ॐ समाकर्षात् ॐ

५. समाकर्षाधिकरणम्

सूत्रभाष्यम्

सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इत्यतो ब्रवीति

॥ ॐ समाकर्षात् ॐ ॥ १६ ॥

परमात्मवाचिन शब्दा अन्यत्र समाकृष्य व्यवह्रियन्ते ।

"परस्य वाचकाश्शब्दा समाकृष्येतरेष्वपि ।

व्यवह्रियन्ते सततं लोकवेदानुसारत ॥’ इति पाद्मे ॥

सत्तकदीपावली

अथैवं प्राय पारङ्गते महासमन्वये त्रये सर्वाधिकरणसाधारणा शङ्का नैकाधिकरणे विशेषत सङ्गता ता निराकरोत्यष्टभि सूत्रै । ननु भवतूक्तैर्विशेषहेतुभि भगवत्यपि प्रवृत्ति सर्वशब्दानां, न तु भगवत्येव । तेषामेव केषाञ्चिदर्थान्तरेष्वपि व्यवहारान्यथानुपपत्त्या तद्वाच-कत्वस्याप्यवगतेरित्याशङ्क्य व्यवहारस्य अन्यथैवोपपत्तिं सप्रमाणकं दर्शयत्सूत्रमुपन्यस्य व्याचष्टे ॥ सर्वेत्यादिना ॥ न च परशब्दत्वाविशेषेण अग्न्यादिशब्दानाम् उदकादौ प्रयोगापत्तिरिति भावेनाह ॥ लोकवेदानुसारत इति ॥

तत्त्वप्रदीपिका

ब्रह्मण एव वाचकै सर्वशब्दै कथमन्यत्रावाच्येषु व्यवहरन्ति । अवाचकैरेव व्यवहारे कुम्भादावपि स्तम्भादिशब्दव्यवहारयोगादव्यवस्था स्यात् । अतो न वाचकत्वमन्तरेण जगति व्यवहार सार्वजनीनस्सम्बोभवीतीत्यत आह "समाकर्षात्’ ॥ अनादिकालत एवाविच्छेदेन परमात्मवाचकत्वेन स्थितास्तत समाकृष्येतरेष्वपि व्यवह्रियन्ते । न चाव्यवस्था । समाकर्ष-क्लृप्तेर्विद्यमानत्वात् ।

तत्त्वप्रकाशिका

अत्र व्यवहारविलोपप्रसङ्गेनाऽन्यत्रैव प्रसिद्धानां सर्वशब्दानां परमात्मैकवाचित्वसमर्थना-दस्ति शास्त्रादिसङ्गति । समन्वयसूत्रे सर्वेषां शब्दानां भगवद्वाचित्वमुक्तम् । तच्चानुपपत्ति-ग्रस्तत्वेऽसत्स्यादित्यारम्भणीयमेतत् । लौकिका वैदिकाश्च शब्दा विषया । भगवदेकवाचिनो न वेति सन्देह । पूर्वोक्तमेव सन्देहबीजम् । पूर्वपक्षयति ॥ सर्वेति ॥ यदुक्तं सर्वशब्दानां परमात्मैकवाचित्वं तदयुक्तम् । तथात्वेऽन्यत्र व्यवहाराभावापातात् । यदपि साक्षादप्य-विरोधमित्युक्तमस्य समाधानं तदयुक्तम् । अवाचकैर्व्यवहारेऽव्यवस्थापातात् । यदप्यत्रोक्तं शरीररूपकविन्यस्तेतीश्वरसम्भन्धादन्यत्र शब्दप्रवृत्तिरिति तदपि न साधु । तथा सति लोके लक्षणेतरवृत्त्यभावापत्ते । यत्तु कल्पनोपदेशादित्यत्र रूढ्याद्यभ्युपेत्य समाधानं तदपि न शोभां बिभर्ति । तथा सत्यन्यस्यापि मुख्यवाच्यत्वप्रसङ्गेन परमात्मन एव मुख्यवाच्यत्वमिति प्रतिज्ञा-व्याघातात् । योगरूढ्योरेव मुख्यवृत्तित्वात् । न ह्यक्षादिशब्दानां रूढ्यादिनैवानेकवाचिनां क्वचिन्मुख्यता क्वचिन्नेत्यस्ति । अत सर्वशब्दानां मुख्यवृत्त्या परमात्मैकवाचित्वेऽन्यत्र व्यवहारलोपापातात् । तस्य चानिष्टत्वान्न परमात्मैव मुख्यत सर्वशब्दवाच्य इति (शङ्कार्थ) । सूत्रं व्याचष्टे ॥ परमात्मेति ॥ सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ न परमात्मनो मुख्यत सर्वशब्दवाच्यत्वेऽन्यत्र व्यवहारलोप । तत्र रूढ्यादेरभ्युपगमात् । तथा सत्युभयो-र्मुख्यवाच्यत्वं प्राप्तमिति चेन्मैवम् । भवेदेतद्यज्ञादिशब्दवदुभयत्रान्योन्य निरपेक्षा शब्दप्रवृत्ति । न चैवम् । किन्तु स्वतो मुख्यवृत्त्या परमात्मैकवाचिनां शब्दानां व्यवहारसिद्ध्यर्थं तत समाकृष्याऽन्यत्र रूढत्वेन सङ्केतितत्वात् । अल्पप्रवृत्तिनिमित्तानां च तदधीनत्वादिति भाव । अन्योन्यनिरपेक्षतयैव कुतो न शब्दवृत्तिरित्यत स्मृतेरेवेत्याह ॥ परस्येति ॥ लोकवेदानुसारत इति लौकिकवैदिकव्यवहारसिद्ध्यनुसारत । न च प्राचीनसूत्रविरोध । प्रथमसूत्रे स्वातन्त्र्येण वाच्यत्वाभावस्याभिप्रेतत्वात् । द्वितीये परमात्मसम्बन्धोक्त्याऽत्रोक्तस्यैवाभिसंहितत्वात् । तृतीये चाऽविवेचितरूढ्यादिमात्राभ्युपगते । अत्र पुनस्तस्यैव विवेचनादिति ॥

गुर्वर्थदीपिका

नारायणादिभगवन्नामधारकेषु कृतनारायणादिनाम्नां सङ्केतात् घटादिनाम्नां सङ्केतं व्यावर्त-यितुं रूढत्वेन सङ्केतितत्त्वादित्युक्तम् । अत एव सूत्रे केवलसङ्केतेनाकर्षणं गङ्गादिशब्दानां सम्बन्धमात्रेण तीरादिष्वाकर्षणं च व्यावर्तयितुं संशब्द । एवं च परममुख्या वृत्तिर्भगवति । तत सम्यगाकर्षणात् अवान्तरमुख्या वृत्तिर्जगति लक्षणोपचारवृत्ती अमुख्ये । सङ्केतोऽपि रूढियोगयोरभावात् रूढोपचारादावन्तर्भवति । सङ्केतोपचारादेर्बीजं तु भगवन्नामधारणं कार्यमित्यादिरूपा स्मृति । एवं रूढियोगव्यतिरिक्तनिमित्तान्तरेण वृत्तिरमुख्या वृत्ति । तच्च क्वचित्सादृश्यं, क्वचित्सम्बन्ध, क्वचिदुक्तविधया स्मृत्यादिकमिति न वृत्तीनां त्रित्वभङ्ग इति ज्ञेयम् । नारायणत्वं घटत्वादिकं वा तत्तदसाधारणधर्मं निमित्तीकृत्य नारायणघटादिशब्दा नामनादिकालं नारायणघटादावेव प्रयोगबाहुल्यं रूढि । स च नारायणादिपदानां नारायणेऽस्ति । घटादीनां च घटादिष्वप्यस्ति, नामधारके तु नास्त्येव । किंतु सङ्केतमात्रेण तस्मिन्व्यवहार एवेति भाव । लौकिकवैदिकव्यवहारसिद्ध्यनुसारत इत्यत्र पूर्वपूर्वलौकिक-वैदिकव्यवहारसिद्ध्यनुसारेणोत्तरोत्तरैर्व्यवह्रियन्त इत्यर्थ । सर्गादौ तु सर्वज्ञा ब्रह्मादयो वसिष्ठादयश्च पूर्वकल्पव्यवहारानुरोधेन व्यवहरन्ति तदनुसारेणान्येऽपि व्यवहरन्ति । एवं चानादित्वान्न व्यवहारपरम्परामादायानवस्था । इदं चोपलक्षणं गुरूपदिष्टसास्नादिमत्त्वादि-व्यञ्जकव्यङ्ग्याखण्डजात्याख्यतत्तच्छब्दप्रवृत्तिनिमित्तानुसारत इत्यपि द्रष्टव्यम् । अतोऽपि न कुचोद्यावकाश । प्रथमसूत्र इत्यादौ, "तत्तु समन्वयात्’ इति प्रथमसूत्रम्, "आनुमानिक-मप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च’ इति द्वितीयं सूत्रम् । "ज्योतिरुप-क्रमात्तथा ह्यधीयत एके’ इति तृतीयं सूत्रममिति विवेक । "जगति व्यवहार’ इति वदता लोकव्यवहाराय जगद्वाचित्वात् जगति प्रसिद्धि भगवति च प्रायो न लोकानां व्यवहार इति न तत्र प्रसिद्धिरिति सूत्रार्थ सूचित ।

भावबोध

अथ पुनरिति ॥ नन्वेतत्सूत्राष्टकं "कल्पनोपदेशात्’ इत्यनन्तरमेव कर्तव्यम् । तेन सूत्रेण ज्योतिरादिसर्वशब्दानां कर्मादौ रूढियोगादिमुख्यामुख्यवृत्त्युक्तौ कर्मादीनामपि मुख्यार्थत्वं स्यादित्याशङ्कापरिहारायास्य प्रवृत्तत्वात् । "विरोधि सर्वे’ इत्यनुव्याख्यानानुसारेणास्मि-न्नधिकरणे सर्वशब्दानां समन्वेतव्यत्वेन सर्वशब्दानां विष्णुपरत्वेऽन्यत्र व्यवहारविलोपप्रसङ्ग इति बाधकपरिहारस्य तत्रैव कर्तव्यत्वाच्चेति चेत्, न "कारणत्वेन’ इति सूत्रेणाकाशाद्वायुरिति आकाशवाय्वादिशब्दानां विष्णौ समन्वयोक्तावाकाशादिशब्दैर्भूतादिव्यवहाराभावप्रसङ्ग स्यादिति शङ्काया अपि एतत्सूत्राष्टकेन परिहारादेतदानन्तर्यस्य युक्तत्वात् । एवं तर्हि अध्यायान्तेऽपि एतच्छङ्काप्राप्तिसम्भवे तत्परिहाराय तत्रैव तत्कर्तव्यं स्यादिति चेत्, , आनुमानिकमित्याद्यधिकरणचतुष्टयविषयवाक्यानां प्रधानाद्यन्यपरत्वानङ्गीकारे तारतम्यकर्मक्रम-शरीरतदन्तर्गतभूतभौतिकोत्पत्तिविलोपप्रसङ्गवदुत्तरादिकरणविषयवाक्यस्यैषा ह्येव प्रकृतिरसदे-वेदमग्र आसीदित्यादेरन्यपरत्वानङ्गीकारे बाधकाभावेनाध्यायान्ते एतच्छङ्काप्राप्तेरेवाभावादिति ज्ञातव्यम् । अत्राव्यक्तज्योतिराकाशब्दानां प्रधानकर्मभूतादौ रूढ्यादिमुख्यवृत्त्यङ्गीकारे विष्णोरिव प्रधानादीनामपि तच्छब्धमुख्यार्थत्वं प्राप्नोत्युत नेति चिन्ता । तदर्थं तेषु नैरपेक्ष्येण तच्छब्दवृत्तिरुत मुख्यतो विष्णुवाचकानामेव शब्दानां विष्ण्वधीनेषु तेषु समाकर्ष इति । तदर्थं परमात्मन एव सर्वशब्दमुख्यार्थत्वे किं शब्दानां जगति प्रसिद्धिर्न युज्यते उत सा युज्यते इति । मुख्यार्थत्वप्रयोजकं सर्वनियामकत्वञ्च जीवमुख्यप्राणनिष्ठम् उत विष्णुमात्रनिष्ठमिति । तथा शब्दानामन्यत्र समाकर्षे प्रयोजनं नास्त्युतास्तीति । तदर्थं मोक्षसाधनब्रह्मज्ञानोपयोगितया प्रधानकर्मादेर्मुमुक्षुज्ञेयत्वे प्रमाणं नास्त्युतास्तीति ॥ प्रकारान्तरेणेति ॥ कार्यकारणभाव-विरोधापेक्षया प्रकारान्तरेणेत्युक्तम् स्वत इति । अन्यानपेक्षयेत्यर्थ ॥ अन्योन्यनिरपेक्षतयेति ॥ परमात्मनि शब्दवृत्ते जगन्नैरपेक्ष्यवज्जगत्यपि परमात्मनैरपेक्ष्येऽन्योन्यनिरपेक्षत्वमित्यर्थ ॥ प्रथमसूत्र इति ॥ प्रथमत उदाहृते "साक्षादप्यविरोधम्’ इति सूत्र इत्यर्थ । एवमेव द्वितीय इत्यादि नेयम् । तथा च परमात्माधीनतया वाच्यत्वस्यानिरासान्नाव्यवस्थापात इति भाव ॥ अत्रोक्तस्यैवेति ॥ न तु लक्षणयेत्यर्थ ॥ अविवेचितेति ॥ परमात्मनि शब्दानां विद्वद्रूढि-रनन्याधीननिरवधिकप्रवृत्तिनिमित्तकत्वरूपमहायोगो जगत्यविद्वद्रूढिर्भगवदधीनाल्पप्रवृत्ति-निमित्तकत्वरूपयोगमात्रमिति विवेकरहितरूढ्यादिनेत्यर्थ ।

भावदीप

अत्रानुव्याख्याने विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनामित्यादिना एतत्पादीयाधिकरणो-पाध्युक्त्यनुरोधेन प्राचीनैस्समाकर्षादित्यादिसूत्राष्टकस्य पूर्वशेषत्वोक्तावपीह पृथगधिकरणान्तर-त्वेन योजनं तु पृथक् न्यायसूचकत्वं दर्शयितुमित्युक्तं चन्द्रिकायाम् । एवं हरावन्यत्र च मुख्य-वृत्तौ सिद्धायामस्य विचारस्यावसरप्राप्तिमाह ॥ अथेति ॥ प्रकारान्तरेणेति ॥ सर्वमान-विरोधकर्मक्रमादिविरोधबहुत्वसङ्ख्यादिविरोधोत्पत्तिमत्त्वादिविरोधरूपप्रागुक्तप्रकारापेक्षया मुख्यवृत्तेर्हरौ तदन्यत्र च तुल्यतापत्तिरूपान्यप्रकारेणेत्यर्थ ॥ सर्वशब्देति ॥ ज्योतिरधिकरण-विषयोपाधिरेवास्यापि विषय इति सूचितम् । तेनैव गतार्थमिदमित्यत प्रकारान्तरेणेत्याद्युक्तम् । अत्र शास्त्रसङ्गत्यादिकमूह्यम् । यदा तु अत्र व्यवहारविलोपप्रसङ्गेन अन्यत्रैव प्रसिद्धानां सर्वशब्दानां परमात्मैकवाचित्वसमर्थनादित्यादिना पूर्वोत्तराधिकरणेष्विव शास्त्रादिसङ्गत्याद्युप-पादनपरग्रन्थपाठोऽऽप्यत्र नये क्वचित्कोशेषूपलभ्यते तदा तु व्यक्तमेव । भाष्योक्तापादकस्या-सिद्धिनिरासाय प्राक्तनं स्मारयन्व्याचष्टे ॥ यदुक्तमिति ॥ पूर्वनयैरित्यर्थ । ननु भाष्ये कथमन्यत्र व्यवहार इति चोद्यमयुक्तम् । साक्षादपीत्यादिसूत्रैरेवास्य निरस्तत्वादित्यत आह ॥ यदपीति ॥ विष्णुवाचकैरेव अनन्यगत्या हानाद्यर्थमन्यत्र व्यवहार इति यदुक्तं लिङ्गपादान्त्यनय इत्यर्थ ॥ अव्यवस्थेति ॥ वह्निपदेन जलादिव्यवहारस्याप्यापातादित्यर्थ ॥ यदप्यत्रेति ॥ आनुमानिकसूत्रे तत्तच्छब्दवाच्येश्वरसम्भन्धात्तत्र तत्र तच्छब्दव्यवहारो गङ्गासम्बन्धाद् गङ्गा-पदस्य तीर इवेति यदुक्तमत्र चोद्ये समाधानमित्यर्थ ॥ रूढ्या(द्यभ्यु)द्युपेत्येति ॥ अन्यत्रे-त्यनुषङ्ग । एतेन प्रसङ्गात्सूत्राणामपौनरुक्त्यं दर्शितम् ॥ प्रतिज्ञेति ॥ समन्वयसूत्रोक्त-प्रतिज्ञेत्यर्थ । तत्रोक्तसप्तवृत्तीनामपि मुख्यत्वाभावात्कथमेवमित्यतो व्यनक्ति ॥ योग-रूढ्योरेवेति ॥ योगरूढिरप्यत्रोपलक्ष्या महायोगविद्वद्रूढ्योरीशे सिद्धान्त्यभिमतयोर्व्यवच्छेदा-यैवकार । एवमभिप्रायं वर्णयित्वोपसंहाररूपेण भाष्यं योजयति ॥ अत इति ॥ योगरूढि-व्यतिरिक्तमुख्यवृत्तेरभावादित्यर्थ । मुख्यवृत्त्येति शेषोक्ति । योगरूढिरूपयेत्यर्थ । "स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यात्’ इति तदधीनत्व-सूत्रानुव्याख्यानोक्तस्वातन्त्र्यनिमित्तकमुख्यवृत्त्या शब्दानामीश्वरवाचित्वे बाधकाभावेऽपि तद्गतत्वनिमित्तकमुख्यवृत्त्येश्वरवाचित्वेऽन्यत्र व्यवहारलोप स्यादेव । लोके योगरूढिरूप-मुख्यवृत्तेरभावस्य प्राप्तत्वादिति भाव । उक्ताशङ्कां निषेधयन् तत्र परम्पराहेतुत्वेन भाष्यं व्याचष्टे ॥ न परमात्मन इति ॥ मुख्यत योगादिवृत्त्या तत्र लोके ॥ उभयोरिति ॥ ब्रह्मतदन्ययोरित्यर्थ । तथा च तत्त्वित्यवधारणायोगो "नामानि विश्वाभि न सन्ति लोके’ "यो देवानां नामधा एक एव’ इत्याद्ययोगश्चेति भाव ॥ स्वत इति ॥ अनन्यापेक्षयेत्यर्थ । मुख्यवृत्त्या महायोगाविद्वद्रूढिवृत्त्येत्यर्थ ॥ व्यवहारेति ॥ हानादिव्यवहारेत्यर्थ ॥ अल्पेति ॥ अन्यत्रेत्यनुषङ्ग । भाष्योक्तिरुपलक्षणमिति भाव ॥ प्राचीनेति ॥ पूर्वोदाहृतै साक्षा-दपीत्यादिसूत्रैर्विरोध इत्यर्थ । द्वितीये आनुमानिकसूत्रे अत्रोक्तस्य मुख्यत्वमात्रस्य । तृतीये कल्पनेति सूत्रे ॥ अविवेचितेति ॥ भगवति महायोगविद्वद्रूढी । अन्यत्र तु रूढ्यादि-मात्रमित्येवं रूपेणेत्यर्थ । एतेन पूर्वाधिकरणेषु तत्र तत्र विष्णौ शब्दानां महायोगविद्वद्रूढिभ्यां मुख्यत्वकीर्तनं त्वत्र त्यन्यायानुसन्धानेनेति दर्शितम् । इति शब्द समाप्तौ॥

अभिनवचन्द्रिका

सर्वशब्दसमन्वयासम्भवमाशङ्क्येति ॥ पादचतुष्टयात्मकस्मृत्यनवकाशदोषप्रसङ्ग इत्यधिकरणस्य द्वितीयस्य प्रथमपादे निवेशवत् समन्वयाध्यायगतसर्वाधिकरणसाधारणानुपपत्ति-परिहारकाणामप्येतेषां सूत्राणां क्वचिदन्तर्भावस्यावश्यकत्वात् अत्रान्तर्भाव इति भावः ॥ लोके लक्षणेतरवृत्त्यभावापत्तेरिति ॥ लोकगतवृत्तीनां लक्षणात्वं स्यात्, तथा च सर्वशब्दावाच्यस्य लक्षणायुक्तेः लक्षणापि न स्यादिति भावः । अस्त्वेवं निरूढशब्दानां गतिः, अन्यत्र यौगिका-नान्तु का गतिरित्यत आह अल्पेति ॥ अन्योन्यनिरपेक्षतयेति ॥ यथा लौकिकनिरपेक्षतया शब्दानां भगवति वृत्तिः, एवं भगवन्निरपेक्षतया लोके शब्दवृत्तिः किं न स्यादित्यर्थः । अप्रतीतेः लोकवेदानुसारत इति पदं प्रतीकतयोपादाय व्याचष्टे लोकवेदेति ॥ "अनुसारत’ इत्यनन्तरम्, "इत्यर्थ’ इति शेषः ।

ततश्चैवं भाष्ययोजना परस्य वाचकाः शब्दाः लौकिकवैदिकव्यवहारसिध्द्यनुसारतः, इतरेषु समाकृष्य परमात्मना व्यवह्रियन्त उपदिश्यन्त’ इति । न च प्राचीनसूत्रविरोध इति ॥ "साक्षादप्यविरोधम्’ इति सूत्रे भगवद्वाचकैः शब्दैः अन्यत्र व्यवहारस्याङ्गीकृतत्वेन रूढ्यादेर-नभिमतत्वात् इह रूढ्याद्यङ्गीकारे तद्विरोधः । शरीर "रूपकविन्यस्तगृहीतेर्दर्शयति च’ इत्यत्र भगवत्सम्बन्धेनाऽन्यत्र शब्दवृत्त्यङ्गीकारेण लक्षणाया अभिमतत्वात्तद्विरोधः । "कल्पनोपदेशात्’ इत्यत्र अक्षादिशब्दवदुभयत्रापि वृत्त्योः साम्याङ्गीकारेण इह पुनस्तारतम्याङ्गीकारे तद्विरोध इति न च वाच्यमित्यर्थः ।

वाक्यार्थमुक्तावली

अथ पुन प्रकारान्तरेण परमात्मनि सर्वशब्दसमन्वयाभावमाशङ्क्य तत्परिहारकत्वेन सूत्र-मवतारयतीति बहुटीकाकोशपाठानुसारात् अनुव्याख्याने कारणस्त्रीनिषेधिनामित्येतत्पादीयाधि-करणोपाध्युक्तिदशायां "विरोधकार्यतद्वतो । स्त्रीलिङ्गत्वम्’ इति पूर्वपक्षन्यायमालायाम् ॥ व्यक्त्यव्यक्तिविशेषता, उत्पादनं स्वदेहाच्चेति, सिद्धान्तन्यायमालायाम् अवान्तरं कारणं च प्रकृतिरिति सङ्ग्रहभाष्ये च न्यायविवरणे चाकाशप्रकृत्यधिकरणयोर्मध्येऽस्याधिकरणस्य स्पर्शात्। तत्त्वप्रदीपादिप्राचीनटीकायाम् अधिकरणान्तरत्वज्ञापकाभावाच्च साक्षादपीत्यादीनां वैश्वानराधिकरणत्वशेषं तावदाकाशादिशब्दानां भगवत्परत्वे भूतव्यवहारलोपो गगनादेरात्मन इति श्रुत्येश्वरादुत्पत्तिश्च न सिध्येदिति शङ्कापरिहारकतया सूत्राष्टकस्य पूर्वशेषत्वमेवोचितं न त्वधिकरणान्तरत्वम् । ननु सूत्राष्टकस्य शेषत्वविवक्षायां ज्योतिरधिकरणशेषत्वमुचितं कल्पनासूत्रस्योभयत्र रूढ्या शब्दवृत्तिसाम्यस्य समाकर्षेण परिहरणीयत्वेनापि सङ्गतत्वात् यत्तु टीकायामन्यत्र व्यवहारविलोपप्रसङ्गेनेत्यादिना शास्त्रादिसङ्गतिप्रदर्शनपूर्वकमधिकरणान्तरत्वस्या- प्युचितत्वात् । न च तर्हि समन्वय परसर्वाधिकरणशेषतयैतानि सूत्राण्यध्यायान्ते निवेशनीया-नीति वाच्यम् । सत्यमत्रैव समन्वयस्य प्राय पारङ्गतत्वेनास्यैवाध्यायान्तत्वात् । प्रकृत्यधि-करणोक्तसमाकर्षाक्षेपकत्वात् । एतेन सर्वे व्याख्याता इत्यस्यैतदधिकरणोक्तन्यायातिदेश-कत्वात्। यदुक्तं सत्तकदीपावल्याम् अथैवं प्राय पारंगते महासमन्वयेऽत्र सर्वाधिकरण-साधारणाशङ्का नैकाधिकरणेऽपि विशेषत सङ्गता । निराकरोत्यष्टभि सूत्रैरिति ॥ वक्ष्यति च परमपुरुषे स्त्रीवाचकशब्दासम्भवान्न तत समाकर्षाक्षेपं न वाधिकरणान्तरत्वं पूर्वशेषत्वं च विरुद्धमन्तर्भेदाधिकरणत्वाङ्गीकारेणाविरोधादिति ॥ अस्मिन्नन्तर्भेदाधिकरणे कल्पनोपदेशा-दित्युक्तन्यायेनान्यत्र सर्वशब्दानां मुख्यत्वे सिद्धेऽपि मुख्यता किं महदादिशब्दपरस्पर-निरपेक्षतयोभयत्रापि तुल्या किं वा समाकर्षेण ब्रह्मण्यधिका अन्यत्र हीनेति । तदर्थमन्यत्र हीनत्वेऽन्यत्र प्रसिद्धिविरोध । जीवमुख्यप्राणविरोध समाकर्षप्रयोजनाभावविरोधश्च प्राप्नोत्युत नेति (न प्राप्नोतीति) ॥ प्रकारान्तरेणेति ॥ कार्यकारणविरोधापेक्षया प्रकारान्तरेणेत्यर्थ ।

ननु भाष्ये कथमन्यत्र व्यवहार इति चोद्यमयुक्तं साक्षादपीत्यादिसूत्रैरेवास्य निरस्तत्वा-दित्यत आह ॥ यदपीति ॥ विष्णुवाचकैरेवानन्यगत्या हानाद्यर्थमन्यत्र व्यवहार इत्युक्तं समाधानमित्यर्थ ॥ अव्यवस्थेति ॥ दहनशब्देन तुहिनव्यवहारस्याप्यापातादित्यर्थ ॥ ईश्वरेति॥ यच्छब्दवाच्यईश्वरो यत्रास्ति तेन शब्देन तद्व्यवहार इति व्यवस्थानिमित्तोक्त्या यत्समाधानमुक्तं तदपि न साध्वित्यर्थ ॥ प्रतिज्ञेति ॥ समन्वय सूत्रकृतप्रतिज्ञेत्यर्थ ॥ योगरूढ्याख्येति ॥ सप्तवृत्तिषु लक्षणादेरमुख्यत्वेऽपि योगरूढ्योर्मुख्यत्वायोगादिति भाव । यद्वा महायोगविद्वद्रूढ्योरीशे सिद्धांत्यभिमतयो व्यवच्छेद । न च कल्पनासूत्रे महायोगविद्व-द्रूढ्योरीशे सिद्धांत्यभिमतयो व्यवच्छेद । न च कल्पनासूत्रे महायोगरूढ्योर्मुख्यत्वा-योगाभावादितोऽधिकमुख्यवृत्तिसद्भावेऽनयोर्मुख्यवृत्तित्वमेव न स्यात् ॥ अन्यथा लक्षणादेरपि मुख्यवृत्तिभेद स्यादिति तदाक्षेपेणेह पूर्वपक्षोदयात् । तत्र समुग्धतयाऽन्यत्र रूढ्युक्त्या समाधानेऽपीह तद्विवेचनाद्वा गतार्थत्वात् । न्यायविवरणे त्विहाधिकरणटीकायां च रूढ्यादि-विवेचनस्यैतदधिकरणमपि हृदि निधायोपपत्ते । न च तदधीनत्वादिति शब्दानां भगवति मुख्यत्वस्यान्यत्र तदायत्तयाऽमुख्यसमर्थितत्वाद्य्वर्थमिदमिति वाच्यम् । तदधीनत्वादिसूत्रोक्तं स्वातन्त्र्यस्य निमित्तत्वं तत्कृतशब्दमुख्यत्वं चास्तु रूढियोगकृतं तद्गत्वापेक्षया मुख्यत्वं त्वयुक्तं रूढियोगयोरविशेषादितीह प्रत्यवस्थानात् । स्वातन्त्र्यस्याप्यन्यगतत्वचोदनाच्चेत्यलम् ॥ स्वतो मुख्यवृत्येति ॥ अन्यगतशब्दस्य समाकर्षं प्रवृत्तिनिमित्तस्यान्यपरत्वं च विना महायोग-विद्वद्रूढिलक्षणमुख्यवृत्येत्यर्थ । इदमुक्तं भवति । योगरूढ्योर्मुख्यत्वेऽपि यथा रूढेर्योगात्प्राबल्यम् एवं रूढत्वेऽपि विद्वद-विद्रूढ्योर्योगत्वेऽपि योगमहायोगयोस्तारतम्यं युक्तम् ईश्वरे रूढेर्वैदिकत्वात् असङ्केतरूपत्वाच्च । योगस्य प्रवृत्तिनिमित्तस्य निरवधिकत्वेनान्यायत्तत्वेन च प्रबलत्वादन्यत्र रूढेरविद्वत्सम्बन्धि-त्वात्। वैदिकप्रयोगस्यापि समाकर्षेण सङ्केतप्रवृत्तिनिमित्ताल्पत्वपारतन्त्र्याभ्यां योगस्यापि दुर्बलत्वात् । भगवतो मुख्यवाच्यत्वेऽपि अन्यत्र व्यवहारविलोप इति । सूत्रे तत्वित्यनुवर्ततेऽत इत्यन्वेति । जगद्वाचित्वादित्यतो बुध्या विवेकेन सप्तम्यन्ततया जगतीत्यनुकृष्यते । सर्व-शब्दानामिति शेष । न विरोध इत्यस्ति ततश्च तत परब्रह्मण सर्वशब्दानां जगति समा-कर्षान्न व्यवहारविरोधस्तत्र न तत्वित्यवधारणसूत्रविरोधसूत्रार्थ । ननु साक्षादपीति सूत्रेऽ-वाचकत्वेऽप्यनभिज्ञानादन्यत्र व्यवहार इति ॥ शरीररूपकेत्यन्यत्र शक्यसम्बन्धप्रदर्शनेन लक्षणाया अभिप्रेतत्वादत्रोभयत्र मुख्यत्वाङ्गीकारे विरोध कल्पनासूत्रेण गतार्थता चेत्यत आह न च प्राचीनेति ॥ अन्यत्र व्यवहारविलोपसमाधयकत्वोपाधिनैक्यमित्यभिप्रेत्याद्ये द्वितीय इत्याद्युक्ति ॥ प्रथमसूत्र इति ॥ साक्षादपीत्यत्र स्वातन्त्र्येण वाच्यत्वं भगवत एव अन्येषां स्वातन्त्र्येण वाच्यत्वं नास्तीत्युक्तौ तर्हि शब्दानामन्यत्र प्रयोग किमर्थ इति शङ्कायां हानादिव्यवहारार्थमित्युक्तमित्यर्थ ॥ द्वितीय इति ॥ शरीररूपकेत्यत्रान्यवाचकानामन्यत्र प्रयोगेऽव्यवस्था स्यान्निमित्ताभावादित्याशङ्काया परमात्मसम्बन्धस्य निमित्तत्वोक्त्या यन्नामको भगवान्यत्र विशिष्ट तत्र समाकर्षेण व्यवहारे नाव्यवस्थेति अत्रोक्तस्यैवाभिसंहितत्वादित्यर्थ ॥ तृतीये चेति ॥ कल्पनोपदेशादित्यत्रास्मदभिसन्धिमज्ञात्वा लक्षणाबीजसम्बन्ध उक्त इति भ्रान्त्या तर्ह्ययसि दग्धशब्दस्येवान्यत्र लक्षणादिरेव स्यान्न च मुख्यवृत्तिरिति शङ्काया प्राबल्य-दौर्बल्याभ्यां अविवेचितरूढ्यादिमात्रोक्त्या परिहारादित्यर्थ ॥ अत्र पुनरिति ॥

उभयत्र रूढ्यादिसाम्येऽक्षादिशब्दवत्तुल्यवृत्तित्वमिति शङ्कायां रूढियोगापेक्षया विद्वद्रूढिमहायोगयो प्राबल्योक्त्या विवेचनादित्यर्थ ॥

तत्त्वसुबोधिनी

प्रकारान्तरेणेति । कार्यकारणभावाविरोधापेक्षया प्रकारान्तरेणेत्युक्तम् ॥ स्वत इति ॥ अन्यानपेक्षयेत्यर्थ । अल्पप्रवृत्तिनिमित्तस्यापि अन्यत्र सत्वात् शब्दमुख्यत्वं स्यादित्यत आह ॥ अल्पेति ॥ अन्योन्यनिरपेक्षतयेति ॥ परमात्मनि शब्दवृत्ते जगन्नैरपेक्षवत् जगत्यपि परमात्मनैरपेक्ष्ये अन्योन्यनिरपेक्षत्वमित्यर्थ । नन्वेवं साक्षादपीत्यादिसूत्रविरोध । तथा वाच्यत्वाभावस्य उक्तत्वादित्याशङ्क्य निषेधति ॥ न चेति ॥ प्रथमसूत्र इति ॥ प्रथमत उदाहृते साक्षादप्यविरोधमिति सूत्रे इत्यर्थ । तथा च परमात्माधीनतया वाच्यस्यानिरासान्ना-व्यवस्थापात इति भाव ॥ द्वितीयेऽपीति ॥ शरीररूपकविन्यस्तेत्यत्रेति शेष ॥अत्रोक्त-स्यैवेति ॥ ननु लक्षणाया इत्यर्थ ॥ तृतीयेऽपीति ॥ कल्पनोपदेशादित्यत्रेत्यर्थ ॥ अविवेचितेति ॥ परमात्मनि शब्दानां विद्वद्रूढि अन्याधीननिरवधिकप्रवृत्तिनिमित्तकत्वरूप महायोग जगति अविद्वद्रूढिर्भगवदधीनाल्पप्रवृत्तिनिमित्तकत्वरूपयोगमात्रमिति विवेकरहित-रूढ्यादिनेत्यर्थ ।

वाक्यार्थविवरणम्

अव्यवस्थेति ॥ घटशब्देन पटव्यवहार स्यादित्येवं रूप । यथा सतीति अन्यत्र रूढ्या-द्यङ्गीकारे । कुतोऽन्यस्यापि मुख्यवाच्यत्वप्रसङ्ग इत्यत आह ॥ योगरूढ्योरेवेति ॥ तयोश्च परमात्मनि तदन्यत्र च साम्यादिति शेष । उभयत्र योगरूढ्यो साम्येऽपि परमात्मनि शब्दानां मुख्यत्वमन्यत्रामुख्यत्वमिति किं न स्यादित्यत आह ॥ न हीति ॥ स्वातन्त्र्येणेत्यनन्तरम् अन्यस्येति शेष । द्वितीये साक्षादित्यनन्तरमुदाहृतशरीरकेति सूत्रे । अत्रोक्तस्यैव रूढ्यादि-मुख्यवृत्त्या वाच्यत्वस्यैव । तृतीये कल्पनेति सूत्रे । तस्यैव रूढ्यादे ।

वाक्यार्थमञ्जरी

एवं हरावन्यत्र च मुख्यवृत्तौ सिद्धायामस्य विचारस्यावसरप्राप्तिमाह ॥ अथ पुन प्रकारान्तरेण परमात्मनि सर्वशब्दसमन्वयासम्भवमाशङ्क्य तत्परिहारत्वेन सूत्रमवतार-यतीति ॥ पूर्वाधिकरणचतुष्टयेन गतार्थत्वनिरासायोक्तम् ॥ प्रकारान्तरेणेति ॥ सर्वमानविरोधकर्मक्रमादिविरोधबहुलसङ्ख्याविरोधोत्पत्तिमत्त्वादिविरोधरूपप ्रागुक्तप्रकारापेक्षया मुख्यवृत्तेर्हरौ तदन्यत्र च तुल्यतापत्तिरूपान्यप्रकारेणेत्यर्थ । अत्र शास्त्रसङ्गत्यादिकमूह्यम् । यदा तु अत्र व्यवहारलोपप्रसङ्गेनान्यत्रैव प्रसिद्धानां सर्वशब्दानां परमात्मैकवाचिता-समर्थनादस्तिशास्त्रादिसङ्गति । समन्वयसूत्रे सर्वशब्दानां भगवदेकवाचित्वमुक्तम् । तच्चानु-पपत्तिग्रस्तत्वे असत्स्यादित्यारम्भणीयमेतत् लौकिका वैदिकाश्च शब्दा विषया भगवदेक-वाचिनो न वेति सन्देह पूर्वोक्तमेव सन्देहबीजं पूर्वपक्षमाहेति पाठे दृश्यते तदातु व्यक्तमेव । एवमग्रेऽपि शङ्कार्थ । सूत्रं व्याचष्टे सिद्धान्तयत्सूत्रमवतार्य व्याचष्ट इति पाठद्वयम् । यद्यपि तत्त्वप्रदीपे समाकर्षादित्यादिसूत्राष्टकस्य पूर्वाधिकरणशेषत्वमुक्तं युक्तं चैतत् अनुव्याख्याने विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनामित्येतत्पादीयाधिकरणोपाध्युक्तिदशायां पृथगुपाध्यनुक्ते-स्तथा पूर्वपक्षसिद्धान्तयुक्तिग्रहदशायामपि पृथगुक्त्यनुक्ते । भाष्ये समन्वेतव्यशब्दविशेषानुक्तेश्च यथापि पूर्वतन्त्रे हेतुदर्शनाच्चेति सूत्रस्य विरोधाधिकरणविशेषत्वेऽपि पृथन्यायसूचकत्व-मिवास्यापि तदस्तीति दर्शयितुमत्र टीकायामधिकरणान्तरं कृतमिति चन्द्रिकायां पाठद्वयेऽपि सर्वशब्देत्यनेन ज्योतिरधिकरणोपाधिरेवात्राप्युपाधिरिति सूचितम् ॥ अत्रोक्तमिति ॥ अवाचकानेकशब्दान् ज्ञातिनो व्यवहारार्थमज्ञानिनोऽज्ञानादेवान्यत्र प्रयुंजत इत्युक्तमित्यर्थ । अव्यवस्था घटादौ पटप्रयोगलक्षणा ॥ ईश्वर सम्बन्धादिति ॥ वाच्येश्वरसम्बन्धतदभावाभ्यां व्यवस्थेति भाव: ॥ ॐ समाकर्षात् ॐ ॥ सर्वशब्दानां ब्रह्मण सकाशाज्जगति सम्यगाकृष्य रूढत्वेन सङ्केतितत्वान्न व्यवहारलोपो न वाचकत्वसाम्यमित्यर्थ ॥ अन्योन्यनिरपेक्षेति ॥ परमात्मनि शब्दवृत्ते जगन्नैरपेक्ष्यवत् जगत्यपि परमात्मनिरपेक्षेत्यर्थ । स्वत इति अनन्या-पेक्षयेत्यर्थ । तत ब्रह्मण तर्हि यौगिकानां साम्यमस्त्वित्यत आह ॥ अल्पेति ॥ समाकृष्य व्यवहारस्य लोकवेदप्रयोजनकत्वाभावादाह ॥ लौकिकेति ॥ सिध्यर्थमित्यर्थ ॥ प्रथमसूत्र इति॥ प्रथममुदाहृते साक्षादप्यविरोधमित्यत्रेत्यर्थ एवमेव द्वितीय इत्यादिनेयं तथा च पराधीनतया वाच्यत्वस्य तत्र निरासान्नानवस्थापात इति भाव ॥ अत्रोक्तस्यैवेति ॥ न तु लक्षणयेत्यर्थ ॥ अविवेचितेति ॥ परमात्मनि शब्दानां विद्वद्रूढिरन्याधीननिरवधिकप्रवृत्ति-निमित्तकत्वरूपमहायोगो जगत्यविद्वद्रूढिर्भगवदधीनाल्पप्रवृत्तिनिमित्तकत्वरूपयोगमात्रमिति विवेकरहितरूढ्यादिनेत्यर्थ:

Load More