ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ

११. अनिष्टादिकार्यधिकरणम्

सूत्रभाष्यम्

पुण्यकृतामेव गमनागमने नेतरेषामित्यत आह —

।। ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ।। १३ ।।

तद्य इह शुभकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयाऽऽवर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’ इति भाल्लवेयश्रुतौ ।

तत्त्वप्रदीपिका

एवं तावदुभयथा पुण्यकर्मगतिरित्यायातं, यत्कामुकैरनुष्ठीयते तत्कर्तॄणां पुनरागतिर्यदन्यानिच्छ-येश्वरार्पणबुद्ध्याऽनुष्ठीयते । तेन ज्ञानोत्पत्तिद्वारेण मुख्यममृतत्वं लभ्यत इति । अत्र चोदयति–पुण्य-कृतामेव गमनागमने च स्यातां नेतरेषां पापकृताम् । न हि तेषामेतेषामिव फलाभिसन्धिनिबन्धनं कर्म क्रोधादिपारवश्यात्सहसैव भवति । तस्मादबन्धकत्वान्न तेषामागमनमित्यत आह ।। ॐ अनिष्ठादिकारिणामपि च श्रुतम् ॐ ।। ये हीष्टादिकृत्यं न कुर्वन्ति, ये च तद्विरुद्धं पापं कुर्वन्ति, त उभयेऽपि सङ्गृहीता ‘अनिष्टादिकारिण’ इति । उदाह्रियते हि श्रुतिरुभयेषां नारकित्वे ‘तद्य इह शुभाकृतो ये वाऽशुभकृत’ इत्यादिका ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनवैराग्यायानिष्टादिकारिणां गतागतादिदुःखसमर्थनादस्ति शास्त्रादि-सङ्गतिः । अनिष्टादिकारिणां गतागतादिदुःखाभावे न तत्र विरक्तिः स्यात् । अतस्तत्साधनीयम् । प्रकृतगतागतादि विषयः । तत्किमिष्टादिकारिणामेवोत सर्वाज्ञानिनामिति सन्देहः । विशेषोक्ति-रज्ञानित्वं च सन्देहबीजम् । पूर्वपक्षयति ।। पुण्येति ।। इष्टादिपुण्यकृतामेवाज्ञानां गतागतादि न त्वनिष्टादिकारिणामप्यज्ञानाम् । इष्टादिकारिणां प्रत्यवायभयवत्त्वेन तदुपपत्तेरन्येषां च तदभावात् ‘बिभ्यत् पतति पादपात्’ इति न्यायात् । फलकामित्वाच्चेष्टादिकारिणां तदुपपत्तिः । अनिष्टादि-कारिणां न हि कामोऽस्ति । ‘कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्त-कामस्य कृतात्मनश्च इहैव सर्वे प्रतिमुच्यन्ति कामाः’ इति श्रुतेः । इष्टादिकारिणस्तु स्वयमेवात्मानं विधिप्रतिषेधाभ्यां बध्नन्ति नेतरे । अतः पुण्यकृतामेव गमनागमनादीतरेषां तु तद्रहितो मोक्ष एवेति पुण्ये तत्फले च विरक्त्या भाव्यं नान्यत्रेति भावः ।

सिद्धान्तयत्सूत्रमवतार्य तदुपात्तश्रुतिमेवोदाहरति ।। अत इति ।। न केवलमिष्टादिकारिणामेव गतागतं किं नामानिष्टादिकारिणामपि । ‘तद्य इह’ इति श्रुतौ श्रुतत्वादित्यर्थः । अनिष्टादिकारिण इति तदकारिणस्तद्विरुद्धकारिणश्चोच्यन्ते । चशब्दो दुःखान्तरसमुच्चयार्थः । तदेवोत्तरसूत्रेऽनूद्यते ।

गुर्वर्थदीपिका

सर्वाज्ञानिनामित्यत्र सर्वाज्ञानिपदेन पुण्यकृतः पापकृतस्सर्वाज्ञानिनो गृह्यन्ते । न हि कामोऽ-स्तीत्यत्र कामपदेन स्वर्गकामनोच्यते । अत एव स्वर्गविषयगतागते न स्तः ‘बिभ्यत्पतति पादपात्’ इति वचनान्न नरकपातोऽपि । अतो मोक्ष एवेति शङ्कितुरभिप्रायः । एतदेवाभिप्रेत्य पूर्वपक्षावसाने तद्रहितो मोक्ष एवेति वक्ष्यति । अनिष्टादिकारिणामित्यत्र इष्टं यागादिकर्म, तदकारिणस्तद्विरुद्ध-पापकर्मकारिणश्चानिष्टकारिण इत्युच्यन्ते । आदिपदेन मिथ्यादृष्टिहरिद्वेषादिकारिणो गृह्यन्ते । तेषामप्युक्तसूत्रे निरूप्यमाणत्वात् ।

भावबोधः

तत्किमिष्टादिकारिणामेवेति ।। तथा चेष्टादिकारिणां गतागतोक्तावेव किं तेषामेव गतागतम् उतान्येषामपीति सन्देहोत्पादो नान्यथेति एतदधिकरणविचाराङ्गभूतसंशयोत्थापकत्वेन पूर्वाधि-करणस्यैतदधिकरणोपजीव्यत्वादनन्तरसङ्गतिरिति भावः । अत्र गतागतं किमिष्टादिकारिणामेवोत सर्वाज्ञानिनामिति चिन्ता । तदर्थं प्रत्यवायभयफलकामनादिकं गतागतादिदुःखकारणं भवत्युत न भवतीति । तदर्थमनिष्टादिकारिणां गतागतादिदुःखं प्रामाणिकं न भवत्युत भवतीति । तथा चानिष्टादिकारिणां गतागतादिदुःखस्य प्रामाणिकत्वाभावे भयकामनादेः दुःखकारणत्वविघटका-भावेन तत्कारणत्वसिद्धौ तद्वतामिष्टादिकारिणामेव गतागतमिति पूर्वपक्षे अनिष्टादिकारिणां गतागतदुःखस्य प्रामाणिकत्वे तत्रैव व्यभिचारात् भयकामनादेस्तत्राकारणत्वे तद्रहितानामप्य-निष्टादिकारिणां गतागतादिदुःखमिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ।

विशेष्योक्तिरिति ।। पूर्वाधिकरणे गतागतस्येष्टादिकर्मफलत्वोक्तावपि तत्फलमिष्टादि-कारिणामेव भवति न त्वन्येषां तदकारिणामित्यर्थात् सिद्धमेवेत्यादिभाष्योक्तसाध्ये हेतुप्रतिपादकतया भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसार अनिष्टादिकारिणां तदभावान्मुक्तिरिति न्यायविवरणं योजयति– इष्टादिकारिणां प्रत्यवायभयवत्त्वेनेति ।। फलकामस्य गतागतकारणत्वे श्रुतिमाह– कामान् य इति ।। यद्यपि पूर्वार्धस्यैवात्रोपयोगः ‘स एव’ इत्यवधारणाध्याहारेण विवक्षितसिद्धेः  तथाप्यवधारणव्यावर्त्यत्वं नानिष्टादिकारिणां किंतु पर्याप्तकामत्वकृतात्मकत्वादि-गुणयोगिनामेवेति वस्तुगतिप्रदर्शनार्थं पर्याप्तकामस्येत्युत्तरार्धोदाहरणमिति ज्ञातव्यम् ।। इष्टादि-कारिणस्त्विति ।। अनेनेष्टादिकारिणां संसार इति न्यायविवरणमुक्ततात्पर्यकं भवति । विधि-प्रतिषेधाभ्यामित्यनेन फलकामादीत्यादिपदार्थकथनम् । इतरेषां त्वित्यनेनानिष्टादिकारिणां मुक्तिरित्येतदुक्ततात्पर्यकं भवति । अत्र ‘तदभावात्’ इत्ययमंश अन्येषां तदभावादिति  अनिष्टादि-कारिणां न हि कामोऽस्तीति नेतर इति च त्रेधा व्याख्यात इति ज्ञातव्यम् ।। श्रुतौ श्रुतत्वादिति ।। अनेन तेषां दोषश्रुतेरिति न्यायविवरणांशो व्याख्यातो भवति ।

नन्वेवं तर्हीष्टानिष्टाद्यकरणे गतागतादिदुःखाभावान्मोक्षसम्भवेन किमर्थं वैराग्याद्यापादन-मित्यतः सर्वाज्ञानिसंग्रहार्थं नञो विरुद्धार्थत्वमभावार्थत्वं चाभिप्रेत्यानिष्टादिकारिणामित्ये-तद्व्याचष्टे– तदकारिण इति ।। इष्टापूर्ताद्यकारिणस्तद्विरुद्धकारिणश्चेत्यर्थः । अपिशब्देनैवेष्टादि-कारिसमुच्चयसिद्धेः चशब्दः किमर्थमित्यत आह– चशब्द इति ।। तदेवोत्तरसूत्रे अनूद्यत इति । विविच्योच्यत इत्यर्थः ।

भावदीपः

अनिष्टादिकारिणामिति ।। एतेन एवमुक्तदिशा काम्यपुण्यस्यैव गतागतादिहेतुत्वात्तद-ननुष्ठानस्य वा पापस्य वा तदहेतुत्वान्न तत्र वैराग्यमिति शङ्कनाद्वा पापकृतां पुण्यकृतामिव गतागतादौ रागाभावेन पतनहेतुप्रत्यवायभयाभावेन च गतागतादेः पापादिफलत्वाभावेन श्रुत्यर्थतया सूत्रे दुष्कृतपदोक्त्ययोगादिति शङ्कनाद्वा सङ्गतिरिति सूचितम् । समर्थनस्य शङ्कानिरासार्थत्वात् । यद्वा पूर्वसूत्रे दुष्कृतपदेनानिष्टादिकारिणां प्रस्तुतानां दुःखफलकथनात्सङ्गतिरिति । पुण्यकृतामेवेति भाष्ये सूत्रे चात्मविदामिति पदानुषङ्गमुपेत्याह ।। सर्वाज्ञानिनामिति ।। तेन भाक्तं वेत्यत्र वाशब्दोक्तार्थविरोधो नेति भावः । कामकारेण चैक इत्यादिवक्ष्यमाणाविरोधश्च । तत्र ज्ञानिनः कामचारेणापि मोक्षाप्रतिबन्धेन गतागताद्यभावस्य वक्ष्यमाणत्वात् । अतोऽनिष्टादिकारिणा-मपीत्यनुक्त्वा सर्वाज्ञानिनामित्युक्तम् । एतेन भाक्तं वेत्यत्रानात्मविदामकाम्यकर्मिणां ज्ञानद्वाराऽ-मृतभाक्त्वेऽपि काम्यकर्मिणां तेषां गतागतादीत्युक्तौ कथं गतागतमिति शङ्कायां कर्मानुशयवत्त्वे-नागमनं गतिमार्गादन्यथाप्यागमनं कर्मणैव गतागतादि न तु चरणेनेत्युक्तावत्रापि कर्मिणां विकर्मिणां चानात्मविदां हेत्वभावेन गतागताद्यभावे मुक्तिरेव साक्षादित्याशङ्क्य समाधीयत इति च सङ्गतिस्सूचिता । भाष्यं व्याचष्टे ।। इष्टादीति ।। नेतरेषामिति एवकारार्थं व्यनक्ति ।। न त्विति ।। कुत इत्यतो भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारोऽनिष्टादिकारिणां तदभावान्मुक्ति-रित्यन्यत्रोक्तौ हेतू व्यनक्ति ।। इष्टादिकारिणामिति ।। तदुपपत्तेः गतागताद्युपपत्तेः । कामभावा-भावाभ्यां कथं गतादिभावाभावावित्यत आह ।। कामानिति ।। यः काम्यमानानर्थान्वरिष्ठा-न्मन्यमानः कामयते इच्छति । स कामनावशात्तत्र तत्र देशविशेषे धनाढ््यादिकुले जायत इत्याथर्वणश्रुतौ पूर्वोत्तरार्धयोः अकामिकामिनोर्गतागतादिभावाभावोक्तेरित्यर्थः । कामाकामयो-र्बन्धाबन्धहेतुत्वमन्यत्रोक्तसंसारमुक्त्योरुपपादनाय तत्रस्थादिपदार्थविवरणेन व्यनक्ति ।। इष्टेति ।। अन्यत्रोक्तो हेतुर्भाष्योपपादक इति दर्शयन् उक्तप्रमेयं भाष्यारूढमिति भावेन तदनुवादेन फलोक्त्योपसंहरति ।। अत इति ।। इष्टादिकारिणामेव गतागतादिहेतूभयफलकामनावत्त्वादन्या-ज्ञानिनां तदभावादित्यर्थः ।। सौत्राऽपिपदसमुच्चेयमाह ।। न केवलमिति ।। गतागतमित्यनुषङ्ग इति भावः । भाष्यस्य सूत्रेणान्वयमुपेत्य हेतुत्वेनार्थमाह ।। तद्य इहेति ।। श्रुतौ श्रुतत्वादित्यर्थः इति । सूत्रे पापकृतामपीति वाच्येऽनिष्टेत्युक्तिलब्धार्थमाह ।। अनिष्टेति ।। अन्यथा तदकारिणां गतागतादिसिद्धिर्न स्यादिति भावः । चशब्दादन्यच्चेति सूचितम् । तच्च स्पष्टयति संयमन इत्यादिसूत्रमिति तत्वप्रदीपोक्तेश्चशब्दसार्थक्यार्थं भाष्यानुक्तमपि चशब्दार्थमाह ।। चशब्द इति ।। तर्हि संयमन इति सूत्रं व्यर्थमित्यत आह ।। तदेवेति ।। अनुवादश्च स्पष्टीकरणायेति भावः ।

अभिनवचन्द्रिका

न हि कामोऽस्तीति ।। फलजनकस्य कर्मणः कामना अङ्गम् । अनिष्टादिकारिणश्च न फलोद्देशेन इष्टादिकारिवत् कर्मकुर्वन्ति । ततश्च व्यङ्गत्वात् न तत्कृतं कर्म दुःखजनकम् । अन्यथा ब्रह्मवधहेतूनां मुद्गरादीनामपि तज्जन्यदुःखं स्यादिति भावः ।। कामान्यः कामयत इति ।। मन्यमानो यजमानः यज्ञाद्यनुष्ठानसमये तज्जन्यकामान् विषयान् कामयमानः सन् यज्ञाद्यनुतिष्ठति स एव सकामभिः कामसहकृतयज्ञादिभिः तत्र तत्र सुरनरतिर्यगादिषु भोगाय जायते । पर्याप्तकामस्य त्यक्तेषणस्य, मत्तस्य, कृतात्मनश्च, कृतकृत्यस्य, विरक्तस्य च, सर्वे कामाः विषयसाधनानि सर्वाणि कर्माणि । प्रतिमुच्यन्ति तद्बन्धकानि न भवन्तीति पूर्वपक्षिमते श्रुत्यर्थः । पुण्यं कृत्वा ये पापभयपूर्वकमनुतिष्ठन्ति तेषामेव गमनादिसर्वमपि दुःखम् । इतरेषां विधिनिषेधभयमपहाय स्वेच्छाचारिणां मत्तानां मोक्ष एवेत्यर्थः । एतेन नरकादिदुःखस्य यज्ञफलत्वाभावात् इष्टादि-कारिणामेव दुःखमित्यप्ययुक्तमिति परास्तम् । इष्टादिकारिणामेवेति ।। विधिनिषेधभयवतामेवेत्यर्थः ।। श्रुतत्वादिति ।। ये शुभकृतो ये चाऽशुभकृत इति पुण्यकृद्वत् केवलपापकर्तुरपि ग्रहणादिति भावः । नन्वनिष्टादिकारिणां गतागतक्लेशस्य मयाप्यङ्गीकृतत्वादित्यत आह– अनिष्टादिकारिण इतीति ।। धर्मसमुच्चये चशब्दः । ‘अनिष्टादि कारिणः’ इति सौत्रपदेन ये त्वया मुक्तिभागि-त्वेनोक्ताः विधिनिषेधभयशून्यत्वेन दुःखसाधनं व्यर्थं, विधिनिषेधभयवतामनिष्टादिकारिणां गतागते, इष्टाद्यकारित्वे सति तद्विरुद्धकारिणो मत्तास्त उच्यन्त इत्यर्थः । एतेन ‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति वचनात् इष्टाद्यकारिणः तद्विरुद्वकारित्वं नियतमेवेति तद्विरुद्धकारिणो गतागतक्लेशसमर्थनेन कृतत्वात् इष्टाद्यकारिग्रहणं व्यर्थमिति परास्तम् । मत्तत्वसूचनाय तद्ग्रहण-स्यावश्यकत्वात् ।

पूर्वपक्षस्तु इष्टादिपुण्यकृतामेव गतागतादिक्लेशाः । तेषां विधिनिषेधभीतियुक्तत्वात् । ‘बिभ्यत्पततिपादपात्’ इति न्यायात् । किं च कामना हि कर्माङ्गं, साङ्गमेव च कर्म फलहेतुः न तु व्यङ्गम् । कामनावन्तश्च ते । उक्तं च ‘कामान्यः कामयते मन्यमानः सकामभिर्जायते तत्र तत्र’ इति । इष्टादिकारिणस्तु स्वयमेव स्वात्मानं विधिनिषेधाभ्यां बध्नन्ति । उपनीतस्यैव विधिनिषेधविषयत्वात् । अनुपनीतास्तु मत्ताः । न ह्यनुपनीतं प्रति ‘अहरहः सन्ध्यामुपासीत’ इत्यादिशास्त्रं प्रवर्तत इति शक्यते वक्तुम् । शूद्रादीनां तत्प्रसङ्गात् । अतः पुण्यपापकृतामेव गमनागमनादिदुःखं न तु पापमात्ररतानां मत्तानाम् । किंतु मोक्ष एवेति पुण्ये त तत्फले च विरक्त्या भवितव्यं, न तु पापमात्रानुष्ठान इति ।

सिद्धान्तस्तु न पुण्यापापे सङ्कलय्याऽनुतिष्ठतामेव गतागतादिक्लेशः किंनाम पापमात्रानुरक्तानां मत्तानामपि ‘तद्य इह शुभकृतो ये चाऽशुभकृत’ इति प्रत्येकं गतागतक्लेशाभिधानात्, न केवलं पापमात्रानुरक्तानां सज्जीववत् गतागतक्लेश एव किं नाम संयमने त्वनुभूय नित्यनरके पातो भवति । ये तु सज्जीवाः सन्तः पापमनुतिष्ठन्ति तेषामारोहो भवति । सर्वे वा एते शुभकृतः’ इति कौण्ठरव्यश्रुतौ तथा दर्शनात् । ‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः । तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम्’ इत्यादिस्मृतेश्च । न च भयकामनाद्यभावविरोध इति वाच्यम् । अबिभ्यता फलकामनाशून्येनापि उपभुक्तस्य विषस्य मरणहेतुत्वदर्शनात् । अतोऽनिष्टादिकारिणामपि महानर्थत्वेन मोक्षाशाया दूरोत्सारितत्वात् भवितव्यं तत्रापि विरक्तेनेति सिद्धम् ।

वाक्यार्थमुक्तावली

विशिष्योक्तिरिति टीकायामेव पूर्वाधिकरणे गतागतमिष्टादिफलमिति विशिष्योक्तेराद्यकोट््युप-स्थापकत्वेन सन्देहबीजत्वस्य वक्ष्यमाणत्वात् अनन्तरसङ्गतिः । गतागतमिष्टादिकारिणामेवोत सर्वाज्ञानामिति चिन्ता । तदर्थं प्रत्यवायभयकाममिश्रबुद्धित्वं पतनप्रयोजकं भवति न वेति ।। अज्ञानित्वं चेति ।। इष्टादिकारिणीवानिष्टादिकारिण्यपि अज्ञानित्वस्य सत्त्वेन द्वितीयकोट््युप-स्थितिरिति भावः । प्रत्यवायफलाभावे फलकामनाभावे च पुण्यकरणाभावात् पुण्यकृतामिति कार्योक्त्या सूचितं विमिश्रतेत्युक्तन्यायं विशदयति ।। इष्टादिकारिणामिति ।। प्रत्यवायभयकाम-मिश्रबुद्धित्वेनेत्यर्थः । फलकामित्वात् फलकाममिश्रबुद्धित्वात् । प्रत्यवायभयस्य पतनहेतुत्वं न्यायेनोपपादनीयम् । कामित्वस्य तु श्रुत्येत्युपपादनावैचित्र्यात्पृथगुक्तिः ।। न हि कामोऽस्तीति ।। यद्यपि पापकारिणां फलकामोऽस्त्येव, अन्यथा प्रवृत्त्यनुपपत्तेः । तथाप्यत्र यस्मात्फला-त्स्वर्गादिरूपादिह पतनं विवक्षितं तत्कामो नास्तीति भावः । फलकामिनां पतनमित्यत्र प्रमाणमाह ।। कामान्य इति ।। मन्यमानो बहुमन्यमानः । कामिभिः कामपूर्वकमनुष्ठितयज्ञादिभिः साधनैः । तत्र तत्र योनौ । फलकामस्यैव पातहेतुत्वेऽन्वयमुक्त्वा व्यतिरेकहेतुरुच्यते ।। पर्याप्तकामस्येति ।। कृतात्मनः शुद्धमनसः । अत एव पर्याप्तकामस्य परिसमाप्तकामस्य त्यक्तेषणस्य सर्वे कामाः । इहैव ज्ञानदेहे एव प्रविमुच्यन्ति ज्ञानिनं त्यजन्ति । ‘यदा सर्वे विमुच्यन्ते कामा येऽस्य हृदि स्थिताः’ इति श्रुतेः । स्वसम्बन्धितया विधिज्ञानाभावे पुण्यकरणानुपपत्तेः । पुण्यकृतामिति कार्योक्त्या सूचितं विमिश्रतेत्येतदेव न्यायं विधिनिषेधविमिश्रतेति प्रकारान्तरेण विवृणोति ।। इष्टादिकारिणस्त्विति ।। अत एव न्यायविवरणे न च भयकामनादिमिश्रबुद्धित्वादित्यादिशब्दः । गतागतमित्यनुवृत्या सूत्रार्थमाह ।। न केवलमिति ।। तदकारिण इति ।। इष्टाद्यकारिण इत्यर्थः ।। तद्विरुद्धकारिण इति ।। इष्टापूर्तविरुद्धपापकारिण इत्यर्थः ।। दुःखान्तरेति ।। न केवलं गतागतं किन्तु संयमनाख्यं प्रबलदुःखान्तरं च श्रुतमिति समुच्चयार्थ इत्यर्थः । एतेन प्रबलत्वयुक्तः न्यायः सूत्रारूढो दर्शितः ।। अनूद्यत इति ।। आरोहावरोहविधानाय अनूद्यतेऽतो न पौनरुक्त्यमिति भावः ।

तत्त्वसुबोधिनी

तत्किमिति ।। तथा चेष्टादिकारिणां गतागतोक्तावेव किं तेषामेव गतागतमुतान्येषामपीति सन्देहोत्पादो नान्यथेत्येतदधिकरणविचाराङ्गभूतसंशयोत्थापकत्वेन पूर्वाधिकरणस्यैतदधिकरणोप-जीव्यत्वादनन्तरसङ्गतिरिति भावः । विशेषोक्तिरिति ।। पूर्वाधिकरणे गतागतस्येष्टादिकर्मफल-त्वोक्तावपि तत्फलमिष्टादिकारिणामेव भवति न त्वन्येषां तदकारिणामित्यर्थात् सिद्धमेवेति भावः । कुतो नेत्यत आह ।। इष्टादीति ।। तदुपपत्तेः ।। गतागतयोरुपपत्तेः ।। तदभावात् ।। प्रत्यवायभयाभावात् । अस्तु प्रत्यवायभयवत्वमिष्टादिकारिणामन्येषां तदभावश्च, तथापि तेषामेव गतागते कुत इत्यत आह ।। बिभ्यदिति ।। तथा च भयवत एव फलं न त्वभयवत इति भावः । किञ्च भवत्येवेष्टादिकारिणां तेषां फलकामनावत्त्वात् अन्येषां तदभावादित्याह ।। फलेति ।। फलकामस्य गतागतकारणत्वे श्रुतिमाह ।। कामान्य इति ।। यद्यपि पूर्वार्धस्यैवात्रोपयोगः, स एवेत्यवधारणाध्याहारेण विवक्षितसिद्धेः तथाप्यवधारणव्यावर्त्यत्वं नानिष्टादिकारिणां किन्तु पर्याप्तकामत्वकृतात्मत्वादिगुणयोगिनामेवेति वस्तुगतिप्रदर्शनार्थं पर्याप्तकामस्येत्युत्तरार्धोदाहरणमिति ज्ञातव्यम् । संसारित्वस्योभयत्र तुल्यत्वात्कथमेतदित्यत आह ।। इष्टादीति ।। विधिनिषेधबद्धत्वस्यैव संसारत्वात् तेषां च तदभावदिति भावः । नन्वेवं तर्हि इष्टानिष्टाद्यकरणे गतागतादिदुःखा-भावान्मोक्षसम्भवेन किमर्थं वैराग्योपादानमित्यतः सर्वाज्ञानिसङ्ग्रहार्थं नञो विरुद्धार्थत्वमभावार्थत्वं चाभिप्रेत्यानिष्टादिकारिणामित्येतद्व्याचष्टे ।। तदकारिण इति ।। इष्टापूर्ताकारिणस्तद्विरुद्ध-कारिणश्चेत्यर्थः । अपिशब्देनैवेष्टादिकारिणां समुच्चयसिद्धेश्चशब्दः किमर्थमित्यत आह ।। चशब्द इति ।। तत् किं दुःखान्तरमत आह ।। तदेवेति ।। विविच्योच्यत इत्यर्थः ।

वाक्यार्थविवरणम्

।। अनिष्टादीति ।। ये भगवज्ज्ञानशून्या इष्टापूर्तादिवेदोक्तपुण्यकर्मकारिणः स्तेयादिकर्तारो ये च प्रत्युतेष्टादिवेदोक्तकर्मविरुद्धभगवद्द्रोहादिकर्मकर्तारो मिथ्याज्ञानिनस्ते सर्वेऽप्यनिष्टादिकारि-शब्दवाच्यत्वेन अत्राधिकरणे सर्वत्र विवक्षिताः ।। तत्र ।। कर्माकरणे विरुद्धकर्मकरणे च ।। विरक्तिः ।। तस्मान्निवृत्तिरूपा ।। इष्टादिकारिणामेवेति ।। काम्यकर्मिणामेवेत्यर्थः ।। सर्वाज्ञानिनामिति ।। भगवज्ज्ञानशून्यानां काम्यकर्मिणाम् अकर्मिणां स्तेनादीनां विरुद्धकर्मिणां मिथ्याज्ञानिनां चेति सर्वाज्ञानिनामित्यर्थः । अत्र काम्यकर्मिणामेव धूमादिमार्गेण गतागतम् इष्टाद्यकारिणां तद्विरुद्धकारिणां च गतागतं नाम तत्फलानुभवाय नरकलोकं प्रति गमनम् । तदवसाने केषाञ्चिदिष्टाद्यकारिणां इमं लोकं प्रत्यागमनं तद्विरुद्धकारिणां च तमसि पतनार्थ-मनित्यनरकान्महातमः प्रति गमनमेव विवक्षितम् । न तु धूमादिमार्ग इति विवेकोऽत्र द्रष्टव्य इति सम्प्रदायविदः ।। विशेषोक्तिः ।। अथ ये ग्रामा इष्टापूर्त इति गतागतस्य विशिष्येष्टादि-फलत्वोक्तिः ।। अज्ञानित्वं चेति ।। भगवदज्ञानित्वाविशेषादिष्टादिकारिवत् । सर्वाज्ञानिनामपि गतागतमित्यर्थः ।। तदुपपत्तेः ।। गतागतोपपत्तेः ।। अन्येषाम् ।। अनिष्टादिकारिणाम् ।। तदिति ।। प्रत्यवायभयेत्यर्थः । इष्टादिकारिणां प्रत्यवायादिमत्त्वेन कुतस्तदुपपत्तिरित्यतस्तदुप-पादयति ।। बिभ्यदिति ।। युक्त्यन्तरमाह ।। फलेति ।। इष्टादिकारिणां फलकामित्वेन फलभोगार्थं स्वर्गं प्रति गमनं तदवसान आगमनं च युक्तमित्यर्थः ।। कामः ।। तत्साध्यफलकामः । अतो न तदुपपत्तिरिति भावः । फलकामित्वाच्चेत्युक्तप्रमेयद्वये श्रुतिमप्याह ।। कामान्य इति ।। द्वितीयार्धेनानिष्टादिकारिणां न हि कामोऽस्तीत्यर्थसिद्धिः ।। पर्याप्तेति ।। समाप्तेत्यर्थः । परित्यक्तेति यावत् । प्रत्यवायभयवत्त्वेनेत्याद्युक्तमुपपादयति ।। इष्टादिकारिणस्त्विति ।। तद्रहितः ।। गमनागमनरहितः । अपुनरावृत्तिरूप इत्यर्थः । इहैवेत्युक्तत्वान्न मोक्षार्थमपि गमनमपेक्षितमिति भावः । श्रुत्यनुसारेण सूत्रेऽपि तथैवार्थो द्रष्टव्य इत्याह ।। अनिष्टादिकारिण इतीति ।। दुःखान्तरेति ।। न केवलं गमनागमनप्रयुक्तमेव दुःखमित्यर्थः ।

वाक्यार्थमञ्जरी

अनिष्टादिकारिणामिति ।। इष्टादिपुण्यकारिणां तद्विरुद्धपापकारिणां चेत्यर्थः ।। विशेषोक्ति-रिति ।। गतागतस्येष्टादिकर्मसमर्थनलब्धा इष्टादिकारिणां गतागतमिति विशिष्योक्तिरित्यर्थः । भयतदभावमात्रेण कथमिदं वैषम्यमित्यत आह ।। बिभ्यदिति ।। पतनभयवानेव वृक्षात्पततीत्यर्थः । फलकामस्य गतागतकरणत्वे श्रुतिमाह ।। कामान्य इति ।। यश्चात्मानं कर्तृत्वेन मन्यमानः कामान् विषयान् कामयते इच्छति स्म स एव कामभिः भोक्तव्यैः कामैर्निमित्तैस्तद्भोगार्थमिति यावत् । भुवि जायते तत्र तत्र विषयेषु पर्याप्तकामस्यालंबुद्धिमतः कृतात्मनः शिक्षितबुद्धेर्योगिनस्तु इहैव लोके सर्वकामाः प्रविमुच्यन्ति विलीयन्त इत्यर्थः ।। ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ।। न केवलमिष्टादिकारिणामेव गतागतादिकं अपि तु तद्य इहेत्यनिष्टादिकारिणामपि च श्रुतमित्यर्थः । नन्वेवं तर्हीष्टानिष्टाद्यकरणे गतागतादिदुःखाभावात् मोक्षसम्भवे च किमर्थं वैराग्यादीत्यत आह ।। तदकारिण इति ।। अनिष्टेत्यत्र नञोऽभावार्थत्वं विरुद्धार्थत्वं चेति भावः । अपिशब्देनेष्टादि-कारिसमुच्चयसिद्धेश्चशब्दो व्यर्थ इत्यत आह ।। चशब्द इति ।। अत्रोपष्टम्भकमाह ।। तदेवोत्तरसूत्र इति ।। अन्यथा अप्राप्तस्यानुवादायोगात्संयमने त्वनुभूयेत्यनुवादो न स्यादिति भावः ।


Load More