकर्तव्यत्वं सिद्धमिति चेत् न । स्वयोग्यज्ञानपूर्त्यनन्तरमपि कियत्काल-मवस्थितिसम्भवात् कादाचित्कज्ञानस्यापि मुक्त्यव्यभिचारेण ज्ञानातिशयस्यापि व्यर्थत्वमिति वा शङ्काभिप्रायात् । ज्ञानार्थं कर्तव्यत्वेऽपि सुखातिशयार्थं मास्त्विति शङ्कायां सुखातिशयेऽपि ध्यानस्य प्राधान्यं वक्तुं वाऽस्यारम्भात् । वक्ष्यति चानन्दवृद्धौ ध्यानस्येत्यादीति ।। कर्त्रुक्तिपूर्वं भाष्यं व्याचष्टे ।। मुमुक्षुणेति ।। भाष्ये आदिपदोक्तावप्यन्यत्रोक्त्यनुरोधेन ध्यानस्यैवेह प्राधान्यसूचनाय तन्मात्रोक्तिः । तदर्थोऽग्रे व्यक्तः । कुतः कार्यमित्यतो ध्यानं विना परोक्षज्ञानस्य विशेषकार्यानु-पपत्तेरित्यन्यत्रोक्तहेतुमाह ।। ध्यानं विनेति ।। यावत्स्वयोग्याज्ञानमित्यर्थः । प्रकृतानुपयोगात्कुत एतदुक्तिरित्यत आह ।। तावज्ज्ञानपर्यंतमिति ।। मुक्तिपर्यन्तमावश्यकत्वे हेतुं वक्ष्याम इत्यर्थः । एतच्च पूर्वोक्तप्रमेयस्मरणार्थमेवोक्तम् । न तु ज्ञानपर्यंतमपि न कर्तव्यमिति शङ्कानिरासार्थम् । तस्य प्रागेवावृत्तिनयसिद्धत्वेनात्र तथा शङ्काया एवानुदयादिति भावः । अत एव मुक्तिपर्यन्तं कार्यत्वे आवृत्तिनयसिद्धं ज्ञानपर्यन्तकार्यत्वं नेत्यपि भ्रांतिरपोढा । तथापि ज्ञानपर्यन्तं कार्यत्वेऽपीत्यर्थः । ॐमित्याक्रियते इत्योङ्कार इत्युपेत्याह । ॐकारो हरिरिति ।। षट्प्रश्ने व्याख्यातैषा श्रुतिः ।। कैमुत्येनेति ।। मुक्ता अप्युपासते किमु प्राक् सर्वदा ज्ञानोत्तरमपीति कैमुत्येनेत्यर्थः । श्रुतौ स्मृतौ चाभिध्यायीत दृष्टतत्वस्य च ध्यानमिति ध्यानस्यैवोक्तेः भाष्ये कथमुपासनादीत्यादिपदेन श्रवणादे-रप्युक्तिरित्यतः प्रायिकत्वेन ध्यानवदावश्यकत्वाभावात् श्रुत्यादौ तन्मात्रोक्तिरिति भावेनादि-पदार्थमाह ।। ज्ञानादिति ।। इत्येतस्मात्कारणादित्यर्थः । कुत एवं तत्वप्रदीपरीत्या अर्चनादि-रेवादिपदार्थोऽस्त्वित्यत आह ।। उक्तं हीति ।। षष्ठे गीताभाष्ये । वर्तयन्ति वर्तन्ते कालं नयन्तीति वार्थः । कथयापीत्यनेन श्रवणप्रतीतेरिति भावः । एवमादिपदस्य प्रायिकत्वाशयमुक्त्वा स्मृति-मवतारयति ।। ज्ञानेति ।। न बाध्यते अप्रमाणं न भवतीत्यर्थस्यानुपयोगादाह ।। कादाचित्कीति ।। स्मृतावनन्तकालीनेत्यग्रेतनपदं ध्यानमित्यत्राप्याकृष्यार्थमाह ।। दृष्टतत्वस्येति ।। उक्तार्थानुवाद-पूर्वमुत्तरार्धमवतारयति ।। ज्ञानेति ।। स्मृतौ यदा दृष्टिर्न विद्यते तिरोहिता । तदा दृष्टतत्वस्यापि पुनर्दृष्ट्यर्थं पुनः पुनर्ध्यानमावश्यकमित्युक्तम् । ईक्षा क्वापि न बाध्यत इत्यपि । तथा च व्यर्थं ध्यानमिति शङ्कते ।। न च वाच्यमिति ।। फलत्वादिति ।। ज्ञानातिशयद्वारा साक्षाद्वेति भावः ।। उक्तेति ।। श्रवणादिसाधनान्तरस्यापि कर्तुं शक्यत्वादित्युक्तदोष इत्यर्थः । योगारूढस्य ज्ञानिनः । शमः ध्यानम् । शमो मन्निष्ठता बुद्धेः’ इत्युक्तेरिति भावः । उक्तं च षष्ठे गीताभाष्ये । योगमारूढस्य अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणमिति ।। अत इति ।। श्रुतिस्मृति-कैमुत्यन्यायसिद्धत्वात्फलवत्त्वाच्चेत्यर्थः ।
अभिनवचन्द्रिका
प्रायणां तत्वसमर्थनादिति ।। ज्ञानार्त्पूवमिव ज्ञानोत्तरमपि प्रायणपर्यन्तमावश्यकत्व-समर्थनादित्यर्थः । मुक्तौ तारतम्येति ।। ध्यानफलप्रयुक्ततारतम्यभावाप्रसङ्गादित्यर्थः । एतेन ध्यानफलाभावेऽपि श्रवणादिफलेन तारतम्यसम्भवात्, तारतम्याभावप्रसङ्गादित्ययुक्तमिति परास्तम् ।। ज्ञानसाधनत्वमिति ।। ज्ञानसाधनत्वश्रवणं ज्ञानिनामपि ध्यानदर्शनं संदेहबीजमित्यर्थः । न च ज्ञानसाधनस्यापीति ।। ज्ञानसाधनस्यापि ध्यानस्य ज्ञानेन मोक्षे जनयितव्ये सहकारित्वस्यापि भावात् मोक्षपर्यंतं ध्यानमावश्यकमिति न वाच्यमिति भावः ।। न चेति ।। ज्ञानसाध्यावरण-निवृत्तिरूपमोक्षे तस्याजनकत्वेऽपि आनन्दातिशयरूपमोक्षजनकत्वात् ध्यानमावश्यकमिति न वाच्यमित्यर्थः । आनन्दातिशयसाधनेषु ध्यानस्य प्राबल्यात् ध्यानमावश्यकमित्यत आह – ज्ञान एवेति ।। ननु – ध्यानमानन्दातिशयसाधनेषु प्रधानं ज्ञानसाधनेषु प्रधानत्वादित्यनुमानादावश्यकत्व-सिद्धिरित्यत आह – न हीति ।। यस्य एकत्र प्राधान्यं तस्य सर्वत्र प्राधान्यमिति व्याप्त्य-भावादित्यर्थः । ध्यानं विनेति ।। ध्यानं तावत् ज्ञानपर्यन्तमावश्यकं, ज्ञानसाधनीभूतप्रसादहेतुत्वात् । यदि ज्ञानानन्तरं ध्यानमनावश्यकं स्यात् तर्हि ध्यानं न कुर्यात् । ततश्चेश्वरोऽबहुमानितः स्यात् । एवं च सति ईश्वरोऽपरोक्षज्ञानमेव न दद्यात् । न हि प्रेक्षावान् यद्दानानन्तरं स्वस्मिन् बहुमानो गच्छति तद्ददाति । येनेश्वरोऽपरोक्षज्ञानानन्तरं स्वस्मिन् बहुमानापगमेऽपि अपरोक्षज्ञानं दद्यात् । ददाति चापरोक्षज्ञानमिति प्रायणान्तं ध्यानस्याऽऽवश्यकत्वमवर्जनीयमिति भावः । एतेन ज्ञाना-त्पूर्वमावश्यकत्वस्य ज्ञानोत्तरमावश्यकत्वासाधकत्वात्, तत्सिद्धये ज्ञानात्पूर्वमावश्यकत्व-समर्थनमयुक्तमिति परास्तम् ।। तथापीति ।। सत्यं, ज्ञानोत्तरध्यानस्यानावश्यकत्वे ‘ईश्वरो ज्ञानमेव न दद्यात्’ इति तर्कबलात् ज्ञानपर्यन्तमावश्यकत्वं ज्ञानोत्तरमावश्यकत्वस्य साधकं, तथापि मुक्तिपर्यन्तमावश्यकत्वमित्ययं विशेषः कुतः प्रमाणादवगम्यते । आगमसहकृतस्यैवानुमानस्याऽर्थ-साधकत्वादिति भावः । एतेन श्रुतिबलाज्ज्ञानोत्तरं ध्यानस्यावश्यकत्वसिद्धावपि हेतोरप्रयोजकत्वा-परिहारात्तदुदाहरणमयुक्तमिति परास्तम् । तर्कस्य श्रुतिमूलत्वसिध्यर्थमेव श्रुत्युदाहरणस्याभिमत-त्वात् । सिंहावलोकनन्यायेन ‘यावन्मोक्षस्तावदुपासनादि कार्यमेव’ इति भाष्यगतादिशब्दस्य कृत्यमाह – ज्ञानात्पूर्वमिति ।। ज्ञानात्पूर्वं ध्यानालाभे तत्सिद्धये श्रवणादेः कर्तव्यत्वदर्शना-ज्ज्ञानोत्तरमपि ध्यानाऽलाभे तत्कर्तव्यता सिध्यतीति तत्सङ्ग्रहायाऽऽदि शब्दप्रयोग इत्यर्थः । एतेन ध्यानालाभे श्रवणादीत्यादिनैव पूर्णत्वात् शेषवैयर्थ्यमिति परास्तम् ।। मोक्षविरोधादिति ।। निरवधिकध्यानस्य ज्ञानोत्तरं विहितत्वे मोक्षेऽपि विधिबन्धापत्त्या मोक्षत्वविरोधः स्यादित्यर्थः ।
पूर्वपक्षस्तु मुमुक्षुणा न मोक्षपर्यन्तं ध्यानं कार्यं ध्यानस्य ज्ञानसाधनत्वेनाभिहितत्वात् । न चाऽऽनन्दातिशयार्थं तदिति वाच्यम् । तस्य तद्धेतुत्वाभावात् । अस्तु वा तद्धेतुत्वम् । तथापि न नियमेन कार्यं, श्रवणादिनापि तत्सम्भवात् । ततश्च शुकादीनां ज्ञानिनां तदाग्रहवैयर्थ्यमिति ।
सिद्धान्तस्तु कर्तव्यमेव ज्ञानिना मोक्षपर्यन्तं ध्यानं, तस्य ज्ञान इवाऽऽनन्दातिशयेऽपि प्रधानसाधनत्वात् । तथा च श्रुतिः– ‘स यो ह वै तद्भगवान् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति । ‘शृृणुयाद्यावदज्ञानम्’ इत्यादिस्मृतेश्च । अतो मोक्षपर्यतं ध्यानस्य कर्तव्यत्वेन ज्ञानिनामपि तद्विचित्रफलेन मुक्तौ तारतम्यसिद्धिरिति सिद्धम् ।।
वाक्यार्थमुक्तावली
पूर्वाधिकरणेऽपरोक्षज्ञानस्य मनसस्सम्यग्भगवद्विषयत्वेन विनाऽयोगात्तस्य च ध्यानस्यासनं विनायोगादासनमावश्यकमित्यासनापेक्षध्यानस्य सर्वदा योग्यस्मरणवैशेष्येण ज्ञानान्तरङ्गसाधनत्व-मुक्तम् । तदयुक्तम् । ज्ञानान्तरङ्गसाधनत्वे ज्ञानानन्तरं मुक्तिपर्यन्तमनुष्ठानायोगात् । अनुष्ठीयते च शुकादिभिरतो न ज्ञानान्तरङ्गत्वमिति न तदर्थमासनस्यावश्यकत्वमित्याक्षेपपर्यवसानादनन्तर-सङ्गतिरिति भावेनाह ।। अत्र भगवज्ज्ञानेति ।। भगवज्ज्ञानान्तरङ्गत्वेऽपि प्रायणान्तत्वमुपपद्यत इति समर्थनादित्यर्थः ।। ध्यानफलाभावप्रसङ्गेनेति ।। अपरोक्षज्ञानानन्तरं कृतध्यानप्रयुक्तानन्दाभि-वृद्धिलक्षणफलाभावप्रसङ्गेन यावदधिकारमित्याद्युक्तमुक्तितारतम्याभावप्रसङ्गादित्यर्थः । यद्वा समानयोग्यतावतामेव नॄणां वृद्धिह्रासप्रयुक्ततारतम्याभावप्रसङ्गादित्यर्थः ।। किमिति ।। अत्र ज्ञानपर्यन्तमेव ध्यानमावश्यकमुत मुक्तिपर्यन्तमपीति चिन्ता । तदर्थं ज्ञानिना ध्यानस्य कार्यत्वे कारणं नास्त्युतास्तीति । तदर्थं कारणत्वेऽभिमते आनन्दातिशयः श्रवणादिसाधनान्तरेणा-न्यथासिद्धो भवत्युत न भवतीति । यावन्मोक्षस्तावदुपासनादीति सिद्धान्तप्रतिज्ञाभागव्यावर्त्यं प्रतिज्ञांशमाह ।। ज्ञानपर्यन्तमिति ।। दृष्टं हीत्यत्र विध्यन्तरबलेन प्रायणान्तत्वसमर्थना-त्तद्व्यवच्छेद्ययुक्तिमाह ।। दर्शनार्थमिति ।। श्रवणमननोपोद्बलितनिदिध्यासनविधानादित्यर्थः ।। कारणाभावादिति ।। निदिध्यासनविधेरनेन चरितार्थत्वेन तदनन्तरमनुष्ठाने प्रमाकरणप्रमाणा-भावादित्यर्थः । यद्वा विधिव्यतिरेकेण ध्याने प्रवर्तकाभावादित्यर्थः । ननु मोक्षलक्षण-फलानुसन्धानमेव प्रवर्तकम् । न च तज्ज्ञानेनासिद्धमिति वाच्यम् । ज्ञानसाध्ये मोक्षे निदिध्यासनस्य सहकारितयोपयोगसम्भवादित्याशङ्क्यापाकरोति ।। न चेति ।। ज्ञानमात्रस्यैवेति ।। अविद्या-निवृत्तिलक्षणमोक्षज्ञानमात्रस्यैव सामर्थ्यात् । विद्यैव तु निर्धारणादित्युक्तेरन्यसमुच्चयवादापत्तेरिति भावः । दृष्टं हीति सूत्रखण्डोपात्तषट्प्रश्नश्रुतौ ज्ञानिकृतध्यानस्यानन्दातिशयहेतुत्वोक्तेस्तद्व्यवच्छेद्यं नानावृत्तिरित्युक्तन्यायं दर्शयितुमानन्दातिशयलक्षणं फलमाशङ्क्य तस्यान्यथासिद्धिमाह ।। न चेति ।। श्रवणादीति ।। श्रवणादिनानाविधसाधनेषु प्रवृत्त्युपपत्तेरिति भावः । आनन्दातिशयसाधनेषु प्रधानत्वात्तन्नियमः किं न स्यादित्यत आह ।। ज्ञान एवेति ।। ननु ध्यानमानन्दातिशयेऽपि प्रधानसाधनमन्यत्राप्राधान्येनैव क्लृप्तशक्तिकत्वादित्यत आह ।। न हीति ।। सूत्रे आङ् मर्यादायाम् । प्रायणं प्रकर्षेण नारायणं प्रत्ययनं गमनं मोक्षस्तत्पर्यन्तं प्रकृतं ध्यानं कार्यमित्यन्वयमभिप्रेत्य व्याचष्टे ।। मुमुक्षूणामिति ।। कथं मोक्षपर्यन्तं तदावश्यकत्वमित्यतो ज्ञानपर्यन्तमावश्यकस्य त्वयैवाङ्गी-कारादर्धं तावदवसितं भारस्येति भावेनाह ।। ध्यानं विनेति ।।
यद्वापरोक्षज्ञानानन्तरं प्रायणपर्यंतं कर्तव्यमिति ज्ञानं तदयुक्तम् । द्रष्टव्य इति दर्शनानुवादेन तत्फलतया विहितस्य तदनन्तरमनुष्ठेयत्वायोगादित्यतः प्रथमापरोक्षानन्तरमपि दृष्टतत्वस्य च ध्यानं यदा दृष्टिर्न विद्यत इति वक्ष्यमाणपुनर्ध्यानं विनाऽपरोक्षज्ञानाभावेन तावत्पर्यन्तं कर्तव्यत्वात् । यः पुनरेवं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीतेति ध्यानं विधाय स तेजसि सूर्यं सम्पद्यत इत्यादिना ज्ञानप्रतिबन्धकपापक्षयेन ससामभिरुन्नीयते ब्रह्मलोकमिति ब्रह्मलोकं गतस्य स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत इति चतुर्मुखोपदेशेन पुनरभ्यस्यतो ध्यानफलत्वेना-परोक्षविज्ञानाद्द्रष्टव्यो निदिध्यासितव्य इति सामान्यविधेः पुनरपरोक्षार्थं ध्यानं कर्तव्यमित्यप्यर्थ-सम्भवात् ध्यानं विना पुनरपरोक्षाख्य विशेषकार्यानुपपत्तेरिति भावः । उक्तं च न्यायविवरणे । ध्यानं विनापरोक्षाख्यविशेषकार्यनुपपत्तेरिति । उक्तं चानन्दमालायाम् । यदुत्तरोत्तरं सविशेष-मुक्तमपरोक्षज्ञानं तदनेन ज्ञायत इति । भावबोधादौ तु प्रकारान्तरेण व्याख्यातं तत्रैव बोध्यम् ।। तथापीति ।। चतुर्मुखोपदेशानन्तरभाव्यपरोक्षपर्यन्तमावश्यकत्वेऽपीत्यर्थः ।। कुत इति ।। कस्मा-द्विधिवाक्यादित्यर्थः ।। श्रुतिमिति ।। प्रायणान्तमोङ्कारमभिध्यायीतेत्यपरोक्षज्ञानिनोऽपि ब्रह्म-प्राप्तिपर्यन्तं ध्यानमुपक्रमे विधाय स एतस्माज्जीवघनात् परात्परमित्यपरोक्षज्ञानपर्यन्तं तदभ्यस्य तमोंकारेणैवेति विद्वान्यत्तच्छान्तमजरं इति विदुषोऽपि पुनरोंकारध्यानेनानन्दोत्कर्षसिद्धये सुखोत्कर्षसीमावधिभूतब्रह्मप्राप्तेरुक्तत्वेन द्रष्टव्य इति विधेर्दर्शनेनोपरतत्वेऽपि प्रायणान्तमोङ्कार-विधेर्मोक्षपर्यन्तं तदनुष्ठानप्रयोजकत्वादावश्यकं तत्पर्यन्तमुपासनमिति भावः । उक्तं च तत्वप्रदीपे । दर्शनवतोऽपि कतमं वाव स लोकं जयतीति प्रश्ने यः पुनरेतं त्रिमात्रेणेत्याद्यनुक्रम्य तस्य परमस्य ध्यातुर्विरिंचलोकं नीतस्य स एतस्माज्जीवघनादित्यादेस्तदाप्युपदेशं प्राप्य पुनरभ्यस्यतः परं पश्यतोऽपि ओंकारेणैवायनेनेति विद्वान्यत्तच्छान्तमजरममृतमभयं चेत्यामोक्षोपास्तिकर्तव्यतायां प्रमाणदर्शनादिति ।। कैमुत्येनापीति ।। एतेन तत्रापि मुक्तावपि ध्यानं कुर्वतः किमुत ततः प्रागित्यर्थः । तदेव कुतः यस्माद्दृष्टं तथा श्रुतमित्यर्थ उक्तो भवति । श्रुतिद्वये उपासना-मात्रस्योक्तत्वाद्भाष्ये उपासनादीत्यादिपदं व्यर्थम् । श्रवणादेर्ध्यानसाम्यप्राप्त्या ध्यानस्यैव नियमेन कर्तव्यत्वमिति प्रकृतविरुद्धार्थत्वमित्यत आह ।। ज्ञानादिति ।। योग्यापरोक्षज्ञानात् पूर्वं श्रवणादियुतध्यानस्य कर्तव्यतया सिद्धत्वात् ज्ञानानन्तरमपरोक्षानन्तरानन्दातिशयाय सम्यग्ध्याना-लाभ एव श्रवणादिकार्यमित्यतस्तादर्थ्येन श्रवणाद्युक्तये आदिपदमित्यर्थः ।
भोक्तव्यकर्मणीत्यस्य अज्ञानिनोऽपि ध्यानादिप्रतिबन्धप्रारब्धकर्मक्षीणे जपादिना स्वस्यास्थानं कल्पयन्तीत्यर्थः । मतिर्मननम् । ज्ञानस्याप्यावृत्तावेव मोक्षो न त्वावृत्त्यभावे इति न वाच्यमिति भावेनोक्तं ।। नेक्षा क्व चेति ।। तदर्थमाह ।। कदाचित्क्वापि मोक्षसाधनमिति ।। न केवलं ध्यानमनन्तकालीनं किं तु भक्तिश्चेति स्मृतियोजनामभिप्रेत्याह ।। ध्यानं निरवधिकमिति ।। अपरोक्षज्ञानकाले वासनामयध्यानायुक्तत्वादाह ।। यदा दृष्टिरिति ।। यद्वा यस्माद्दृष्टिर्न विद्यते तस्मात्पुनः पुनर्दृष्ट्यर्थं मध्ये मध्ये ध्यानमपेक्षितं तच्चानन्तकालीनमिति ।। भावबोधे तु ध्यानं निरवधिकं भक्तिश्चानन्तकालीना । तत्र हेतुः यदा यस्माद्दृष्टिः फलत्वेन न विद्यते असिद्धत्वा-दित्युक्तं मोक्षविरोधादिति । निरवधिकध्यानस्य विहितत्वेन कार्यत्वे मोक्षेऽपि विहितत्वेन कार्यतापत्या विधिबद्धत्वापत्तेः मोक्षत्वविरोधादित्यर्थः ।। करणानुपपत्तेरिति ।। मोक्षात्पूर्वमिति शेषः ।। न चोक्तेति ।। श्रवणादिना तदुपपत्तेः किं ध्याननियमेनेत्युक्तदोष इत्यर्थः । स्मृतौ शमशब्देन ध्यानस्य विवक्षितत्वात्प्रकृतोपयोगः ।
तत्त्वसुबोधिनी
ॐ नानन्तरमेवेति विकल्प्याद्यं दूषयति ।। ध्यानं विनेति ।। द्वितीयमाशङ्क्य तन्निराकरण-परत्वेन स य इति भाष्यं व्याचष्टे ।। तथापीति ।। कैमुत्येनापीति ।। अनेन तत्रापीति सूत्रांशस्य विमुक्तावपीत्यर्थ इत्युक्तम् । भाष्योदाहृतश्रुतिद्वये उपासनामात्रस्य श्रुतत्वात् किमर्थं तत्पूर्वं भाष्ये उपासनादीत्यादिपदप्रयोगः । वेदादिसाहित्यद्योतनार्थम् । तदवैयर्थ्यं ज्ञानानन्तरमेव तद्युतध्यानस्य कर्तव्यत्वे ज्ञानानन्तरं केवलध्यानस्यैव कर्तव्यत्वेन तद्युतध्यानस्याकर्तव्यत्वादित्यसत्यमेव वस्तुस्थितिः । तथापि ज्ञानोत्तरं सम्यक् ध्यानालाभे श्रवणादेरपि कार्यत्वात्तदभिप्रायेण आदिपदेन श्रवणादिग्रहणोपपत्तेरित्याह ।। ज्ञानात्पूर्वमिति ।। इत्यतः इत्यभिप्रायेणेति । ज्ञानोत्तरकालं सम्यक् ध्यानालाभे श्रवणादियुतध्यानं तस्याकर्तव्यत्वमाहेतिरयुक्तम् । अत्र वाक्यार्थाभिप्रायः न स्पष्टः । मीमांस्योयं विद्वद्भिः । भक्तिश्चानन्तकालीना इत्युत्तरार्धानुसारेणाह । दृष्टत्वस्य च ध्यानं निरवधिकमिति । अनेन दृष्टतत्वस्य पुंसः परमे ब्रह्मणि विषये ध्यानं निरवधिकम् । स्फुटा भक्तिश्चानन्तकालात् । तत्र हेतुपदे यस्माद्दृष्टिः फलत्वेन न विद्यते सिद्धत्वादिति योजना सूचिता भवति । ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथाकरणापत्या विधिबन्ध-वर्जितत्वरूपमोक्षविरोधादित्यर्थः ।। करणानुपपत्तेरिति ।। मोक्षात्पूर्वमित्यर्थः । तर्हि श्रवणा-देरप्यानन्दातिशयार्थत्वेन न ध्याननियमः स्यादित्याशङ्क्य निषेधति ।। न चोक्तदोष इति ।। ध्यानस्यैवेति ।। शमः कारणमित्यत्र शमशब्देन ध्यानस्यैव विवक्षितत्वादिति भावः ।
वाक्यार्थविवरणम्
आप्रायणान्तत्वेति ।। प्रायणं मोक्षः । तथा च मोक्षपर्यन्तत्वसमर्थनादित्यर्थः । मोक्षपर्यन्तं विहितित्वेन कर्तव्यत्वं तदनन्तरं भक्तिवत् स्वभावत एव निरवधिकतया कर्तव्यत्वं समर्थ्यत इति द्रष्टव्यम् ।। अन्यथेति ।। ध्यानस्यापरोक्षज्ञानसाधनत्वेन तत्पर्यन्तमेव कर्तव्यत्वमङ्गीकृत्य मोक्षपर्यन्तत्वानङ्गीकारे ज्ञानिनामपि शुकादीनां ध्यानदर्शनेन तत्कृतध्यानस्यानन्दाभिवृद्धिलक्षण-फलाभावप्रसङ्गेन व्यर्थत्वापत्त्या मुक्तौ सर्वेषामानन्दादिसाम्यापत्तेस्तारतम्याभावप्रसङ्ग इत्यर्थः ।। मोक्षोपयोगित्वादिति ।। लिङ्गभङ्गरूपमोक्षोपयोगित्वादित्यर्थः ।। तन्नियमेति ।। ध्याननियमेत्यर्थः । कुत इत्यत आह ।। ज्ञान एवेति ।। नानन्दातिशय इत्यर्थः ।। प्राबल्यात् ।। प्रधानत्वात् ।
ननु ध्यानस्य ज्ञानसाधने प्राधान्यादानन्दातिशयेऽपि प्राधान्यमस्त्वित्यत आह ।। न हीति ।। धान्यादौ प्रधानसाधनस्य कृष्यादेः स्वर्गादौ तदभावः ।। ततः ज्ञानानन्तरं ।। प्रायेण प्राधान्येन ।। तथापीति ।। ज्ञानपर्यन्तमावश्यकत्वेऽपीत्यर्थः । कर्तव्यमेव न परित्याज्यमित्यर्थः । उत्तरत्र ।। भक्तिश्च अनन्तकालीनेति ।। भक्तेरनन्तकाले कर्तव्यतया निरवधिकत्वस्योक्तत्वात् तदनुसारेण दृष्टतत्त्वस्य च ध्यानमनन्तकालीनमेव निरवधिकमेव कर्तव्यमित्यर्थमभिप्रेत्याह ।। दृष्टतत्त्वस्येति ।। अनेन दृष्टतत्त्वस्य पुंसः परमे ब्रह्मणि विषये ध्यानं निरवधिकं कर्तव्यम् । स्फुटा स्पष्टा । आविर्भूता भक्तिश्चानन्तकालीना कर्तव्या । ध्यानं भक्तिरिति द्वयमपि स्वभावत एव सर्वदा कर्तव्यमिति यावत् । तत्र फलाभावो हेतुः । ननु ज्ञानमेव फलं किं न स्यादिति मन्दाशङ्कां परिहरति ।। यदा दृष्टिरिति ।। यदा यस्मात् दृष्टिर्न विद्यते फलत्वेनेति शेषः । दृष्टिः फलं न भवति सिद्धत्वात् । अतः स्वभावतो निरवधिकमेव कर्तव्यमिति स्मृतियोजना द्रष्टव्या ।। मोक्षविरोधादिति ।। ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथैव करणापत्त्या विधिबन्धवर्जितत्वरूप-मोक्षत्वविरोधादित्यर्थः ।। करणानुपपत्तेरिति ।। अविहितत्वादेव मोक्षात्पूर्वं करणानुपपत्तेरित्यर्थः ।। उक्तदोष इति ।। श्रवणादिसाधनान्तरेणानन्दातिशयसम्भवान्न ध्याननियम इत्युक्तदोष इत्यर्थः ।। ध्यानस्यैवेति ।। तत्र शमशब्दस्य ध्यानरूपत्वादिति भावः । तथा च योगारूढस्यापरोक्षज्ञानिनः शमो ध्यानमानन्दातिशयकारणमुच्यत इति गीतार्थो द्रष्टव्यः ।। तद्विचित्रफलवत्त्वादिति ।। तेन ध्यानानुसारेणानन्दातिशयरूपविचित्रफलवत्त्वादित्यर्थः ।
वाक्यार्थमञ्जरी
ध्यानफलाभावप्रसङ्गेनेति ।। अपरोक्षज्ञानानन्तरं कृतध्यानस्यानन्दाभिवृद्धिलक्षणफलाभाव-प्रसङ्गेनेत्यर्थः । ननु श्रवणादित्रयस्य ज्ञानसाधनत्वेऽपि ध्यानमेव प्रबलं साधनमेवमत्रापि साधनस्य प्राबल्यं किं न स्यादित्यत आह ।। ज्ञान एवेति ।। ॐ आप्रायणात्तत्रापि हि दृष्टं ॐ ।। आङ्मर्यादायां प्रकर्षेणायनं प्रायणं मोक्षः, ध्यानं आप्रायणं मोक्षपर्यन्तं कार्यं कुतः हि यस्मात् स यो हेति दृष्टं श्रुतिरस्ति । किञ्च तत्रापि मुक्तावपि ध्यानं कुर्वते किमुत ततः प्राक् । तदेव कुतः हि यस्मान्मुक्तावपीति दृष्टमित्यर्थः ।
ॐकारो हरिरिति ।। ओमित्याक्रियमाणत्वादिति भावः । भाष्योदाहृतश्रुतिद्वये उपासना-मात्रस्य श्रुतत्वात्किमर्थं तत्पूर्वभाष्य उपासनादीत्यादिपदप्रयोग इत्यत आह ।। ज्ञानात्पूर्वमिति ।। ज्ञानानन्तरं श्रवणादीत्यत्र गीताभाष्योदाहृतप्रमाणमाह ।। उक्तं हीति ।। वर्तयन्ति वर्तन्ते कालं नयन्तीति वार्थः ।। मोक्षविरोधादिति ।। ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथा करणापत्या विधिबन्धवर्जितत्वरूपमोक्षत्वविरोधादित्यर्थः ।। कारणानुपपत्तेरिति ।। मोक्षात्पूर्वमित्यर्थः । कारणं आनन्दवृद्धेः ।। ध्यानस्यैवेति ।। शमशब्देन तत्र ध्यानस्यैव विवक्षित-त्वादिति भावः । उक्तव्याहतेरिति ।। अनियमः सर्वेषामित्युक्तव्याहतेरित्यर्थः ।। अनियतदेशेति ।। कर्मणां व्यवस्थितदेशकालयोः फलोन्मुखत्वाय परिपाकशून्यत्वादित्यर्थः । तथा च यौगपद्यमिति भावः ।। भगस्यापीति ।। योगसामर्थ्येन तन्निवारणोपपत्तेरिति भावः । जातु कदाचित् विप्रतिपत्तेः दृष्टान्ते प्रायश्चित्तेन कर्मक्षयाभावे तद्विधायकश्रुतिवैय्यर्थ्यमिति भावेनाह ।। ब्रह्महेति ।। ब्राह्मणहन्तेत्यर्थः ।। दग्धगेहेष्टिविधिवदिति ।। यथा गेहे दग्धे सति गृहस्थेन इष्टिविशेषो गृहदाह-निमित्तत्त्वमेव न तु तज्जातपापपरिहारार्थमित्यर्थः ।। अस्तु वेति ।। स्मृतेश्चाकृतप्रायश्चित्त-विषयत्वमिति भावः ।। निष्कारणेति ।। संसारावस्थानेकर्मविनाकारणान्तराभावादिति भावः । विरम्य क्रमिकतया येनैकस्मिन्काले लब्धात्मनः कालान्तरे कर्मविनाशत्वं स्यादिति भावः ।
।। इति प्रायणाधिकरणम् ।। ७ ।।