ॐ सन्ध्ये सृष्टिराह हि ॐ

अथ तृतीयाध्यायस्य द्वितीयः पादः

१. सन्ध्याधिकरणम्

ॐ सन्ध्ये सृष्टिराह हि ॐ

सूत्रभाष्यम्

भक्तिरस्मिन्पाद उच्यते । भक्त्यर्थं भगवन्महिमोक्तिः ।

।। ॐ सन्ध्ये सृष्टिराह हि ॐ ।। १ ।।

न स्वप्नोऽपि तं विना प्रतीयते ।

न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान् पथः सृजत’ (बृ.उ. ६-३-१०) इत्यादिश्रुतेः ।

तत्त्वप्रकाशिका

एतत्पादप्रतिपाद्यं दर्शयति ।। भक्तिरिति ।। यद्दार्ढ्यार्थं वैराग्यं निरूपितं पूर्वपादे या चोपासनस्याङ्गं सा भक्तिरवसरप्राप्ताऽस्मिन्पादे निरूप्यत इत्यर्थः । ननु भक्तिरुच्यत इति कोऽर्थः । किं तत्स्वरूपं निरूप्यते कर्तव्येति विधीयते वा । नाद्यः । अभावात् । न द्वितीयः । पुरुषप्रयत्नाविषयत्वेन विधेरयोगात् इत्यत आह ।। भक्त्यर्थमिति ।। नात्र भक्तिस्वरूपनिरूपणं तद्विधानं वा क्रियते । किं नाम भक्त्युत्पादनार्थं भगवन्महिमोच्यते । माहात्म्यज्ञानपूर्वकस्नेहो हि भक्तिः । न हि माहात्म्यानुक्तौ तज्ज्ञानं भवति स्नेहो वा । एवं साधनवचनस्यापि फल एव तात्पर्यात् भक्तिरुच्यत इत्युक्तमिति भावः । स्यादेतत् । न स्नेहार्थं महिमोक्तिर्युक्ता । तदभावेऽपि पुत्रादौ स्नेहदर्शनात्क्वचित्तदुक्तावप्यदर्शनादिति । मैवम् । कारणान्तरेण फलसिद्धावप्यन्यस्य कारणत्वाविरोधात् । न हि विनापि कारीर्या वृष्टिर्दृष्टेति तदनुष्ठानं वृष्टावकारणं भवति । श्रुतमाहात्म्येऽपि स्नेहानुत्पत्तिर्मत्सरादिनिरुद्धा न माहात्म्यश्रवणस्य कारणत्वमाक्षिपति । न हि भर्जितं बीजमङ्कुरं नोत्पादयतीत्येतावता बीजस्याङ्कुरकारणत्वं नास्ति । सर्वस्यापि माहात्म्यस्य प्रथमाध्याय एवोक्तत्वात्किमत्रोच्यत इति । सत्यम् । तदेव क्वचिद्विविच्योच्यते क्वचित्समर्थ्यत इत्यदोषः ।

अत्रादौ भगवत्प्राप्तिसाधनभक्त्यर्थं स्वप्नविषयतत्प्रतीत्योर्भगवदधीनत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । सर्वं भगवदधीनमिति प्रागुक्तम् । स्वप्नतत्प्रतीत्योरीश्वरानधीनत्वे तदयुक्तं स्यादिति तद्वर्णनीयम् । स्वप्नोऽत्र विषयः । भगवदधीनो न वेति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । न स्वप्नो भगवदधीन इति पूर्वः पक्षः । तस्यासत्वात् । सत्वे च वक्तव्यं किं स्वाप्नविषयो नित्योऽनित्यो वेति । उभयथापि पूर्वोत्तरकालं दर्शनप्रसङ्गः । न च तदा दृश्यते । अतः प्रातीतिकत्वादसन्नेव शुक्ति-रजतादिवत् । न च वक्तव्यं प्रतीतिकाल एव सृष्टिनिरोधावतो न दोष इति । प्रमाणाभावात्कर्त्रु-पादाननिमित्तानामभावाच्च । किं च स्वप्नविषयं किमयं शरीरे स्थित्वैव पश्यति निर्गत्य वा । नाद्यः । मेरुमन्दरादिदर्शनायोगात् । न द्वितीयः । कुरुषु सुप्तस्य पाञ्चालान्पश्यतस्तत्रैव प्रबोधे शरीर-प्रवेशोऽस्य पश्चादेवेति प्राप्तेः । किं च हेमन्ते सुप्तस्य वसन्तप्रतीतिस्तावदस्ति । न च वसन्तसत्ता तदास्ति । न च प्रतीतिकारणं वास्ति । इन्द्रियवृत्तीनामुपरतत्वान्मनसो बाह्यार्थेष्वस्वातन्त्र्यात् । यदि चैते विषया द्रष्टुर्भिन्नास्तदा समीपस्थैर्दृश्येरन् । बाह्यार्थत्वात् । अथ न ततोऽतिरिक्तास्तर्ह्यागतं कल्पितत्वमेव । परमार्थतोऽस्य करितुरगादिभावाभावात् । तत्काल एव सृष्टिनिरोधपक्षे च प्रागुत्तरकालं मृत्पिण्डकपालादीनि दृश्येरन् । न च दृश्यन्ते अतः प्रातीतिकत्वान्मरुमरीचिकाजलादि-वन्न स्वप्नविषयस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति ।

सिद्धान्तयत्सूत्रं पठित्वाऽधिकरणतात्पर्यं तावदाह ।। सन्ध्य इति ।। तं विना परमेश्वरं विना । तदधीन इत्यर्थः । अत्रोक्तदोषपरिहाराय सूत्रम् । यदुक्तं स्वाप्नस्य पश्चाददृष्टेरसत्त्वाद्भगव दधीनत्वा-योग इति । तदनुपपन्नम् । यतो जाग्रत्सुषुप्तिसन्धौ भवतीति सन्ध्ये स्वप्ने प्रागसतामर्थानां सृष्टिः । अनन्तरमेव निरोधश्चाङ्गीक्रियत इति । ननूक्तमत्र प्रमाणं नास्तीति तत्राह ।। नेति ।।

गुर्वर्थदीपिका

भक्तिरस्मिन्पाद उच्यत इति भक्त्यर्थं भगवन्महिमोक्तिरिति च भाष्यद्वयस्य सार्थक्यं दर्शयति एवमिति ।। एवमुपरितनसूत्रैर्वक्ष्यमाणप्रकारेण स्वज्ञानद्वारा भक्तिसाधनमहिम्नां वचनस्यापि भक्तिरूपफल एव तात्पर्यात्तात्पर्यविषयभक्तिरपि मुख्यतः पादप्रतिपाद्येति साऽपि प्रतिज्ञातव्या । तत्साधनानि निरूपणीयानि । अतो भक्तिरस्मिन्पाद उच्यत इत्युक्तमिति भाष्यकृतोऽभिसन्धिरिति भावः । इदं चोपलक्षणम् । क्षीरादौ स्वादुत्वादितद्गुणकीर्तनेनैव स्नेहोत्पत्तिदर्शनात्स्नेहरूपभक्तेः प्रकारान्तरेणोत्पादयितुमशक्यत्वाद्भक्त्यर्थं भगवन्महिमोच्यत इति चोक्तमित्यप्यूह्यम् । अनयैव दिशा वैराग्यपादस्यापि वैराग्यमस्मिन्पाद उच्यत इति वाक्यस्योहः कर्तव्यः । अतो न भाष्यकारस्यैकत्र न्यूनता वाऽन्यत्राऽऽधिक्यं वेति ज्ञेयम् । अविद्याकर्मजनिताहंममतारूपाभिमानवशात्स्वदेहे स्वपुत्रादौ च स्नेहो जायते । न तथा परमात्मनि लोकानामभिमानः । यद्यपि क्वचित्प्रद्युम्नसाम्बादीनां भगवत्पुत्राणामस्ति भगवत्यभिमानजो स्नेहः, तथापि न सा भक्तिः । माहात्म्यज्ञानपूर्वकत्वाभावात् । अतो भक्त्यर्थं भगवन्महिमैव वक्तव्य इति भाष्यकृतो गूढाभिसन्धिमजानानः शङ्कते स्यादेतदिति ।। क्वचिदुक्तावप्यदर्शनादित्यस्य क्वचिद्दर्शनादौ कारणान्तरेण फलसिद्धावित्यङ्गीकारवादोऽयम् । उक्तविधया प्रकारान्तरेण भगवति भक्त्यनुदयस्य भाष्यकारेणैव सूचितत्वादिति ज्ञेयम् । तदेव क्वचिद्विविच्योच्यते क्वचित्समर्थ्यत इत्युपलक्षणम् । सकललोकापेक्षितसुषुप्त्यादिप्रापकत्वेनाहरहः स्वोपकारत्ववर्णनाद्भक्तेरतिशयेनान्तरङ्गसाधनभूतमहिमोच्यत इत्यपि द्रष्टव्यम् । अत एव सूत्रकृता ‘सन्ध्ये सृष्टिराह हि’ इत्यादिना सकलजीवापेक्षितस्वप्नाद्यवस्थाप्रेरकत्वरूपमाहात्म्यमेव प्रपञ्चितम् । स्वाप्नविषयमित्यत्र स्वाप्नविषयपदेन स्वाप्नपदार्था गृह्यन्ते । कुरुषु सुप्तस्येत्यत्र मासमात्रं पाञ्चालविषयान्प्रति गच्छतो मासमात्रेण तत आगच्छतश्च जीवस्य तस्मिन्नेव प्रतिबुद्धे देहे मासद्वयानन्तरं प्रवेशप्रसङ्गात्त्वरया गमनागमनयोश्च तस्मिन्नेव जीवे प्रागुत्तरत्र चादर्शनेनाप्रामाणि-कत्वादिति भावः । अनेन प्रबोधक्षण एव पुनरागमनमिति कुचोद्यानवकाश इति ज्ञेयम् ।

भावबोधः

भक्तिरस्मिन्निति ‘इदं’ शब्दाभिप्रायमाह– यद्दाढर्््यार्थमिति ।। ननु भगवन्महिमोक्तौ कथं भक्त्युत्पत्तिरित्यत आह– माहात्म्येति ।। स्नेहो वेति । माहात्म्यज्ञानकार्यत्वात् स्नेहस्येत्यर्थः । कथं तर्हि भक्तिरस्मिन् पादे उच्यत इति प्रतिपाद्योक्तिरित्यत आह– एवं साधनवचनस्यापीति ।। इतो भगवन्महिमैव स्नेहोत्पादक इति भावेन साधनस्येत्युक्तम् । यद्वा विषयिपरसाधनपदेन विषयस्य माहात्म्यस्योपलक्षणम् ।। कारणान्तरेणेति ।। वह्नित्वादिसामान्यधर्मपुरस्कारेण प्रमितानेककारणके कार्ये व्यतिरेकव्यभिचारस्यादोषत्वादिति भावः ।। श्रुतमाहात्म्येऽपीति ।। प्रतिबन्धकसत्त्व-निबन्धनान्वयव्यभिचारस्य दोषत्वे सर्वत्र कार्यकारणभावोच्छेदप्रसङ्ग इति भावः ।। मत्सरादि-निरुद्धेति ।। मात्सर्यादिदोषरहितानां सच्छिष्यादीनां ज्ञातमाहात्म्ये गुर्वादौ स्नेहोत्पत्तेरनुभव-सिद्धत्वादिति भावः । तदेव क्वचिद्विविच्योच्यते; कचित्समर्थ्यत इति । ‘सन्ध्ये सृष्टिः’ इत्याद्यधिकरणसप्तकेन जन्मादिसूत्रोक्तं सृष्ट्याद्यष्टकर्तृत्वलक्षणमाहात्म्यं विविच्योच्यते । ‘सन्ध्ये सृष्टिः’ इत्यनेन स्वाप्नपदार्थानां सृष्टिसंहारकर्तृत्वस्य ‘पराभिध्यानात्’ इत्यत्र ज्ञानाज्ञानबन्ध-मोक्षहेतुत्वस्य ‘देहयोगाद्वासोऽपि’ इत्याद्यधिकरणपञ्चकेन जाग्रदाद्यवस्थानियमकर्तृत्वस्य च विवेचनात् । ‘न स्थानतोऽपि’ इत्यत्रानन्दमयाद्यधिकरणोक्तेश्वररूपाभेदसमर्थनम् । ‘अरूपवदेव हि’ इत्यत्र ‘अन्यभावव्यावृत्तेश्च’ इत्युक्तप्राकृतशरीरराहित्यसमर्थनम् । ‘अत एव चोपमा’ इत्यत्र प्रथमसूत्राद्युक्तजीवाभेदनिरसनविवेचनम् । ‘अम्बुवदग्रहणात्तु’ इत्यत्र प्रथमसूत्रस्था‘तः’ शब्दे-नोक्तस्य भक्तेर्मोक्षसाधनत्वस्य च समर्थनम् । ‘वृद्धिह्रासभाक्त्वम्’ इत्यत्र तस्यैव विवेचनम् । ‘प्रकृतैतावत्त्वम्’ इत्यत्र द्वितीयसूत्रोक्तस्य स्थितिकर्तृत्वस्य समर्थनम् । ‘तदव्यक्तमाह हि’ इत्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वसमर्थनम् । ‘उभयव्यपदेशात्’ इत्यत्र समस्ताध्यायोक्त-गुणित्वसमर्थनम् । ‘परमतः’ इति ‘स्थानविशेषात्’ इत्यधिकरणद्वये आद्याध्यायोक्तब्रह्मगुणा-नामलौकिकत्वस्य ब्रह्माद्यानन्दादिगुणबिम्बत्वस्य च क्रमेणोपपादनेनोक्तविवेचनम् । ‘तथान्य-त्प्रतिषेधात्’ इत्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वस्य प्रकारान्तरेण समर्थनम् । ‘अनेन’ इत्यत्र जन्मादिसूत्रोक्ताशेषजगज्जन्मादिकर्तृत्वसमर्थनम् । ‘फलमतः’ इत्यत्र जिज्ञासासूत्रस्था-‘तः’शब्दोक्तस्य फलदातृत्वस्य समर्थनमिति क्वचिदुक्तस्य समर्थनम् । क्वचिद्विवेचनमित्यर्थः ।

स्वप्नविषयतत्प्रतीत्योरिति ।। अनेन ‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैः जीवस्य जन्माव-गतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रेरकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते इति सुधायामुक्तानन्तरसङ्गतिः सूचिता ।। भगवदधीन इति ।। अत्रार्थज्ञानात्मकः स्वप्नः भगवदधीनो न भवत्युत भवतीति चिन्ता । तदर्थं सः किमसन्नुत सन्निति । तदर्थं सत्त्वविशेषान्नित्यत्वाद्युपेतो न भवत्युत भवतीति । तदर्थमनुपपन्नानादि-नित्यत्वकोऽयं नोत्पत्तिमानुतोत्पत्तिमानिति । तदर्थं किं कर्त्रुपादाननिमित्तादिकारणरहित उत तत्सहित इति । तदर्थं कर्त्रुपादानादिकं प्रसिद्धकर्त्रादिसदृशमुत विसदृशमिति । तथा च कर्त्रुपादानादीनां प्रसिद्धकर्त्रादिसादृश्येना सदृशकर्त्राद्युपलम्भनाभावादनुपपन्नानादिनित्यत्वकस्य सत्त्वविशेषानित्यत्वाद्ययोगेनासत्त्वप्राप्त्या न तस्य भगवदधीनत्वमिति पूर्वपक्षे प्रसिद्धविसदृशत्वे चानुपलम्भस्याबाधकत्वेन तादृशकर्त्रादियुक्तत्वेनोत्पत्तिमत्त्वादनुपपन्नानादिनित्यत्वोपपत्त्या सत्त्व-सम्भवात्तस्य भगवदधीनत्वमिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः । पश्चाद् दृष्टेः स्वप्न-विषयस्यासत्त्वं वाच्यमिति न्यायविवरणं योजयितुमाह– सत्त्वे वक्तव्यमिति ।। पूर्वोत्तरकाल-मित्यनेन पश्चादित्येतत्पूर्वकालस्याप्युपलक्षकमित्युक्तं भवति । इदानीं तदभिप्रायमाह– न च तदा दृश्यत इति ।। प्रथमसूत्रस्थेन ‘आह हि’ इत्यनेन निवर्तनीयं पूर्वपक्षं वक्तुमाह– न च वक्तव्य-मिति ।। तात्कालिकविद्युदादिवदित्यर्थः । द्वितीयतृतीयसूत्रनिवर्तनीयपूर्वपक्षयुक्तिमाह– कर्त्रिति ।। तृतीयसूत्रस्थेन ‘मायामात्रम्’ इत्यनेन निवर्तनीयां पूर्वपक्षयुक्तिमाह– किं च स्वप्नविषयमित्या-दिना ।। तदेव न्यायविवरणं प्रकारान्तरेण व्याचष्टे– तत्कालेति ।। अनेन स्वप्नविषयकारणानामिति शेष उक्तः । स्वाप्नपदार्थानां सन्ध्य एव सृष्टत्वेन पूर्वकालीनादृष्टेरबाधकत्वेऽपि पश्चाददृष्टिर्बाधिका भवेदेवेत्यतः सौत्रं सृष्टिपदं निरोधस्याप्युपलक्षकमित्यभिप्रेत्याह– अनन्तरमेव निरोधश्चेति ।। अनेन सृष्ट्वा संस्कारतामापाद्येति न्यायविवरणांशोऽप्युक्ततात्पर्यो भवति ।

भावदीपः

भक्तेरत्र पादे क्वाचित्कोक्तिभ्रमनिरासायाह ।। एतत्पादप्रतिपाद्यमिति ।। अत्र भक्तेरुक्तौ का पूर्वोत्तरसङ्गतिरित्यतः पादार्थोक्तिः सङ्गतिसूचनायेति भावेन ‘वैराग्यतो भक्तिदाढर्््यं तेनोपासा यदा भवेत्’ इत्यनुभाष्यसूचितां तामाह ।। यद्दार्ढ्यार्थमिति ।। अङ्गमिति ।। अनुबन्धादिभ्य इति वक्ष्यमाणदिशेति भावः ।। अभावादिति ।। यद्यपि अम्बुवदग्रहणादित्यत्र भक्तिपदं हित्वाऽम्बुवद-ग्रहणपदयोरुक्त्या भक्तिस्वरूपमुच्यते । तथापि प्राधान्येन तत्स्वरूपोक्तिर्नास्तीति भावः ।। पुरुषेति ।। भक्तेः स्नेहरूपत्वात्तस्य च विषयवैलक्षण्याधीनत्वात् विधेश्च पुरुषप्रवर्तनारूपस्य तत्प्रयत्नयोग्य एव प्रवर्तकत्वादिति भावः । महिमोक्तेर्भक्त्यर्थत्वं व्यनक्ति ।। माहात्म्येति ।। ‘माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिः’ इति महाभारततात्पर्यनिर्णयोक्तेः, ‘सर्वोत्तमतया ज्ञानपूर्वकः स्नेह एव तु । भक्तिर्विष्णौ समुद्दिष्टा तदन्येषां तु योग्यतः’ इति प्रथमे बृहद्भाष्योक्तेश्चेति भावः ।। एवं साधनेति ।। ज्ञानद्वारा साधनरूपमाहात्म्यवचनस्य भक्तिरूपफल एव तात्पर्यादित्यर्थः । अन्वयव्यतिरेकव्यभिचारान्न ज्ञानद्वारा महिमोक्तिः स्नेहहेतुरित्याशङ्क्य समाधत्ते ।। स्यादेतदिति ।। क्वचिदिति ।। दुर्योधनचैद्यमागधादावित्यर्थः ।। अकारणमिति ।। अत एव ‘व्रीहिभिर्यजेत’ ‘यवैर्यजेत’ इत्यादौ विकल्पाश्रयणम् । एककार्ये कारणद्वयोपनिपात एव विकल्पावकाशात् कारणान्तरकृतव्यभिचारस्यादोषत्वात् । एकस्य फलोपधानदशायामन्यस्य तत्र तदभावेऽपि शक्तेः सत्वादिति भावः ।। मत्सरादीति ।। मत्सरादिप्रतिबन्धकनिमित्तेत्यर्थः । प्रतिबन्धककृतव्यभिचारस्यादोषत्वात् व्यभिचार्यपवादेन मानमेव भविष्यतीत्यनुभाष्योक्तेरिति भावः । प्रकारान्तरेण शङ्कते ।। सर्वस्यापीति ।। नामलिङ्गात्मकाशेषशब्दप्रवृत्तिनिमित्तानां परमैश्वर्यादीना-मीशगतत्वस्यान्यगतप्रवृत्तिनिमित्तस्वातन्त्र्यस्य च वर्णनेनाशेषशब्दसमन्वयोक्तेस्तद्द्वारा तद्युक्ताशेष-वाक्यप्रकरणस्थानानां तत्सिद्ध्या च सर्ववेदोक्ताशेषमाहात्म्यस्य विष्णावेव सिद्धेरिति भावः ।। तदेवेति ।। एतच्च यथास्थानं तत्र तत्र विवरिष्यामः ।

अत्रादाविति ।। प्रथमाधिकरण इत्यर्थः । ‘योनेः शरीरम्’ इति जीवानां जन्मावगतौ अवस्थावर्णनस्यावसरप्राप्तत्वात् तत्र जाग्रत्स्वप्नसुषुप्त्यवस्थानां मध्ये जाग्रति जीवानां स्वातन्त्र्याभि-मानभावेनेशाधीनत्वस्यादावेव बुद्ध्यनारोहात्सुषुप्तिप्राप्तेः स्वप्नदशाप्राप्तिपूर्वकत्वनियमात्स्वाप्नसत्यत्वे सर्ववादिविप्रतिपत्तेः ‘वैधर्म्याच्च न स्वप्नादिवत्’ इत्युक्त्या ‘स्वप्नमाया सरूपा’ इत्यादिश्रुत्यादिना च प्रसक्तसर्वस्वाप्नासत्यत्वस्यावश्यमादौ निरस्यत्वात् । पूर्वसूत्रे जीवानां जन्मोक्त्याऽत्र तद्भोग्यानां जन्मोक्तेः सङ्गतत्वाच्च कठश्रुतौ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिन इति योनिद्वारा शरीरं प्राप्तं जीवं प्रति ईश्वरस्य ‘य एषु सुप्तेषु’ इति उत्तरवाक्ये स्वाप्नस्रष्टृत्वोक्तेश्च पूर्वं स्वाप्नचिन्ता युक्तेति सूचयत्यादाविति । यद्वा जीवानां योनिद्वारा शरीरप्राप्तिभावाभावचिन्तेव पूर्वत्र अत्रापि स्वप्नाद्यवस्थाभावाभावचिन्तैवादाववसरप्राप्तेत्यत उक्तम् । आदौ तदधीनत्वमहिम्नो वर्णनादिति ।। स्वप्नाद्यवस्थासम्बन्धस्य जीवेषु सुप्रसिद्धत्वेन तत्रापवादशङ्कानुदयादिति भावः । यथोक्तं सुधायां जाग्रदाद्यवस्थासम्बन्धः प्रसिद्ध इति ।। साधनेति ।। ज्ञानहेतूपासनांगतयेति भावः । एवमग्रेऽपि ।। भक्त्यर्थमिति ।। प्रागथपदेनाधिकारिविशेषणतयोक्तभक्त्यर्थमित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् ।। वर्णनादिति ।। स्वाप्नार्थानामीशसृष्टत्वेन सत्यत्वोक्त्येति भावः । एतेनैतन्निरस्तम् । सुषुप्त्युत्क्रान्त्योर्भेदेनेत्यत्र स्वप्नादिद्रष्टृत्वं च सर्वज्ञत्वादेव युज्यत इति भाषणात् स्वाप्नपदार्थानां जीवगतावस्थायाश्च सत्यत्वादिति टीकोक्तेश्च परमार्थाशेषार्थतत्वज्ञतया सर्वज्ञस्येशस्य स्वप्नद्रष्टृत्वोक्त्या स्वाप्नपदार्थानां सिद्धं सत्यत्वमिह पुनर्न वाच्यमिति । अत्रोक्तसत्यत्वमुपजीव्यैव तत्र सर्वज्ञत्वहेतुना स्वप्नद्रष्टृत्वोक्तेः । न चैवं जीवस्य स्वप्नद्रष्टृत्वमेव नेति कथं तत्प्रतीतेर्जीव-स्येशाधीनत्वमुच्यत इति वाच्यम् । मुख्यस्येशगतत्वेऽप्यमुख्यस्याल्पस्येशाधीनस्य जीवेऽपि भावात् । अत एवात्र तस्य प्रपञ्चनम् । अत्र भगवत्प्राप्तीत्युक्त्या शास्त्रे साधनेत्यध्याये भक्त्यर्थं महिम्न इति पादेंऽतर्भावरूपसङ्गतित्रयमुपपादितं भवति । एवमग्रेऽपि ।

एतच्चिन्तायाः पूर्वनयैः सङ्गतिं फलान्तरं चाह ।। सर्वमिति ।। ‘जन्माद्यस्य यतः’ इत्यारभ्य ‘योनेश्शरीरम्’ इत्यन्तं क्वचिदर्थात्क्वचित्कण्ठतः प्रागुक्तमित्यर्थः । तथा हि । सर्वशब्दप्रवृत्तिहेतूनां स्वातन्त्र्यतद्गतत्वाभ्यामीशे समन्वयोक्त्या सर्वस्य तदधीनतायाः प्राप्तत्वादन्तर्यामिनयादौ तदधीनत्वादर्थवत्’ इत्यत्र तदनन्यत्वनयादौ च वियत्प्राणपदाभ्यां सर्वस्येशाधीनविशेषावाप्ति-रूपजन्मादिप्रपञ्चनेन स्वात्मना चोत्तरयोरित्यादिना तत्रापि च तद्व्यापारादित्यादिना योनिद्वारा शरीरप्राप्त्युक्त्या तदधीनत्वस्य स्फुटत्वादिति भावः । विप्रतिपत्तिः सत्त्वासत्त्वाभ्यां वादि-विप्रतिपत्तिरित्यर्थः । यद्वा सत्त्वासत्त्वहेतुका भगवदधीनत्वादिविप्रतिपत्तिरित्यर्थः । सूत्रेषु सृष्ट्याद्युक्त्या सत्वोक्तावपि स्वप्नोऽपीत्यादि भाष्यव्यावर्त्त्यं पूर्वपक्षफलं दर्शयितुं एवं सूत्रतात्पर्य-विषयकोटिकसंशयविप्रतिपत्ती दर्शिते । सूत्रादौ स्वाप्नार्थानां सृष्ट्याद्युक्तेरसांगत्यनिरासाय तद्व्यावर्त्य- पूर्वपक्षमन्यत्रोक्तं व्यनक्ति ।। नेति ।। पश्चाददृष्टेः स्वप्नविषयस्यासत्त्वं न वाच्यमित्यन्यत्रोक्तमसत्त्वं हेतुतया योजयति ।। तस्यासत्त्वादिति ।। यद्यप्यसतोऽपीशाधीनत्वं ‘एतेन सर्वे व्याख्याता’ इत्यत्रोक्तम् । यथोक्तं भाष्ये एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेनेति । सर्वस्य तदधीनत्वा-त्तत्तच्छब्दाभिधेयतेति च । तथापि स्थूलबाह्यप्रपञ्च इव स्वरूपसत्ताप्रतीत्यादिषु भगवन्नियतो नेति प्रतिज्ञार्थः । असत्तु असत्त्वेनैव तन्नियतमिति भावः । स्वाप्नस्यापि तथात्वे प्रागुक्तस्वप्न-द्रष्टृत्वभङ्गापत्तेः । असत्त्वमेव कुत इत्यतः पश्चाददृष्टेरित्यन्यत्रोक्तं हेतुमप्रयोजकत्वशङ्कानिरासपूर्वं योजयति ।। सत्त्व इत्यादिना ।। पश्चादित्युक्तिरूपलक्षणमित्युपेत्याह ।। पूर्वेति ।। दर्शनेति ।। स्वाप्नार्थानां स्वप्नदशायामुपलभ्यमानानामयोग्यताशङ्कानवकाशादिति भावः ।। अत इति ।। प्रागूर्ध्वमदर्शनादित्यर्थः । प्रातीतिकत्वात् प्रतीतिमात्रशरीरत्वादित्यर्थः । समग्रं न्यायविवरणवाक्यं प्रकारान्तरेण व्याचष्टे ।। न चेत्यादिना ।। एतेन पश्चात् प्रागूर्ध्वं स्वाप्नविषयस्यासत्त्वम् । स्वप्नकाल एव सृष्टिनिरोधाविति यावत् । इति न वाच्यम् । अदृष्टेः दृष्ट्यभावः प्रमाणमात्राभावोपलक्षणम् । प्रमाणाभावादित्यर्थः इति योजना सूचिता । अदृष्टेरित्यस्य कर्त्रादेरनुपलम्भादित्यप्यर्थान्तरमुपेत्याह ।। कर्त्रिति ।। द्रष्टुर्जीवस्य निर्व्यापारत्वादीश्वरस्य कर्तृत्वे मानाभावादिति भावः ।

ननु प्राक् सिद्धानामेव बाह्यार्थानां स्वप्ने दर्शनमस्तु । एवं च न प्रागूर्ध्वमदर्शनदोषः । नापि कर्त्राद्यभावदोष इत्यत आह ।। किं चेत्यादिना ।। यद्वा एवं कर्त्राद्यभावादिना स्वाप्नविषयस्य करितुरगादेरसत्त्वमुक्त्वेदानीं तत्प्रतीतेरपि जीवादेर्द्रष्टृत्वाद्यनुपपत्त्या कर्तृकरणयोरभावेनासत्त्वमाह ।। किं चेत्यादिना ।। दर्शनायोगादिति ।। एतेनादृष्टेरित्यस्य दृष्टेरयोगादसत्त्वं स्वाप्नार्थस्य तद्विषयक-प्रतीतेर्वेत्यप्यर्थो दर्शितः ।। पश्चादेवेति ।। एतेन पश्चात्प्रवेशस्यादृष्टेरदर्शनादननुभवादित्यर्थ उक्तो भवति । बहिरन्तर्वा जीवस्य द्रष्टृत्वायोगेन प्रतीतेरसत्त्वमुक्त्वा अर्थशून्यत्वाच्चासत्त्वमिति भावेनाह ।। किं च हेमन्त इति ।। प्रतीत्युत्पादकहेत्वभावाच्च प्रतितेरसत्त्वमिति भावेनाह ।। न चेति ।। एतेन पश्चात् इन्द्रियवृत्त्युपरमानन्तरं स्वप्नविषयस्यादृष्टेर्दर्शनायोगादसत्वं प्रतीतेरित्यर्थ उक्तो भवति । अतिप्रसङ्गेनापि प्रत्याह ।। यदि चेति ।। समीपस्थैरिति ।। एतेन पश्चात् पश्चात्तनैः । उपलक्षणं पश्चात्तनादिभिः । समीपस्थैरिति यावत् । अदृष्टेरदर्शनात् । स्वप्नविषयस्य द्रष्ट्रपेक्षया पृथग-सत्त्वमित्यर्थो दर्शितः ।। परमार्थत इति ।। एतेन पश्चात्प्रबोधानन्तरं आत्मनो गजाश्वादिभावा-दृष्टेरसत्त्वं कल्पितत्वं स्वाप्नविषयस्येत्यर्थो दर्शितः । पश्चात् प्रागूर्ध्वं मृत्पिण्डकपालादेर-दृष्टेरित्यर्थान्तरं चाऽऽह ।। तत्काल इति ।। अत इति ।।  मृत्पिण्डादेरदर्शनादित्यर्थः ।। न तस्य महामहिमत्वमिति ।।

यद्यपि स्वाप्नार्थानामसत्त्वादेव तत्सत्ताप्रतीत्यादेरीश्वरानधीनत्वेऽपि न तस्य महामहिम-त्वच्युतिः । अन्यथा शशशृङ्गकूर्मरोमादीनां स्वरूपसत्तादिष्वीश्वरानधीनत्वात्तस्य महिमच्युतिः स्यात्तथापि ज्योतिर्दर्शनादित्यादौ जीवस्य स्वप्नसुषुप्त्याद्यशेषव्यापारनियंतृत्वमहिमा ईश्वरस्याभिमतः स न स्यात् स्वाप्नविषयस्यासत्त्वादिति भावः ।। तात्पर्यमिति ।। अन्यथाऽत्रैव सूत्रे तं विनेति स्वाप्नप्रतीतेरीशाधीनत्वोक्तौ निर्मातारमिति सूत्रवैयर्थ्यादिति भावः । तं विनेत्यस्य तेन सहेत्यर्थ-भ्रान्तिं तेनैव स्वाप्नभ्रान्तिरिति भ्रान्तिं वा निराह ।। तदधीन इत्यर्थ इति ।। न तत्रेत्यादिभाष्यं सङ्गमयितुमाह ।। अत्रोक्तदोषेति ।। सन्ध्ये सृष्टिरित्यंशस्यार्थं स्वयमाह ।। यदुक्तमित्यादिना ।। तत्वप्रदीपे तु तं प्रस्तुतं परमात्मानं विना न स्वप्नोऽपि प्रतीयते । अपिशब्दाज्जाग्रदादिप्रतीतिरपि तस्मादेवेत्यर्थः । तत्प्रत्यायनस्यैव सृष्टित्वात् सृष्टिशब्दः प्रतीयत इति व्याख्यायत इति ग्रन्थेन न स्वप्न इत्याद्यपि सूत्राक्षरार्थत्वेन व्याख्यातम् । तदनुरोधेन वा न स्वप्न इत्यादिभाष्यं सूत्रारूढतया दर्शयति ।। यदुक्तमित्यादिना ।। चतुर्थे तन्वभावे सन्ध्यवदुपपत्तेरित्यत्र सन्ध्यं स्वप्न इत्यादिभाष्यं हृदि कृत्वा परिशेषादिति वक्ष्यमाणसौकर्याय स्वप्नार्थलाभप्रकारमाह ।। जाग्रदिति ।। सन्धौ कण्ठदेशे । तत्र भव इति भवार्थे यत्प्रत्यय इति भावः । श्रुत्यनुरोधादाह ।। प्रागसतामिति ।। कार्यरूपेणेति भावः । असद्यत्कार्यरूपेण कारणात्मतयास्ति हीति तदनन्यत्वनयानुभाष्योक्तेः । संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेरित्यन्यत्रोक्तिमनुरुध्य सूत्रे सृष्टिपदमुपलक्षणं मत्त्वाह ।। अनन्तरमेवेति ।। तेन यदुक्तमित्यादिनाऽनूदितशङ्कानिरास इति भावः । इति यतोऽत इति इतिशब्दस्य पूर्वेणान्वयः ।। नेतीति ।। श्रुत्यर्थस्तु ‘स्वप्नेऽन्तरिक्षे स्वर्गे वा न रथाद्याः पुरा स्थिताः । तदैव तत्कर्मयोग्यान्निर्मिमीते हरिस्स्वयम्’ इति षष्ठबृहद्भाष्याद् व्यक्तः ।

अभिनवचन्द्रिका

एतत्पादप्रतिपाद्यमिति ।। ‘तर्हि अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेऽप्यवान्तरभेदेनेति भावेन’ इति वर्तते । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’त्यनेन सम्बन्धः ।। श्रुतमाहात्म्येऽपीति ।। श्रुतमाहात्म्येऽपि दृश्यमानस्नेहानुत्पत्तिः माहात्म्यश्रवणस्य स्नेहेऽकारणत्वं न साधयति । साधनशक्तेर्मत्सरादिना निरुद्धत्वादिति भावः ।। स्वप्नविषयतत्प्रतीत्योरिति ।। स्वप्नशब्दार्थयोः विषयतत्प्रतीत्योरित्यर्थः यद्यपि अत्र टीकायां विषयाऽसत्वमेवाऽऽशङ्क्य तदुत्तरत्वे नाधिकरणं व्याख्यायते, तथापि सुधोक्तरीत्या ज्ञानाऽसत्त्वशङ्कापि अनेनाऽधिकरणेन निवर्त्यत इत्यभिप्रायेण ‘स्वप्नविषयतत्प्रतीत्योः’ इत्युक्तम् । सर्वं भगवदधीनमिति ‘यतो वा इमानि भूतानि जायन्ते । अथ रथान् रथयोगान् पथः सृजत’ इत्यादि श्रुतीनां समन्वयद्वारा तच्छ्रुतौ सृज्यत्वेनोक्तानां सर्वेषां भगवदधीनत्वमुक्तमित्यर्थः ।। स्वप्नतत्प्रतीत्योरिति ।। सृज्यत्वेन श्रुत्युक्तयोरपि स्वप्नतत्प्रतीत्योरीश्वरानधीनत्वे अविशेषात्प्रागुक्तं सर्वस्य तदधीनत्वमयुक्तं स्यादिति तद्वर्णनीणीयमित्यर्थः । सत्त्वस्य नित्यत्वाऽनित्यत्वाऽन्यतरव्याप्तत्वात् व्यापकनिवृत्त्या व्याप्यनिवृत्तिं साधयितुं पृच्छति सत्त्वे वक्तव्यमिति ।। उभयथापीति ।। नित्यत्वपक्षे प्रागूर्ध्वमुपलम्भः स्फुटः । स्वप्नावस्थायामुपलब्धत्वेन अयोग्यत्वाभावात् । अनित्यत्वपक्षे तु तत्कालोत्पत्तिविनाशयोरसम्भवात् स्थायित्वमेव वाच्यमिति भावेन प्रागूर्ध्वमुपलम्भप्रसङ्गो निरूपितो बोध्यः । अत इति ।। अतोऽसन्नेवेति सम्बन्धः ।

ननु नित्यत्वानित्यत्वयोर्निवृत्त्या नाऽसत्त्वं निर्धारयितुं शक्यं, घटादिवत्प्रतीतिविषयत्वाऽ-न्यथाऽनुपपत्त्या सत्त्वसिद्धेरित्यत उक्तम् प्रातीतिकत्वादिति ।। युक्तमेव नित्यत्वाऽनित्यत्वा-भावेनाऽसत्त्वसाधनम् । शुक्तिरजतादौ सत्त्वेन विनापि दृष्टस्य प्रतीतिविषयत्वस्य सत्त्वाऽसाधकत्वेन बाधकाऽभावादिति भावः । अनेन अतोऽसन्नित्येतावतैव पूर्णत्वात् ‘प्रातीतिकत्वात्’ इति ‘शुक्तिरजतादि वत्’ इति च व्यर्थमिति परास्तम् । बाधकनिरासार्थं तदुपादानस्याऽऽवश्यकत्वा-दिति । ननु सत्या एव स्वप्नविषयाः यदत्रोक्तम् किंनित्या, उताऽनित्या इति । तत्र केचन नित्याः केचनाऽनित्या इति ब्रूमः । यदत्रोक्तं प्रागुत्तरकालं दृश्येरन्निति । तन्न इष्टत्वात् दृश्यन्तेऽहि घटपटादयः सर्वैः पूर्वोत्तरकालयोरित्यतो जाग्रदवस्थापन्नैर्दृश्यमानानां घटपटादीनां स्वप्नविषयत्वे बाधकमाह– किंचेति ।। प्रागूर्ध्वमन्यैर्दृश्य मानं स्वप्नविषयं, किं शरीरे स्थित्वा पश्यति बहिर्निर्गत्य वेत्यर्थः । मेरुमन्दरादीति ।। व्यवहितत्वादिति भावः । शरीरे स्थित्वा पश्यति । बहिर्निर्गत्य पश्यतीति पक्षद्वयेऽपि बाधकान्तरमाह– किं च हेमन्त इति ।। ‘न च वसन्तसत्ता तदास्ति’ इत्यतः परं ‘येन शरीरे स्थित्वा, बहिर्निर्गत्य वा पश्येत्’ इति शेषः । न च प्रतीतिकारणं वाऽस्तीति । बाह्यानां मेरुमन्दरादीनां प्रतीतिकारणं वा नास्तीत्यर्थः । मनस एव तत्कारणत्व-मस्त्वित्यत आह– मनस इति ।। स्वप्नविषयाः, किं द्रष्टृभिन्ना उत नेति विकल्पं मनसि निधाय आद्यपक्षं दूषयति यदि चेति ।। द्रष्टृभिन्नत्वेऽपि समीपस्थैर्दृश्यमानत्वं कुतः । आन्तरत्वेनाऽ-दर्शनसम्भवादित्यत आह– बाह्यार्थत्वादिति ।। द्रष्टृभिन्नानां महापरिमाणानां शरीरान्त-स्थत्वाऽनुपपत्तेरिति भावः । द्वितीयमाशङ्क्य इष्टसिद्धिमाह– अथेति ।। कल्पितत्वमिति ।। भ्रमविषयत्वमित्यर्थः ।

ननु द्रष्टृभिन्नत्वाभावे कल्पितत्वं कुतः । तदात्मकत्वेन पारमार्थिकत्वसम्भवादित्यत आह– परमार्थतोऽस्येति ।। अतः प्रातीतिकत्वादिति ।। सत्त्वायोगेनाऽसत्त्वादित्यर्थः ।। न तस्य महामहिमत्वमिति ।। श्रुत्या सृज्यत्वेनोक्तस्यापि स्वाप्नार्थस्याऽसत्त्वेन भगवदनधीनत्वे श्रुत्य-प्रमाण्यान्न तस्य श्रुत्युक्तं महामहिमत्वमिति भावः ।। तदधीन इत्यर्थ इति ।। अनेन – ‘न स्वप्नोऽपि तं विना प्रतीयत’ इति भाष्यम् स्वप्नोऽपि स्वप्नगजादिरपि तं विना तदनधीनत्वेन न प्रतीयते, किंतु तदधीनत्वेनैव मीमांसाऽभिज्ञानां प्रतीयत इति व्याख्यातमिति बोध्यम् । अनेन भाष्ये ‘न स्वप्नोऽपि तं विना प्रतीयत’ इति स्वप्नप्रतीतेः भगवदधीनत्वं प्रतिज्ञाय, स्वाप्नपदार्थस्य भगवदधीनत्वे ‘न तत्र रथा’ इति श्रुत्युदाहरणमयुक्तमिति परास्तम् ।। तस्य सुप्तत्वादिति ।। सुप्तवदपहृतचक्षुरादीन्द्रियशक्तित्वादित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । एतेन स्वप्नावस्थागतत्वेन सुप्तत्वाऽभावात् सुप्तत्वाभिधानमयुक्तमिति परास्तम् ।। तत्प्रमाणाभावादिति ।। ‘न तत्र रथा’ इति श्रुतेरीश्वरपरत्वनिर्णायकसमाख्याप्रमाणाऽभावादित्यर्थः । एतेन ‘रथान् रथयोगान् पथः सृजत’ इति प्रमाणस्योदाहृतत्वात् प्रमाणाभावादित्ययुक्तमिति परास्तम् । श्रौतसृष्ट्यनुपपत्त्या जीवो वा ईश्वरो वा कर्ता भविष्यति इत्यत आह– न च पक्षद्वय इति ।। जीवस्य कुलालवदिति ।। चक्रचीव्रा(चीवरा)दिसाधनशून्यस्येति शेषः ।। प्रकरणप्राप्तत्वादिति ।। यथा ‘भुञ्जानो नो सृजेद्वाचम्’ इत्यत्र भोजनप्रकरणात् वाङ्नियमस्य भोजनसमानकालता गम्यते, तथेहापि ‘सुप्तेषु जागर्ति’ इति सुप्तिप्रकरणात् निर्माणस्य तत्समानकालता गम्यत इत्यर्थः ।। असत्वनिरासायेति ।। स्वशिरच्छेदादीनामननुभूतत्वेन उपादानीभूतसंस्काराभावात् स्वप्ने तत्सृष्ट्ययोगेन प्राप्तस्याऽसत्त्वस्य निरासायेत्यर्थः ।। जाग्रत्पदार्थत्वमेवेति ।। ननु कुतो जाग्रत्त्वस्याऽसत्त्वमंगीक्रियते, गजतुरगादिवत् जाग्रत्त्वस्यापि संस्काररूपोपादानसम्भवेन उत्पत्तिसम्भवादिति चेत्, न ब्रूमो वय मुपादानादि-सम्भवमात्रेण स्वाप्नार्थस्य सत्यत्वमिति । किंनाम बाधाभावे च सति, न चेह बाधाभावोऽस्ति । स्वप्न एवासौ न जाग्रत्पदार्थ इति जाग्रत्त्वस्य बाधदर्शनात् ।। सत्त्वं न प्राप्नोतीति ।। ‘स्वप्नार्था न सन्त नित्यविलक्षणत्वे सति सम्भावितकारणा जन्यत्वात्, शुक्तिरजतवत्’ इत्यनुमानविरोधादिति भावः ।। शुभाऽशुभसूचकत्वेनेति ।। सूचकशब्देनाऽप्रधान कारणमुच्यते । ततश्च अर्थक्रिया-कारित्वेन तत्सत्ताया निश्चितत्वात् बाधितविषयं प्राचीनानुमानमिति भावः ।

ननु स्वाप्नार्थस्य ज्ञापकत्वमेव किं नोच्यते स्वारस्येन प्रतीतज्ञापकत्वपक्षमपहाय कारकत्वाऽङ्गीकारे कारणाऽभावात् । एवं शाकुनस्याऽपि ज्ञापकत्वमेव वाच्यम् न तु कारकत्व-मिति चेत् न । ज्ञापकत्वस्य कथमप्यसम्भवात् । तथा हि किं स्वाप्नार्थाः स्वप्नाऽवस्थायामेव भाविशुभाशुभज्ञापकाः, उत प्रबोधानन्तरम् । नाद्यः अनुभवविरोधात् । द्वितीये तु न स्वाप्नार्थानां ज्ञापकत्वम् । अपि तु तत्स्मरणस्य । स्वप्नार्थस्य जागरेऽभावात् । अविद्यमानस्य ज्ञापकत्वाऽ-योगात् । यदपि शाकुनं ज्ञापकमेवेति, तदपि न शपथाऽऽप्तवाक्यादिना निश्चितभाविकार्यस्य शाकुनप्रतीक्षाऽभावप्रसङ्गात् । शाकुनस्य ज्ञापकत्वं तु न व्यासेधामः, किंतु कारकत्वमपीति ब्रूमः, कारकत्वं तु उभयोरपि दधिदर्शनदूर्वास्पर्शनस्येवाऽदृष्टद्वारा उपपद्यते । ‘यदा कर्मसु काम्येषु’ इति श्रुतिरपि स्वाप्नार्थस्य भाविशुभहेतुत्वं श्रावयति । ‘सुवृष्टिश्चेत् सुभिक्षं जानीयात्’ इत्युक्ते वृष्टिसुभिक्षयोः कार्यकारणभावाऽवगमात् । स्वाप्नार्थस्याऽदृष्टजनकत्वादेव हि दुःखप्रदर्शने तज्जन्यदुरदृष्टनिवृत्तये ‘उपोष्य पायसंस्थालीपाकं श्रपयित्वा रात्रिसूक्तेन प्रत्यृचं हुत्वा’ इत्यादिना प्रायश्चित्तमुपदिश्यते । भागवते च ‘स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृृण्वताम् । ‘शुचयः प्रातरुत्थाय दुःस्वप्नाप्त्युपशान्तये’ इति चोक्तम् । न हि एतस्य कारकत्वाऽभावे तन्निवृत्तये प्रायश्वित्तोपदेश उपपद्यते । प्रबोधे तस्य निवृत्तत्वात् ।

अदृष्यहेतुत्वे तु तन्नाशाय सर्वमुपपद्यते । भाष्ये ‘भावाभावसूचकत्वेनेश्वरो दर्शयति’ इति प्रतिज्ञाय भावशब्दवाच्यशुभसूचकत्व एव ‘यदा कर्मसु’ इति श्रुतिरुदाहृता न त्वभावशब्दवाच्याऽ-शुभसूचकत्वे । अतः स्वयमाह– एवं पुरुषमिति ।। भाष्ये ‘हिशब्दात् दर्शनाच्च’ इत्यतः परम् अध्याहार्यमाह– इति सूचितमिति शेष इति ।। सूत्रे हिशब्देन दर्शनादित्येतत् सूचितम् ‘शब्दाधिक्येऽर्थाधिक्यम्’ इति न्यायादिति भावः । कारकत्वहेतोः श्रुत्यवष्टम्भेन सत्त्वव्यभिचार-माशङ्क्य निषेधति ।। न च मन्तव्यमिति ।। अस्तु तर्हि तद्वदेव अन्यथाज्ञातस्याऽधिष्टानं निषेधति न च मन्तव्यमिति ।। अस्तु तर्हि तद्वदेव अन्यथाज्ञातस्याऽधिष्टानस्यैव सूचकत्वं न स्वप्नार्थ-स्येत्यत आह– न चैवमिति ।। ‘चन्द्रमा इवाऽऽदित्यो दृश्यत’ इत्युक्तिसद्भावात् चन्द्रत्वेन ज्ञातस्याऽऽदित्यस्याऽनिष्टहेतुत्वमभ्युपगम्यते, स्वप्ने तु नैवमुक्तिरस्ति, किंनाम ‘स्त्रियंस्वप्नेऽभि-पश्यति’ इति स्वाप्नार्थस्यैव सूचकत्वाभिधानात् तथैवाभ्युपगन्तव्यमिति भावः । अधिष्टानाऽभावाच्च स्वाप्नार्थस्यैव कारकत्वमभ्युपगन्तव्यमित्याह– न चेति ।।

पूर्वपक्षस्तु स्वप्नविषयो नेश्वराधीनः असत्त्वात् । न चाऽसिद्धो हेतुः । प्रागूर्ध्वमनुपलम्भात् । न च तत्कालसृष्टिनिरोधाऽङ्गीकारात् प्रागूर्ध्व मुपलम्भाभावो न दोषायेति वाच्यम् । प्रमाणाभावात् कर्त्रुपादाननिमित्तानामभावाच्च । ननु बाह्यार्था एव स्वप्न उपलभ्यन्ते । ते च प्रागूर्ध्वमुपलभ्यन्त एवेति चेत् अत्र वक्तव्यम् । किं बाह्यार्थान् शरीरे स्थित्वा पश्यति, उत बहिर्निर्गत्येति । नाद्यः व्यवहितमेरुमन्दरादिदर्शनाऽभावप्रसङ्गात् । न द्वितीयः कुरुषु सुप्तस्य पाञ्चाचालान्प्रपश्यतः प्रबोधे शरीरप्रवेशोऽस्य पश्चादेवेति प्राप्तेः । किं च हेमन्ते सुप्तस्य वसन्तप्रतीतिस्तावदस्ति, न च वसन्तसत्ता तदाऽस्ति । येन शरीरे स्थित्वा बहिर्निर्गत्य वा पश्येत् । नापि बाह्यार्थप्रतीतिकारण-मस्ति इन्द्रियाणामुपरतत्वात् मनसो बाह्यार्थेष्वस्वातन्त्र्यात् । किञ्च एते विषया द्रष्टृभिन्ना उत न । आद्ये पार्श्वस्थैरुपलभ्येरन् । द्रष्टृभिन्नानां महापरिमाणानाम् आन्तरत्वाऽसम्भवेन बाह्यत्वात् । द्वितीये तु आगतं कल्पितत्वम् । न च जीवात्मकत्वेन सत्यत्वं किं न स्यादिति वाच्यम् । परमार्थतोऽस्य करितुरगादिभावाभावात् । तत्काल सृष्टिनिरोधपक्षे च प्रागूर्ध्वं मृत्पिण्डकपालादीनि दृश्यरेन् । न च दृश्यन्ते । अतोऽसत्त्वेन परमेश्वराधीनत्वाऽभावान्न तस्यं महामहिमत्वमिति ।

सिद्धान्तस्तु ईश्वराधीन एव स्वप्नविषयः सत्यत्वात् । न च प्रागुत्तरकालमुपलम्भप्रसङ्गः । तत्काल एव सृष्टिनिरोधाङ्गीकारात् । न च तत्र प्रमाणाभावः ‘अथ रथान् रथयोगान् पथः सृजत’ इति श्रुतेः । न च कर्तुरभावात् सृष्ट्ययोगः– ‘य एषु सुप्तेषु जागर्ति एतस्माद्ध्येव पुत्रो जायते’ इति श्रुतिभ्यामीश्वरस्यैव कर्तृत्वाङ्गीकारात् । न चोपादाननिमित्ताभावः ‘मनोगतांश्च संस्कारान्’ इति स्मृतिबलेन वासनाया उपादानत्वेन ईश्वरेच्छायाश्च निमित्तत्वेनाङ्गीकारात् । एतेन उक्तकण्ठ-कोलाहलाः प्रत्त्युक्ताः । वासनामयानां मेर्वादीनां मनसैव दर्शनसम्भवात् । बाह्यकारणाभावात्, प्राक्मृत्पिण्डादीनाम्, ऊर्ध्वं कपालादीनां च, प्रतीतेरप्रसङ्गात् । ननु यदि न स्वप्नविषया बाह्यार्थजन्याः, तर्हि सत्त्वं न प्राप्नोति शुक्तिरजतादिवत् इति चेत्, न शुभाशुभकारणत्वेन सत्त्वस्यैव निश्चितत्वात् । ‘यदा कर्मसु काम्येषु’ इति, ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति’ इति श्रुतिभ्याम्, अन्वयव्यतिरेकसध्रीचीनप्रत्यक्षेण च, कारणत्वस्य सिद्धेः । अपि च एवं व्यासादयो मन्यन्ते ‘यद्वापि ब्राह्मणो ब्रूयात् देवतावृ(ऋ)षभोऽपि वा । स्वप्नस्थमथवा राजा तत्तथैव भविष्यति’ इति । अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेर्महामाहात्म्यं तस्येति युक्ता तत्र भक्तिरिति सिद्धम् ।

वाक्यार्थमुक्तावली

पादप्रतिपाद्यमिति । अध्यायस्यैकार्थत्वात्पादभेदः किन्निबन्धन इत्यतः साधनेऽप्यवान्तर-भेदेनेति सङ्गतिं सूचयन्नित्यादावुपस्कर्तव्यम् । अस्मिन्निति इदंशब्दाभिप्रेतं सङ्गतिप्रकारमुपपादयति ।। यद्दाढर्््यार्थमिति ।। ननु भगवन्महिमोक्तौ कथं भक्त्युत्पत्तिरित्यत आह ।। माहात्म्येति ।। स्नेहो वेति ।। स्नेहोऽप्युपकारकत्वज्ञानाद्भवति । उपकारकत्वं च स्वप्नाद्याविष्कारतिरस्कारमोचकत्वादि-महिम््नयेवान्तर्भूतमिति तत्त्वप्रदीपोक्तरीत्या माहात्म्यानुक्तौ न स्नेहोऽपि भवतीति भावः । कथं तर्हि भक्तिरस्मिन् पादे उच्यत इति पादप्रतिपाद्योक्तिरित्यत आह एवं साधनवचनस्यापीति ।। साधनं च तद्वचनं चेति विग्रहः । एवमुक्तरीत्या भक्तिसाधनस्य माहात्म्यवचनस्यापि भक्तिलक्षण-फलोत्पादने एव तात्पर्याद्भक्तिसाधनमाहात्म्यवचनमत्र क्रियत इति वक्तव्ये भक्तिरुच्यत इत्युक्तम् । तात्पर्यगत्या भक्तिपादत्वं युज्यत इति भावः । यद्वा विषयिपरसाधनपदेन विषयस्य माहात्म्यस्योप-लक्षणमिति भावबोधरीत्या पक्षद्वयं बोध्यम् ।

ननु माहात्म्यज्ञानार्थं तद्वचनस्योपयोगित्वेऽपि स्नेहार्थं न तदुपयोगोऽन्वयव्यतिरेक-व्यभिचारादिति शङ्कते ।। स्यादेतदिति ।। मत्सरादिनिरुद्धेति ।। मत्सरादिप्रतिबन्धनिमित्तके-त्यर्थः । मात्सर्यादिदोषरहितानां सच्छिष्याणां ज्ञातमाहात्म्ये गुरौ स्नेहोत्पत्तेरनुभवसिद्धत्वादिति भावः ।। तदेव क्वचिदिति ।। सन्ध्ये सृष्टिरित्यत्र स्वाप्नार्थस्रष्टृत्वस्य पराभिध्यानादित्यत्र ज्ञानाज्ञानबन्धहेतुत्वस्य देहयोगादित्यधिकरणपञ्चके जाग्रदाद्यवस्थानियामकत्वोक्त्या जन्मादि-सूत्रार्थविवेचनं, न स्थानादित्यत्रानन्दमयाधिकरणोक्तस्वरूपाभेदसमर्थनं, अरूपवदेवेत्यत्र अन्यभावव्यावृत्तेरित्यत्रोक्तप्राकृतशरीरराहित्यसमर्थनम्, ‘अत एव चोपमा’ इत्यत्र तस्यैव समर्थनम्, प्रकृतैतावत्त्वमित्यत्र द्वितीयसूत्रोक्तस्थितिकर्तृत्वसमर्थनम्, तदव्यक्तमित्यत्र अदृश्यत्वाधि-करणार्थसमर्थनम्, उभयव्यपदेशादित्यत्र प्रथमाध्यायोक्तगुणित्वसमर्थनम्, परमतः स्थानविशेषा-दित्यधिकरणद्वये चाद्याध्यायोक्तब्रह्मगुणानामलौकिकत्वस्य ब्रह्मादिगुणबिम्बत्वस्य समर्थनेनाथ-शब्दार्थभक्तेः समर्थनम्, तथान्यत्प्रतिषेधादित्यत्रादृश्यत्वाधिकरणोक्तादृश्यत्वस्य प्रकारान्तरेण समर्थनम्, अनेन सर्वगतत्वेत्यत्र द्वितीयसूत्रोक्ताशेषजगज्जन्मादिहेतुत्वसमर्थनम्, ‘फलमत उपपत्तेः’ इत्यत्र जिज्ञासासूत्रोक्तफलदातृत्वसमर्थनम् क्वचिद्विवेचनमित्यर्थः ।

अत्रादाविति । ‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयत इति सुधायामेवानन्तरसङ्गतिरुक्ता ज्ञातव्या । ननु जाग्रदवस्था प्रथमप्राप्ता, शरीरा-वाप्त्यनन्तरमेव स्वप्नभावादित्यत उक्तं आदाविति ।। शरीरादिसृष्टिप्रसङ्गे सृष्टित्वात् स्वाप्न-पदार्थसृष्टेरेव प्राप्तत्वेन प्राथम्योपपत्तेः ।। स्वाप्नसृष्टिरिति ।। कौतुकवत्वेनाशक्यकर्तृता शक्त्या घटनीयत्वेनार्थतः प्राप्तत्वात् प्राधान्याच्चेति ।। प्रागुक्तमिति ।। ‘जन्माद्यस्य यत’ इति प्रागुक्तमित्यर्थः । स्वप्नः भगवदधीनो न भवत्युत भवतीति चिन्ता । तदर्थं किमसदुत सदिति । तदर्थं कर्त्रृपादाननिमित्तकारणरहितः उत तत्सहित इति । तदर्थं जन्यपदार्थसत्त्वं प्रसिद्धोपादानादि-मत्त्वेन व्याप्तं न वेति ।। विप्रतिपत्तिरिति ।। तदधीनत्वोक्तिः । ‘अविद्यमानो ह्यनुभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथा’ इत्याद्युक्तिरिति वचनविप्रतिपत्तिरित्यर्थः । न स्वप्नोऽपि तं विना प्रतीयत इति पूर्वपक्षप्रतिक्षेपकसिद्धान्तभाष्यानुसारेण पूर्वपक्षमाह ।। न स्वप्न इति ।। सूत्रे सृष्टिपदव्यावर्त्यं हेतुमाह ।। तस्येति ।। असत्वहेतोः स्वरूपासिद्धिं परिहर्तुं सन्ध्यपदव्यावर्त्यं पश्चाददृष्टिरित्युक्तन्यायं विकल्पेनोपपादयति ।। सत्वे चेति ।। पश्चात् पृष्ठतः पूर्वकालं पश्चादुत्तरकालं अदृष्टिरिति न्यायाभिप्रायमभिप्रेत्योक्तं पूर्वोत्तरकालमिति ।। पश्चाददृष्टेरप्रयोजकत्व-माशङ्क्याह हीतिपदव्यावर्त्यमाह ।। न च वक्तव्यमिति ।। विद्युदादिवदिति भावः । निर्मातारं मायामात्रम्’ इति सूत्रद्वयव्यावर्त्यमाह ।। कर्त्रुपादानेति ।। द्वितीयसूत्रस्थेन मायामात्रमित्यनेन निवर्तनीयां पूर्वपक्षयुक्तिमाह ।। किञ्चेत्यादिना ।। एवं विषयाणामसत्त्वेनेश्वरानधीनत्वमुपपाद्य तज्ज्ञानस्यापि निमित्ताभावेनापरमार्थत्वमाह ।। न च प्रतीतिकारणमिति ।। एतदपि माया-मात्रपदव्यावर्त्यं, वासनामयत्वोक्त्यान्तरार्थत्वेन मानसत्वस्य वक्तुं शक्यत्वात् ।। मनस इति ।। न च साक्षिणस्तत्करणत्वम् । प्राकृतरूपादिमत्यर्थे स्वातन्त्र्याभावात् । मायामात्रपदेन वासनामयत्व-प्रतिपादकेन व्यावर्त्यं दूषणान्तरमाह ।। यदि चैत इति ।। परमार्थत इति ।। एकस्याविचित्रस्य विचित्रानेकात्मतया विनारोप्तुमनुपपत्तेरिति भावः । मायामात्रपदेनातीन्द्रियवासनोपादानकत्वोक्त्यैव व्यावर्त्यं पश्चाददृष्टिरिति न्यायं प्रकारान्तरेणाह ।। तत्काल इति ।। सूचकश्चेति सूत्रव्यावर्त्यं दर्शयन् पूर्वपक्षफलमाह ।। अत इति ।। तात्पर्यमिति ।। सृष्टिपदाकथनादिति भावः । स्वप्नस्तं विना नास्ति, नापि प्रतीयत इति सत्ताप्रतीत्योस्तदायत्तत्वमिति भाष्यार्थः । सूत्रेऽध्याहार्यमाह ।। यदुक्तमिति ।। हिशब्दार्थो यत इति । स्वप्न इत्यनुक्त्वा सन्ध्यपदप्रयोगेण पश्चाददृष्टिन्यायविरोधः परिहृत इति भावेनाह ।। जाग्रदिति ।। स्वाप्नार्थानां सन्ध्य एव सृष्टत्वेन पूर्वकालीना-दृष्टेरबाधकत्वेऽपि पश्चाददृष्टिविरोधो न परिहृत इत्यतः सृष्टिपदं निरोधस्याप्युपलक्षणं मत्वाह ।। अनन्तरमेव निरोधश्चेति ।। तथा च हि यस्मात् सन्ध्य एव सृष्टिर्निरोधश्च तस्माद्दृष्टिविरोधा-भावेनासत्त्वाभावात् भगवदधीनत्वाभावो नेति सूत्रार्थः । ननूक्तमत्रेति ।। तत्काले च सृष्टौ निरोधे चेत्यर्थः । तेन हि यस्मात् श्रुतिरेवमाह तस्मात्सन्ध्य एव सृष्टिः निरोधश्चेत्यर्थ उक्तो भवति । भाष्ये इत्यादिश्रुतिरिति आदिपदेन तत्काले एव निरोधप्रतिपादिका श्रुतिर्गृह्यते ।

तत्त्वसुबोधिनी

भक्तिरस्मिन्पाद इति ।। इदंशब्दाभिप्रायमाह ।। यद्दाढर्््यार्थमिति ।। पुरुषेति ।। तस्यास्नेहरूपत्वेन विधातुमशक्यत्वात् इति भावः । ननु भगवन्महिमोक्तौ भक्त्युत्पत्तिः कथमित्यत्राह ।। माहात्म्येति ।। ततः किमित्यत आह ।। न हीति ।। स्नेहो वेति ।। माहात्म्य-ज्ञानकार्यत्वात् स्नेहस्येत्यर्थः । ननु माहात्म्यमस्मिन्पाद उच्यत इति वक्तव्ये भक्तिरस्मिन् पाद उच्यत इति कथं पादप्रतिपाद्यकथनमित्यत आह ।। एवं साधनवचनस्यापीति ।। ननु साधन-वचनस्येत्युक्तं तदयुक्तम् । माहात्म्यज्ञानस्यैव भक्तिसाधनत्वात् । अत्र तु तद्वचनाभावात्, किन्तु माहात्म्यस्यैव वचनादिति चेन्न । यथा वह्निमत्वादिसामान्यधर्मपुरस्कारेण ज्ञातो धूमो वह्निप्रमां प्रति कारणं तथा ज्ञातो भगवन्महिमैव भक्त्युत्पादक इत्यभिप्रायेण तथोक्तत्वात् । यद्वा माहात्म्यज्ञानमेव साधनशब्देन गृह्यते । न च तदनुक्तिः कथमिति वाच्यम् । माहात्म्यज्ञानरूपविषयिपरसाधनपदेन माहात्म्यरूपविषयस्य उपलक्षणादिति भावः । कुत एवमकारणमेव कुतो न स्यादित्यत आह ।। न हीति ।। तथात्वे कारीरियागस्यापि वृष्टिकारणत्वं न स्यादिति भावः । ननु माहात्म्यश्रवणेऽपि भक्तिः नोपपद्यत इत्यन्वयव्यभिचारात् न माहात्म्यस्य भक्तिकारणत्वमित्यत आह ।। श्रुत-माहात्म्येऽपीति ।। प्रतिबन्धकसत्वनिबन्धनान्वयव्यभिचारस्य दोषत्वे सर्वत्र कार्यकारणमात्रोच्छेद-प्रसङ्ग इति भावः ।। मत्सरादिनिरुद्धेति ।। मात्सर्यादिदोषरहितानां सच्छिष्यादीनां ज्ञातमाहात्म्ये गुर्वादौ स्नेहोत्पत्तेरनुभवसिद्धत्वादिति भावः ।

तदेव क्वचिद्विविच्योच्यत क्वचित् समर्थ्यत इति । सन्ध्ये सृष्टिरित्याद्यधिकरणसप्तकेन जन्मादि-सूत्रोक्तं सृष्ट्याद्यष्टकर्तृत्वलक्षणं माहात्म्यं विविच्योच्यते । सन्ध्ये सृष्टिरित्यनेन स्वाप्नपदार्थानां सृष्टिसंहारकर्तृत्वस्य पराभिध्यानादित्यत्र ज्ञानाज्ञानबन्धमोक्षहेतुत्वस्य देहयोगादित्याद्यधिकरणपञ्चके जाग्रदाद्यवस्थानियमनकर्तृत्वस्य विवेचनम् । न स्थानतोऽपीत्यत्रानन्दमयाद्यधिकरणोक्तस्वरूपा-भेदसमर्थनम् । अत एव चोपमेत्यत्र प्रथमसूत्रोक्तजीवाभेदनिरसनविवेचनम् । अम्बुवदग्रहाणा-त्त्वित्यत्र प्रथमसूत्रस्थातः शब्देनोक्तस्य भक्तेः मोक्षसाधनत्वस्य समर्थनम् । वृद्धिह्रासभाक्त्वमित्यत्र तस्यैव विवेचनम् । प्रकृतैतावत्त्वमित्यत्र द्वितीयसूत्रोक्तस्य स्थितिकर्तृत्वस्य समर्थनम् । तदव्यक्तमाह हीत्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वसमर्थनम् । उभयव्यपदेशात्त्वित्यत्र समस्ताध्यायोक्तब्रह्मगुणा-नामलौकिकत्वस्य ब्रह्मानन्दादिगुणबिम्बत्वस्य च क्रमेणोपपादनेनोक्तविवेचनम् । तथान्यत्प्रतिषेधा-दित्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वस्य प्रकारान्तरेण समर्थनम् । अनेनेत्यत्र जन्मादिसूत्रोक्ता-शेषजगज्जन्मादिकर्तृत्वसमर्थनम् । फलमत इत्यत्र जिज्ञासासूत्रस्थातःशब्दोक्तस्य फलदातृत्वस्य समर्थनमिति क्वचिदुक्तस्य विवेचनमित्यर्थः ।

स्वप्नविषयतत्प्रतीत्योरिति ।। अनेन ‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैः जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थाप्रेरकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयत इत्यनन्तरसङ्गतिरिति भावः । अर्थज्ञानात्मको हि स्वप्नः । तत्र न तावत् स्वाप्नानामर्थानां भगवदधीनत्वं युक्तमित्याशयेन पूर्वपक्षयति ।। नेति ।। उभयथापि नित्यत्वेऽनित्यत्वे चेत्यर्थः । अस्तु तर्हि इत्यत आह ।। न चेति ।। ननु यदा स्वाप्नपदार्थप्रतीतिः भवति तदैवोत्पत्तिविनाश-योरङ्गीकारात् नाश्यत्वमित्याशङ्क्य निषेधति ।। न च वक्तव्यमिति ।। तात्कालिकविद्युदादि-वदित्यर्थः । किञ्च कार्यस्य कर्त्रुपादाननिमित्तव्याप्तत्वात् तदभावात् कथं कार्यं स्यादित्यत आह ।। कर्त्रिति ।। मेरुमन्दरादीति ।। तेषां दूरदेशस्थत्वादिति भावः ।। कुरुष्विति ।। तच्च प्रमाण-विरुद्धमिति भावः । एवं स्वाप्नानामर्थानामसत्त्वान्न भगवदधीनत्वमित्युपपाद्यापि तज्ज्ञानस्य तस्यापि निमित्ताभावेनापरमार्थत्वादित्याशयेनाह ।। न च प्रतीतिकारणं वास्तीति ।। तत्र न तावच्चक्षुरादीनां निमित्तत्वम् । तेषामुपरतत्वादित्याह ।। इन्द्रियवृत्तीनामिति ।। नापि मनसो रूपादिमत्यर्थेऽस्वातन्त्र्यादित्याह ।। मनस इति ।। उपलक्षणमेतत् । रूपादिमत्यर्थेऽस्वातन्त्र्यात् न साक्षिणोऽपि प्रवृत्तिः । इन्द्रियावृत्तेः न श्रुतिलिङ्गयोरवकाश इति द्रष्टव्यम् । किञ्च एते विषयाः द्रष्ट्रुभिन्ना अभिन्ना वा । नाद्य इत्याह ।। यदि चैत इति ।। बाह्यार्थत्वादिति ।। न चान्तर-त्वाद्बाह्यार्थत्वमसिद्धमिति वाच्यम् । संवृते देहदेशे रथादीनामवकाशानुपपत्त्यान्तरत्व-स्यानुचितत्वादिति भावः । द्वितीये आह ।। अथेति ।। स्वाप्नविषयाणां द्रष्ट्रभिन्नत्वेऽपि सत्यत्वमेव किन्न स्यादित्यत आह ।। परमार्थत इति ।। एकस्य विचित्रानेकात्मकताया भ्रान्तिं विनानुपपत्तेरिति भावः । विद्युदादिवत्तात्कालिकोत्पत्तिविनाशत्वे दोषान्तरं चाह ।। तत्काल इति ।। स्वाप्नपदार्थानां सन्ध्य एव सृष्टत्वेन पूर्वकालीनादृष्टेरबाधकत्वेऽपि पश्चाददृष्टिः बाधिका भवति । अतः सौत्रं सृष्टिपदं निरोधस्याप्युपलक्षकमित्यभिप्रेत्याह ।। अनन्तरमेवेति ।।

वाक्यार्थविवरणम्

अभावादिति ।। महिम्न एव निरूपणेन माहात्म्यज्ञानपूर्वकसुदृढसर्वतोऽधिकस्नेहरूप-भक्तिस्वरूपनिरूपणस्याभावादित्यर्थः ।। तज्ज्ञानम् ।। माहात्म्यज्ञानम् । माहात्म्यानुक्तौ तज्ज्ञानासम्भवेऽपि स्नेहः सम्भवत्येव । स्नेहं प्रति माहात्म्यवचनस्य व्यतिरेकतोऽन्वयतश्च व्यभिचारेणाकारणत्वात् । तथा हि पुत्रादौ माहात्म्यवचनाभावेऽपि स्नेहदर्शनेन महिमोक्त्यभावे स्नेहाभाव इति व्यतिरेकव्याप्त्ययोगात् । क्वचित् दुर्योधनं प्रति कृष्णमाहात्म्योक्तावपि तस्य तत्र स्नेहादर्शनेन माहात्म्योक्तौ स्नेह इत्यन्वयव्याप्तेरयोगादित्याशङ्क्य व्यतिरेकतो व्यभिचारः स्नेहस्यानेककारणकत्वमेव कल्पयिष्यति, न तु महिम्नोऽकारणत्वम् । यथा कारीरीयागाभावेऽपि क्वचिद्वृष्टिदर्शनेन व्यतिरेकतो व्यभिचारो वृष्टेरनेककारणकत्वकल्पक एव । न कारीरीयागस्या-कारणत्वकल्पकः । अन्वयव्यभिचारोऽपि श्रुतकृष्णमाहात्म्यं दुर्योधनं प्रति महिमोक्तावपि स्नेहानुत्पत्तेर्मत्सरादिप्रतिबद्धत्वाक्षेपक एव । नाकारणत्वकल्पकः । न हि प्रतिबद्धं कारणं कार्यमजनयदकारणं भवत्विति प्रसङ्गादित्याशयेन परिहरति । स्यादेतदित्यादिना अस्तीत्यन्तेन । कारणान्तरेण केनचित् ।। अन्यस्य महिम्नः ।। अकारणं भवतीति ।। किन्तु वृष्टेरनेककारणकत्वं कल्पयिष्यतीति शेषः ।। विप्रतिपत्तिः । वादिविवादः ।। पूर्वेति ।। स्वप्नात्पूर्वं जाग्र-दवस्थायामित्यर्थः ।। सर्वदेति यावत् ।। दर्शनप्रसङ्ग इति ।। नित्यत्वपक्षे दर्शनप्रसङ्गः स्पष्ट एव । अनित्यत्वपक्षे तन्नाशानन्तरं कपालावयवानां दर्शनप्रसङ्ग इत्यर्थः । प्रातीतिकत्वात् प्रातिभासि-कत्वात् । प्रबोधे पाञ्चालेष्वेवेति शेषः ।। शरीरेति ।। कुरुदेशस्थेति शेषः । पश्चात् प्रबोधानन्तरं परावृत्य गमनेनेत्यर्थः ।। बहिरिति ।। मनसो बाह्येन्द्रियाधिष्ठानेनैव बाह्यपदार्थज्ञानजनकत्वं दृष्टं न तदनधिष्ठानेन । इन्द्रियाणां तदोपरतत्वादिति भावः । कथमित्यत आह ।। परमार्थत इति ।। अस्य द्रष्टुः । न स्वप्नोऽपीति वाक्यस्य फलितमाह ।। तदधीन इति ।। तं प्रकारं दर्शयति ।। यदुक्तमित्यादिना । सन्धौ मध्ये ।। तदिति ।। ईश्वरस्य कर्तृत्वे इत्यर्थः ।

वाक्यार्थमञ्जरी

अवसरप्राप्तेति ।। उक्तरीत्योभयनिरूपणमध्यकाल एव निरूपणीयत्वेन प्रसक्तेत्यर्थः ।। अभावादिति ।। लक्षणप्रमाणादिना तत्स्वरूपनिरूपणाभावादित्यर्थः । भगवन्महिमोक्तौ कथं भक्त्युत्पत्तिरित्यत आह ।। माहात्म्येति ।। स्नेहो वेति ।। माहात्म्यज्ञानपूर्वकार्थत्वात्स्नेहस्येति भावः । तर्हि कथं भक्तिरित्युच्यत इत्युक्तमित्यत आह ।। एवं ज्ञानसाधनेति ।। साधनीभूतज्ञान-विषयवचनस्यापीत्यर्थः ।। क्वचित् शत्रौ ।। तथा चान्वयव्यतिरेकव्यभिचारान्न माहात्म्यज्ञानस्य स्नेहाख्यभक्तिहेतुत्वमिति भावः । कारणान्तरेण स्ववीर्यजातत्वादिना । तथा च प्रमितानेककारणके व्यतिरेकव्यभिचारो न दोष इति भावः । एतदेवाह ।। न हीति ।। मत्सरादिनिरुद्धेति ।। तथा च सति प्रतिबन्धेऽन्वयव्यभिचारो न दोष इति भावः । इदमेवाह ।। न हीति ।। क्वचिद्विविच्योच्यत इति ।। सन्ध्ये सृष्टिराह हीत्यादौ जन्मादिसूत्रोक्तसृष्ट्याद्यष्टकर्तृत्वादिमाहात्म्यसमर्थनादिति भावः ।। क्वचित् समर्थ्यत इति ।। न स्थानतोऽपीत्यादिनानन्दमयादिसूत्रोक्तस्वरूपाभेदादिमाहात्म्य-समर्थनादिति भावः ।। स्वाप्नविषयेति ।। स्वाप्नावस्थास्थितगजादीत्यर्थः । स्वप्नेति पाठेऽप्यय-मेवार्थः । एवमग्रेऽपि । विप्रतिपत्तिः वादिनां । कुत इत्यतः सत्वे बाधकसद्भावादित्याशयेनाह ।। सत्वे च वक्तव्यमित्यादिना ।। पूर्वोत्तरकालमिति ।। स्वप्नादर्शनादिति शेषः ।। प्रातीतिकत्वादिति ।। प्रतीतिमात्रशरीरकत्वादित्यर्थः ।। प्रतीतिकाल एवेति ।। तात्कालिक-विद्युदादिवदिति भावः । निरोधो नाशः ।। अयोगादिति ।। व्यवहितत्वादिति भावः । पश्यतः सतः ।। पश्चादिति ।। प्रबोधानन्तरं परावृत्य गमनेनेत्यर्थः ।। इन्द्रियेति ।। बाह्येन्द्रियव्यापारा-भावादित्यर्थः । सत्यत्वे बाधकान्तरमाह ।। यदि चेति ।। ततः द्रष्टुःसकाशात् । कुत इत्यत आह ।। परमार्थतोऽस्येति ।। द्रष्टुरित्यर्थः ।। मरुमरीचिकाजलेति ।। मरुदेशस्थसूर्यकिरणारोपितजल इत्यर्थः । मृगतृष्णेति नामान्तरम् ।। ॐ सन्ध्ये सृष्टिराह हि ॐ ।। सन्ध्ये स्वप्ने पदार्थानां सृष्टिर्भवति । कुतः ? हि यस्मात् ‘अथ रथान्’ इति श्रुतिस्तथाहेत्यर्थः । अदृष्टेः अदृष्टत्वान्निमित्तात् ।। सृष्टिरिति ।। भगवदभिजाता तात्कालिकीति शेषः ।

 


Load More