ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ

७. अथ इतरव्यपदेशाधिकरणम्

सूत्रभाष्यम्

जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते –

।। ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ।। २२ ।।

जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ।

सत्तर्कदीपावली

यदन्तर्यामिप््रोर्यत्वं तद्युक्तं जडानामेव । न जीवस्य चेतनत्वादिति वाच्यम् । हिताकरणादहितकरणाच्च । अहितकारिणि ज्ञातेऽपि क्वचित्प््रावृत्तिदर्शनात् । हितकारिणि ज्ञातेऽपि क्वचिदप्रवृत्तेः नाज्ञानकृतं हिताकरणादिकमिति वक्तुं शक्यते । न च कर्मकारितं तदिति वाच्यम् । कर्मणोऽचेतनस्य प््रोरकेश्वरमन्तरेण कार्यकारणत्वायोगात् । तस्मादस्वतन्त्रो जीवः । तदाह जीवकर्तृत्वपक्ष इत्यादिना ।

तत्त्वप्रदीपिका

ब्रह्मण इतरस्य जीवस्य स्वतन्त्रकर्तृत्वं यदि व्यपदिश्यते तर्हि तस्य हिताकरणमहितकरणं दुःखप्राप्तिः सुखाप्रप्तिश्च न युज्यते । परतन्त्रत्वे तु युज्यते, अपरिहार्यत्वात् । अन्यथा हिताकरणादयो दोषाः प्रसज्येरन् । अतस्ते जीवे दृश्यमानास्तस्य स्वातन्त्र्यं निवारयन्ति ।

तत्त्वप्रकाशिका

अन्यथानुमितौ च ज्ञशक्तिवियोगादिति जीवकर्तृत्वस्य निराकरिष्यमाणत्वादेतेन शिष्टा अपरिग्रहा अपि व्याख्याता इति निराकृतत्वाच्च नैतदधिकरणारम्भो युक्त इत्याशङ्कापरिहारायाधि-करणार्थमाह ।। जीवेति ।। अत्र ‘जीवाद्भवन्ति भूतानि’ इति श्रुतिप्राप्तो जीवकर्तृत्वपक्षो निराक्रियते । उत्तरत्र तु समयप्राप्त इत्यर्थभेदः । श्रुतिप्राप्तस्य सङ्क्षेपतो निरस्तस्य विस्तरा-न्निराकरणाच्चावैयर्थ्यमिति भावः । न च वाच्यं तदनन्तरमेव निराक्रियतामिति । अत्र ‘यथा प्राणादिः’ इत्युक्ते पुनराशङ्कोदयात् । अत एवात्र विष्णोर्जगत्कारणत्वे जीवकर्तृत्वसाधक-युक्तिविरोधस्य परिह्रियमाणत्वादस्ति शास्त्रादिसङ्गतिः । विष्णोर्जगत्स्रष्टृत्वादिकमुक्तम् । तस्य च जीवकर्तृत्वसाधकयुक्तिविरोधे लक्षणत्वायोगात्स निराकार्य एव । तज्जगत्कर्तृत्वादि विषयः । विष्णोर्युक्तमयुक्तं वेति सन्देहः । श्रुतिविप्रतिपत्तिः श्रुत्यनुभवविप्रतिपत्तिर्वा सन्देहबीजम् । न विष्णोर्जगत्कर्तृत्वं युक्तमिति पूर्वः पक्षः । जीवस्यैव कर्तृत्वानुभवात् । स हि यत्कार्यमारभते तत्समापयतीत्यनुभूयते । न चायमनुभवो भ्रान्तः । बाधकाभावात् । न च वाच्यमस्तु जीवस्य कर्तृत्वम् । तच्चेश्वरप््रोरितमिति कल्पनागौरवापत्तेः । तथा हि ईश्वरस्तावदनुपलभ्यमानो नास्त्येव स च कल्पनीयस्तस्य च जीवप््रोरकत्वं कल्पनीयमप्रामाणिकमिति जीवस्यैव स्वतन्त्रकर्तृत्वाङ्गीकारे लाघवम् । एवं च परिदृश्यमानकार्याणां स्वतन्त्रजीवकर्तृत्वे समस्तजगतोऽपि तथात्वं सिद्ध्यति । तथा च श्रुतिः । ‘जीवाद्भवन्ति भूतानि’ इत्यादि । न चेश्वरविषयत्वं श्रुतेः । तस्यैवाभावात् । अतः श्रुत्यादिबलाज्जीवस्यैव स्वतन्त्रकर्तृत्वादसम्भवि जन्मादिकारणत्वलक्षणं ब्रह्मण इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। इतरेति ।। यदि जीवकर्तृत्वस्य श्रुतौ व्यपदेशादिसिद्धत्वाज्जीवः स्वतन्त्रकर्तेत्युच्यते तर्हि तस्य हिताकरणमहितकरणं च न स्यात् । न हि स्वतन्त्रस्य ते सम्भवतः । विद्येते च ते जीवे अतोऽसौ न स्वतन्त्रकर्ता अपि तु परमेश्वर एवेति भावः ।

गुर्वर्थदीपिका

अन्यथानुमितौ च ज्ञशक्तिवियोगादिति वक्ष्यमाणसूत्रस्यायमभिसन्धिः । अन्यथाऽनुमितौ प्रकृत्युपसर्जनपुरुषानुमितौ क्रियमाणायां च जानातीति ज्ञः जीवः । तस्य शक्तिवियोगात् शरीर-प्रवेश एव स्वतः शक्त्यभावात् । भावे चान्यत्रापि स्वत एव प्रवृत्तिसम्भवात् शरीरप्रवेशवैयर्थ्य-मित्युभयथाऽपि जीवकर्तृत्वं न घटते इति । पुनराशङ्कोदयादिति वदता ‘यथा प्राणादिः’ इति सूत्रे प्राक् भगवतोऽनुप्रवेशः कथितः । स मास्तु । जीवानुप्रविष्टमेव शरीरं प्रवर्ततामिति पुनराशङ्कोदय इति सूचितम् । विद्येते च ते जीव इत्यत्र बहुकालं सुखेन जीवामीति यद्धितं, तस्याकरणं मध्य एव मरणात् । भुञ्जानस्य यदृच्छया स्वजिह्वादंशनादिकं यदहितं तस्य करणं चेत्यर्थः ।

भावबोधः

अनन्तरसङ्गतिं दर्शयति– अत्र यथा प्राणादिरित्युक्त इति ।। ‘यथा प्राणादिः’ इति सूत्रे प्राणादिदृष्टान्तेन प्रकृतिपुरुषपदोक्तजीवरूपसाधनजातस्य परमात्माधीनत्वोक्तौ न जीवस्य परमात्माधीनत्वं युक्तं तस्य स्वातन्त्र्येण कर्तृत्वस्यानुभवसिद्धत्वादिति शङ्कोदयादित्यर्थः ।। युक्तिविरोधस्येति ।। श्रुतिसंवादयुक्तिविरोधस्येत्यर्थः । तेन ‘श्रुतिगुणयुक्तयः’ इत्यनेनैवैतदधि-करणोपाधिसङ्ग्रहोऽनुव्याख्याने कृत इति बोद्धव्यम् ।। विष्णोरिति ।। अत्र जगज्जन्मादिकारणत्वं विष्णोर्युक्तिविरुद्धं भवत्युत नेति चिन्ता । तदर्थं महदादिकार्यं स्वतन्त्रजीवकर्तृकं कार्यत्वात् घटादिवदिति युक्तिः जीवाद्भवन्तीति श्रुतिसंवादाज्जीवस्य जगत्कर्तृत्वसाधिकोत दृष्टान्तस्य साध्यविकलत्वेनासाधिकेति । तदर्थं जीवस्य स्वतन्त्रकर्तृत्वे बाधकं नास्त्युत हिताक्रियादिकृत्स्न-प्रसक्त्यादिरूपबाधकमस्तीति । तदर्थं जीवकर्तृत्वपक्षवत् ब्रह्मकर्तृत्वपक्षेऽपि श्रमचिन्ताप्राप्ति-कल्पनागौरवादिबाधकमस्त्युत नास्तीति । तदर्थमीश्वरे उक्तदोषपरिहारहेतुविशेषो नास्त्युतास्तीति ।। कर्तृत्वानुभवादिति ।। घटादिकार्येष्वित्यर्थः । ईश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्प-नालाघवमिति न्यायविवरणाभिप््रोतं दूषणमाह– कल्पनागौरवापत्तेरिति ।। इदानीं न्यायविवरणं योजयति जीवस्यैवेति ।। एवं चेति ।। महदादिकमनन्याधीनजीवकर्तृकं कार्यत्वात् घटवदिति प्रयोगो ज्ञातव्यः ।

नन्वेवं न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम् । किं तु घटादिकर्तृत्वं तावदनुभवसिद्धत्वात् कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गी-कारे कल्पनागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमिति सुधाग्रन्थविरोध इति चेत्, ; ईश्वर-त्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवमिति न्यायविवरणस्य सर्वथेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकार इति च योजनायां पक्षद्वयसाधारण्यमभिप््रोत्य ‘देवादिवदपि लोके’ इति सूत्र-निवर्तनीयतयाऽप्रामाणिकेश्वराङ्गीकारे कल्पनागौरवप्रसङ्गेन ईश्वर एव नास्तीति महदादिकार्येऽपि जीव एव कर्तेति पूर्वपक्ष्यभिप्रायोन्नयनेन टीका । अस्तु वा ईश्वरः, प्रामाणिकत्वात्; तथापि न तस्य जन्मादिसूत्रोक्तं सकलजगत्कारणत्वम्; किन्तु महदादिकार्यकर्तृत्वमेव । न तु घटादि-कर्तृत्वमपि । उभयोरपि तदङ्गीकारे गौरवप्रसङ्गादित्यभ्युपगमवादेन सुधायाः प्रवृत्तेर्विरोधशङ्काया एवाभावात् । भाष्ये दोषप्रसक्तिरिति सौत्रपदानुसारेणेतरव्यपदेशादित्यनन्तरं जीवकर्तृत्व इत्या-पादकाध्याहारः कृत इत्यभिप््रोत्य तद्व्याचष्टे– यदि जीवेत्यादिना ।।

भावदीपः

भाष्ये श्रुतिप्राप्त इति विस्तरादिति चोक्तपदद्वयव्यावर्त्यं क्रमेणाह ।। अन्यथेति ।। समयपाद इत्यर्थः ।। श्रुतिप्राप्त इति ।। आपाततः श्रुतिमूलयुक्तिप्राप्त इत्यर्थः । वेदवादरतो न स्यान्न पाषण्डी न हैतुकीत्युक्तवेदवादनिरासद्योतनाय श्रुतिप्राप्त इत्येवानुवादः कृतः ।। पुनराशङ्को-दयादिति ।। यथा प्राणादिरिति पूर्वाधिकरणोक्तं प्राणादिजीवानामस्वातन्त्र्यं न युक्तम् । जीव-कर्तृत्वस्यानुभवादिति शङ्कोदयादव्यवधानेनात्र निराकरणमित्यर्थः । एतेन विस्तरेण निराकरणं व्यर्थमिति प्रत्युक्तम् । अत एव शङ्काया उत्पन्नत्वादेवेत्यर्थः ।। युक्तीति ।। श्रुत्यनुभवसंवादि-युक्तीत्यर्थः । व्यपदेशादिति सौत्रोक्त्यनुरोधादाह ।। श्रुतीति ।। ‘यतो वा इमानि भूतानि जायन्त’ इति ‘जीवाद्भवन्ति भूतानि’ इति श्रुत्योर्विप्रतिपत्तिर्विरोध इत्यर्थः । उपसंहारदर्शनादित्युक्त्यनु-रोधादाह ।। श्रुत्यनुभवेति ।। उपसंहारसूत्रे भाष्योक्तं हेतुं तद्भाष्यं विवृण्वन्नाह ।। जीवस्यैवेति ।। ईश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवमिति न्यायविवरणोक्तं च हेतुं देवादिवदिति सूत्रव्यावर्त्यमत्र योजयितुं व्यावर्त्यशङ्कामाह ।। न च वाच्यमिति ।। कर्ता शास्त्रार्थवत्त्वादित्यत्र तथा वक्ष्यमाणत्वादिति भावः ।। कल्पनेति ।। एतेन कर्ता शास्त्रार्थवत्त्वादिति वक्ष्यमाणन्यायेन जीवस्य कर्तृत्वेऽप्यनुभवादिसामञ्जस्येनेश्वरकर्तृत्वे विरोधाभावादयं विचारो व्यर्थ इति परास्तम् । तस्यैवेह गौरवेणाक्षेपादिति भावः । कर्तुरीश्वरस्य दृष्टिविरोध इति भाष्यदिशा विवृणोति ।। तथा हीति ।। नास्त्येवेति ।। अनुपलब्धिर्हि धर्मादिवदयोग्यत्वाद्वा मेर्वादिवद्देशकालादिव्यवहितत्वेन वाऽभिमानिनयन्यायेनान्तर्धानशक्त्या वा शशशृङ्गादिवदसत्वेन वा । नाद्यः । आपरोक्ष्याभावा-पातात् । न द्वितीयः । अदृश्यत्वनयोक्तदिशा नित्यसर्वगतत्वात् । न तृतीयः । तदव्यक्तमाह हीत्यव्यक्तैकस्वभावत्वोपगमात् । अतः परिशेषादसत्त्वमेवेति भावः ।ननु जीवकर्तृत्वपक्षे अनवस्थितेरसम्भवाच्च नेतर इत्युक्तदोषः स्यादित्यत उक्तम् ।। जीवस्यैव स्वतन्त्रेति ।। एतेन न्यायविवरणे स्वतन्त्रेति विशेषणं योज्यमिति दर्शितम् । एतेन वक्ष्यमाण-चेतनत्वयुक्तेरनुकूलतर्को दर्शितः । कार्यत्वयुक्तेर्दृष्टान्तश्चोपपादितः । अस्त्वेवं घटादौ जीवः कर्ता महदादौ क इत्यत आह ।। एवं चेति ।। महदादिकं जीवकर्तृकं कार्यत्वात् घटवदिति भावः । युक्तिसंवादिनीं श्रुतिमाह ।। तथा चेति ।। इयं च एतेन शिष्टा अपरिग्रहा इत्यत्र भाष्योक्ता ।। तस्यैवेति ।। एतेन युक्तेः श्रुतिबाधोऽपि परास्तः । अत इत्यस्यार्थः श्रुत्यादीति ।। यद्वा ईश्वरस्यैवाभावेन श्रुतेस्तत्परत्वायोगादित्यर्थः । आदिपदेन युक्त्यनुभवौ ग्राह्यौ । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्यैव शङ्कितमिति सुधावाक्याविरोधश्चन्द्रिकायां स्फुटः । जीवकर्तृत्व इति भाष्यस्थमापादकं सूत्रारूढं कुर्वन्सूत्रार्थमाह ।। यदीति ।। असद्व्यप-देशान्नेति चेदित्यतश्चेदिति वर्तते । स च यद्यर्थः । यदितर्ह्योश्च नित्यान्वय इति भावः । श्रुतौ व्यपदेशादीति नित्यसाकाङ्क्षत्वात्समासः । आदिपदेन वक्ष्यमाणयुक्त्यनुभवौ ग्राह्यौ । एतेन हिताकरणादिदोषापादनं श्रुत्यनुभवयुक्तीनां तिसृणामप्याभासत्वासाधकं तासां स्वतो जीवकर्तृत्व-विषयकत्व इति सूचितमिष्टापत्तिं निराह ।। विद्येते चेति ।। अन्यथा सर्वो जनः पूर्णानन्दो निर्दुःखश्च सदा स्यादिति भावः । तर्ह्यनवस्थितेरसम्भवाच्चेत्युक्तदोषः स्यादित्याशङ्क्याह ।। अपि त्विति ।।

अभिनवचन्द्रिका

अर्थभेद इति ।। ननु प्रापकभेदादर्थभेदाभिधानमयुक्तम्, एकस्यैव वह्नेः भेदाभावेऽपि प्रत्यक्षाऽनुमानाऽऽगमरूपप्रापकभेददर्शनादिति चेत्, न ब्रूमो वयमर्थभेदो विषयभेद इति, येनोक्त-दोषः स्यात्, किं नाम श्रुतिप्रामाण्यवादिना श्रुत्या जीवकर्तृत्वे शङ्किते तस्या अर्थान्तरवर्णनेन तदीयाऽऽशङ्कापरिहारोऽस्याधिकरणस्य प्रयोजनम् । समयप्रामाण्यवादिना पुनर्जीवकर्तृत्वे शङ्किते समयाप्रामाण्यव्युत्पादनं वक्ष्यमाणाधिकरणस्य प्रयोजनमिति प्रयोजनभेदोऽर्थभेदो इति ।। अत एवेति ।। श्रुतिप्राप्तस्य विस्तरान्निराकरणाय प्रवृत्तादस्मादेवाधिकरणाद्युक्तिविरोधस्य परिह्रिय-माणत्वादित्यर्थः ।। जीवस्यैवेति ।। कर्तृत्वं जीवस्यैव नान्यस्येत्यनुभवादित्यर्थः । ननु जीवस्य कर्तृत्वमात्रमनुभूयते न त्वन्यव्यवच्छेदः, ततश्चासिद्धिरित्यत आह– स हीति ।। स हि जीवो यत्कार्यमारभते तत्समापयति आरब्धान्तगामित्वमनुभूयते । ततश्च जीव एव कर्ता नान्य इत्यनुभवो भवेदेवेति भावः ।ननु कुलालस्य मृत्पिण्डादिवत् नेश्वरः सहकारीत्यभ्युपगम्यते । येनानुभवविरोधः स्यात् किं नाम अन्तर्यामितया इत्याशङ्क्य निषेधति – न च वाच्यमस्त्विति ।। अनुपलभ्यमान इति ।। जीवशरीर इति शेषः । जीवान्तर्यामितया जीवशरीरस्थत्वे जीवेनोपलभ्येत, न हि तन्नियम्यः पटुकरणः तन्न पश्यतीति सम्भवति । राजनियम्येषु भृत्येषु राजद्रष्टृत्वनियमात्, अनुपलम्भबाधितत्वात् जीवान्तर्यामितया जीवस्थित्यभिधायकं वाक्यमपि प्रतीतार्थे अप्रमाण-मेवेति भावः । अत्र पूर्वपक्षिणा नेश्वरस्य सर्वथा सत्त्वमुच्यते किन्तु जीवप्रेरणाय जीवस्थित्यादिरूपैश्वर्यविशिष्टतया सत्त्वमुच्यते । अनुपलम्भाभिधानात् । यद्देशेऽनुपलम्भस्तद्देशे तदभावसाधनस्यैव युक्तत्वात् । अवश्यं चैतदेवं विज्ञेयम् ब्रह्मणो जगत्कारणत्वाक्षेपस्य पूर्वपक्ष-फलत्वात् । अन्यथा तन्न स्यात् । ब्रह्माभावेन तज्जगत्कारणत्वाक्षेपसम्भवे ब्रह्माभावेन जीवस्य स्वातन्त्र्यं प्रसाध्य तत्फलतया ब्रह्मकारणत्वाक्षेपाभिधानवैयर्थ्यात् ।। समस्तजगतोऽपीति ।। तथात्वं जीवकर्तृत्वम्, अनीश्वरकर्तृत्वमिति यावत् । अयं भावः । घटादिकार्याणां स्वतन्त्रजीवकर्तृत्वे सिद्धे महदादिकार्यकर्तुः परमेश्वरस्य कुलालादिनियामकत्वरूप-परमैश्वर्यवैधुर्याज्जीवत्वं नेश्वरत्वमिति । अवश्यं चैतदेवं विज्ञेयम् जीवस्य सशरीरस्यैव कर्तृत्वं घटादौ दृष्टमिति महदाद्युत्पत्तिसमयेऽशरीरस्य तस्य तत्कर्तृत्वायोगात् । तदुक्तं सुधायाम् – ‘न ह्यत्राधिकरणे महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितं, किन्तु घटादिकर्तृत्वमिति नेश्वरस्य सर्वकर्तृत्वम्’ इति च ।। तस्यैवाभावादिति ।। परमैश्वर्यादिविशिष्टस्यैवाभावादित्यर्थः । इदमत्राकूतम् । ‘जीवाद्भवन्ति’ इति श्रुतेरीश्वरपरत्वं वदन् प्रष्टव्यः किं जीवसाधारणब्रह्मपरत्वं श्रुतेरभिमतम्, आहोस्वित् परमैश्वर्यादिविशिष्टब्रह्मपरत्वम् । आद्ये न नो हानिः । सर्वजीवानां सम्भूय सर्वजगत्कारणत्वं वदद्भिरस्माभिरपि ‘जीवाद्भवन्ति’ इति श्रुतिः घटादीनां कुलालजन्यत्वमिव महदादीनां जीवतुल्यब्रह्मजन्यत्वं वक्तीत्यङ्गीकारात् । द्वितीये त्विदमुपतिष्ठते तस्यैवाभावादिति ।। जीवस्यैव स्वतन्त्रकर्तृत्वादिति ।। घटादाविति शेषः ।। असम्भवीति ।। ब्रह्मणो महदादिकारणत्वेऽपि जन्मादिसूत्रोक्तं सर्वकारणत्वमसम्भवीति भावः ।

ननु अत्र सूत्रे हिताकरणादिर्दोष उच्यते, भाष्ये तु हिताकरणम्, अहितकरणं च न स्यादिति तदभाव आपाद्यते, अतोऽपव्याख्यानमित्यत आह यदि जीवस्येति ।। ‘जीवाद्भवन्ति भूतानि’ इति व्यपदेशबलात् जीवः स्वतन्त्रकर्तेत्युच्यते, तर्हि राजाद्यनधीनत्वादिरूपहिताकरणं तदधीनत्वादिरूपाहितकरणं च न स्यादित्यर्थः । इदमुक्तं भवति । स्यादयं सूत्रभाष्ययोर्विसंवादः, यदि सूत्रस्य हिताकरणरूपदोषप्रसक्तिरित्यर्थो भवेत्, न चैवम् हिताकरणादेः प्रामाणिकत्वेन तदापादने इष्टापादनप्रसङ्गात्, किं नाम हिताक्रियादेः दोषप्रसक्तिः असत्त्वप्रसक्तिरित्यर्थोऽभिमतः, भाष्यकृता च हिताकरणं अहितकरणं च न स्यादिति तदेवोक्तमिति न विसंवादः ।। न हि स्वतन्त्रस्य ते सम्भवत इति ।। स्वेष्टं कर्तुं अनिष्टमकर्तंु यत् स्वकारणायातं तच्चान्यथाकर्तुं समर्थस्यैव स्वतन्त्रत्वेन जीवः स्वतन्त्रः, असमर्थश्च स्वेष्टकरणे अनिष्टाकरणे चेत्यस्य व्याहतत्वादिति भावः ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिं दर्शयति अत्रेति ।। ननु श्रुतिप्राप्तस्य निरासो हि तृतीयपादे सङ्गतः तत्कथ-मत्रेत्यत आह अत एवेति ।। यथा प्रणादिरिति ।। पूर्वाधिकरणोक्तप्राणादिजीवानाम-स्वतन्त्रत्वमयुक्तं जीवकर्तृत्वस्यानुभवात् । अत एव जीवाद्भवन्तीत्यस्यार्थान्तरपरत्वायोगादिति श्रुत्यनुभवसंवादेनाधिकहेतुना पुनर्जीवमात्रविषयाभ्यधिकाशङ्कायाः प्राप्तत्वादेव श्रुत्यनुभवसंवादि-युक्तिविरोधस्य परिह्रियमाणत्वादेवेत्यर्थः । अत एव सिद्धान्ते इतरव्यपदेशादित्यत्र पूर्वपक्ष्यभि-मता श्रुतिः । उपसंहारदर्शनादित्यत्रानुभवः अश्मादिवदित्यत्र युक्तिर्निरस्यत इति भावः ।। विष्णोरिति ।। अत्र जन्मादिसूत्रोक्तं ब्रह्मण एव स्वतन्त्रकर्तृत्वं श्रुत्यनुभवयुक्तिविरुद्धं न वेति चिन्ता । तदर्थं हिताकरणादिकृत्स्नदोषप्रसक्त्यादिबाधकवशात् श्रुतेरन्यार्थत्वम् । अनुभवस्य भ्रान्तत्वं युक्तेराभासत्वं कल्पयितुं न शक्यते उत शक्यते वेति । तदर्थं जीवकर्तृत्वपक्ष इव ब्रह्मकर्तृत्वपक्षेऽपि श्रमचिन्तादिकल्पनागौरवादिबाधकमस्त्युत नास्तीति ।। श्रुतिविप्रतिपत्ति-रिति ।। ‘जीवाद्भवन्ति’ ‘यतो वा’ इत्यादि श्रुतिविप्रतिपत्तिरित्यर्थः । उपसंहारदर्शनादित्युक्त-पूर्वपक्षमाह जीवस्यैवेति ।। घटादिकार्येष्वित्यर्थः । हिताकरणादिदोषप्रसक्तिः कृत्स्नप्रसक्तिरिति सूत्रव्यावर्त्यमाह बाधकाभावादिति ।। यथाप्राणादिरित्यनेन गतार्थतामाशङ्क्य परिहरन् देवादि-वदपि लोक इति सूत्रव्यावर्त्यं दर्शयन् लघुतेत्युक्तन्यायं विवृणोति न च वाच्यमित्यादिना ।। कर्ता शास्त्रार्थेति नये तथा वक्ष्यमाणत्वादिति भावः । एतेन कर्तेत्यत्र वक्ष्यमाणन्यायेन जीवस्य कर्तृत्वेऽपीश्वरकर्तृत्वे विरोधाभावादयं विचारो व्यर्थ इति परास्तम् । तस्यैवेह गौरवेणाक्षेपादिति ।। नास्त्येवेति ।। अनुपलब्धिर्हि धर्मादिवदयोग्यत्वाद्वा मेर्वादिवद्बहुदेशव्यवहितत्वाद्वा अभिमानिनयन्यायेनान्तर्धानशक्त्या वा नृशृङ्गादिवदसत्वेन वा । नाद्यः । अपरोक्षाभावापातात् । न द्वितीयः । अदृश्यत्वनयरीत्या नित्यसर्वगतत्वात् । न तृतीयः । तदव्यक्तमाह हीत्यव्यक्त-स्वभावत्वोपगमात् । अतः परिशेषादसत्वमेवेति भावः ।

ननु जीवस्यैव कर्तृत्वाङ्गीकारेऽनवस्थितेरसम्भवाच्च नेतर इत्युक्तं चेन्नोक्तदोष इत्यतः कर्तृत्वं विशिनष्टि जीवस्यैव स्वतन्त्रेति ।। एवं चेति महदादिकमन्यानधीनजीवकर्तृकं कार्यत्वाद्घटवदिति प्रयोगो दृष्टव्यः । नन्वेवं न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्य शङ्कितं किन्तु घटादिकर्तृत्वं तावत् कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवमित्यतो नेश्वरस्य कर्तृत्वमिति सुधाविरोध इति चेन्न । ईश्वरत्यागेन जीवस्यैव कर्तृ-त्वाङ्गीकारे कल्पनालाघवमिति न्यायविवरणस्य सर्वथेश्वरत्यागेन महदादिकार्ये जीवस्यैव कर्तृ-त्वाङ्गीकार इति घटादिकार्ये ईश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकार इति योजनाद्वयमभिप््रोत्य प्रामाणिकेश्वराङ्गीकारे कल्पनागौरवप्रसंगेनेश्वर एव नास्तीति महदादिकार्येऽपि जीव एव कर्ता । अदृष्टद्वारोपपत्तेः । युक्तं चोपादानाद्यपरोक्षं विनापि कर्तृत्वम् । चैत्रः शब्दं करोतीत्यादौ दर्शना-दिति । आद्ययोजनानुसारेण टीकाप्रवृत्तेः । अस्तु वेश्वरः प्रामाणिकत्वात्तथापि तस्य जन्मादि-सूत्रोक्तं सर्वकर्तृत्वं किन्तु महदादिकर्तृत्वमेव न तु घटादिकर्तृत्वमपि । उभयोरपि तदङ्गीकारे गौरवमित्यभ्युपगमवादेन द्वितीययोजनानुसारेण सुधाप्रवृत्युपपत्तेरिति । अत एव टीकायां यद्वेति पक्षान्तरं वक्ष्यतीति ज्ञेयम् । इतरव्यपदेशादिति सूचितपूर्वपक्षमाह तथा चेति ।। अत इति ।। ईश्वरस्यैवाभावेन श्रुतेस्तद्विषयत्वायोगादित्यर्थः । दोषप्रसक्तिरित्यापादनानुसारेणेतरव्यपदेशा-दित्यनन्तरं तदेव इतरव्यपदेश इति सप्तम्यन्तं विपरिणम्यते । इतरस्य जीवस्य कर्तृत्वव्यपदेशे कर्तृत्वे उच्यमान इति तदर्थ इति भावेन जीवकर्तृत्वपक्षे इत्यापादकमुक्तं भाष्य इत्यभिप््रोत्य तद्व्याचष्टे यदीत्यादिना ।। सौत्रस्येतरशब्दस्य प्रस्तुतब्रह्मकर्तृत्वादितरो जीवकर्तृत्वमर्थः । तथा च जीवकर्तृत्वस्य श्रुतौ व्यपदेशात्स एव स्वतन्त्रः कर्तेति यद्युच्यते तर्हि हिताकरणादेर्जीवे भास-मानस्य विरोधलक्षणदोषप्रसक्तिः स्यात् । तस्यास्वतन्त्रे उचितस्य स्वतन्त्रे विरोधात् । तथा च तन्न स्यादिति यावत् । विद्यते च एतज्जीव इति वाऽसौ स्वतन्त्र इति पूर्वसूत्रार्थ इति भावः । हिताकरणादिरूपदोषप्रसक्तिरिति व्याख्याने सूत्रभाष्ययोर्विरोधः स्यात् । हिताकरणादिदोषापादनं श्रुतियुक्त्यनुभवानां त्रयाणामप्याभासतासाधक इति सूचयितुं व्यपदेशादित्युक्तम् ।। विद्यते चेति ।। अन्यथा सर्वोऽपि परमानन्दो निर्दुःखश्च स्यादिति भावः ।

तत्त्वसुबोधिनी

ननु च तथापि श्रुतिप्राप्तजीवकर्तृत्वस्य एतेनेत्यत्र निराकृतत्वाद्व्यर्थं इत्यत आह ।। श्रुति-प्राप्तस्येति ।। अनन्तरसङ्गतित्वादत्रोक्तमित्याह अत्र यथा प्राणादिरित्युक्त इति ।। यथा प्राणादिरिति सूत्रे प्राणादिदृष्टान्तेन प्रकृतिपुरुषपदोक्तजीवरूपसाधनजातस्य परमात्माधीनत्वोक्तौ न जीवस्य परमात्माधीनत्वं युक्तम् । तस्य स्वातन्त्र्येण कर्तृत्वस्य अनुभवसिद्धत्वादिति शङ्कोदयादित्यर्थः ।। अत एवेति ।। श्रुतिप्राप्तजीवकर्तृत्वस्य । एतदधिकरणे(ति)करिष्यमाणत्वादेवेत्यर्थः ।। युक्ति-विरोधस्येति ।। श्रुतिसंवादियुक्त्यविरोध एव एतदधिकरणोपाधिरिति भावः ।। श्रुत्यनुभव-विप्रतिपत्तिर्वेति ।। विष्णुकर्तृत्वप्रापकश्रुतेः जीवकर्तृत्वप्रापकानुभवस्य च विप्रतिपत्तिरित्यर्थः । अनुभवमेव दर्शयति ।। स हि इति ।। एवं चेति ।। महदादिकं अन्यानधीनजीवकर्तृकं कार्यत्वात् घटवदिति प्रयोगादिति भावः ।

भाष्ये दोषप्रसक्तिरिति सौत्रापादनानुसारेण, इतरव्यपदेशादित्यनन्तरं जीवकर्तृक इत्या-पादकाध्याहारः कृतः इत्यभिप््रोत्य तद्व्याचष्टे ।। यदि जीवेत्यादिना ।। स्वतन्त्रकर्तृत्वेऽप्यस्य हिताकरणादिकमतः आह न हीति ।। जीवे हिताकरणादिकं नास्त्येवेत्यतः आह ।। विद्यते चेति ।।

वाक्यार्थविवरणम्

ननु श्रुतिप्राप्तस्यापि पूर्वं निराकृतत्वाद्वैय्यर्थमित्यत आह ।। श्रुतिप्राप्तस्येति ।। नास्त्येवेति ।। यन्नोपलभ्यते तन्नास्त्येवेति व्याप्तेरिति भावः ।। लाघवमिति ।। धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायादिति भावः ।। श्रुतिरिति ।। भूतानीति बहुवचनसत्त्वेन उक्तार्थ-सिद्धिरिति भावः । नन्वितरस्य जीवकर्तृत्वस्य श्रुतौ व्यपदेशाज्जीवः स्वतन्त्रकर्तेत्यङ्गीक्रियते तर्हि जीवस्य हिताकरणमहितकरणं च न स्यादिति भाष्योक्ततर्कः सङ्गच्छते । अनिष्टापादनरूप-त्वात् । विद्येते च ते जीवे । अतो न स्वतन्त्रकर्तेति विपर्ययपर्यवसानसम्भवाच्च । न तु सूत्रोक्तस्तर्कः । ‘यदि इतरव्यपदेशाज्जीवः स्वतन्त्रकर्ता स्यात्तदा जीवस्य हिताक्रियादिदोषप्रसक्तिः स्यात्’ इत्यापादने इष्टापत्तिः । विपर्ययपर्यवसानं न स्यादिति । भाष्येण सूत्रव्याख्यालाभश्च कथमिति चेदुच्यते । सूत्रे ‘इतरव्यपदेशात्’ इत्यनन्तरं ‘स्वतन्त्रकर्तुः’ इति शेषः कार्यः । तथा च ‘इतरव्यपदेशाद्यदि जीवः स्वतन्त्रकर्ता स्यात्तदा स्वतन्त्रकर्तुश्च हिताक्रियादिदोषप्रसक्तिर-निष्टा । न हि स्वतन्त्रस्य हिताक्रियादिके सम्भवतः । विद्येते च ते जीवे । अतो न स्वतन्त्रकर्ता इति विपर्यये पर्यवसानस्यापि सम्भवात् । एतदभिप््रोत्यैव टीकायां ‘न हि स्वतन्त्रस्य ते सम्भवतः । विद्यते च ते जीवेऽतोऽसौ न स्वतन्त्रकर्तेत्यभिहितम् । भाष्यं तु न सूत्रव्याख्यानपरं किं नाम सूत्रतात्पर्यकथनमात्रपरमिति ध्येयम् । एतद्भाष्यमनुसृत्यैव टीकाकारैरपि । तर्हि तस्य हिताकरणमहितकरणं च न स्यादित्युक्तमिति न कश्चिद्दोष इति सम्प््रादायविदः ।

वाक्यार्थमञ्जरी

तदनन्तरं एतेनेत्यनन्तरम् । अत एव शङ्कोदयादेव । अनुभवात् ।। घटादिकार्ये भ्रान्त इति भावे क्तः भ्रान्तिरित्यर्थः ।। एवं चेति ।। महदादिकमन्यानधीनजीवकर्तृकं कार्यत्वाद्घटवदिति प्रयोगादिति भावः । इतरस्य जीवस्य जीवाद्भवन्तीत्यत्र कारणत्वेन व्यपदेशात्तस्य स्वतन्त्र-कारणत्वमिति यदि तर्हि हिताकरणाहितकरणयोर्दोषत्वप्रसक्तिः ते तस्य न स्यातामिति यावत् । न हि स्वतन्त्रस्य तद्द्वयं युक्तम् । ईश्वराधीनकर्तृकत्वे च स यथा कारयति तथा करोतीति न दोषत्वमिति भावः ।

Load More