ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ
१८. अथ अंशाधिकरणम्
सूत्रभाष्यम्
‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः ।
स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ।।
इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।
‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य ।
तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् ।
न नियम्यः स कस्यापि स सर्वस्य नियामकः’ ।।
इति च भाल्लवेयश्रुतौ ।
अतो ब्रवीति –
।। ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ।।४३।।
‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ (ऋ.सं. १-१६४-१८) । ‘यस्तद्वेद स पितुष्पिताऽसत्’ (म.ना.उ. २-४) । ‘यस्ता विजानात्स पितुष्पिताऽसत्’ (ऋ.सं. १-१६४-१६) ।
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ ।। (मुं.उ.३-१-१)
इत्यादिना नानाव्यपदेशादंशो जीवः । तथा च पाराशर्यायणश्रुतिः –
‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति च सखेति च’ इति । ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः । ‘ब्रह्म दाशा ब्रह्म क्रितवाः, ब्रह्मैवेमे दाशा’ इत्यभेदेनाप्येकेऽधीयते । तथा चाग्निवेश्यश्रुतिः – ‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिर’ इति । वाराहे च–
‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।
बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ।।
यतो भेदेन तस्यायमभेदेन च गीयते ।
अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत’ ।। इति ।
तत्त्वप्रदीपिका
‘नानाव्यपदेशः’ पितृपुत्रत्वादिनानाप्रकारसम्बन्धव्यपदेशः । ‘अवः परेण’ इत्यस्यायमर्थः । अवः अवरः जीव इति यावत् । योऽवरः अस्य स्वस्य जगतो वा पितरं यथावद्वेद, परेण न तु स्वतः, स तु परो भवति । अनेनावरभूतेन दर्शनक्रममपेक्ष्य । स्वरूपदृष्ट्यनन्तरं हि भगवन्तं पश्यति ।
‘स्त्रियः सतीः’ इत्यस्यायमर्थः । स्त्रियः सतीः पुंस आहुर्वेदादिशब्दैः । अभिमान्यपेक्षया चायं व्यपदेश उपपद्यते । ज्ञानदृष्टिमानेव तान्पश्यति नाज्ञानी । कविः पुत्रो ब्रह्मा । ‘‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा’’ इति श्रुतेः ‘तेने ब्रह्म हृदा य आदिकवय’ इत्यादिस्मृतेश्च । स एव आ समन्ताद्वेद यस्तानि च्छन्दांसि विशिष्टत्वेन जानाति, साक्षाद्विष्णुवाचकत्वेन, स पितुर्विष्णोः पिता भवति व्यञ्जकत्वात् ।
नानाव्यपदेशोंऽशत्वं पर्यवसाययतीत्यत्र प्रमाणमाह– तथा चेत्यादिना ।। ‘अन्यथाव्यपदेशः’ सम्बन्धराहित्यव्यपदेशः पितृत्वादिना लोकवदानुरूप्या भावापेक्षया परस्यानुपकार्यत्वापेक्षया च, न तु सर्वथा । नियम्यनियामकलक्षणस्य तत्र तत्र प्रसिद्धत्वात् । ‘न सम्बन्धो नापेक्ष्यो जीवः परस्य’ इत्युक्त्वाऽपि ‘स सर्वस्य नियामकः’ इति ह्याह । अभेदेनाप्येकेऽधीयते, अतश्चांशः । न च क्वाप्य-भेदस्याध्ययनात्स्वरूपांशत्वमापतति, बहुत्वाद्भेदश्रुतीनां तदनुग्रहो न्याय्य इति । न हि मुख्याऽभेदोक्तिः, तद्गुणसारत्वादिति गत्युक्तेश्च । उक्तं चानुव्याख्याने–
‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।
सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टतः’ ।। इति ।
तत्त्वप्रकाशिका
अत्र परमात्मनि श्रुतिसमन्वयसिद्ध्यर्थं जीवविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । हरौ श्रुतिसमन्वयो निरूपितः । स च जीवविषयश्रुतिविरोधेनाप्रामाण्येऽनुपपन्नः स्यादिति निराकार्यः । प्रकृतो जीवोऽत्र विषयः । किमीश्वरांशो न वेति सन्देहः । संशयबीजं श्रुतिविगानं दर्शयति ।। अंशा एवेति ।। तत्र न जीवो हरेरंशः नाप्यनंश इति निर्णयो युज्यत इति पूर्वः पक्षः । न तावदंशत्वं निर्णेतुं शक्यम् । नैवांश इति श्रुतेः । न च तत्र परस्येति जीवान्तरविवक्षा । तथापीत्यादिवाक्यशेषविरोधात् । नाप्यनंशत्वनिर्णयः । ‘अंशा एव’ इति श्रुतेः । न च विकल्पेनाविरोधो यवव्रीहिश्रुत्योरिव वस्तुविकल्पायोगात् । ‘अंशा एव’ नैवांश इति सावधारणत्वात् । न च देशकालविभेदेन व्यवस्थितो विकल्पः । विशेषप्रमाणमन्तरेण तादृश-निश्चयायोगात् । न च जीवेशाभेदस्य सयुक्तिकं निरस्तत्वादनंशत्वश्रुतिर्बलवतीति वाच्यम् । अभेदाभावेऽप्यंशत्वस्याविरोधात् । समस्तपटाद्भिन्नस्याप्येकस्य तन्तोस्तदंशत्वदर्शनात् । अतः श्रुतिद्वयस्यापि नानात्वादप्रामाण्यमेवेति नोक्तसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।।
जीवः परमात्मनोंऽशो भवत्येव । मां रक्षत्वित्यादिना नानाप्रकारेण जीवस्येशसम्बन्धित्व-व्यपदेशात् । तत्सम्बन्धित्वमेव तदंशत्वमिति वक्ष्याम इति भावः । यः पराद्धरेरवमो जीवोऽस्य जगतः पितरं वेदानेनावरेणायं परो जात इति व्यपदिश्यते तज्ज्ञानं च दुर्लभं को नु सर्वज्ञकल्पः प्रजासु ब्रह्म प्रावोचत् कस्य चैतदेवं मनो ज्ञानमाधिक्येन जातमित्यर्थः । यस्तद् ब्रह्म वेद स तस्य पितुः पिताभवदित्यर्थः । या भगवन्मूर्तयो मदुपास्याः स्त्रीलिङ्गशब्दवाच्यास्ता एव परमपुरुषानाहुः । यस्ताः पश्यति स एव चक्षुष्मान् यश्च जानाति स तस्य जगत्पितुरभिव्यञ्जकत्वात् पिताभवदित्यर्थः । एतद्दीर्घतमो वाक्यम् । नानाव्यपदेशादंशो जीव इत्यत्र श्रुतिं चाह ।। तथा चेति ।। हेत्वन्तरेणैतत्समर्थयति ।। अन्य इति ।। अन्यथा वक्ष्यमाणाभेदापेक्षया । एतत् श्रुतिद्वयेन जीवेशयोर्भेदाभेदावुच्येते । न चान्यतरश्रुतिबाधो युक्तः । न च साक्षाद्भेदाभेदावुपपन्नौ । विरोधात् । अतः श्रुतिद्वयान्यथानुपपत्त्या भेदमङ्गीकृत्याभेदस्थानेंऽशत्वं वक्तव्यमिति भावः । उक्तं चाभेदश्रुतयोंऽशत्वादिति । भेदाभेदोक्त्यन्यथानुपपत्त्यांऽशो जीव इत्यत्रापि श्रुतिमाह ।। तथा चेति ।। समस्तसूत्रार्थे स्मृतिं चाह ।। वाराहे चेति ।।
गुर्वर्थदीपिका
यवव्रीहिश्रुत्योरिवेति वैधर्म्यदृष्टान्तः । यवव्रीहिश्रुत्योरिवेह वस्तुद्वयविषयत्वाभावात् । एकस्मिन्वस्तुनि च विकल्पायोगादित्यर्थः । अभेदाभावेऽपीति तार्किकरीत्या पूर्वपक्षः । तस्य मते एकतन्तोः पटांशत्वात्ततोऽत्यन्तभिन्नत्वाच्च । ‘यस्ता विजानात्स पितुः पिताऽसत्’ इति श्रुतिसमाख्ययाऽयं परो जात इति व्यपदिश्यत इत्युक्तम् । ज्ञाताऽपरो जीवः परस्यापि पितेति फलितोऽर्थः । एतद्देवमित्यत्र उद्दिश्येति शेषः । एष पूर्वोक्तश्चासौ देवश्चेति विग्रहः । मे मम सम्बन्धिन्य इत्यस्य तात्पर्यकथनं मदुपास्या इति ।। शत्रन्तपश्यत्पदस्य तात्पर्यकथनं पश्यतीति । ई इत्यस्यार्थकथनं स एवेति । मे इत्यनेनोक्त उपासको मुनिः क इत्यत आह एतद्दीर्घतमोवाक्य-मिति ।। दीर्घतमसो ऋषेर्वाक्यं दीर्घतमोवाक्यम् । अन्यथा च काषायाणश्रुतिरिति भाष्येऽर्थानुसारेण ‘ब्रह्मदाशा ब्रह्मकितवा’ इत्यारभ्य ‘अभेदेनाप्येके अधीयत’ इत्यन्तं वाक्यं प्राग्योजनीयम् । ‘अन्यः परो अन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इति काषायणश्रुतिः । अन्यथोक्ता-भेदादन्यथा भेदेनेति यावत् । अधीयत इति योग्यक्रियाध्याहारेण पूर्ववाक्यं पश्चाद्योजनीयम् । यत्तु नानाव्यपदेशात् द्वासुपर्णेत्यादिभेदव्यपदेशात् अन्यथा भेदादन्यथा ऐक्येनेति यावत् दाश-कितवादित्वमधीयते । अतो भिन्नाभिन्नत्वाज्जीवोंऽश इति व्याख्यानं तत्तु न सूत्रकृतोऽभिमतम् । तथा सति नानाव्यपदेशादैक्यव्यपदेशाच्चेत्यवक्ष्यत् । ‘एके दाशकितवादित्वमधीयते’ एके ‘अन्यथा चाधीयत’ इति सूत्रखण्डस्य वैयर्थ्यमेव स्यात् । अन्यथा चैके अधीयते ततोऽपीति व्याख्यानमपि सूत्रस्याल्पाक्षरताभङ्गादुपेक्षणीयम् । तथाऽप्युत्तरांशस्य पुनर्वैयर्थ्यमेव । तस्मादधीयत एक इत्युक्त्वा अन्यथा चेति वदता चशब्दात्पूर्वक्रियामाकृष्य ततोऽन्यथा च केचिदधीयते । अपि ततोऽप्युक्तविधया भेदाभेदव्यपदेशादंश इत्यंशत्वे हेत्वन्तरमेवोत्तरवाक्येन सङ्गृहीतम् । पूर्ववाक्येन च नानाव्यपदेशात् भेदव्यपदेशादित्येवोक्ते पौनरुक्त्यप्रसङ्गात्केवलं तदीयत्वस्फोरकपितृत्वभ्रात्रादित्वेन नानाव्यपदेशादंश इति प्राथमिको हेतुरुक्त इति सौत्रपदरत्नावलिमहिम्ना लब्धोऽर्थः । अतः सूत्रपदपद्मवासनां वायुरेव सङ्गृहीतुं दक्षो न त्वपरः कोऽपि सुरः । किमुतान्यो दानवो मानवो वा ।
भावबोधः
अनन्तरसङ्गतिं सूचयति– विषयमिति ।। प्रकृतो जीव इति ।। ईश्वराधीनकर्तृत्ववत्त्वेन पूर्वाधिकरणे प्रकृत इत्यर्थः । तथा च ‘तद्गुणसारत्वात्’ इत्यत्र यदीश्वरसादृश्यमुक्तं जीवस्य यच्च ‘परात्तु तच्छ्रुतेः’ इति परमात्माधीनत्वमुक्तं तदुभयरूपस्यांशत्वस्यात्र समर्थनादनन्तरसङ्गतिरिति भावः । यथोक्तमनुव्याख्याने ‘सादृश्यं चांशतास्य तु’ इति । व्याख्यातं च सुधायामस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम्, ‘च’ शब्दात्तदधीनसत्तादित्वं चेत्यर्थ इति ।। किमिति ।। अत्र न वेत्यनन्तरमित्यनिर्णय उत ईश्वरांश एवेति शेषपूरणेन व्याख्येयम् । अत्र जीवः किमीश्वरांश उत नेति चिन्ता । तदर्थं श्रुत्योः सावधारणतया निरवकाशत्वेन परस्परविरोधेनाप्रामाण्यमेवोत भिन्नांशत्वस्वरूपांशत्वाभावविषयत्वेनाविरोधात् प्रामाण्यमिति । तदर्थं परमात्मांशत्वे जीवानां मत्स्यादिसाम्यं प्राप्नोत्युत नेति । तदर्थं मत्स्यादिभ्यो जीवानां प्रवृत्त्यादौ भगवदधीनत्वादि-रूपवैलक्षण्यं नास्त्युतास्तीति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । भाष्ये विशिष्य पूर्वपक्षानुक्तेः न्यायविवरणे च नानाश्रुतेरप्रामाण्यमिति अंशत्वानंशत्वश्रुत्योः परस्परविरोधेनाप्रामाण्यमित्य-निर्णयेनैव पूर्वपक्षोक्तेस्तदनुसारेण पूर्वपक्षमाह– तत्र न जीव इति ।। वाक्यशेषविरोधादिति ।। तथा च युक्तेरप्रयोजकत्वेन तदुपोद्बलितश्रुतेः प्राबल्यमिति भावः । वक्ष्याम इति । ‘अंशो ह्येष’ इति ‘पुत्रभ्रात्रि’त्यादिश्रुतिस्मृत्युदाहरणेनेत्यर्थः । परेणेति तृतीया पञ्चम्यर्थ इत्याह– परादिति ।। जात इति व्यपदिश्यत इति शेषोक्तिः । कुत इत्यस्य तात्पर्यं कस्य वेति ।। अधीत्यस्याधिकत्वेनेत्यर्थः । स्त्रियः सतीरिति ऋचमादितो व्याचष्टे– या इति ।। मे इति षष्ठ्यर्थः ।। मदुपास्या इति ।। को वक्तीत्यत आह– एतद्दीर्घतमो वाक्यमिति ।। उक्तं चेति ।। अनुव्याख्यान इति शेषः ।
भावदीपः
किमीश्वरांशो न वेतीति वक्ष्यमाणपूर्वपक्षानुगुण्याय जीवानां ब्रह्मांशत्वं निर्णेतुं शक्यमुत नेति सन्देहकोटिप्रदर्शने कार्येऽप्येवमुक्तिः भाष्ये श्रुतिविगानरूपसन्देहबीजोक्त्यनुरोधेन वा एवं संशय-कोटिकीर्तने तद्विरुद्धसिद्धान्तकोटिरर्थलब्धेति वा बोध्यम् । नानाश्रुतेरप्रामाण्यमित्यन्यत्रोक्त्यनुरोधेन श्रुतिद्वयाप्रामाण्यमुपपादयन् अनिर्णयेन पूर्वपक्षमाह ।। तत्रेत्यादिना ।। श्रुतिशेषोक्तेरुपयोगं व्यनक्ति ।। न चेत्यादि ।। अंशा एवेति श्रुतेरिति भाष्ये श्रुतिशेषोक्तिः । सिद्धान्ते भिन्नांशत्वोपपादक-तयोपयोज्यत इति भावः । श्रुतिद्वयस्थावधारण व्यावर्त्यमाशङ्क्य बीजोक्त्या निरस्यति ।। न चेति ।। व्रीहिभिर्यजेत यवैर्यजेतेति श्रुत्योरित्यर्थः । उक्तं च जैमिनिसूत्रे द्वादशस्य तृतीयपादे एकार्थास्तु विकल्प्येरन् समुच्चये चावृत्तिः स्यात् प्रधानस्येति व्रीहीणां यवानां चोभयेषामपि पुरोडाशप्रकृतित्वेन पुरोडाशसाधनत्वरूपैकार्थेन विरोधप्राप्तौ कदाचिद् व्रीहीणामनुष्ठानं प्रयोगान्तरे च यवानामिति विकल्पस्तथेत्यर्थः ।। वस्त्विति ।। अनुष्ठानरूपक्रियायाः कृतिसाध्यत्वे-नैच्छिकत्वेऽपि इह जीवाख्ये वस्तुनि अंशत्वमनंशत्वं चायुक्तमित्यर्थः । अवधारणस्यान्यथो-पपत्तिमाशङ्क्य देशादिविशेषोक्तिरहितसामान्यश्रुतिद्वयोक्त्या लब्धं समाधिमाह ।। न च देशेत्यादिना ।। यथा एकस्यैव वस्तुनो घटादेर्देशकालभेदेन सत्त्वमसत्त्वं च तथेत्यर्थः । श्रुतावंशैरिदं कारयतीति कर्तृत्वकारयितृत्वाभ्यां जीवपरयोर्भेदप्रतीतेरंशत्वोक्तिरयुक्तेति प्रतीतं विरोधमाशंक्य भिन्नस्याप्यंशत्वं सदृष्टान्तमाह ।। न चेत्यादिना ।। समस्तपटाद्भिन्नस्यापीति ।। यद्यपि समस्तपटेन सर्वतन्तूनामत्यंताभेदः एकैकस्य तु खण्डपटेनात्यन्तभेदः समस्तेन तु भेदाभेदौ । यथोक्तम् ‘अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतना’ इति इतरव्यपदेशादित्यधिकरणानुव्याख्याने सुधायां चांशिना भिन्नाभिन्ना इति ।। तथापि भेदांश-मात्रस्यायमनुवादः । उक्तं सर्वं नानाश्रुतेरप्रामाण्यमित्यन्यत्रोक्तनानात्वोपपादकमिति दर्शयन्नर्थत-स्तदनुवादेन फलोक्त्योपसंहरति ।। अत इति ।। विकल्पेन वान्यतरबाधेन वा निर्णयासम्भवा-दित्यर्थः । श्रुतेरिति जात्येकवचनमिति भावेन श्रुतिद्वयस्येत्युक्तम् । नानात्वात् भिन्नार्थत्वादित्यर्थः । सूत्रे परस्येति ज्ञ इति च पदद्वयानुवृत्तिं मत्वा भाष्यं सूत्रानुरोधेन व्युत्क्रमेण व्याचष्टे ।। जीव इति ।। अनिर्णयपूर्वपक्षनिरासाय भवत्येवेत्युक्तिः ।। वक्ष्याम इति ।। अंशो ह्येष इत्यादिप्रमाणै-रित्यर्थः । जीवेशसम्बन्धपरत्वप्रतीत्यर्थं शेषोक्त्या श्रुत्यर्थमाह ।। य इति ।। परेणेत्यस्य परादित्यर्थः । अवोऽवमः । एना एनेन अनेनेत्यर्थः । द्वितीयाटौ स्वेनः । कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधिप्रजातमित्युत्तरार्धमवतारयति ।। तज्ज्ञानं च दुर्लभमिति ।। इह प्रजासु । कुतः कस्य । ब्रह्मपरत्वस्फोरणायोत्तरार्धोक्तिः । न हीशादन्यस्य ज्ञानं दुर्लभमिति भावः । अत एव ब्रह्मेति शेषोक्तिः तच्छब्दपरामर्शविषयं दर्शयन् ‘स्त्रियः सतीस्ताम् उमे पुंस आहुः पश्यदक्षण्वान्न-विचेतदन्धः । कविर्यः पुत्रः स इमाचिकेतेति पूर्ववाक्यद्वयमपि व्याचष्टे ।। या इति ।। तच्छब्द-श्रवणाद्या इत्युक्तिः । मे मत्सम्बन्धिन्यः मदुपास्या इति यावत् । उ एव । मे इत्यस्मच्छब्दस्याहं शतधा सहस्रधा चेत्यादाविवेश्वरवाचित्वभ्रमनिरासायाह ।। एतदिति ।। दीर्घतमा नाम कश्चिदृषिः । अतो मदुपास्या इति व्याख्या युक्तेति भावः । सूत्रादावन्यथा चेति चशब्दो हेतुसमुच्चय इति भावेनाह ।। हेत्वन्तरेणेति ।। तत्त्वप्रदीपरीत्यांशो ह्येष इत्येतदपेक्षयैवेति प्रतीतिनिरासायाह ।। वक्ष्यमाणेति ।। दृष्टभेदानुसारेण तासामर्थोपपत्तेरित्यन्यत्रोक्तिसूचितं भावमाह ।। एतच्छ्रुतिद्वयेनेत्यादिना ।। अभेदस्थानेंशत्वमित्यत्रैतदधिकरणानुभाष्यसंमतिमाह ।। उक्तं चेति ।। समस्तसूत्रार्थ इति ।। नानाव्यपदेशादंशो जीव इत्यर्थे अन्यथाऽधीयते दाशकितवादित्वमधीयते अतश्चांश इत्यर्थे चेत्यर्थः ।
अभिनवचन्द्रिका
श्रुतिसमन्वयो निरूपित इति ।। वाक्यान्वयेन जीवविषयकवक्ष्यमाणश्रुतेः, जीवार्थकत्व-मङ्गीकृत्य समन्वयोऽभिहितः । जीवविषये च श्रुतेरप्रामाण्ये भगवति समन्वयोऽनुपपन्नः स्यादिति भावः ।। किमीश्वरांशो न वेति ।। यद्यप्ययं संशयो न वक्ष्यमाणपूर्वपक्षकोट्यवलम्बी, तथापि जीवो नेश्वरांश इत्यपि पूर्वपक्षः कार्य इति द्योतयितुमेवं प्रदर्शितः । पूर्वपक्षमाह– तत्रेति ।। यद्यपि सिद्धान्ते अंशत्वसाधनादनंश इत्येव पूर्वपक्षः कार्यः, तथापि यावान् सूत्रनिरस्यो विपर्ययः, स सर्वोऽपि पूर्वपक्ष इति दर्शयितुमयं पूर्वपक्षो दर्शितः । अयं च ‘श्रुती अनिर्णायके’ इति विपर्ययः, श्रुत्या ‘अंश’ इति निर्णये कृते अर्थान्निरस्तो भवति’ इति सूत्रनिरस्यो भवति । व्रीहियवश्रुत्योरिव व्यवस्थितविकल्पेनाऽविरोधमाशंक्य निषेधति – न चेति ।। वस्तुविकल्पेति ।। भवेत्तत्र विकल्पः श्रुतिद्वयोक्तक्रियायाः श्रुत्युक्तसाधनयोर्द्वयोरन्यतरोपादानेन स्वेच्छया निष्पादयितुं शक्यत्वात् । इह तु सिद्धस्वरूपस्य जीवस्य इच्छानुसारेण अंशत्वानंशत्वयोरयोगेन विकल्पो न युज्यत इति भावः । बाधकान्तरमाह– अंशा एवेति ।। व्यवस्थितविकल्पमाशङ्क्य निषेधति– न चेति ।। एकस्यैव सिन्धुनद्याः परभागे स्थित्या ब्राह्मण्यं, तत्परभागे स्थित्याऽ-ब्राह्मण्यामितिवत्, जीवस्य भूलोकादिस्थित्याऽनंशत्वं स्वर्गादिस्थित्यांऽशत्वमिति देशभेदेन वा, एकस्यैव सुद्युम्नस्य कालभेदेन स्त्रीत्वपुंस्त्ववत्, इदानीमनंशत्वं कालान्तरेंऽशत्वमिति कालभेदेन वा, व्यवस्थितो विकल्पो भविष्यतीति न वक्तव्यमित्यर्थः ।। विशेषप्रमाणमन्तरेणेति ।। सुद्युम्नादौ ‘आचार्यानुग्रहात्कामं लब्ध्वा पुस्त्वं व्यवस्थया’ इत्यादि प्रमाणसद्भावात् निर्णयो युज्यते । प्रकृते तु प्रमाणाभावान्न निर्णयो युज्यत इति भावः ।। अत इति ।। अस्यैव विवरणं श्रुतिद्वयस्यापि नानात्वादिति ।। श्रुत्योश्च नानात्वं नाम परस्परविरुद्धत्वमिति बोध्यम् । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण कवीयमानः क इह प्रवोच देवं मनः कुतो अधिप्रजातम्’ इति ऋचः पूर्वार्धं व्याचष्टे – यः परादिति ।। अवरस्य जगत्पितृवेत्तृत्वेऽपि जगत्पितुः तज्जातत्वव्यपदेशः कुतः । देवदत्तस्य स्वज्ञातपुत्रत्वव्यपदेशाभावादित्यत आह – तज्ज्ञानं च दुर्लभमिति ।। चशब्दो हिशब्दार्थः । यस्मात्तज्ज्ञानं दुर्लभं तस्मात्तज्ज्ञात इति व्यपदिश्यत इत्यर्थः । देवदत्तस्य स्वज्ञातपुत्रत्वव्यपदेशाभावेऽपि परमेश्वरस्य स युज्यत एव । असतः सत्तासम्बन्धवत् अनभिव्यक्तव्यक्तेरपि उत्पत्तिशब्दार्थत्वादिति भावः । न च तज्ज्ञानस्य दुर्लभत्वमसिद्धम्, उत्तारार्धे तथोक्तत्वादिति भावेनोत्तरार्धं व्याचष्टे – को नु सर्वज्ञकल्प इति ।। ‘स्त्रियः सतीस्तां उभे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः । कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात् सवितुष्पितासत्’ इति ऋचं व्याचष्टे – याः भगवन्मूर्तय इति ।। ऋषिज्ञानमवश्यं सम्पादनीयमिति भावेनाह– एतद्दीर्घतमोवाक्यमिति ।। श्रुतिं चाहेति ।। सूत्रार्थे स्मृतेर्वक्ष्ममाणत्वात् तद्विवक्षयाऽयं चः पठितः ।। हेत्वन्तरेणेति ।। हेत्वन्तरप्रतिपादकसूत्रखंडव्याख्यानेनैतत्समर्थयत इत्यर्थः ।। अभेदस्थानेंऽशत्वमिति ।। सम्बन्धित्वमित्यर्थः । भिन्नेऽपि अत्यन्तं प्रीत्यास्पदे भृत्ये ‘अयमेव राजा’ इत्यादि प्रयोगदर्शनादिति भावः ।। उक्तं चेति ।। अनुव्याख्यान इति शेषः ।
वाक्यार्थमुक्तावली
जीवस्य परात्तु तच्छ्रुतेरिति यत्पराधीनत्वमुक्तं यच्च तद्गुणसारत्वादिति ईश्वरसादृश्यं तदुभय-रूपम् अंशत्वं इह समर्थ्यत इत्यनन्तरसङ्गतिः ।। यथोक्तम् ।। सादृश्यं चांशताऽस्य तु इति । सुधायां च चशब्दात्तदधीनसत्तादित्वं चेति ।। किमीश्वरांशो न वेति सन्देह इति ।। अत्र नेत्यस्यानंश इत्यर्थः । अत एव न जीवो हरेरंशो नाप्यनंश इति निर्णयो युज्यत इति ।। उभयोरनिर्णयेन पूर्वपक्षं प्रतिज्ञाय न तावदंशत्वं निर्णेतुं शक्यं नाप्यनंशत्वमिति निर्णय इति विवरणं क्रियते । न्यायविवरणे च नानाश्रुतेरप्रामाण्यमित्युभयश्रुत्यप्रामाण्येन पूर्वपक्षं प्रापय्य दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य च विपरीतज्ञानमूलत्वादित्युभयप्रामाण्येन सिद्धान्तितम् । सूत्रे चांशो नानेति अंशनिर्णयेन प्रकाशादिवन्नेत्यत्र स्वरूपांशत्वाभावेनानंशत्वनिर्णयेन सिद्धान्तो वर्तिष्यते । ततश्च जीवानां ब्रह्मांशत्वमनंशत्वं वा निर्णेतुमशक्यमुत शक्यमिति चिन्ता । तदर्थमंशा एव नैवानंश इति सावधारण श्रुत्योर्निरवकाशत्वेनाप्रामाण्यमुत विभिन्नांशत्वरूपांशाभावपरत्वेनो-भयोरपि प्रामाण्यमिति । तदर्थमंशत्वनिर्णये मत्स्यावतारादिसाम्यप्रसङ्गो भवति न वेति ।। सन्देहबीजमिति ।। सावधारणश्रुत्योरवधारणमहिम्नांशत्वानंशत्वकोट्युपस्थापकत्वं विरुद्धत्वादेवा-निर्णयकोट्युपस्थापकत्वमिति भावः । भावबोधे तु अत्र न वेत्यनन्तरम् इत्यनिर्णय उतेश्वरांश एवेति निर्णयो वेति शेषः । ततश्च जीवः किमीश्वरांश इति निर्णयो न सम्भवत्युत सम्भवतीत्युक्तम् । टीकायामपि सन्देहात्मकपूर्वपक्षकोटिकीर्तनेन तद्विरुद्धसिद्धान्तकोटिरर्थलब्धेति पृथङ्नोक्तेत्युक्तम् । चन्द्रिकायामपि जीवानां किं ब्रह्मांशत्वं निर्णेतुमशक्यमुत शक्यमिति चिन्तेत्युक्तम् । केचित्तु यद्यपीश्वरांशो न वेति संशयेन वक्ष्यमाणपूर्वकोटाववलम्बी । तथापि जीवो नेश्वरांश इत्यपि पूर्वपक्षः कार्य इत्यपि द्योतयितुम् । अत एवांश इति सिद्धान्तो वर्तिष्यत इत्याहुः । भाष्ये सावधारणतया निरवकाशश्रुतिरित्युक्तपूर्वपक्षन्यायं विवृण्वन् पूर्वपक्षमाह ।। नैवांश इति ।। श्रुतेः सावकाशत्व-माशङ्क्य तत्परिहारव्याजेन वाक्यशेषोदाहरणकृत्यमाह ।। न च तत्रेति ।। श्रुतौ सम्बन्ध इत्यस्य विवरणं नापेक्ष्यत इति । तथापि जीवेनानुपकृतत्वेऽपि योग्यतामनतिक्रम्य फलदः । न च योग्यता-पेक्षायां स्वातन्त्र्यभङ्ग इत्युक्तम् ।। एकराडिति ।। तदपेक्षा च लीलया दण्डावलम्बनमिव वैभवेनेति भावेनोक्तं प्रभुरिति ।। न च विकल्पेनेति ।। कुतो न विकल्पेनाविरोध इति चेदत्र वक्तव्यम् । यागसाधनीभूतपुरोडाशस्य यजमानेच्छया व्रीहिभिर्यवैर्वा संपादयितुं शक्यत्वेनोभयप्रकृतिकत्वात् । अव्यवस्थितविकल्पाश्रयणेन व्रीहिभिर्यजेत यवैर्यजेतेति श्रुत्योरिव किमत्राव्यवस्थितो विकल्पः । उत देशकालादिभेदेन व्यवस्थितो विकल्प इति विकल्पं ह्रदि निधायाद्यमाह ।। यवेति ।। पुरोडाशस्य साध्यत्वादिच्छानुसारेणोभयप्रकृतिकत्वसम्भवेन यवव्रीहिश्रुत्योरव्यवस्थितविकल्पः सम्भवति । व्रीहिभिरेव यवैरेवेति । निरवधारणत्वाज्जीवस्य सिद्धं स्वरूपत्वेनेच्छानुसारेणांशत्वानंशत्वरूपोभय-प्रकृतिकत्वासम्भवेन यवव्रीहिश्रुत्योरिवाव्यवस्थितो वस्तुविकल्पोऽनयोरुपपद्यते । अंशा एव नैवांश इति सावधारणत्वेनोभयप्रकृतिकतया सावकाशत्वस्य कल्पयितुमशक्यत्वादिति भावः । द्वितीय-माशङ्क्य निषेधति ।। न चेति ।। होलकादीनां देशभेदेनाचारत्वानाचारत्ववदश्वालम्भनस्य कालभेदेनाचारत्वनाचारत्ववच्च देशकालभेदेनांशत्वानंशत्वयोर्व्यवस्थितेऽपि विकल्पो नेति भावः ।। विशेषप्रमाणमिति ।।
अश्वालम्भं गवालम्भं सन्यासं पलपैतृकम् ।
देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् ।।
इत्यश्वालम्भस्य कालभेदकर्तव्यत्वे विशेषप्रमाणवदत्र प्रमाणाभावात् । एतेनैतदपि निरस्तम् । केषाञ्चिज्जीवानामंशत्वं केषाञ्चिदनंशत्वमिति व्यक्तिभेदेन व्यवस्थितविकल्पः किं न स्यादिति विशेषप्रमाणाभावात् । अंशा एव हि मे जीवा इति सर्वेषामंशस्योक्तत्वादिति भावः । ननु मत्स्यादिभेदानिमित्तकोंऽशशब्द इति जीवानामंशत्वे भेद एव प्रवृत्तिनिमित्तं स्यात् । न च प्राङ्निरस्त इत्यनंशत्वश्रुतिर्भेदसाधकप्रत्यक्षादिसाहाय्याब्दलवतीत्याशंक्य निषेधति ।। न च भेदाभावेति ।। मत्स्यादिष्विवाभेदाभावेऽपि निमित्तविशेषेणांशशब्दवाच्यत्वाविरोधात् इत्यर्थः । अभेदाभावेऽप्यंशत्वं कुत्र दृष्टमित्यत आह ।। समस्तेति ।। विशिष्टपटाद्भिन्नस्य ततः पृथुतरस्या-प्येकस्य तन्तोरयं पटस्तदंश इत्यनुभवादित्यर्थः । अत एव समस्तपटादखण्डपटाद्भिन्नस्येत्युक्तम् । सुधायां च सिद्धान्ते त्वंशत्वं, सादृश्यं चांशताऽस्य त्विति निर्वक्तुम् । अंशत्वं नारम्भकत्वम् । परमात्मनोऽनारब्धत्वात् । नापि खण्डत्वमच्छेद्यत्वात् । न च प्रदेशत्वम् । पटादिवदनित्यत्व-प्रसङ्गात् इति प्रसक्तप्रतिषेधदशायां समस्तपटाद्विभक्ते ततोऽत्यन्तभिन्नेऽपि तन्त्वादौ खण्डत्वे-नांशत्वमुक्तमिति ज्ञेयम् । परादिति सूत्रात्परस्येत्यनुषङ्गमभिप््रोत्य नानाव्यपदेशात् रक्ष्यत्वपुत्र-त्वादिनानाप्रकारेण जीवस्येशसम्बन्धित्व व्यपदेशात् ज्ञः परस्यांश इत्यभिप््रोत्य प्रवृत्तभाष्यभावमाह ।। ज्ञ इति ।।
ननु रक्ष्यत्वपुत्रत्वादिव्यपदेशेन रक्ष्यत्वादिकमस्तु अंशत्वं कुत इत्यत आह ।। तत्सम्बन्धित्व-मेवेति ।। रक्ष्यत्वपुत्रत्वाद्यविनाभूततदधीनत्वतत्सादृश्यलक्षणतत्सम्बन्धित्वमेव तदंशत्वमिति । विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्’ इत्यत्र वक्ष्याम इत्यर्थः । रक्ष्यत्वादिव्यपदेशे तदधीनत्वलाभात् । पुत्रत्वादिव्यपदेशेन सादृश्यलाभात् । तदधीनसारूप्यस्यैवांशशब्दार्थत्वस्य सादृश्यं चांशतास्य त्वित्यनुव्याख्याने चशब्दात्तदधीनत्वं चेति सुधायां चोक्तत्वादिति ज्ञेयम् । परेणेत्यस्यार्थः परादिति ।। जायत इति ।। व्यपदिश्यत इति शेषोक्तिः । जीवेन ज्ञातत्वमात्रेण पुत्रव्यपदेशेऽपि प्रसङ्ग इत्यतः कवीयमानः क इह प्रवोचद्देवं मनः कुतोऽधिप्रजातमित्युत्तरार्धं प्रवृत्तमिति भावेन तदवतारयति ।। तद्ज्ञानं चेति ।। इत्युत्तरार्धं वक्तीति शेषः । तथा च परमात्मज्ञानस्यातिदुर्लभत्वेन प्रागनभिव्यक्तस्य ब्रह्मणो ज्ञानेनाभिव्यक्तत्वेन पुत्रत्वव्यवहारः । यज्ञदत्तादिज्ञानस्यादुर्लभत्वात् देवदत्तादिना ज्ञातत्वेऽपि तत्पुत्रत्वाव्यवहार इति नातिप्रसङ्ग इति भावः । अन्यथा प्रकृतानुपयुक्तस्योत्तरार्धस्येहाव्याख्येत्वप्रसङ्ग इति बोध्यम् । व्यवहारगोचरत्वा-भावेऽपीश्वरज्ञानस्य दुर्लभत्वात् ज्ञानमात्रेण गौण्या जनितत्वव्यपदेश विषयत्वमिति भावेनोत्तरार्धं प्रवृत्तमिति भावेनावतारयति तद्ज्ञानं चेति । दुलभमित्युत्तरार्धं वक्तीति शेषः । उत्तरार्धं व्याचष्टे कोन्विति ।। को वा कवीयमानः सर्वज्ञकल्पः इह प्रजासु ब्रह्मेति शेषः । प्रवोचत् प्रावोचत् । कुतः कस्य च दैवं देवविषयं मनः ज्ञानम् ।
ननु मनःशब्द इन्द्रिये रूढः । सत्यं अनुवेदेति ज्ञानस्य प्रकृतत्वादिति भावेनोक्तम् ।। एतदिति ।। अधि आधिक्येन प्रजातमित्यर्थः । यस्तद्वेदेति नानाव्यपदेशरूपं वाक्यान्तरं व्याचष्टे ।। यस्तदिति ।। असदित्यस्य प्रतिपदं अनुभवदिति । स्त्रियःसतीस्ता उमे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः ।। कविर्यः पुत्रः स इमा चिकेत यस्ताविजानात्सपितुष्पिता सत्’ । इति वामनसूक्त एव अवः परेणेत्यतःपूर्वं विद्यमानां ऋचं व्याचष्टे ।। या भगवन्मूर्तय इति ।। याः मे सम्बन्धिन्यः मदुपास्याः स्त्रियः स्त्रीलिङ्गवाच्याः सतीः सतीभवत्यः न तु व्यवस्थितस्त्रियः । सतीः निर्दुष्टा वा । ताः उत एव पुंसः परमपुरुषानाहुः । यस्ता इत्यनुकृष्यते । यः पुरुषः ताः पश्यन् पश्यति स एव अक्षण्वान् चक्षुष्मान् नविचेतत् स अन्धः । यः कविः सर्वज्ञः पुत्रो भगवत्पुत्रो विरिञ्चः स एवेमा भगवन्मूर्तीः चिकेतत् सम्यग् जानाति । यश्च ताः विजानात् जानाति सः तस्य जगत्पितुरभिव्यञ्जकत्वात्पिता अभवदित्यर्थः । मदुपास्या इति को वक्तीत्यत आह ।। एतद्दीर्घेति ।। नानाव्यपदेशादिति ।। नानाव्यपदेशेऽप्यंशत्वं कुत इत्याशङ्कायामिति शेषः । सूत्रार्थे स्मृतेर्वक्ष्यमाणत्वात् श्रुतिं चेति चशब्दः । यद्वा न केवलं परमाप्तबादरायणवाक्यादवसीयते श्रुतिं चेत्यर्थः । अत एव तथा च तथैव पाराशर्यायणश्रुतिरिति भाष्यार्थः ।। हेत्वन्तरेति ।। पूर्वं रक्ष्यत्वपुत्रत्वादिसम्बन्धव्यपदेशात्तदधीनसारूप्यलक्षणमंशत्वमङ्गीकार्यमित्युक्तम् । अधुना भेदाभेदान्यथानुपपत्तिलक्षणहेत्वन्तरेणैतदंशत्वं समर्थयत्सूत्रखण्डं व्याचष्टे इत्यर्थः । पूर्वोक्तादन्यथेति प्रतीतिनिरासायाह ।। वक्ष्यमाणाभेदापेक्षयेति ।। एके शाखिनः परस्परांशं कितवादित्वमप्यधीयते जीवस्य ब्रह्माभेदमधीयत इति यावत् । अन्यथा वा अन्यः परो अन्यो जीव इति भेदं चाधीयत एके यतोऽतश्च जीवोंश इत्यर्थः । भाष्ये नासावस्य कुतश्च नेत्यस्यायमर्थः । असौ परमात्मा अस्य जीवस्य कुतश्चन केनापि प्रकारेण नोपकर्तेति । अन्यःपरोऽन्यो जीव इत्यंशस्यैव प्रकृतोप-योगान्नासावस्येत्यंशस्योदाहरणं व्यर्थमिति चेन्न । जीवस्य परोपकार्यत्ववत्परस्यापि जीवोपकार्यत्वे परोऽपि जीवांशः प्रसज्येत । तदधीनत्वप्राप्तेः पुत्रत्वेन गुणाः पितुरिति न्यायेन तत्सादृश्येन जीवस्य तदंशत्वे सादृश्यस्योभयत्र सत्त्वेनेश्वरोऽपि जीवांशः प्रसज्येतेत्यतो नासावस्योदाहरणं ब्रह्मण उपकार्यत्वाभावान्न जीवाधीनत्वम् अत एव तेन गुणलाभाभावान्न तन्निरूपितसादृश्यमस्येति न तदंशत्वमिति । अत एव तत्त्वप्रदीपे अन्यथा व्यपदेशः पितृत्वादिना लोकसारूप्याभावापेक्षया परस्यानुपकार्यत्वापेक्षया चेति । अन्यथा चाप्यधीयत एके इत्ययमंशः पूर्वत्रापि योजितो बोध्यः । अत एव नैवांशो न सम्बद्धो नापेक्ष्यो जीवः परस्येत्यत्र जीवस्यानंशत्वमुक्त्वा तर्हि किमंशित्वमिति शङ्कानिरासाय सम्बन्धो नापेक्ष्यो जीवः परस्येत्यंशत्वं निषिध्यत इति ज्ञेयम् ।। उक्तञ्चेति ।। अनुव्याख्यायामिति शेषः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिं सूचयन् विषयमाह ।। प्रकृतो जीव इति ।। ईश्वराधीनकर्तृत्वेन पूर्वाधिकरणे प्रकृत इत्यर्थः । परमात्माधीनत्वमुक्तम् । तदुभयरूपस्यांशत्वस्यात्र समर्थनात् अनन्तरसङ्गतिरिति भावः । नैवांश इति भाष्यस्यायमर्थः । जीवपरस्परानाह । स्वरूपांशो नैव जीवः परस्परेण सम्बद्धो न स्वसम्बन्धेन परमात्मनि दुःखित्वापादकसम्बन्धवान् नेत्यर्थः । जीवः परेणापेक्ष्यो न, जीवापेक्षः परस्परं नास्तीत्यर्थः । भाष्ये विशिष्य पूर्वपक्षानुक्तेः न्यायविवरणे च नानाश्रुतेरप्रामाण्यमिति अनिर्णयेनैव पूर्वपक्षोक्तेः तदनुसारेणैवानिर्णयेन पूर्वपक्षमाह ।। तत्र न जीव इति ।। भाष्ये वाक्यशेषोदाहरणनिवर्त्याशंकामुत्थापयति ।। न चेति ।। वाक्यशेषविरोधादिति ।। तत्र यथायोग्यफलदातृत्वरूपविष्णुलिङ्गस्य सत्त्वात् जीवान्तरविवक्षायां तद्विरोधः स्यादित्यर्थः । एतदर्थमेव वाक्यशेषोदाहरणमिति भावः ।। वस्तुविकल्पायोगादिति ।। अंशत्वानंशत्वयोः परस्परविरुद्धत्वेन एकस्य विरुद्धरूपद्वयवत्तायोगादित्यर्थः । प्रकारान्तरेणानंशत्वश्रुतिः किं न व्याख्यायत इत्यत आह ।। अंशा एवेति ।। द्वयोरपि समबलत्वेन एकानुपूर्वीत इति भावः । अंशत्वस्याविरोधादिति ।। तथा च युक्तेरप्रयोजकत्वेन तदुपोब्दलितश्रुतेः प्राबल्यमिति भावः । तत्सम्बन्धित्वव्यपदेशेऽपि तदंशत्वं कुत इत्यत आह ।। तत्सम्बन्धित्वमेवेति ।। वक्ष्याम इति ।। अंशो ह्येष इत्यादिश्रुतिस्मृत्युदाहरणेनेत्यर्थः । परेणेति तृतीया पञ्चम्यर्थ इत्याह ।। परादिति ।। जात इति व्यपदिश्यत इति शेषोक्तिः । कवीयमान इत्यस्यार्थः सर्वज्ञकल्प इति । इहेत्यस्य प्रजास्विति । ब्रह्मेति शेषोक्तिः । कुत इत्यस्य तात्पर्यं कस्य वेति । दैवं देवविषयम् । मन इत्यस्यार्थो ज्ञानं मन ज्ञाने इति धातोः अधीत्यस्याधिकत्वेनेत्यर्थः । ब्रह्म दाशाः इत्यस्यायमर्थः दाशाः दाशवाच्याः कितवाः कितवशब्दवाच्या जीवाः ब्रह्म । ब्रह्म इमे दाशाः एव । अन्यः परः जीवात् जीवः अन्यः परात् । असावीश्वरः कुतश्चन केनापि प्रकारेण नोपकर्तव्यः । अयं जीवः तस्येश्वरस्य कुतश्चन नोपकर्ता । स्त्रियः सतीत्यृचमादितो व्याचष्टे ।। या इति ।। मे इति षष्ट्यर्थो मदुपास्या इति को वक्तीत्यत आह ।। एतद्दीर्घतमोवाक्यमिति ।। उक्तं चानुव्याख्यान इति भावः ।
वाक्यार्थविवरणम्
विकल्पेनेति ।। कदाचिदंशः, कदाचिदनंश इति विकल्पेनेत्यर्थः ।। वस्त्विति ।। यवव्रीहि-द्रव्ययोर्भिन्नत्वात् तत्र युक्तो विकल्पः । अत्र त्वेकस्मिन्नेव जीवेंऽशत्वानंशत्वरूपविरुद्धधर्मद्वया-लिङ्गितत्वप्राप्तेर्न विकल्पो युक्त इत्यर्थः । तत्र व्यक्तिभेदवदत्र तदभावादिति भावः । विकल्पपक्षे दूषणान्तरमाह ।। अंशा एवेति ।। यवव्रीहिश्रुत्योर्निरवधारणत्वेन युक्तस्तत्र विकल्पः । अत्र त्वंशा एवेति श्रुतानंशत्वस्य निषिद्धत्वान्नैवांश इति श्रुतावंशत्वस्य निषेधादतो न विकल्पावसर इत्यर्थः ।। व्यवस्थित इति ।। कस्मिंश्चिद्देशे कस्मिंश्चन काले केचिज्जीवा अंशाः केचन जीवा अनंशा इति व्यवस्थित विकल्प इत्यर्थः ।। निरस्तत्वादिति ।। अंशत्वस्याभेदाविनाभूतत्वेन तदभावेऽयोगा-दित्याशयः । तथा च ‘जीवोंऽशो न भवति । अभेदशून्यत्वात् । घटवत्’ । इत्यनुमानमुक्तं भवति । अत्राप्रयोजकमाह ।। अभेदाभावेऽपीति ।। व्यभिचारं चाह ।। समस्तेति ।। नानात्वात् । परस्पर-विरुद्धार्थप्रतिपादकत्वात् । भाष्ये कस्यापीत्यस्य केनापीत्यर्थः । कुत इत्यतस्तत्साधनीभूतस्य ज्ञानस्यैव कस्याप्यसम्भवादित्याहुः ।। कस्य वेति ।। दैवं मन इति ।। तद्वै दैवं मनो येनानन्द्येव भवतीति श्रुतेः । मे मदुपास्याः स्त्रिय इति भगवत्स्त्रीमूर्तीनां स्वोपास्यत्वं दीर्घतमा वक्ति । न चैतद्युक्तम् । ‘नैनमस्त्री पुमांन् ब्रुवन्’ इति भगवत्स्त्रीमूर्तिध्यानस्य निषिद्धत्वात् । अत एवोक्तं प्राक् प्रकृत्यधिकरणे । निषेधस्त्वज्ञेयतामात्रार्थः’ इति । अतः कथमेतदित्यत आह ।। स्त्रीलिङ्गवाच्या इति ।। स्त्रीलिङ्गान्तशब्दवाच्या इत्यर्थः । न विचेतदित्यस्य व्याख्यानं न जानातीति । ई इत्यस्यार्थ एवेति । आ इत्यस्यार्थः सम्यगिति । मदुपास्या इति को वक्तीत्यत आह ।। एतदिति ।। दीर्घतमा ऋषिः ।। हेत्वन्तरेणेति ।। सम्बन्धित्वरूपनानाव्यपदेशेनांशत्वं समर्थ्य भेदाभेदव्यपदेशा-न्यथानुपपत्तिरूपहेत्वन्तरेणैतदंशत्वं समर्थयत इत्यर्थः ।। वक्ष्यमाणेति ।। दाशकितवादित्वमिति वक्ष्यमाणेत्यर्थः । तथा च ‘दाशकितवादित्वमधीयतेऽन्यथा चाप्यधीयत’ इति सूत्रेऽन्वयो द्रष्टव्यः । दाशकितवाद्यभेदेनाधीयते, तदपेक्षयाऽन्यथा चाप्यधीयते । तथा च भेदाभेदव्यपदेशा-न्यथानुपपत्तिरुक्ता भवतीति ध्येयम् ।। अन्यतरेति ।। भेदाभेदश्रुत्योर्मध्येऽन्यतरेत्यर्थः । उभयोरपि स्पष्टतया निरवकाशत्वेनार्थान्तरकल्पनाऽनवकाशादिति भावः । भाष्ये ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कुतश्चन’ इति श्रुतेः । परो भगवान् जीवादन्यः । जीवश्च परमात्मनोऽन्य इति प्रतिज्ञाद्वयम् । तत्र हेत्वाकाङ्क्षायां विरुद्धधर्माधिकरणत्वादित्याह ।। नासा-वित्यादिना ।। असौ भगवान् कुतश्चन कारणादस्य जीवस्योपकर्तव्यो न । जीवकृतोपकारवान्न भवतीति यावत् । जीवस्तु तत्कृतोपकारवानिति पूरणीयम् । परः अयं जीवः कुतश्चन कारणात्तस्यापि परमात्मन उपकर्ता न । परमात्मा च तस्योपकर्तेति चन्द्रिकोक्तरीत्याऽर्थो ज्ञातव्यः । असौ परः अस्य जीवस्य भृत्यो न । अयं च जीवस्तस्यापि परमात्मनः स्वामी नेत्यर्थो ज्ञातव्यः । अस्य तस्येति षष्ठ्योः स्वस्वामिभावार्थकत्वेन पूर्ववदध्याहाराभावादिति प्राहुः । असौ परः । अस्य जीवस्य ये दुःखादिधर्मास्तद्वान्न भवति । अयं जीवस्तस्य परमात्मनो ये धर्माः सार्वज्ञाद्यास्तद्वान्न भवतीत्यर्थ इत्यप्याहुः । भाष्ये तस्य हरेरंशत्वं जीवस्योद्दिष्टमित्यन्वयः ।। भेदाभेदेति ।। जीवानां भेदो मत्स्यादीनामभेद इति विवेकः ।
वाक्यार्थमञ्जरी
यवव्रीहिश्रुत्योरिति ।। यथा यवैर्यजेत व्रीहिभिर्यजेतेति श्रुत्योर्यवैर्वा यजेत व्रीहिभिर्वा यजेतेत्य व्यवस्थितविकल्पेन विरोधपरिहारस्तथा जीवोंऽशो वाऽनंशोऽस्त्वित्यव्यवस्थितविकल्पेनांशानंश श्रुत्योर्विरोधपरिहार इत्यर्थः ।। वस्तुविकल्पेति ।। तत्र श्रुतिद्वयस्य निरवधारणत्वेनोक्तरीत्या विकल्पसम्भवेऽपि प्रकृते श्रुतिद्वयस्य सावधारणत्वेनोभयथाऽर्थग्रहे एकस्मिञ्जीवाख्ये वस्तुन्यंशत्वा-नंशत्वरूपद्वैरूप्यायोगादित्यर्थः ।। न चेति ।। यथैकस्यैव घटस्य देशकालभेदेन सत्त्वासत्त्वे तथेत्यर्थः ।। समस्तेति ।। अत्र सर्वेषां तन्तूनां पटाद्भेदाभेदाङ्गीकारादेकस्येत्युक्तम् एकस्यापि तन्तोः खण्डपटाद्भेदाभेदाङ्गीकारात् समस्तपटेति नानात्वात् विरुद्धार्थप्रतिपादकत्वात् । ॐ अंशो नाना-व्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ । जीवः परमात्मनोंश एव कुतः नानाव्यपदेशात् पितापुत्रत्वादिनानाप्रकारेण तस्येशसम्बन्धित्वोक्तेः । किं च ब्रह्मदाशाब्रह्मकितवा इत्येके शाखिनः दाशाः मत्स्यग्राहिणः ब्रह्मकितवा वञ्चकाः ब्रह्मेत्येवं ब्रह्मणो दाशकितवादित्वं दाशकितवोपलक्षितसर्वजीवाभेदमधीयन्ते पठन्ति एके च अन्यः परोऽन्यो जीव इत्यन्यथा च भेदेनाधीयते अत एतदुभयान्यथानुपपत्त्यांशत्वमित्यर्थः ।। वक्ष्याम इति ।। अंशो ह्येषः पुत्रभ्रात्रित्यादिश्रुतिस्मृत्युदाहरणेनेति शेषः । परेणेत्यस्यार्थः परादिति अव इत्यस्यावम इति जात इति व्यपदेश इति शेषोक्तिः व्यञ्जकत्वादिति भावः ।। तज्ज्ञानं च दुर्लभमिति ।। कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधिप्रजातमित्युत्तरार्धं तज्ज्ञानं च दुर्लभमित्याहेत्यर्थः । तद्व्याचष्टे ।। कोन्विति ।। कवीयमान इत्यस्यार्थः सर्वज्ञकल्प इति इहेत्यस्य प्रजास्विति ब्रह्मेति शेषोक्तिः कुत इत्यस्य तात्पर्यं कस्य चेति अधीत्यस्याधिक्येनेति ‘स्त्रियः सतीस्ताम् उमे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः कविर्यः पुत्रः सईमाचिकेतयस्ताविजानात्सपितुष्पितातसत्’ इति ऋचं व्याचष्टे ।। य इति ।। तां उ इत्यस्यार्थः तानेवेति । उ इत्यस्यार्थः एवेति आङोऽर्थः सम्यगिति । मदुपास्या इति को वक्तीत्याकाङ्क्षायामाह ।। एतद्दीर्घतमो वाक्यमिति ।। उक्तं चानुव्याख्याने ।