ॐ सप्तगतेर्विशेषितत्वाच्च ॐ

४. अथ सप्तगत्यधिकरणम्

सूत्रभाष्यम्

सप्त प्राणाः प्रभवन्ति तस्मात्’ (मुं.उ.२-१-८) इति श्रुतिः । ‘सप्तैव मारुता बाह्ये प्राणाः सप्त तथाऽऽत्मनि । अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः’ इति च स्कान्दे । ‘द्वादश वा एते प्राणा द्वादश मासा द्वादशाऽदित्या द्वादशराशयो द्वादश ग्रहा’ इति कौण्डिन्यश्रुतौ द्वादशप्राणा दृश्यन्ते । अतो वक्ति–

।। ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ।। ६ ।।

ज्ञानेन्द्रियापेक्षया सप्तत्वम् । ‘गुहाशयां निहिताः सप्तसप्त’(मुं.उ.२-१-८)ति विशेषणात् ।

सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः ।

 एवं प्राणद्वादशकं शरीरे नित्यसंस्थितमि’ ।। इति ।

भविष्यत्पर्ववचनं च शब्दात् ।

तत्त्वप्रदीपिका

द्वादश ऋतुयाजग्रहाः मध्वादिद्वादशमासोद्देश्याः । ‘षडृतुनेति यजन्ति । प्राणमेव तद्यजमाने दधति । चत्वार ऋतुभिरिति यजन्त्यपानमेव तद्यजमाने दधति । द्विऋतुनेत्युपरिष्टात्’ इति श्रुतेः । सप्त गतेर्विशेषितत्वाच्च । ‘गुहाशयां निहिताः सप्त सप्त’ इति । गुहाशयायां बुद्धौ निहिताः सप्त सप्त प्राणाः । ‘समाने लोपः’ इति सूत्रादेकयकारलोपः । तादर्थ्ये सप्तमी । गुहाशयां प्रति निहिता इति वा । उभयथा च बुद्ध्यर्थं निहिता इत्यर्थः । सप्त सप्तेति प्रतिपुरुषं भेदात् । अथवा गुहायामाशयं प्रति आशयार्थं निहिताः । ‘निहितं गुहाविः’ ‘गुहासन्तम्’ इत्यादिवत् । सप्तम्यर्थे प्रथमा । ‘दैर्ध्यं प्लुतं च हुङ्कारो बिन्दुरप्यवधारण’ इति शब्दनिर्णये ।

तत्त्वप्रकाशिका

अत्र श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वसिद्धये प्राणसङ्ख्याविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । उक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वयः प्राणसङ्ख्याश्रुतीनां विरोधेनाप्रामाण्येऽनु-पपन्नः प्राप्नोतीत्यवश्यमयं पराकार्यः । प्रकृतप्राणा एवात्र विषयः । किं सप्तोत द्वादशेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूचयति ।। सप्तेति ।। श्रुतिः प्राणानां सप्तत्वं वक्तीति शेषः । ‘ग्रहाः सोमस्य सप्तैव प्राणाः सप्त प्राणाः’ इति श्रुतेः । न च द्वादशप्राणेषु सप्तापि सम्भवन्तीति द्वादशत्वाविरोधिनीयं श्रुतिरिति वाच्यम् । द्वादशत्वे कारणविशेषमन्तरेण सप्तत्वोक्तेरयोगात् । किं चाभिमानिनां सप्तत्वाच्च प्राणानां सप्तत्वमभिमान्यभिमन्यमानयोः समसङ्ख्यात्वनियमादिति । अथवा द्वादश प्राणाः । ‘द्वादश वा एते प्राणाः’ इति श्रुतेः । न च सयुक्तिकत्वेन बलवत्या सप्तत्वश्रुत्या बाधः । द्वादश मासा इत्यादि श्रुतेरेकदैवत्याभिप्रायेण प्रवृत्तत्वेन प्राणाभिमानिनां द्वादशत्वस्याभिप्रेतत्वात्सप्तत्वे कथितयुक्तेरत्रापि साम्यात् । अन्यथा श्रुतेरुन्मत्त-वाक्यत्वापातात् । अत एव श्रुतिद्वयस्यापि समबलत्वेनान्यतरमात्रबाधायोगात् परस्परविरोधेना-प्रामाण्यान्न श्रुतिसमन्वयेन नारायणस्य जगत्कारणत्वमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। न प्राणसंख्यानिर्णयाभावेन श्रुतिद्वयस्याप्रामाण्यं कल्प्यम् । द्वादश प्राणा इति निर्णयोपपत्तेः । न च सप्तत्वश्रुतियुक्तिविरोधः । द्वादशप्राणेषु सप्तप्राणानामपि विद्यमानत्वात् । न च विवक्षाविशेषमन्तरेण सप्तत्वोक्तिर्व्यर्थेति वाच्यम् । श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां ज्ञानसाधनेन्द्रियत्वात्तद्विवक्षया सप्तत्वश्रुतेः प्रवृत्तत्वात् । सप्तानां श्रुत्युक्तानां ज्ञानेन्द्रियत्वं कुत इति चेन्न । तद्वाक्यशेषे सप्तानां ज्ञानार्थत्वेन विशेषितत्वादिति भावः । गुहा हृदयमाशयः स्थानं यस्या बुद्धेस्तदर्थं ये प्रतिशरीरं सप्त सप्त प्राणा निहितास्ते यत्र चरन्तीत्यर्थः । विशेषणबलेन तेषां ज्ञानार्थत्वमस्तु तथापि ते तावन्त एव किं न स्युरित्यत आह ।। सप्तेति ।। च शब्दात्सङ्गृहीतमिति शेषः । एतच्छ्रुतावेवं सावकाशायामितराऽपि श्रुतिरत्रोदाहर्तव्या ।

गुर्वर्थदीपिका

ग्रहाः सोमस्येत्यत्र सोमस्य सोमरसस्य ग्रहा ‘द्विषड्गृहीतेन च सप्तवत्या’ इति वचना-त्पूर्णाहुतिदानाय स्रुवेण स्रुचि क्रियमाणाः द्वादशवारं सङ्ग्रहाः । ‘ग्रहान् सोमस्य मिमते द्वादश’ इति श्रुतेः । अन्यथा ग्रहाणां नवसङ्ख्याकत्वेन वाक्यार्थायोगादिति भावः । द्वादश मासा इत्यादिश्रुतेरित्यत्र एकदैवत्येनैकप्रकाराभिमानिदेवतासम्बन्धित्वेन द्वादशद्वादशाभिमानिदेवता-वत्त्वेनेति यावत् । एकस्यापि सूर्यमण्डलस्य मासिमास्येकैकाभिमानिनि विष्टत्वोपाधिना द्वादशत्व-मिति ज्ञेयम् । अन्यथा श्रुतेरित्यत्र अन्यथा उक्तविधयाऽपूर्वार्थत्वाभावे, केवलसिद्धानुवाद-मात्रत्वेनोन्मत्तप्रलपितत्वमित्यर्थः । गुहाहृदयमित्यस्य गूह्यते आच्छाद्यते कामक्रोधादिना पुरुष इति गुहा हृदयं मन इत्यर्थः । सैव आशयः उत्पत्तिस्थानं यस्याः सा गुहाशया बुद्धिः बोधनं ज्ञानं तामुद्दिश्येत्यर्थः । इतराऽपि श्रुतिरत्रोदाहर्तव्येत्यत्र ‘इतरा द्वादश वा एते प्राणा’ इति श्रुतिः । अत्राप्युक्तार्थे उदाहर्तव्या । तथाऽपि ज्ञानेन्द्रियसप्तकस्य कर्मेन्द्रियपञ्चकस्य गृहीतत्वादस्म-च्छ्रुत्यनुकूलैवेति भावः ।

भावबोधः

प्राणसङ्ख्येति ।। धर्माणां मध्ये उत्पत्तिरूपधर्मस्य प्राथमिकत्वात् प्राणानामुत्पत्तिं विचार्य अत्र तत्संख्या विचार्यत इत्यनन्तरसङ्गतिरिति भावः ।। किं सप्तेति ।। अत्र, प्रकृतप्राणाः किं सप्त द्वादशेत्यनिर्णय उत द्वादशैवेति निर्णय इति चिन्ता । तदर्थं ‘सप्त प्राणाः’ ‘द्वादश वा एते प्राणा’ इति श्रुती परस्परविरुद्धे उताविरुद्धे इति । तदर्थं प्राणानां द्वादशत्वे तत् श्रुतिद्वयं न घटत उत घटत इति । तदर्थं सप्तत्वद्वादशत्वसङ्ख्यावच्छेदकं नास्त्युतास्तीति । सहापाठे निमित्ताभावे तेषामेवाभावापत्त्या द्वादशत्वस्यैवाभावेन तदवच्छेदकानुपपत्तिरन्यथा तदुपपत्तिरिति । अत्र श्रुतेरेव परस्परविरोध इति न्यायविवरणे उभयाप्रामाण्येन पूर्वपक्षितत्वाट्टीकायामपि सप्तैव प्राणा इत्यादिना च सप्तत्वद्वादशत्वश्रुत्योः समानबलत्वोक्त्या परस्परव्याघात इत्येक एव पूर्वपक्षो दर्शितः । तदनुसारेण सन्देहटीकापि सप्तोत द्वादशेति निर्णय इत्यध्याहारेण योज्या ।। ग्रहाः सोमस्येति ।। छन्दांसि च दधतोऽध्वरेषु ग्रहाः सोमस्य मिमते द्वादश’ इति श्रुतेरिति भावः । सोमरसग्रहणार्था पात्रविशेषा इत्यर्थः । सप्तैवेति स्मृत्युक्तयुक्तिमाह– किं चेत्यादिना ।। एकदैवत्याभिप्रायेणेति ।। समसङ्ख्यादैवतकत्वाभिप्रायेणेत्यर्थः । द्वादशमासानां हि द्वादशादित्यादयो हि देवताः । एतद्युक्तिसूचनार्थमेव भाष्ये द्वादशमासा इति श्रुत्युदाहरणम् । अन्यथा द्वादश वा एते प्राणा इत्येवोदाहरिष्यदिति भावः ।। अन्यथा श्रुतेरिति ।। द्वादशेत्यादिना प्राणादिसङ्ख्याकथनस्य वैयर्थ्यादिति भावः ।। परस्परविरोधेनेति ।। अनेन दशेमे पुरुषे प्राणा आत्मैकादश सप्त प्राणाः प्रभवन्ति तस्मादिति सङ्ख्याविशेषश्रुत्योरेव परस्परविरोध इति न्यायविवरणमपि व्याख्यातं भवति ।। वाक्यशेषे सप्तानां ज्ञानार्थत्वेनेति ।। अनेन ‘गुहाशयां निहिताः सप्त सप्त’ इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वादिति न्यायविवरणमपि व्याख्यातं भवति । गुहाशयायां बुद्धौ ‘लोपः समानः’ इति सूत्रादेकयकारलोपः । प्रतिपुरुषं सप्त सप्तेत्याथर्वणभाष्यं मनसि निधायाऽऽह– सप्त इमे लोका येषु चरन्ति प्राणा इति ।। गुहाशयां निहिताः सप्त सप्तेति श्रुत्यर्थमाह– गुहाहृदयमिति ।। सप्तमीविभक्त्यर्थमाह– तदर्थमिति ।। अनेन गुहाशयामुद्दिश्य शेष इत्युक्तं भवति । लोका येषु प्राणेष्विति भ्रान्तिं वारयितुं यत्तच्छब्दाध्याहारेण वाक्यं योजयति– ये प्रतिशरीरमिति ।। यत्र येषु लोकेष्वित्यर्थः । त इमे लोकाः सप्तेति सम्बन्धः ।

ननु सूत्रे सप्त प्राणा इति श्रुतेः सावकाशत्वमुक्तम् । न द्वादशत्वे प्रमाणम् । अतः कथं द्वादशत्वनिर्णय इत्यतश्चशब्देन तदप्युक्तमित्याशयेन प्रवृत्तं सप्त प्राणास्त्ववगतेरित्यादिभाष्यं तन्निर्वतनीयशङ्काप्रदर्शनपूर्वकमवतार्य व्याचष्टे– विशेषणबलेनेत्यादिना ।। एतच्छ्रुताविति ।। ‘सप्त प्राणा, इति श्रुतौ स्मृतेः श्रुतिसावकाशत्वप्रदर्शनेऽपि व्यापारोऽस्तीति दर्शयितुमुक्तम् ।। एवं सावकाशायामिति ।। इतरापीति ।। ‘द्वादश वा एते प्राणा’ इति श्रुतिरत्र प्राणानां द्वादशत्वे उदाहर्तव्या ।

भावदीपः

श्रुतीनामिति ।। दशेमे पुरुषे प्राणा इति न्यायविवरणोक्त श्रुत्युपसङ्ग्रहाय बहुवचनम् ।। किं सप्तेति ।। अत्र किं सप्तोत द्वादशेत्यनन्तरम् इति निर्णयः शक्योऽथाशक्य इति योज्यम् । तेन वक्ष्यमाणपूर्वपक्षानुगुण्यं संशयस्य बोध्यम् । तथैवानुक्त्वा एवमुक्तिर्भाष्योक्तश्रुतिविगानरूपसंशय-बीजप्रदर्शनाय ।। सोमस्येति ।। ज्योतिष्टोमयागे सोमरसस्य ग्रहणार्थाः सूक्ष्मोलूखलाकाराः पात्रविशेषा ग्रहा इत्यर्थः । तेषां द्वादशत्वसमाधिश्चन्द्रिकायाम् । सप्तेति सूत्रव्यावर्त्यपूर्वपक्षमाह ।। सप्तैवेति ।। इष्टापत्तिनिरासायैवकारः । स्फुटत्वाद्भाष्यादावनुक्तमपि सौत्रगतिपदव्यावर्त्यं हेतुमाह ।। द्वादशत्व इति ।। भाष्यस्थस्मृत्युक्तयुक्तिं व्यनक्ति ।। किं चेति ।। नियमादिति ।। यद्यप्येकैकस्यापि अव्यक्तादेरनेके ब्रह्माणीभारतीप्रभृतयोऽभिमानिनः सन्ति । तथा न केषामपि एको ब्रह्मादिरभि-मान्यस्ति तथापि प्रातिस्विकासाधारणाभिमान्याशयेनेयमुक्तिरित्यदोषः । इति शब्दः सप्तत्वपक्ष-समाप्तौ । भाष्यस्थश्रुत्यन्तरानुरोधात् पक्षान्तरमाह ।। अथवेति ।। श्रुतिशेषोक्तेः शङ्कापूर्वमुपयोगं व्यनक्ति ।। न चेत्यादिना ।। एकदैवत्येति ।। समसङ्ख्याकदेवताभिप्रायेणेत्यर्थः । द्वादशमासानां हि द्वादशादित्यादयो देवताः ।। कथितेति ।। अभिमान्यभिमन्यमानयोः समसङ्ख्यात्व नियमा-दित्युक्तेरित्यर्थः । अन्यथाऽनुपयुक्तकथनेनेत्यर्थः । अस्त्वेवं पक्षद्वयं सयुक्तिकश्रुतिसिद्धम् । तथा च किमित्यतः सङ्ख्याविशेषश्रुत्योरेव परस्परं विरोध इति न्यायविवरणं हेतूक्त्या विवृण्वन्फलोक्त्योप-संहरति ।। अत इति ।। सयुक्तिकत्वादित्यर्थः । सौत्रसप्तत्वोक्तौ हेतूक्तिपरत्वेन सूत्रभाष्ये व्याकर्तुं परिष्करोति ।। न प्राणेति ।। शङ्कापूर्वं सूत्रभाष्ये व्याचष्टे ।। न चेत्यादिना ।। सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वादित्यन्यत्रोक्तिमनुरुध्य शेषं व्याचष्टे ।। सप्तानामिति ।। गुहाशयां बुद्धौ । ‘लोपः समानः’ इति सूत्रादेकयकारलोप इत्याथर्वणभाष्यं विग्रहोक्त्या विवृण्वान एवोक्तमर्थं श्रुतावस्फुटत्वाद् व्यनक्ति ।। गुहेति ।। गुहाशयामिति तादर्थ्ये सप्तमीति भावेनार्थमाह ।। तदर्थमिति ।। तत्त्वप्रदीपे तु गुहाशयां बुद्धिं प्रति बुद्ध्यर्थं निहिता इति वेत्यादिरूपेणार्थान्तरं चोक्तम् । तदनुरोधेन द्वितीयान्तपक्षमप्युपेत्य वार्थमाह ।। तदर्थमिति ।। सप्तसप्तेति वीप्सालब्धार्थ-माह ।। प्रतिशरीरमिति ।। प्रतिपुरुषं सप्तसप्तेत्याथर्वणभाष्योक्तेरिति भावः । एषु चरन्तीत्यस्यार्थः यत्रेत्यादि । लोकशब्दितगोलकेष्वित्यर्थः । त इमे सप्तलोका इत्यन्वयः । ननु सयुक्तिकसप्तत्व-श्रुतिविरोधेन द्वादश वा इति श्रुतेरेवाप्रामाण्ये कथं स्मृतिमात्रेण द्वादशत्वसिद्धिरित्यत आह ।। एतच्छ्रुताविति ।। सप्त प्राणा इति श्रुतावित्यर्थः । अत्र इन्द्रियद्वादशत्वे । सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात्संख्याश्रुत्योर्विषयवैलक्षण्यादित्यन्यत्रोक्तेरिति भावः ।

अभिनवचन्द्रिका

किं सप्त, उत, द्वादशेति ।। यद्यपि नायं पूर्वपक्षसिद्धान्तकोटिकः सन्देहः, पूर्वपक्षिणा संख्याद्वयानङ्गीकारात्, तथापि सूत्रस्य पूर्वपक्षनिरासवत् सन्देहनिरासोऽपि प्रयोजनमिति सूचनाय पूर्वपक्षसिद्धान्तकोट्यनवलम्बी सूत्रनिरस्यः सन्देहोऽयं दर्शितः । संख्याद्वयाङ्गीकारेण सिद्धान्ताभिधानेनोक्तसंशयनिरासात् ।। ग्रहा इति ।। सोमरसग्रहणार्थाः पात्रविशेषाः । ज्योतिष्टोमे हि, ‘उपांश्वन्तर्यामैन्द्रवायवमैत्रावरूणाश्विनाः पञ्च, शुक्रमन्थिनौ द्वौ, ऋतुपात्रे द्वे, अतिग्राह्यास्त्रय’ इति द्वादश । यद्यप्यश्वद्वाल्भ्यावपि तत्र ग्रहौ स्तः तथापि तयोरनित्यत्वात् साधनोपस्थापनाद्यभावाच्च नित्यसाधनादियुक्तग्रहविवक्षया द्वादशत्वमिति द्रष्टव्यम् । पूर्वपक्षयति सप्तैव प्राणा इति ।। यदि ‘द्वादश वा एते प्राणा’ इति श्रुतिबलात् द्वादशप्राणा इत्यभ्युपगम्यते तर्हि परोऽपि ‘सप्तप्राणा’, इति श्रुतिबलात् सप्तैव प्राणा इति बू्रयादित्यर्थः । एतेन ‘सप्तप्राणा’ इति श्रुतिप्रामाण्येन प्राणानां सप्तत्वाङ्गीकारो न युक्तः । परस्परविरोधेन श्रुतिद्वयस्याप्यप्रामाण्यादिति वक्ष्यमाणग्रन्थविरोधादिति परास्तम् । न परेण सप्तैवेति प्रतिवक्तुं शक्यते । ‘सप्तप्राणा’ इति श्रुतौ अवधारणाभावेन तदसाधकत्वात् श्रुत्यनुसारेण सप्तत्वाभिधाने च न द्वादशत्वविरोध इत्याशंक्य निषेधति न चेति ।। कारणविशेषमन्तरेणेति ।। नेयं श्रुतिः द्वादशत्वसंख्याविरोधिनीं सप्तत्वसंख्यां ब्रूते । अवच्छेदकाभावेन विशिष्यसप्तत्वाभिधानायोगात्, किन्तु तां संख्यामसहमाना स्वयं सप्तत्वसंख्यामभिधत्ते इति भावः । तर्हि अहमपि सप्तैव प्राणा इति वक्ष्यामीत्यत आह– अथवेति ।। अथवेत्ययं निपातसमुदायो यद्यर्थे वर्तते । ‘सप्तैव प्राणा’ इति अनुवर्तते । तर्हीति शेषः । ततश्चैवं योजना – यदि त्वया सप्तैव प्राणा इत्यभ्युपगम्यते, तर्हि परो द्वादशप्राणा इति ब्रूयादिति ।। एकदेवत्याभिप्रायेणेति ।। मासादीनामेकदेवत्याभिप्रायेणेत्यर्थः ।। कथितयुक्तेरिति ।। अभिमान्यभिमन्यमानयोः समसंख्याकत्वयुक्तेरित्यर्थः । ततश्च न सप्तत्वश्रुतेरधिकबलवत्त्वमित्यर्थः ।। अन्यथेति ।। मासाद्याभिमानिनामेव प्राणाभिमानित्वमित्यभिप्रायाभावे ‘द्वादशमासा’ इत्यसंगतं स्यादिति भावः । ‘येषु चरन्ति प्राणा गुहाशयां निहिताः सप्तसप्ते’ ति वाक्यं व्याचष्टे – गुहाहृदयमिति ।। गुहाशयामुद्दिश्येति योजनां मनसि कृत्वाऽऽह– तदर्थमिति ।। तत्त्वप्रदीपे तु– ‘गुहाशयां निहिताः सप्तसप्त’ इति गुहाशयायां बुद्धौ, निहिताः सप्तसप्तप्राणाः ‘समाने लोपः’ इति सूत्रादेकयकारलोपः । तादर्थ्ये सप्तमी । गुहाशयां प्रतिनिहिता इति वेति व्याख्यातम् ।। एतछ्रुतावेवमिति ।। बाधकश्रुतेरन्यार्थत्वात् प्राणानां द्वादशत्वे ‘द्वादश वा एते प्राणा’ इति श्रुतिरप्युदाहर्तव्येत्यर्थः ।

वाक्यार्थमुक्तावली

प्राणसङ्ख्येति धर्माणां मध्ये उत्पत्तिरूपधर्मस्य प्राथमिकत्वात्प्राणानामुत्पत्तिं विचार्यात्र तत्सङ्ख्या विचार्यत इत्यनन्तरसङ्गतिरिति भावः ।। सन्देह इति ।। अत्र सप्तैव प्राणा इत्येकः पूर्वपक्षस्तदनुसारेणेयं चिन्ता ।। किं प्राणास्सप्तोत द्वादशेति ।। तदर्थं सप्तत्वश्रुतिस्सहस्रेशतन्यायेन सावकाशेति विशिष्योक्त्या सप्तैव मारुता बाह्या इत्यभिमानिसङ्ख्यासाम्येन च निरवकाशेति । द्वादशैवेत्यपरः पूर्वपक्षस्तदनुसारेणेयं चिन्ता । किं प्राणा द्वादशोत सप्तेति । तदर्थं द्वादश वा एते प्राणा इति श्रुतिर्द्वादशमासा इत्यादिश्रुतेरेकदैवत्याभिप्रायेण प्रवृत्तेरभिमानिनां द्वादशत्वाभिप्रायेण प्रवृत्तये न सप्तत्वकथितयुक्तेरत्रापि साम्यान्निरवकाशोत सावकाशेति । सोमस्य ग्रहाः सोमरस-ग्रहणार्थाः पात्रविशेषाः । ज्योतिष्टोमे हि उपांशुमत्पूर्णमैन्द्रवायवयमैत्रावरुणाश्विनाः पञ्च शुक्रामंथिनौ द्वौक्रतुपात्रे अतिग्राह्याः श्रुत इति सोमग्रहा द्वादश । यद्यप्यंशद्वाल्भ्यावपि ग्रहौ स्तस्तथापि तयोरनित्यत्वात्साधनोपस्थापनाद्यभावाच्च नित्यसाधनयुक्तग्रहविवक्षया द्वादशत्वमिति ज्ञातव्यम् । तथा च श्रुतिः । ‘अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश’ इति । ‘सप्तैव’ इति स्मृत्युक्तयुक्तिमाह ।। किं चेति ।। एवं सप्त प्राणा इति श्रुतेर्निरवकाशत्वेन सप्तत्वपूर्वपक्षमभिधाय पूर्वपक्षान्तरमाह– अथवेति ।। एकदेवत्वाभिप्रायेणेति ।। समाख्यादेवताकत्वाभिप्रायेणेत्यर्थः । द्वादशमासादीनामभिमान्यैक्याभिप्रायेणेत्यप्याहुः । एतद्युक्तिसूचनार्थमेव भाष्ये द्वादशमासा इत्युदाहरणम् । अन्यथा द्वादश वा एते प्राणा इत्येवोदाहरिष्यदिति भावः ।

सप्तत्वे कथितयुक्तेरिति । प्राणाः सप्तसंख्याकाः सप्तसंख्याकाभिमानिकत्वाद्य-द्यत्सङ्ख्याकाभिमानिकं तत्तत्सङ्ख्याकमिति कथितयुक्तेरित्यर्थः । अन्यथाश्रुतेरिति । युक्तिसाम्येऽपि साध्यव्यभिचारे सयुक्तिकायाः सप्तप्राणा इति श्रुतेरुन्मत्तवाक्यत्वापातादित्यर्थः । न हि व्यभिचारमनालोच्य सयुक्तिका श्रुतिः प्रवर्तत इति भावः ।

यद्वा, द्वादशमासा इति श्रुतेरेकदेवत्वाभिप्रायकत्वाभावे कुंडमजाजिनमिति तदसङ्गतार्थ-प्रतिपादकत्वेनोन्मत्तवाक्यतुल्यत्वापातादित्यर्थः । एवं पूर्वपक्षत्वेन श्रुतिद्वयस्य निरवकाशत्वे प्राप्ते तत्फलं दर्शयति । परस्परविरोध इत्युक्तन्यायमपि विशदयति ।। अत एवमपीति ।। सूत्रे प्राणा इत्यस्ति । द्वादशेति शेष इत्यभिप्रेत्याह ।। द्वादशेति । गतेरिति ल्यब्लोपनिमित्ता पञ्चमी । गतिः ज्ञानगतिः तत्साधनमिन्द्रियं च तमपेक्ष्य ज्ञानेन्द्रियापेक्षया सप्तसप्तेति श्रुतेरित्यर्थमभिप्रेत्य व्याचष्टे ।। श्रौत्रेति ।। सप्तसप्तानामिन्द्रियाणां गतेर्ज्ञानस्यार्थे श्रुतौ विशेषितत्वादित्यर्थान्तरमभिप्रेत्य तद्व्यावृत्य-कथनपूर्वं व्याचष्टे ।। सप्तानामिति ।। गतेर्ज्ञानस्यार्थे सप्तप्राणाः तथा वाक्यशेषे विशेषितत्वादिति सूत्रार्थोक्तौ ज्ञानेन्द्रियापेक्षया सप्तत्वमिति भाष्यं तात्पर्यकथनपरं द्रष्टव्यम् । ‘सप्त इमे लोका येषु चरन्ति गुहाशयां निहिताः सप्त सप्त’ इति वाक्यं व्याचष्टे ।। गुहाह्रदयमिति ।। गुहाशया-मित्युद्देश्यद्वितीयेति भावेनाह ।। तदर्थमिति ।। प्रतिशरीरमिति ।। सप्तसप्तेति वीप्सार्थः ।। यत्र चरन्तीति ।। येषु चरन्ति त इमे लोकाः गोलकाः सप्तेत्यन्वय इति भावः ।

ननु सूत्रे सप्तत्वश्रुतेस्सावकाशत्वमेवोक्तं न तु प्रतिज्ञातद्वादशत्वे प्रमाणमतः कथं द्वादशत्वनिर्णय इत्यतश्चशब्देन तदप्युक्तमित्याशयेन प्रवृत्तं सप्तप्राणास्त्वगतेरित्यादिभाष्यमवतार्य व्याचष्टे ।। विशेषणबलेनेत्यादिना ।। ननु चशब्देन द्वादश वा एत इति श्रुतेरेव संग्रहौचित्योक्ति स्मृतिसंग्रहेणेत्यत आह ।। एतच्छ्रुताविति ।। सप्तप्राणा इति श्रुतेरेवमुदाहृतस्मृतिबलेन सावकाशार्थमेवेतरा द्वादश वेति श्रुतिरुदाहर्तुं योग्या न प्रथमत एव विशेषश्रुतिविरोधात्तत्स्मृतिस्तु सप्तत्वश्रुतेः सावकाशत्वं प्रतिपादयन्ती द्वादशत्वमप्यभिधत्त इत्युभयत्र व्यापृतेति सैव चशब्दगृहीतेति भावः ।

वाक्यार्थविवरणम्

ग्रहाः ।। पात्राणि विशिष्येति शेषः । तथा च द्वादशत्वे विशिष्य सप्तत्वोक्तेरयोगादित्यन्वयः । तत्र हेतुः कारणविशेषमन्तरेणेति ।। सप्तत्वे कथितेति ।। किं चाभिमानिनामित्यनेनेति शेषः ।। अत्रापि ।। द्वादशत्वपक्षेऽपि ।। अन्यथेति ।। एकदैवत्याभिप्रायाभावे ‘द्वादश मासा द्वादशादित्या द्वादश राशय’ इत्यादिकथनस्योन्मत्तप्रलपितत्वापत्तिरिति भावः । सप्त सप्तेति वीप्साभिप्रायः ।। प्रतिशरीरमिति ।। येष्वित्यस्यार्थो यत्रेति । तथा च ‘सप्त प्राणाः प्रभवन्ति । तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः । ‘सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त’ इति श्रुतेरयमर्थः । न केवलं तस्माद्धरेः सप्त प्राणाः सप्तार्चिष इत्यादय एव प्रभवन्ति, किन्नामेन्द्रियाश्रय-भूता गोलका अपीत्युच्यते ।। सप्त इमे लोका इति ।। गुहाशयाम् ।। गुहाशयायाम् । ‘समाने लोपः’ इति सूत्रादेकयकारलोपः ।। बुद्धौ ।। बुद्ध्यर्थम् ये प्रतिशरीरं सप्त सप्त प्राणाः श्रोत्राद्या निहितास्ते सप्त येषु लोकेषु गोलकेषु चरन्ति त इमे लोका गोलका अपि तस्मात्प्रभवन्तीत्यर्थः ।। तावन्त एवेति ।। सप्तैवेत्यर्थः । न द्वादशेत्येवार्थः ।। एतच्छ्रुतौ ।। सप्तत्वश्रुतौ सावकाशाया-मित्यनन्तरं तद्विरोधाभावादिति शेषः ।। इतरा ।। द्वादशत्वश्रुतिः ।। एतदिति ।। सप्तत्वेत्यर्थः ।

वाक्यार्थमञ्जरी

ग्रहाः सोमस्येति ।। सोमरसग्रहणार्थाः सूक्ष्मोलूखलाकाराः पात्रविशेषा इत्यर्थः । अध्वरेषु ग्रहांत्सोमस्य मिमते द्वादशेति श्रुतेरिति भावः ।। एकदैवत्याभिप्रायेणेति ।। समसङ्ख्यादैवता-कत्वाभि प्रायेणेत्यर्थः । द्वादशमासादीनां द्वादशादित्यादिदेवताकत्वादिति भावः ।। कथितयुक्ते-रिति ।। अभिमान्यभिमन्यमानयोः समसङ्ख्याकत्वयुक्तेरिति भावः । अन्यथा एकदैवत्याभिप्रायाभावे ।। उन्मत्तेति ।। द्वादशेत्यादिना प्राणादिसङ्ख्याकथनस्य वैयर्थ्यादिति भावः । गतेर्ज्ञानस्य जनकाः प्राणाः सप्तैव कुतः विशेषितत्वात् सप्तप्राणा इत्युक्तसप्तप्राणानामुत्तरत्र गुहाशयां निहिताः सप्तसप्तेति ज्ञानकारणत्वविशेषणोपेतत्वकथनादित्यर्थः । येषु चरंति प्राणा गुहाशयामिति वाक्यं व्याचष्टे ।। गुहाहृदयमिति ।। द्वितीयाविभक्त्यर्थमाह ।। तदर्थमिति ।। नन्वत्र सूत्रे सप्तप्राणा इति श्रुतेः सावकाशत्वमेवोक्तं न तु द्वादशत्वे किञ्चित्प्रमाणम् अतः कथं द्वादशत्व निर्णय इत्यत आह ।। एतच्छ्रुताविति ।। सप्तप्राणा इति श्रुतौ स्मृत्युक्तरीत्या सावकाशायां सत्यामितरा द्वादश वा एते प्राणा इति श्रुतिरत्र प्राणानां द्वादशत्वे नोदाहर्तव्येत्यर्थः ।

Load More