ॐ छन्दत उभयाविरोधात् ॐ
१८. छन्दाधिकरणम्
सूत्रभाष्यम्
कर्मापि कुर्वन्ति न वेत्यत आह —
।। ॐ छन्दत उभयाविरोधात् ॐ ।। २९ ।।
स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ।
तत्त्वप्रदीपिका
उपासनं स्वेच्छया कुर्वन्त्येवेत्युक्तम् । कर्मापि कुर्वन्ति न वेत्यधुना निरूप्यते । कर्मापि कुर्वन्त्येव पूर्वोक्तन्यायेनेत्याकाङ्क्षायां कुर्वन्ति न वेत्याह ।। छन्दत उभयाविरोधात् ।। स्वेच्छया कुर्वन्ति न वा कुर्वन्ति । करणे बन्धाभावात् । अकरणे प्रत्यवायाभावात् ।
तत्त्वप्रकाशिका
अत्र मुक्तानां भगवत्कर्मणि नियमाभावसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा कर्मोपासनयोर्नियमे नोपासनस्य प्रागाधिक्यं सिध्येदतोऽसौ वारणीयः । प्रासङ्गिकत्वा-न्नाध्यायादिसङ्गतिः । विषयसंशयौ दर्शयति ।। कर्मेति ।। प्रकृता मुक्ता एव विषयः । किमुपासनावन्नियमेन कर्म कुर्वन्ति न वेति सन्देहः । उभयथाऽपि विरोधादर्शनं सन्देहबीजमिति भावः । नियमेन कर्म कुर्वन्तीति पूर्वः पक्षः । कर्मणोऽपि भगवत्पूजारूपत्वात् । तेषां च कर्मकरण-शक्तेः सद्भावात् । शक्तिसद्भावेऽपि भगवत्पूजात्मककर्मनियमाभावश्चेदुपासनेऽप्यनियमः स्याद-विशेषात् । अतो मुक्तानां कर्मोपासनयोः साम्यात्प्रागपि न कर्मणोऽतिशयेनोपासनं कार्यमिति ।। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। आहेति ।। न मुक्तानां कर्मणि नियमः । कर्मकरणशक्तावपि स्वेच्छानुसारेण कदाचित्कर्म कुर्वन्ति कदाचिन्न कुर्वन्ति । कुतः । अवश्यकरणे विधिबन्धाभावात् । अकरणे च प्रत्यवायाभावादिति भावः ।
भावबोधः
भगवत्कर्मणि नियमाभावसाधनादिति ।। पूर्वाधिकरणे कैमुत्येन मुक्तस्योपासनासाधनाय तस्य कर्माप्यस्तीत्युक्ते तर्हि उपासनाकर्मणोरुभयोरपि भगवत्पूजात्मकत्वाविशेषात्, करणे साम्यं स्यादिति शङ्कोदये तन्निरासोऽत्र क्रियत इत्यनन्तरसङ्गतिरिति भावः ।। किमित्यादि ।। अत्र मुक्ताः किं नियमेन कर्म कुर्वन्ति उत नेति चिन्ता । तदर्थं मुक्तानां कर्मकरणनियमः सम्भवत्युत न सम्भवतीति । तदर्थं मुक्तानां विधिबन्धप्रत्यवायाभावो नास्त्युतास्तीति । तदर्थं विधिबन्धप्रत्यवायत्वे मुक्तेः पुरुषार्थत्वमुपपन्नं उतानुपपन्नमिति । तथा सम्भावकमात्रेणार्थनिश्चयायोगेन कर्मकरणानियमे निश्चायकं प्रमाणं नास्त्युतास्तीति । तदर्थमुपासनानियमवत् कर्मकरणनियमे विशेषहेतुरस्त्युत नास्तीति । कर्मकरणशक्तेरप्यदूरत्वात्तत्संश्रयनियम इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– नियमेनेत्यादिना ।। अनेन तत्संश्रयनियमो नित्यशः कर्मकरणसंश्रयनियम इति व्याख्यातो भवति । न्यायविवरणोक्तस्य शक्तिसद्भावमात्रस्य न कर्मकरणसाधकत्वमिति प्रसङ्गादित्यत उक्तं कर्मणोऽपीति ।।
भावदीपः
नियमाभावसाधनादिति ।। पूर्वोक्तन्यायेनोपासनवन्नियमशङ्कायां तद्वैषम्योक्त्या नियमाभाव-साधनादित्यर्थः । तेन पूर्वसिद्धान्तन्यायेनेह पूर्वपक्षोत्थानादापवादिक्यवान्तरसङ्गतिरपि सूचिता । फलमाह ।। अन्यथेति ।। नोपासनस्येति पदच्छेदः ।। प्रागिति ।। मुक्तेः प्राक्संसारदशायामित्यर्थः ।। प्रासङ्गिकत्वादिति ।। मुक्त्यर्थोपासनस्य मुक्तावप्यनुवृत्त्युक्तौ मुक्त्यर्थकर्मणोऽपि तथात्वस्य बुद्धिस्थत्वादिति भावः ।। नाध्यायादीति ।। अत एव प्राक् भगवत्कर्मणीति शास्त्रसङ्गतिमात्र-व्युत्पादनं कृतमिति भावः । एतच्च मुखतो व्युत्पादनमपेक्ष्योक्तम् । फलतस्तु प्रकृतस्य ज्ञानसाधनो-पासनस्य प्रागाधिक्यसिध्यर्थत्त्वादध्यायपादयोरप्यस्त्यन्तर्भाव इति ध्येयम् । एतेन मुक्तप्रकृतिचिन्ता-रूपत्वाच्चतुर्थेऽस्य निवेशः स्यादिति निरस्तम् । भोक्त्रापत्तेरित्यस्येव फलतोऽत्र निवेशोपपत्तेरिति । भाष्ये पूर्वभाष्यान्मुक्तपदमनुवर्त्याह ।। प्रकृता मुक्ता इति ।। अपिपदार्थं व्यनक्ति ।। उपासनावदिति ।। विरोधेति ।। विधिबन्धप्रत्यवाययोरदर्शनमित्यर्थः । कर्मकरणशक्तेरप्यदूरत्वात्तत्संश्रयनियम इत्यन्यत्रोक्तपूर्वपक्षं भाष्यशेषतया योजयंस्तत्संश्रयनियम इति प्रतिज्ञार्थमाह ।। नियमेनेति ।। कृष्णो मुक्तैरिति पूर्वभाष्यलब्धं हेतुमाह ।। कर्मणोऽपीति ।। नन्वर्थी समर्थो विद्वानधिक्रियत इति न्यायान्मुक्तानां सिद्धार्थत्वेनार्थित्वाभावेऽपि सिद्धवैदुष्याणां कुशाच्छन्दस्तुत्युपगानेश्वरक्रियादिव-त्स्वेच्छयोपासनावत्कर्मकृतिसम्भवेऽपि सामर्थ्येन भाव्यमित्यतो न्यायविवरणोक्तहेतुमाह ।। तेषां चेति ।। प्राक्तन्याः स्वरूपशक्तेः मुक्तावलोपादिति भावः । कर्मकरणशक्तेरपीत्यपिपदभावमाह ।। शक्तीति ।। एतेन प्रागुक्तहेत्वोरप्रयोजकत्वमुद्ध्रतम् । फलोक्त्योपसंहरति ।। अत इति ।। उपासन इवेश्वरपूजारूपकर्मकरणेऽपि शक्तिसद्भावादिति भावः ।। भाष्यं पूर्वपक्षनिषेधपरतया व्याचष्टे ।। न मुक्तानामिति ।। बन्धेत्यादिभाष्यं व्याचष्टे ।। कुत इत्यादिना ।। ननु विधिबन्धयोरभावे तूष्णीमवस्थानमेव कुतो नेति चोद्यं भगवत्पूजारूपत्वादिति प्रागेव प्रत्युक्तमिति भावः ।
अभिनवचन्द्रिका
उभयथाऽपि विरोधादर्शनमिति ।। पक्षद्वये बाधकादर्शनमित्यर्थः ।। अवश्यकरण इति ।। नियमेनाऽनुष्ठानप्रयोजकविधिबोध्यफलापेक्षाभावादित्यर्थः । ननु फलापेक्षाभावेऽपि अकरणप्रयुक्त-प्रत्यवायपरिहारार्थं नियमेनाऽनुष्ठानमित्यत आह– अकरण इति ।।
वाक्यार्थमुक्तावली
भगवत्कर्मणीति ।। कृष्णो मुक्तैरिज्यते । सोमेनानन्दं जनयन्नित्यादिस्मृतिश्रुत्यर्थमीमांसाया अत्र करणात् शास्त्रसङ्गतिरित्यर्थः । अन्यथेत्यस्य विवरणं कर्मोपासनयोर्नियम इति । पूर्वाधिकरणे कैमुत्येनोक्तस्योपासनासाधनाय तस्य कर्माप्यस्तीत्युक्ते तर्ह्युपासनाकर्मणोरुभयोरपि भगव-त्पूजात्मकत्वाविशेषात् करणे साम्यं स्यादिति शङ्कोदये तन्निरासोऽत्र क्रियत इत्यनन्तरसङ्गतिरिति भावः ।। प्रासङ्गिकत्वादिति ।। कैमुत्यन्यायोपपादनाय मुक्तकर्मणि पूर्वाधिकरणे प्रसक्ते किं नियमेन कुर्वन्तीति स्मारितस्यानुपेक्षयात्र विचारादिति भावः । ननु मुक्तोपासनस्य साधनत्वाभावेऽपि तद्विचारस्य प्रागतिशयेनोपासनस्य कर्तव्यत्वोपपादकत्वेन साधनाध्यायसङ्गतिवत् मुक्तौ क्रियमाण-कर्मविचारस्य मुक्तिसाधनविचाररूपत्वाभावेऽपि कर्मापेक्षयोपासनस्य प्रागतिशयेन कर्तव्यत्वोपपाद-कत्वेनाध्यायादिसङ्गतिरस्त्विति चेन्न । कर्मणः पूर्वाधिकरणविचार्योपासनवदेतदध्यायविचार्य-साधनचतुष्टयजातीयत्वाभावेन अनन्तर्भावात् । केवलं स्मृतस्योपेक्षायां प्रागतिशयेनोपासनस्य कर्तव्यत्वासिद्धेरुपेक्षणानर्हत्वमात्रेण तद्विचारादिति भावः ।। किमित्यादि ।। मुक्ताः नियमेन कर्म कुर्वन्ति न वेति चिन्ता । तदर्थं कर्मणो भगवत्पूजारूपत्वात् मुक्तानां तत्करणशक्तिसद्भावा-च्चोपासनादविशेष उत विशेषोऽस्तीति । सिद्धान्ते विधिबन्धप्रत्यवायाभावेन कर्मकरणशक्तेर-प्रयोजकत्वेन कर्मणि नियमाभावोक्त्या सूचितमदूरसंशय इत्युक्तन्यायं कर्मकरणशक्तेरदूरत्वात्संशय इति न्यायविवरणानुसारेण विशदयति । नियमेनेत्यादिना ।। भगवत्पूजेति ।। भगवत्पूजायाश्च भगवल्लालसैस्त्यक्तुमयोगादिति भावः । नित्यज्ञानस्वरूपत्वादिति भाष्ये विशेषोक्त्या तद्व्यावर्त्य-मुपासनाविशेषमाह ।। शक्तीति ।। तुशब्देन सूचितं कर्म चात्रान्वेति । तथा च हानौ मुक्तौ कर्म छन्दत इच्छाधीनं कदाचित्कुर्वन्ति । कदाचिन्नित्यं नियतमिति यावत् । कुत उभयथा करणेऽकरणे चोभयाविरोधात् बन्धप्रत्यवायलक्षणोभयबाधकाभावादिति सूत्रार्थं स्पष्टयति ।। न मुक्तानामिति ।।
तत्त्वसुबोधिनी
भगवत्कर्मणीति ।। पूर्वाधिकरणे कैमुत्येन मुक्तस्य उपासनासाधनाय तस्य कर्माप्यस्तीत्युक्ते तर्हि उपासनाकर्मणो उभयोरपि भगवतः पूजात्मकत्वाविशेषात् करणे साम्यं स्यादिति शङ्कोदयेन तन्निरासोऽत्र क्रियते इत्यनन्तरसङ्गतिरिति भावः । ननु उपासनापादे कर्मणि नियमा-भावसाधनमसङ्गतं इत्यत आह ।। प्रासङ्गिकत्वादिति ।।
वाक्यार्थविवरणम्
भगवत्कर्मणीति ।। भगवद्विषयकयज्ञादिकर्मविषये ।। कर्मोपासनयोर्नियम इति ।। उपासनवत् कर्मणोऽपि नियमेन कर्तव्यत्व इत्यर्थः । प्राङ्मुक्तेरिति शेषः । आधिक्यं कर्मणः सकाशात् । नियमेन कर्म न कुर्वन्तीति वदन् प्रष्टव्यः कर्मणो भगवत्पूजारूपत्वाभावात् तन्न कुर्वन्तीति वा, तत्करणे शक्त्यभावाद्वा । नाद्य इत्याह ।। कर्मणोऽपीति ।। न द्वितीय इत्याह ।। तेषां चेति ।। अविशेषात् ।। भगवत्पूजात्मके कर्तव्यत्वाविशेषात् । कर्मणः सकाशात् ।। कुत इति ।। नियमेन कुर्वन्तीत्येव किं न स्यादिति भावः । एवं वदन् प्रष्टव्यः अवश्यं कर्म कर्तव्यमित्येवं विधि-सद्भावान्नियमेन तस्य कर्तव्यता उत नियमेनाकरणप्रत्यवायसद्भावाद्वेति विकल्पं हृदि निधायोभयं क्रमेण निराह ।। अवश्येत्यादिना ।। तथा च उभयाविरोधात् अवश्याकरणे च विधिबन्ध-प्रत्यवायरूपविरोधाभावादित्यर्थः । उभयेत्यस्य व्याख्या विधिबन्धेत्यादि ।
वाक्यार्थमञ्जरी
प्रासंगिकत्वादिति ।। मुक्तावुपासनस्य नियमेन कर्तव्यत्वसमर्थने कर्मविषये तत्स्मरणादिति भावः ।।
ॐ छन्दत उभयाविरोधात् ॐ ।। मोक्षे कर्मकरणं छन्दतः स्वेच्छयैव कुतः उभयोर्विधिबन्ध-प्रत्यवाययोर्विरोधाभावादिति भावः ।