ॐ ज्योतिर्दर्शनात् ॐ
११. ज्योतिरधिकरणम्
सूत्रभाष्यम्
हृदय आहितं ज्योति परमात्मेत्युक्तम् । तत्र "योऽयं विज्ञानमय प्राणेषु हृद्यन्त-र्ज्योति पुरुष’ (बृ.उ.६-३-७) इत्यत्र "उभौ लोकावनुसञ्चरति’ (बृ.उ.६-३-७) इति वचनाज्जीव इति प्रतीयत इत्यत उच्यते
॥ ॐ ज्योतिर्दर्शनात् ॐ ॥ ४० ॥
"विष्णुरेव ज्योतिर्विष्णुरेव ब्रह्मा विष्णुरेवाऽऽत्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवाऽऽनन्द’ इति दर्शनाच्चतुर्वेदशिखायां ज्योतिर्विष्णुरेव । "प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जद्याति’ (बृ.उ.६-३-३५) इति वचनात्तस्यापि लोकसञ्चरणमस्त्येव ॥
सत्तकदीपावली
ननु हृद्यन्तर्ज्योति पुरुष आत्मा अतो जीवो भवितुमर्हति समान सन्नुभौ लोकावनु-सञ्चरन्तीति वाक्यशेषादतो हृदय आहितं ज्योति परमात्मेति यदुक्तं तन्न सिध्यतीति न वक्तव्यम् । विष्णु एव ज्योतिरित्यादिश्रुतिविरोधात् । लोकद्वयसंचरणं तु परेशस्याप्यस्ति स्वेच्छावशादकर्मबद्धस्य । तथाहि श्रुति । शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जद्यातीति तदेतद् हृदय आहितमित्यादिना ।
तत्त्वप्रदीपिका
"कतम आत्मा’ इति प्रश्ने "योऽयं विज्ञानमय प्राणेषु हृद्यन्तज्योति पुरुष स समान-स्सनुभौ लोकावनुसञ्जरति’ इत्युत्तरं पठ्यते । तत्र संशय । किमयं ज्योतिश्शब्दवाच्य शारीर-स्स्यादाहोस्वित्परमात्मेति । उभयलोकसञ्चरणात् । "प्राणेषु’ इति प्राणोपहितत्वाच्च शारीर इति पूर्वपक्ष । "ज्योतिर्दर्शनात्’ । "विष्णुरेव ज्योति’ इति विष्णोरेव मुख्यज्योतिष्ट्वोक्ते, "प्राणेषु’ इति प्राणनियन्तृत्वेन स्थित्याख्यानात् "प्राज्ञेनाऽत्मनाऽन्वारूढ उत्सर्जद्याति’ इति, प्रकर्षेण आ समन्तात्, ज्ञेन परमात्मनाऽन्वारूढो जीव शरीरमुत्सृजन् यातीति तस्यापि लोकचरणकथनाद्विष्णुरेव ज्योतिरिति सिद्धान्त । विष्णुरेव बलम्, "स वै बलं बिलनां चापरेषाम्’ इति हि भागवते । विष्णुरेव यश, "तस्य नाम महद्यश’ इति हि श्रुति । "विज्ञानमय प्राणेषु’ इत्यादि शब्दिलङ्गानां जीव एव सावकाशत्वप्रतीते पुनरुक्तिर्ज्योति-श्शब्दसमन्वयस्य ।
तत्त्वप्रकाशिका
अत्र जीवेशयोर्ज्ञानरूपत्वेन हृदयाहितत्वेन च साधारणस्य ज्योतिर्नाम्नो विष्णौ समन्वय-प्रतिपादनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयादिकं च दर्शयति ॥ हृदय इति ॥ "ज्योतिश्चरणाभिधानात्’ इति हृदयाहितं ज्योति परमात्मेत्युक्तम् । वाजसनेयके च तच्छ्रुयते ॥ योऽयमिति ॥ तच्च यदि विष्णोरन्यत्स्यात्तदा पूर्वोक्तमप्यन्यत्प्रसज्यत इत्यवश्यं निर्णेयम् । तज्ज्योतिर्विषय । किं विष्णुर्जीवो वेति सन्देह । उक्तसाधारण्यं सन्देहबीजम् । जीव एवेदं ज्योतिरिति पूर्व पक्ष । "स समान सन्नुभौ लोकावनुसञ्चरति’ इति जीविलङ्गात् । तस्य हि कर्मवशादुभयलोकसञ्चरणं युक्तम् । "इमं लोकमतिक्रामति मृत्यो रूपाणि’ "स वा अयं पुरुषो जायमान शरीरमभिसम्पद्यमान पाप्मभि संसृज्यते । स उत्क्रामन् म्रियमाण पाप्मनो विजहाति’ । "उभयानपि पाप्मन आनन्दांश्च पश्यति स यत्र प्रस्वपिति’ । स्वप्नान्त उच्चा-वचमीयमानो’ "भयानि पश्यन्’ इत्यादि जीविलङ्गाच्च । किं च "किं ज्योतिरयं पुरुष इत्यादित्यज्योति सम्राडिति होवाच’ इत्यादिना यस्य पुरुषस्याऽऽदित्यादिज्योतिष्ट्वमुक्तं तस्यैव "आत्मैवास्य ज्योतिर्भवति’ इति सु(षु)प्त्यादावात्मज्योतिष्ट्वोक्तौ "कतम आत्मा’ इति तदात्मप्रश्ने ज्योतिरुच्यते । न ह्यादित्यादिज्योतिष्ट्वं विष्णो सम्भवति । "न तत्र सूर्यो भाति’ इत्यादे । न च वाच्यं यस्यादित्यादिज्योतिष्ट्वमुक्तं स जीव एवास्तु तस्य चात्मैवास्येत्यत्र परमात्मज्योतिष्ट्वमुच्यते । तदात्मप्रश्ने च ज्योतिराम्नानात् परमात्मैव ज्योतिरिति । जीवस्य परमात्मज्योतिष्ट्वस्यैवायोगात् । तथात्वे परमात्मनोऽस्तमयादिशून्यस्य जाग्रत्यपि ज्योतिष्ट्व-प्राप्त्या तदा "आदित्येनैवायं ज्योतिषाऽऽस्ते’ "चन्द्रमसैवायं ज्योतिषाऽऽस्तै’ इत्यवधारणानु-पपत्ते । तदा विशिष्याऽऽत्मज्योतिष्ट्वोक्त्यनुपपत्तेश्च । अत्रायं पुरुष स्वयं ज्योतिर्भवती-त्यस्यैवार्थस्य प्रत्यभिज्ञानाच्च । अतो जीव एवेदं ज्योतिरिति प्रागुक्तमपि स एवेति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ विष्णुरेवेदं ज्योतिर्न तु जीव । ज्योति श्रुतेर्विष्ण्वेकवाचित्वश्रवणादित्यर्थ । ज्योतिर्विष्णुश्चेदुभयलोकसञ्चरणिलङ्गविरोध इत्यत आह ॥ प्राज्ञेनेति ॥ जीवमादायेश्वरस्यैवोभयलोकसञ्चरणोक्तेर्न तद्विरोध इत्यर्थ ।
न चेमं लोकमतिक्रामति मृत्यो रूपाणीत्याद्युक्तिलङ्गविरोध द्रष्टुश्चक्षुष इत्यादिवदन्तर्णीत-णिच्त्वेनोपपत्ते । न चादित्यादिज्योतिष्ट्वविरोध । आदित्यादिज्योतिष्मतोऽयं पुरुष इत्युक्तस्य जीवत्वेनाभ्युपगमात् । न च तस्यैव स्वयञ्ज्योतिष्ट्वेनोक्तस्य ज्योतिष्ट्वमुच्यत इति वाच्यम् । "आत्मैवास्य ज्योतिर्भवति’ इति "कतम आत्मा’ इत्यात्मशब्दोदितस्य विष्णुत्वात् । न चैवं सत्यवधारणविरोध । अवधारणस्य बाह्यज्योतिषां मध्ये सूर्यादीनां प्राधान्यज्ञापनार्थत्वेनो-पपत्ते। अन्यव्यावर्तकत्वस्य वागादिसत्त्वेनायोगात् । न च विशिष्योक्तिविरोध । ज्योति-रन्तराभावाभिप्रायेणोपपत्ते । तदुक्तम् । "भावेऽभावेऽपि सूर्यादेर्जीवानां विष्णुरेव हि । ज्योति-स्तथाप्यभावे तु तज्ज्ञेयं हि विशेषत ॥’ इति । न च प्रत्यभिज्ञा विरोध । "अत्रायं भगवान्विष्णुर्जीवस्य स्वयमेव तु । ज्योतिर्विशेषतो भूयान्नैवान्यज्ज्योतिरत्र यत्’ इत्युक्त-रीत्योपपत्ते । नन्वेवं बाधकाभावात्कथं लिङ्गानामन्यार्थता श्रुतिमात्रस्य बहुलिङ्गानु-सारेणामुख्यार्थत्वोपपत्तेरिति । मैवम् । जीवपक्षे बहुबाधकसद्भावात् प्रसिद्धत्वेन "कतम आत्मा’ इति प्रश्नायोगात् सुखदुखविशेषवत्त्वेनोभयलोकसञ्चरणे समानत्वायोगात् स्वाप्नपदार्थकर्तृत्वा- भावात्स्वप्नेन शरीरमित्यादिमन्त्रासङ्गतेश्च । तस्मादिदं प्रागुक्तं च ज्योतिर्विष्णुरेवेति सिद्धम् ॥
गुर्वर्थदीपिका
"मृत्यो रूपाणीत्यत्र अतिक्रामति’ इति पूर्वक्रियया सम्बन्ध । "द्रष्टुश्चक्षुष’ इति श्रुतौ दर्शनकरणस्य चक्षुषो द्रष्टृत्वासम्भवात् दर्शयितुश्चक्षुष इति विशेषणविशेष्यभावस्याभिप्रेतत्वात् तामेव श्रुतिं दृष्टान्तीकरोति द्रष्टुश्चक्षुष इत्यादिवदिति । बाह्यज्योतिषां मध्य इत्यत्र बहिरेव ज्योतीषि बाह्यज्योतींषि तेषां मध्ये सूर्यस्यैव प्राधान्यम् । परमात्मा तु बहिरन्तर्ज्योतिरिति भाव। "अस्तमित आदित्य’ इति वाक्यादुत्तरत्र "चन्द्रमसैवायं ज्योतिषाऽऽस्ते’ इत्युक्त-चन्द्रमस "चन्द्रमस्यस्तमिते’ इति वाक्यादुत्तरत्र "अग्न्निैवायं ज्योतिषाऽऽस्ते’ इत्युक्ताग्न्ेश्च आदित्याख्यज्योतिषा सहावस्थानाभावेन आदित्यस्याग्न्ेश्चन्द्रमसा सहावस्थानाभावेन अस्तमि-तयोरादित्यचन्द्रमसोरग्न्निा सहावस्थानाभावेन कदाचिच्चन्द्रस्याष्टम्यादावग्न्ेश्च सर्वदा आदित्येन सहावस्थानेऽपि अग्न्ेश्च कदाचिच्चन्द्रेण सहावस्थानेऽपि आदित्यप्रभाग्रे उभयोरपि निष्प्रभत्वेन चन्द्रप्रभाग्रे अग्न्ेर्निष्प्रभत्वेन अग्न्ावस्तमिते "किं ज्योतिरेवायं पुरुष’ इति प्रश्ने "वागेवास्य ज्योतिर्भवति’ इति ज्योतिष्ट्वेनोक्तवाचा त्रयाणामपि सहावस्थानस्यैवाभावेन च स्थानचतुष्टये च यथायोग्यमन्योन्यव्यावर्त्यत्वसम्भवेऽपि वागाख्याज्योतिष स्थानत्रयेऽपि स्पष्टतयैव सत्त्वेन पुनरेवकारेण व्यावृत्तेरसम्भव एवेति भावेनाह ॥ वागादीति ॥ आदिपदेनाऽऽत्माख्य-ज्योतिर्गृह्यते । न च विशिष्योक्तिविरोध इत्यत्र आत्माख्यज्योतिष अवस्थात्रयेऽपि विद्यमान-त्वेन सुप्तावेव तस्य विशिष्य ज्योतिष्ट्वोक्तिविरोध इत्यर्थ । सुप्तौ सर्वज्योतिषामभावेऽपि परमात्मज्योतिष सत्त्वाभिप्रायेण विशिष्योक्तिरिति भावेन परिहरति ॥ ज्योतिरन्तरेति ॥ उक्तरीत्येति वदता अयं पुरुष इति न जीवपरामर्श किन्तु प्राक्प्रस्तुतपरमात्मपरामर्श एवेति परिहार सूचित । एतत्प्रकरणस्थस्वाप्नपदार्थस्रष्टृत्वानुपपत्तिश्चेति भावेनोक्तं स्वाप्नपदार्थेति । स्वप्नेन शरीरमित्यादीत्यत्र आदिपदेन ""स्वप्नेन शारीरमभिप्रहत्य असुप्त सुप्तानभिचाकशीति’’ इत्यादय श्लोका गृह्यन्ते । मन्त्रासङ्गतेरित्युपलक्षणम् । स्वस्यैव ज्योतिष्ट्वे आत्माश्रयाख्य-महादोषोऽपि स्यात् । ज्योतिरन्तराभावार्थत्वे एवकारवैयर्थ्यं मुख्यार्थपरित्यागश्चेति द्रष्टव्यम् ॥
भावबोध
ज्ञानरूपत्वेन हृदयाहितत्वेन चेति ॥ तथा च ज्योतिशब्दस्य लोकप्रसिद्धेरग्न्मिात्र-निष्ठत्वेऽपि ज्ञानरूपत्वलक्षणप्रवृत्तिनिमित्तस्य हृद्यन्तर्ज्योतिरिति विष्णौ प्रतिपन्नवाक्ये श्रुत-हृदयाहितत्विलङ्गस्य च जीवेशयो साम्यादेतन्निबन्धनोभयत्रप्रसिद्धि ज्योतिशब्दस्य उक्तेति भाव ॥ श्रुत्यादिसङ्गतिमिति ॥ अत्र प्राणे हृद्यन्तर्ज्योतिरितिवाक्येन चेष्टकतया प्राणेषु विद्यमानत्वेनोक्तस्य ज्योतिषो विष्णोरन्यत्वे "यदिदं किञ्च जगत्सर्वं प्राण एजति’ इत्युक्त-प्राणचेष्टकवज्रस्यापि विष्णोरन्यत्वं स्यादित्यपि पूर्वाक्षेपसम्भवादव्यवहितपूर्वाधिकरणसङ्गतिरपि ज्ञेया ॥ किं विष्णुरिति ॥ अत्र हृद्यन्तर्ज्योतिरिति वाक्योक्तं ज्योति किं विष्णुरुत नेति चिन्ता । तदर्थमुभौ लोकावनुसञ्चरणादिलिङ्गानुरोधेन विष्णुरेव ज्योतिरिति, श्रुतिर्मुख्यार्थेति, श्रुत्यनुसारेण लिङ्गप्रतिपादकवाक्यानि विष्णुविषयाणीति उत नेति । तदर्थं ज्योतिष उक्तानि समानत्वस्वप्नपदार्थकर्तृत्वादीनि किं जीवस्य युज्यन्ते उत न युज्यन्त इति । तथा प्रथम-चिन्तानन्तरं तदर्थं कतम आत्मेति प्रश्नवाक्यस्थात्मशब्द किं जीवपर उत विष्णुपर इति तदर्थं ज्योतिरयं पुरुष इति प्रश्नोक्तरूपात्मैवास्य ज्योतिरिति तत्पूर्ववाक्यात्मशब्द किं जीवपर विष्णुपर इति । तदर्थमात्मशब्दस्य विष्णुपरत्वे किं जीवस्यापरमात्मज्योतिष्ट्वं न युक्तमुत युक्तमिति । तदर्थं तस्य परमात्मज्योतिष्ट्वाङ्गीकार आदित्येनैवायमिति सावधारणोक्तिरात्मैवास्य ज्योतिरिति सुषुप्तौ विशिष्य परमात्मज्योतिष्ट्वोक्तिरत्रायं पुरुष स्वयञ्ज्योतिरिति प्रत्यभिज्ञा च किं विरुद्धा उत नेति तदर्थमाद्यं किं बाह्यान्तर्ज्योतिर्मात्रव्यावृत्त्यभिप्रायम्, द्वितीयञ्जाग्रदादौ परमात्मज्योतिष्ट्वाभिप्रायं, तृतीयं पुरुषादिपदोपेतं किं ज्योतिरयमितिवाक्यसमार्थकं सत्पुरुषादि-पदप्रकृतजीवस्य स्वप्रकाशत्वप्रदर्शनपरम् । तृतीयपुरुषादिपदानां परमात्मपरतया जीवस्य विशेषत परमात्मज्योतिष्ट्वप्रतिपादनपरमिति ।
ननु लोकसञ्चरणं विष्णावेव सम्भवतीति कथं जीविलङ्गत्वमित्यत आह तस्य हि कर्मवशादिति । अनेनादित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणमादित्येनैवायं ज्योतिषास्त इत्यव-धारणमित्यादीनां परमात्मन्यवकाशाभावो बहुतादृक्त्वमिति न्यायविवरणमुभयलोकसञ्चरण-मित्ययं भागोऽपि व्याख्यात इति द्रष्टव्यम् । न्यायविवरणगतादिशब्दसङ्गृहीतान्यपि लिङ्गा-न्याह इमं लोकमभिक्रामतीत्यादिना । आदित्यादिज्योतिष्ट्वमिति न्यायविवरणं व्याख्याति किं ज्योतिरित्यादिना ॥ तस्यैवेति ॥ अस्यैवेतीदंशब्दस्य प्रकृतजीवपरामर्शकत्वादिति भाव ॥ आत्मज्योतिष्ट्वोक्ताविति ॥ स्वप्रकाशत्वोक्तावित्यर्थ । आत्मज्योतिशब्दयो स्वरूप-ज्ञानार्थत्वादिति भाव । आदित्यादिज्योतिष्ट्वमित्युक्तहृद्यन्तर्ज्योतिर्निष्ठत्वाभावशङ्कानिवर्तकतया आदित्येनैवायं ज्योतिषास्त इत्यवधारणमिति न्यायविवरणांशं व्याख्याति न च वाच्यं यस्येत्यादिना ॥ न्यायविवरणगतादिशब्दस्य अर्थान्तरमाह तदा विशिष्येत्यादिना ॥ परमात्मनोऽस्तमयादिशून्यस्य जाग्रत्यपि ज्योतिष्ट्वप्राप्त्येत्येतदत्रापि सम्बध्यत इति बोध्यम् ॥ अत्रायं पुरुष इति ॥ आत्मप्रश्नोत्तरोपसंहाररूपेणात्रायं पुरुष स्वयंज्योतिरिति वाक्येनात्मै-वास्य ज्योतिरित्युक्तस्यैवार्थस्य प्रत्यभिज्ञानादित्यर्थ । तथा चात्रायं पुरुष इत्यत्र वाक्ये स्वयं शब्दानुरोधेन स्वप्रकाशत्वस्यैवोक्त्या तत्समानार्थत्वायात्मैवास्य ज्योतिरित्यस्यापि स्वप्रकाशार्थ- कत्वं आत्मप्रश्नोत्तरस्य ज्योतिशब्दस्य जीवपरत्वमेवेति भाव ॥ विष्ण्वेकवाचित्व इति ॥ विष्णुरेवेति भाष्योदाहृतश्रुतावन्ययोगव्यवच्छेदार्थकावधारणश्रवणादिति भाव ॥ जीवमादा-येति॥ अनेन लोकसञ्चरणं तु जीवमादाय तस्यैवादुखेन स्वातन्त्र्यादिति न्यायविवरणं व्याख्यातं भवति । कुतो न विरोध इत्यतो जायमानो म्रियमाणो प्रस्वपतीत्यादि तु । "कृत्वा विवाहं तु कुरुप्रवीरा’ "जज्ञे बहुज्ञं परमाभ्युदारम्’ "तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।’ "सुखं बुध्येय दुर्बोधं योषा भवदनुग्रहात् ।’ "द्रष्टुश्चक्षुषो नात्ति जिह्वा’ इत्यादिवदन्तर्णीत-णिच्त्वेन भवतीति बृहदारण्यकभाष्योक्तोपपत्तिमाह द्रष्टुश्चक्षुष इत्यादाविति ॥ अन्तर्णीत-णिच्त्वेनेति ॥ यथा चेमं लोकमतिक्रामतीत्यादावतिक्रामयतीत्याद्यर्थ इत्यर्थ । आदित्य-ज्योतिष्ट्वं संसारिण एव । अयं पुरुष इति संसारीति न्यायविवरणार्थमाह न चादित्यादीति ॥ आत्मशब्दोदित एव विष्णुरिति न्यायविवरणार्थमाह न च तस्यैवेति ॥ आदित्येनैवे-त्यवधारणं तु बाह्यज्योतिषु प्राधान्यापेक्षयेति न्यायविवरणं व्याचष्टे न चैवं सतीति ॥ अन्यव्यावर्तकत्वस्येति ॥ जागरावस्थायामपि ज्ञानकरणानां वागादीन्द्रियाणां सत्त्वेनैवकारस्य ज्ञानकारणान्तरव्यवच्छेदकत्वायोगादित्यर्थ । प्राधान्यापेक्षयेत्यादीति न्यायविवरणगतादि-शब्दार्थमाह न च विशिष्येत्यादिना ॥ आदिशब्दस्योक्तार्थकत्वं कुत इत्यतो बृहदारण्यक-भाष्यसम्मतिमाह तदुक्तमिति ॥ इत्युक्तरीत्योपपत्तेरिति ॥ तथा चात्रायं पुरुष स्वयञ्ज्योति-रित्यत्र स्वयंशब्दस्य परमात्मपरत्वेन परमात्मज्योतिष्ट्वमेवोच्यते जीवस्य न स्वप्रकाशत्वमिति नैतदनुरोधेनात्मैवास्य ज्योतिरित्यस्य स्वप्रकाशत्वार्थकत्वमिति भाव ॥ श्रुतिमात्रस्येति ॥ प्राणेषु हृद्यं ज्योतिरित्यादौ विष्णुत्वनिश्चायकिलङ्गाद्यसमभिव्याहृतज्योतिशब्दस्येत्यर्थ । किं तद्बहुबाधकमित्यतो जीवपक्षे प्रसिद्धत्वात् कतम आत्मेति प्रश्नो न युक्त । न च जीव समान सन्नुभौ लोकौ सञ्चरति । सुखदुखविशेषवत्त्वादिति कथमन्यथा स्वयं निहत्य स्वयं निर्माय स्रवन्त्य सृजते स हि कर्ता स्वप्नेन शरीरमभिप्रहत्या असुप्त सुप्तानभिचाकशीति इत्यादि युज्यते । उक्तार्थे च स्वप्नेन शरीरमित्यादिजीवेश्वरभेदमन्त्रा युक्ता प्रमाणत्वेनेति बृहदारण्यकभाष्योक्तबाधकानि क्रमेणाह प्रसिद्धत्वेनेत्यादिना ॥ सुखदुखविशेषवत्त्वा-दित्यनेन दुखेनास्वातन्त्र्यादिति न्यायविवरणस्याभिप्राय उक्तो भवतीति ज्ञातव्यम् ॥
भावदीप
अत्र न्यायविवरणे साधारण्यबीजानुक्ते योऽयमिति भाष्योक्तवाक्यानुरोधेन द्वेधा साधारण्यं स्वयमाह ॥ अत्र जीवेति ॥ ज्योतिपदप्रवृत्तिनिमित्तं हि प्रकाशत्वं ज्ञानत्वमपि प्रकाशत्व-मेवेति भाव । अग्न्यादौ ज्योतिपदप्रसिद्धावपि इह तस्य पूर्वपक्षकोटित्वाप्रसक्ते प्रवृत्ति-निमित्तसाम्यमेवोक्तम् । सङ्गतिपरतया भाष्यं व्याचष्टे ॥ ज्योतिरिति ॥ तत्रेत्येतत्प्रथमान्तं व्याचष्टे ॥ तच्छ्रुयते इति ॥ षष्ठेऽध्याये ज्योतिर्ब्राह्मणे योऽयमित्यत्र वाक्य इत्यर्थ । उभौ लोकावित्यादेस्तात्पर्यं तच्चेति ॥ उभयलोकसञ्चरणाद्यदि जीव स्यादित्यर्थ । उक्तमित्यन्तस्य तात्पर्यमाह ॥ तदेति ॥ इतिसङ्गतिसम्भवादित्यर्थ । पूर्वपक्षतद्युक्त्यादिपरतयाऽपि भाष्यं व्याख्यातुं तत्र तज्जीव इति षष्ठेऽध्याये प्रतीयत इति प्रतिज्ञार्थमाह ॥ जीव एवेति ॥ सञ्चरतीत्यत्र कर्तृवाचकं दर्शयन्नुभावित्यादिभाष्यं व्याचष्टे ॥ स समान इति ॥ निराकाङ्क्षाणि पदानि वाक्यमित्युक्तदिशाऽस्य वाक्यत्वेऽपि तद्बोध्यस्यासाधारणधर्मत्वाल्लिङ्गादित्युक्तम् । आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणं "आदित्येनैवाऽयञ्ज्योतिषाऽऽस्त’ इत्यवधारणमित्या-दीनां परमात्मन्यवकाशाभावो बहुतादृक्त्वमिति न्यायविवरणोक्तमनवकाशत्वमस्य व्यनक्ति ॥ तस्य हीति ॥ ब्रह्म तु कर्मातीतम् अन्यत्र धर्मादन्यत्राधर्मादित्यादे । भूमा सम्प्रसादा-दित्यत्रोक्तदिशोत्क्रमणक्रियावदणुत्वयुक्ते हरौ सञ्चरणक्रियोपपत्तावपि कर्माधीनं यदुभयलोक-सञ्चरणं तज्जीव एव युक्तं न तु हराविति भाव ।
भाष्यमुपलक्षणं मत्वाऽन्यत्रोक्तादिपदोपात्तिलङ्गानि चाह ॥ इममिति ॥ पृथिवीलोकं मृत्युसाधनमिति वा मृत्युसाधनानि चेति वाऽऽप्नोतीत्यर्थ । जीवस्यानादिनित्यत्वाज्जायमानत्व-म्रियमाणत्वे व्यनक्ति । शरीरमभिसम्पद्यमान उत्क्रामन्निति च । उभयानित्यस्य व्याख्या पाप्मन पापफलानि दुखानि पुण्यफलान्यानन्दांश्च पश्यत्यनुभवतीति । स्वप्नान्ते स्वप्नदेशे ईयमान प्राप्नुवन् । लिङ्गानां हरावनवकाशत्वं स्पष्टमिति भाव । आदित्यादिज्योतिष्ट्व-मितीममंशम् अन्यत्रोक्तम् आत्मैवास्य ज्योतिरित्यत्र इदंशब्दस्य जीवार्थत्वसाधकतया व्यनक्ति ॥ किं चेति ॥ अयं पुरुष जीव किं ज्योति ज्ञानसाधनं यस्येति व्युत्पत्त्या जनकराजेन जीवस्य ज्ञानसाधने पृष्टे सति याज्ञवल्क्य आदित्यज्योति सम्राडिति होवाचेत्युत्तरमुक्त्वा आदित्येनैवाऽयं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्युपपाद्य अस्तमित आदित्ये किं ज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीत्यादिना आदित्यचन्द्राग्न्विाचां पूर्व-पूर्वास्तमये उत्तरोत्तरस्य ज्ञानसाधनत्वरूपं ज्योतिष्ट्वं प्रश्नोत्तराभ्यां यस्य जीवस्य जाग्रद्दशाया-मुक्तं तस्यास्तमितआदित्ये याज्ञवल्क्यचन्द्रमस्यस्तमिते शान्तेऽग्न्ौ शान्तायां वाचि किं ज्योतिरयं पुरुष इति प्रश्ने आत्मैवास्य ज्योतिर्भवतीति सुप्तिस्वप्नयो स्वप्रकाशत्वरूपात्म-ज्योतिष्ट्वोक्तौ कतम आत्मेति ज्योतिष्ट्वेनोक्तात्मविषयप्रश्ने कृते सति योऽयं विज्ञानमय प्राणेषु हृद्यं तज्योतिरित्युच्यत इत्यर्थ । अस्य लिङ्गस्यान्यत्रोक्तं हरावनवकाशत्वं व्यनक्ति ॥ न हीति॥ न तत्रेत्येतद्विष्णुपरमित्यनुकृतिनये व्यक्तम् । एवं लोकसञ्चरणादेरादित्यादिज्योतिष्ट्वस्य चानवकाशत्वमुपपाद्य आदित्येनैव ज्योतिषाऽऽस्ते इत्यवधारणमित्यंशमात्मपदस्य स्वरूपार्थकत्वसाधनपरतया व्याख्यातुमाह ॥ न च वाच्यमिति ॥ तदा जाग्रद्दशायामित्यर्थ ॥ अवधारणानुपपत्तेरिति ॥ किं त्वादित्येन ज्योतिषेति वा आदित्येन चेति वा स्यादित्यर्थ । तदा सुप्त्यादिदशायामित्यर्थ । परमात्मनोऽस्तमयादिशून्यस्य जाग्रत्यपि ज्योतिष्ट्व-प्राप्त्येत्यनुकर्ष ।
एतेनावधारणमित्यादीनामिति न्यायविवरणस्थादिपदस्योक्तरूपयुक्त्यन्तरसङ्ग्राहकत्व-रूपमर्थान्तरमुक्तं भवति । नन्वात्मशब्दस्य परमात्मार्थत्व इव स्वरूपार्थत्वेऽप्यवधारणस्य विशिष्य सुप्त्यादौ स्वयं ज्योतिष्ट्वोक्तेश्चानुपपत्तिसाम्यात् जीवस्यापि स्वगतज्ञानहेतुस्वरूप-स्वात्मज्योतिष्ट्वस्य सुप्त्यादाविव जाग्रत्यपि सत्त्वात् ब्रह्मैव कुतो नाऽऽत्मेत्यतोऽन्यत्राऽऽदि-पदोक्तयुक्त्यन्तरेणात्मपदस्य स्वरूपार्थत्वमाह ॥ अत्रायं पुरुष इति ॥ आत्मप्रश्नोत्तरोपसंहारपरे अत्रायं पुरुष स्वयं ज्योतिरिति ज्योतिरिति वाक्येऽभिहितार्थस्येह स्वयंशब्दपर्यायात्मशब्देन प्रत्यभिज्ञानादात्मशब्द स्वरूपपरो न परमात्मपर इत्यर्थ । फलोक्त्योपसंहरति ॥ अत इति ॥ निरवकाशिलङ्गादिभावादित्यर्थ । उक्तमित्यन्तभाष्यतात्पर्यं प्रागुक्तमिति ॥ विष्णुरेवेत्यन्त-भाष्यमाकाङ्क्षाक्रमेण व्याख्याति ॥ विष्णुरेवेति ॥ प्राज्ञेनेति श्रुतौ जीव प्राज्ञेनान्वारूढ प्राक्तनदेहं त्यजन्यातीति जीवस्यैव सञ्चरणप्रतीत्या श्रुते प्रकृतानानुगुण्यं निरस्यँल्लोकसञ्चरणं तु जीवमादाय तस्यैवादुखेन स्वातन्त्र्यादिति न्यायविवरणानुरोधेन भाष्यं व्याचष्टे ॥ जीव-मादायेति ॥ बृहदारण्यकभाष्योक्तं समाधिमाह ॥ द्रष्टुरिति ॥ दर्शयितुरित्यर्थ । एतेनेमं लोकमतिक्रामयति जनयति मारयतीत्यादिरूपेण विषयवाक्ये अर्थो दर्शित । अयं पुरुष इति संसारी आत्मशब्दोदित एव विष्णु अत आदित्यादिज्योतिष्ट्वं संसारिण एव आदित्येनैवेत्यव-धारणं बाह्यज्योतिषु प्राधान्यापेक्षया इत्यादिन्यायविवरणं भिन्नभिन्नशङ्कानिरासकतया खण्डशोऽत्र योजयति ॥ न चादित्यादीत्यादिना ॥ उच्यते आत्मैवाऽस्येति वाक्य इत्यर्थ । अन्यत्रोक्तादिपदोपात्तयुक्तिं वक्तुं तदा विशिष्येत्यादिना प्रागुक्तमनुवदति ॥ न च विशिष्येति ॥ तदुक्तमिति ॥ वाजसनेयभाष्य इत्यर्थ । तद्भाष्यरीत्यैवाऽऽदिपदोक्तं युक्त्यन्तरं प्रागुक्त-शङ्कानिवर्तकतयाऽऽह ॥ न च प्रत्यभिज्ञेति ॥ उक्तरीत्येति ॥ अत्र सुप्त्यादावयं पुरुषो विष्णुर्जीवस्य स्वयं ज्योतिरित्युपसंहारस्य स्मृत्यैव व्याख्यानेन आत्मापि विष्णुरेवेत्युपपत्ते-रित्यर्थ । बृहद्भाष्योक्तजीवपरत्वबाधकान्यपि न्यायविवरणस्थादिपदसङ्गृहीतानीति भावेन तानि शङ्कोत्तराभ्यां विशदयति ॥ नन्वेवमिति ॥ श्रुतिमात्रस्य ज्योतिश्रुतिमात्रस्येत्यर्थ । विष्णु-रेवेदं ज्योतिरिति श्रुत्या विष्णौ मुख्य स्यादपीत्यर्थ ॥ स्वाप्नेति ॥ अथ रथान् रथयोगान्पथ सृजत इत्यादिनोक्त इत्यर्थ ॥ स्वप्नेनेति ॥ स्वप्नेन शारीरमभिप्रहत्यासुप्त सुप्तानभिचाक-शीतीत्याद्युदाहृतमन्त्रे जीवस्य स्वप्नसम्बन्धं कृत्वा स्वयमसुप्त एव तान्पश्यतीत्युक्तार्थस्य जीवेऽनुपपत्तेरित्यर्थ । फलोक्त्योपसंहरति ॥ तस्मादिति ॥ ज्योतिश्रुतिरूपसाधकभावात् बाधकाभावात् जीवपरत्वे बहुबाधकभावाच्चेत्यर्थ ॥
अभिनवचन्द्रिका
वाजसनेयके चैतच्छ्रुयत इति ॥ अनेन ज्योतिःप्रतिपादकत्वमस्याधिकरणस्य पूर्वाधि-करणेन सङ्गतिरित्युक्तं भवति ॥ विष्ण्वेकवाचित्वश्रवणादिति ॥ ज्योतिःश्रुतेः विष्णौ मुख्यत्वस्य प्रमाणसिद्धत्वात् बाधकाभावे मुख्यस्यैव ग्राह्यत्वात् वाजसनेयश्रुतिस्थज्योतिःशब्देन विष्णुरेव विवक्षितो न तु जीव इति भावः ॥ सञ्चरणोक्तेरिति ॥ अनेन ज्योतिर्विष्णुः उभयलोकसञ्चरणस्य तत्र श्रुतिसिद्धत्वेन बाधकाभावादिति सूत्रं प्रकारान्तरेण व्याख्यातमिति द्रष्टव्यम् ॥ द्रष्टुश्चक्षुष इत्यादिवदिति ॥ द्रष्टुश्चक्षुष इत्यत्र द्रष्टुरित्यस्यान्तर्णीतणिच्त्वेन दर्शयितुरित्यर्थत्ववत् "अभिक्रामति’ इत्यादावपि अन्तर्णीतणिच्त्वेनोपपत्तेरित्येतावताऽलमिति "द्रष्टुश्चक्षुष’ इत्यादिवदिति दृष्टान्ताभिधानं व्यर्थम् । तथापि यथावस्थित व्याख्यानमपहायाऽ-न्तर्णीतणिच्त्वेन व्याख्यानमयुक्तमिति शङ्कापरिहाराय दृष्टान्तोक्तिः ॥ "कतम आत्मा’ इत्यात्मशब्दोदितस्येति ॥ कतमवाक्यगतात्मशब्दस्य विष्णुत्वात् पूर्ववाक्यप्रतिपाद्यत्वं विष्णोरेवेति भावः ॥ न चैवं सतीति ॥ "आदित्येनैवाऽयं ज्योतिषाऽऽस्त’ इत्यवधारणविरोध इति न वाच्यमित्यर्थः ॥ न च प्रत्यभिज्ञाविरोध इति ॥ "अत्राऽयं पुरुषः स्वयंज्योतिर्भवति’ इत्यत्रोक्तजीव एव "आत्मैवास्य ज्योतिर्भवति’ इत्यत्रोच्यत इति प्रत्यभिज्ञाविरोध इति न वाच्यमित्यर्थः ॥ इत्युक्तरित्योपपत्तेरिति ॥ "अत्रायं भगवान्’ इति प्रमाणोक्तरीत्या "अत्रायं पुरुषः स्वयंज्योति’ इति वाक्यस्य विष्णुपरत्वेन प्रत्यभिज्ञाया विष्णुपक्ष एवोपपत्तेरित्यर्थः ॥ तस्मादिदं प्रागुक्तं चेति ॥ तस्मात् वाजसनेयगतज्योतिःशब्दः "विमेकर्णापतयत’ इति वाक्यगतश्च ज्योतिःशब्दो विष्णुपर एवेति भावः । एतेन अत्रोक्तप्रागुक्तज्योतिषोर्भेदाभावात् इदं प्रागुक्तं च ज्योतिर्विष्णुरेवेति वचनमयुक्तमिति परास्तम्।
पूर्वपक्षस्तु जीव एवेदं ज्योतिः । "स समानः सन्नुभौ लोकावनुसञ्चरति’ इति जीव-लिङ्गात् । "इमं लोकमभिक्रामति मृत्योरूपाणि स वा अयं पुरुषो जायमानः शरीरमभि-संपद्यमानः पाप्माभिः स सृज्यते स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति उभयानपि पाप्मनः अनन्दांश्च पश्यति, स यत्र स्वपिति, स्वप्नान्ते उच्चावचमीयमानः, भयानि पश्यति इत्यादेश्च । किं च "अस्यादित्यज्योतिः सम्राडिति होवाच’ इत्यादिना आदित्यादिज्योतिष्ट्वमुक्त्वा तस्यैव "आत्मैवास्य ज्योति’ इत्यादिना आत्मज्योतिष्ट्वमुक्त्वा "कतम आत्मा’ इति प्रश्ने ज्योति-राम्नायते । न च तद्विष्णोः सम्भवति, "न तत्र सूर्यो भाति’ इत्यादेः । न च यस्यादित्य-ज्योतिष्ट्वमुक्तं स जीव एवाऽस्तु तस्यैवेत्यत्र परमात्मज्योतिष्ट्वमुक्त्वा "कतम आत्मा’ इति प्रश्ने ज्योतिष आम्नानात् ज्योतिर्विष्णुरिति । तथा सति परमात्मनः उदयास्तमयादिशून्यत्वेन सदा सद्भावात् "आदित्येनैव अयं ज्योतिषाऽऽस्त’ इत्याद्यवधारणं न स्यात् । अत्रायं पुरुषः स्वयं ज्योतिर्भवति’ इत्यस्यैव अर्थस्य प्रत्यभिज्ञानाच्च । तस्मादिदं ज्योतिर्जीव एवेति प्राचीनस्य ब्रह्मत्वोपपादनमयुक्तमिति ।
सिद्धान्तस्तु विष्णुरेवेदं ज्योतिः । श्रुतेः विष्ण्वेकवाचित्वात् । मुख्यार्थासम्भव एवाऽमुख्यार्थस्य ग्राह्यत्वात् । न च विष्णुपक्षे उभयलोकसञ्चरणानुपपत्तेः । अमुख्योऽपि जीव-रूपोऽर्थो ग्राह्य इति वाच्यम् । तस्यापि "प्राज्ञेनात्मनान्वारूढ उत्सर्जद्याति’ इति तस्मिन् प्रमाणसिद्धत्वेन मुख्यार्थग्रहणे बाधकाभावात् । न च "इमं लोकमभिक्रामति मृत्योरूपाणि’ इत्याद्युक्तिलङ्गविरोधः । अन्तर्णीतणिच्त्वेन तेषामपि सावकाशत्वोपपत्तेः । न च आदित्यादि-ज्योतिष्ट्वविरोधः । तस्य जीवत्वाङ्गीकारात् । न च तस्यैव स्वयं ज्योतिष्ट्वमुच्यत इति वाच्यम् । आत्मैवास्य ज्योतिर्भवति’ इत्युक्तस्यात्मनः "कतम आत्मा’ इति प्रश्ने ज्योतिष्ट्वाभिधानेन जीवस्य प्रसिद्धत्वेन प्रश्नायोग्यतया ज्योतिष्ट्वानभिधानात् । न चैवं सति परमात्मनोऽस्तमय-शून्यत्वेन सदा सद्भावात् "आदित्येनैवायं ज्योतिषाऽऽस्त’ इत्यवधारणानुपपत्तिः । अवधारणस्य बाह्यज्योतिषु तस्य प्राधान्यज्ञापनार्थत्वात् । अन्यव्यावर्तकत्वस्य वागादि-सत्त्वेनाऽयोगात् । विशिष्य भगवतो ज्योतिष्ट्ववचनं तु स्वापे ज्योतिरन्तराभावाऽभिप्रायेणेति द्रष्टव्यम् । न चेश्वरपक्षे जीवपक्षे प्राप्तः दुःखविशेषवत्त्वेनोभयसञ्चरणे समानत्वाऽयोगः स्वप्न-पदार्थकर्तृत्वाभावः "स्वप्ने न शरीरम्’ इत्यादि मन्त्राऽसङ्गतिश्च दोषो भवति । तस्मादिदं ज्योतिः विष्णुरिति "ज्योतिश्चरणाऽभिधाना’ इति प्राक् व्युत्पादितविष्णुत्वं न बाधितमिति सिद्धम् ।
वाक्यार्थमुक्तावली
"अत्र योऽयं विज्ञानमय प्राणेषु हृद्यन्त’ इत्येतदनुसारेण साधारण्यमाह ॥ अत्रेति ॥ ज्योतिशब्दस्यादौ लोकत प्रसिद्धत्वे संशयकोट्योर्जीवेशयोर्ज्ञानरूपत्वेन प्रवृत्तिनिमित्त-प्रकाशस्य साम्यादुभयत्र प्रसिद्धता ॥ श्रुत्यादिसङ्गतिमिति ॥ प्राणेषु हृद्यन्तरित्युक्तस्य प्रेरकतया प्राणस्थस्य ज्योतिषो विष्ण्वन्यत्वे प्राणचेष्टकवज्रस्याप्यन्यत्वं स्यादित्याक्षेपेणोत्थाना-दनन्तरसङ्गतिरिति ज्ञेयम् । तत्र योऽयं विज्ञानमय इति भाष्ये तस्य तदित्यर्थमाह ॥ तच्छ्रुयत इति ॥ किं विष्णुरिति ॥ उभयोर्लोकसञ्चरणादिजीविलङ्गात् ज्योतिर्जीव उत विष्णुरेव ज्योतिरिति विशेषश्रुत्या विष्णुरिति तदर्थं लिङ्गानुसारेण श्रुतिरमुख्योत तच्छ्रुत्यनुरोधेन लिङ्गानि सावकाशानीति । आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणम् आदित्येनैवायं ज्योति-षाऽस्ते इत्यवधारणामित्यादीनां परमात्मन्यवकाशाभाव इति न्यायविवरणानुसारेण लिङ्गस्यानवकाशत्वमाह ॥ तस्य हीति ॥ यद्यपि भूमनयदिशोत्क्रमणक्रियावदणुत्वयुक्ते हरौ सञ्चरणक्रियोपपद्यते । तथापि उत्क्रमणं म्रियमाण पाप्मान इत्यादि प्रकरणात् कर्माधीनं न हरौ युक्तमिति भाव । भाष्य इति वचनादित्यत्रेतिशब्द आद्यर्थे । इत्यादिलिङ्गप्रतिपादक-वचनादित्यर्थ । इत्यभिप्रेत्य न्यायविवरणदिशोक्तिलङ्गान्याह इममिति ॥ इमं लोकं भूलोकं मृत्यो रूपाणि मृत्युनिरूपकं मृत्युसाधनानि चाप्नोतीति वा पाप्मान पापफलानि दुखानि, स्वप्नस्थानेनाप्रमात प्राप्नुव इति वचनात् । कतम आत्मेति जीवप्रश्नवचनात् परिहारतया हृद्यन्तर्ज्योतिरिति परिहारवचनात् । प्रश्नपरिहाराभ्यां ज्योतिर्जीव इति प्रतीयते इति भाष्यार्थं मनसि निधाय न्यायविवरणानुसारेणाह ॥ किं चेति ॥ अयमाशय ॥ कतम आत्मेति जीवप्रश्नोत्तररूपत्वात् हृद्यन्तर्ज्योतिरित्युक्तम् । ज्योतिर्जीव एव कतम आत्मेति प्रश्नवचनं कथं जीवविषयमवगतमिति चेत् आत्मैवास्य ज्योतिर्भवतीति सुप्तिस्वप्नयो स्वप्रकाशतयोक्तजीवस्यैव कतम आत्मेति पृष्टत्वात् । आत्मैवास्येत्यत्रास्येति निर्दुष्ट कुतो जीवोऽवसीयते इति चेत् । किं ज्योतिरयं पुरुष इत्ययं पुरुष किं रूपं ज्योतिर्ज्ञानसाधनं किम् इति किं ज्योतिरिति जीवस्य ज्ञानसाधनप्रश्ने आदित्येनैवायं ज्योतिषाऽस्ते अस्तमिति आदित्ये किं ज्योतिरिवायं पुरुष इति चन्द्रमसैवायं ज्योतिषाऽऽस्त इत्यादिना यस्य पुरुषस्यादित्यचन्द्राग्न्विागाख्यज्योतिष्ट्वमुक्तम् । तस्यैवात्मेति श्रुत्यादौ स्वप्रकाशत्वोक्ते विष्णोश्चादित्यादिज्योतिष्ट्वानुपपत्तेरिति ।
नन्वात्मैवास्येत्यत्रास्येति पदेन जीव उच्यते इत्यस्तु । आत्मशब्दस्तु न समभिव्याहृत-स्वात्मपर । किं तु परमात्मपर इत्याशङ्क्य आदित्येनैवायं ज्योतिषाऽऽस्ते इत्यवधारणमिति न्यायविवरणानुसारेणैव परिहरति न चेत्यादिना ॥ न केवलं परमात्मनि जाग्रत्यपि ज्योतिष्ट्वप्राप्त्यादिनैवेत्याद्यवधारणायोग । किन्तु सर्वत्रोक्तन्यायेन परमात्मनो ज्योतिष्ट्वात् सुप्तावात्मा ज्योतिरिति विशिष्योक्त्या योगश्चेत्याह ॥ तदेति ॥ इति स्वात्मशब्दो न विष्णुपर इत्याह ॥ अत्रायमिति ॥ आत्मप्रश्नोपसंहाररूपेणात्रायमिति वाक्ये नात्मैवास्य ज्योति-रित्युक्तस्य प्रत्यभिज्ञानादेवेत्यर्थ । तथा चात्रायमिति वाक्ये स्वयं शब्दानुसारेण स्वप्रकाशत्व-लाभात् । तत्समानार्थकतयात्मैवेति वाक्येऽपि स्वयमेवास्य ज्योतिरिति स्वप्रकाशार्थकत्वं ग्राह्यमित्यात्मप्रश्नोत्तरस्य ज्योतिशब्दस्य जीवपरत्वमेवेति भाव । प्राज्ञेनात्मनाऽन्वारूढो जीव प्राक्तनदेहं त्यजन् यातीति जीवस्यैव सञ्चरणप्रतीत्या श्रुते प्रकृतानानुगुण्यमित्यत आह ॥ जीवमादायेति ॥ अन्यथा प्राज्ञेनेति व्यर्थमिति भाव । तस्यापि लोकसञ्चरणमिति भाष्ये लोकसञ्चरणमपि शब्दाल्लिङ्गान्तरं चास्तीत्यर्थं मत्वाऽऽह ॥ न चैवमित्यादिना ॥ इत्यादिवदित्यादिपदेन कृत्वा विवाहं तु कुरुप्रवीरा इत्यादिबृहद्भाष्योक्तं गृह्यते । एतेनातिक्रम-यति मारयतीत्यादिरूपेण श्रुत्यर्थ उक्तो भवति । आदित्यादिज्योतिष्ट्वं संसारिण एवेति न्यायविवरणानुसारेण विरोधोऽपि नास्तीत्यपिशब्दार्थमाह ॥ न चादित्येति ॥ विष्णुरेवात्मेति श्रुतेस्तस्यात्मशब्दोऽप्यस्त्येवेति भाष्यार्थं मत्वाह ॥ आत्मशब्दोदितस्येति ॥ उक्तं चात्मशब्दोऽदितो विष्णुरिति ।
न्यायविवरणे तु आदित्येनैवेत्यवधारणं बाह्यतेजसुप्राधान्यपेक्षयेत्यादीनि । न्यायविवरणानु- सारेणापि शब्दार्थतया विरोधान्तरं परिहरति ॥ न चैवमित्यादिना ॥ यथा कस्मिन् पुरे कस्यचिदमात्यादिबहूपकारेऽपि प्रधानराज्ञोपकारे अङ्गोपकारकाणां मध्ये अमात्योपकारप्राधान्य- विवक्षया अस्मिन्पुरे अमात्येनैवायमास्त इति व्यपदेशस्तथेति भाव ॥ अपि शब्द-समुच्चयान्तरमाह ॥ न च विशिष्योक्तीति ॥ सर्वदाभावेऽपि तदात्मा ज्योतिरिति विशिष्येत्यर्थ । अत एव न्यायविवरणे आदिशब्द इति भाव ॥ तदुक्तमिति ॥ बृहद्भाष्य इत्यर्थ । समुच्चयान्तरमाह ॥ न च प्रत्यभिज्ञेति ॥ इत्युक्तरीत्येति ॥ अत्र समभिव्याहृत-विष्णुपरत्वोक्ते आत्मैवेत्यत्रापि विष्णुपरत्वं न स्वात्मपरत्वमिति भाव ॥ श्रुतिमात्रस्येति ॥ विष्णुरेव ज्योतिरिति श्रुत्या विष्णावेवामुख्यस्यापि ज्योतिश्रुतिमात्रस्येत्यर्थ । एतदाशङ्का-परिहाराय परपक्षे बृहद्भाष्योक्तबाधकसमुच्चायकत्वेनापि पदं व्याचष्टे ॥ जीवपक्षे इति ॥ विशेषवत्वेनेति ॥ भगवान् विष्णुरेवानन्द इति भाष्योदाहृतश्रुत्यैकप्रकारानन्दरूपत्वेन समान इति भाव । अत उक्तं जीवमादाय लोकसञ्चरणं तस्यैवादुखेन स्वातन्त्र्यादिति न्यायविवरणे ॥ स्वाप्नेति ॥ अथ रथान् रथयोगान् पथ सृजत इत्यादिनेत्यर्थ ॥ स्वप्नेनेति ॥ उपनिष-दुदाहृतमन्त्रे जीवस्य स्वप्नसम्बन्धं कृत्वा स्वयमसुप्तमेव तान् पश्यतीत्युक्तार्थस्य जीवेऽनुपपत्ते-रित्यर्थ ।
तत्त्वसुबोधिनी
ज्ञानरूपत्वेन हृदयाहितत्वेन चेति ॥ तथा च ज्योतिशब्दस्य लोकप्रसिद्धे अग्न्मिात्र-निष्ठत्वेऽपि ज्ञानरूपलक्षणप्रवृत्तिनिमित्तस्य हृद्यन्तरज्योतिरिति विप्रतिपन्नवाक्ये श्रुतहृदयाहि-तत्विलङ्गस्य च जीवेशयो साम्यादेतन्निबन्धनोभयत्वप्रसिद्धि ज्योतिशब्दस्य युक्तेति भाव ॥ श्रुत्यादिसङ्गतिमिति ॥ अत्र प्राणेषु हृद्यन्तर्जोतिरितिवाक्येन चेष्टकतया प्राणेषु विद्य-मानत्वेनोक्तस्य ज्योतिष विष्णोरन्यत्वे यदिदं किञ्च जगदित्युक्तप्राणचेष्टकस्यापि विष्णोरन्यत्वं स्यादित्यपि पूर्वाक्षेपसम्भवादव्यवहितपूर्वाधिकरणसङ्गतिर्ज्ञातव्या । ननु लोकसञ्चरणं विष्णावपि सम्भवतीति कथं तस्य जीविलङ्गत्वमित्यत आह ॥ तस्य हि कर्मवशादिति ॥ तस्यैवेति ॥ अस्यैवेतीदंशब्दस्य प्रकृतजीवपरामर्शकत्वादिति भाव । आत्मज्योतिष्टत्वोक्ताविति ॥ स्वप्रकाशत्वोक्तावित्यर्थ । आत्मज्योति स्वरूपज्ञानार्थत्वादिति भाव । ननु आत्म-ज्योतिष्टत्वं परमात्मनोऽप्यस्तु इत्यत आह ॥ न हीति ॥ कुतो नेत्यत आह न तत्रेति ॥ अवधारणानुपपत्तेरिति ॥ तस्यान्ययोगव्यवच्छेदकत्वादिति भाव ॥ तदा विशिष्येति ॥ परमात्मनोऽस्तमयादिशून्यस्य जाग्रत्वेऽपि ज्योतिष्ट्वस्य प्राप्त्या इतरत्रापि सम्बध्यते । अत्रायं पुरुष इति आत्मप्रश्नोपसंहाररूपेण अत्रायं पुरुष स्वयञ्ज्योतिरिति वाक्येन आत्मैवास्य ज्योतिरित्युक्तार्थस्यैव अर्थस्य प्रत्यभिज्ञानादित्यर्थ । तथा च अत्रायं पुरुष इति वाक्ये स्वयं शब्दानुरोधेन स्वप्रकाशत्वस्यैवोक्त्या तत्समानार्थात्वाद्येव आत्मैवास्य ज्योतिरित्युक्तस्यापि स्वप्रकाशकत्वार्थकत्वे आत्मप्रश्नोत्तरस्य ज्योतिशब्दस्य जीवपरत्वमेवेति भाव ॥ विष्ण्वैकवाचित्वेति ॥ विष्णोरेवेति ॥ भाष्योदाहृतश्रुतौ अन्ययोगव्यवच्छेदार्थकावधारण- श्रवणादिति भाव । कुतो न विरोध इत्यतो जायमान इत्यादे अन्तर्णीतण्यर्थत्वेनोपपत्ते न तद्विरोध इत्याह ॥ द्रष्टुश्चक्षुष इत्यादाविति ॥ तथा चेमं लोकम् अतिक्रामतीत्यादावति-क्रामतीत्याद्यर्थ इत्यर्थ । नन्ववधारणस्य प्राधान्यज्ञापकत्वं कुत अन्यव्यावर्तकत्वमर्थ किं न स्यादित्यत आह अन्यव्यावर्तकत्वस्येति ॥ जाग्रदवस्थायामपि ज्ञानकारणानां वागिन्द्रियाणां सत्वेनैवकारस्य ज्ञानकारणान्तरव्यवच्छेदेकत्वायोगादित्यर्थ । विशेष्योक्ति ज्योतिरन्तराभावाभिप्रायेणेत्युक्तं तत्कुत इत्यतस्तत्र बृहदारण्यकभाष्यसंमतिमाह ॥ तदुक्त-मिति॥ इत्युक्तरीत्योपपत्तेरिति ॥ तथात्रायं पुरुष इत्यत्र स्वयंशब्दस्य परमात्मपरत्वेन परमात्मज्योतिषामेव उच्यते जीवस्य न स्वप्रकाशत्वम् इति न तदनुरोधेन आत्मैवास्य ज्योति-रित्यस्य स्वप्रकाशत्वार्थकत्वमिति भाव ॥ श्रुतिमात्रस्येति ॥ प्राणेषु हृद्यन्तर्ज्योतिरित्यादौ विष्णुत्वनिश्चायकिलङ्गाद्यसमभिव्याहृतज्योतिशब्दस्येत्यर्थ । किं तद्बहुबाधकमित्यत तान्याह प्रसिद्धत्वेनेत्यादिना स्वाप्नेति । अथ रथान् रथयोगान् पथ सृजत इत्युक्तस्य स्वाप्नपदार्थ-कर्तृत्वस्य असम्भवादित्यर्थ ॥
वाक्यार्थमञ्जरी
ज्योतिशब्दप्रवृत्तिनिमित्तं प्रकाशत्वं, ज्ञानमपि प्रकाशरूपमिति भाव ॥ योऽयमिति ॥ कतम आत्मेत्यस्येदमुत्तरम् । यो विज्ञानमय विज्ञानपूर्ण प्राणेष्विन्द्रियेष्वन्त हृद्यन्तश्च वर्तमान ज्योतिर्जीवस्य बुध्यादिद्योतनेन प्रवृत्तिहेतु पुरुष पूर्णषगुण अयमात्मा तस्यैव महिमान्तरं स इति स आत्मा समान सन् अविकारात्सदैकप्रकार सन् उभौ लोकौ भूलोक-द्युलोकौ जाग्रत्सुषुप्ती वा जीवमादायानुसञ्चरतीत्यर्थ । लिङ्गान्तराण्याह ॥ इमं लोक-मित्यादिना ॥ स हि स्वप्नो भूत्वेति पूर्ववाक्यं स आत्मा स्वप्नो भूत्वा स्वापको भूत्वा जीवस्य स्वप्नमानयन् मृत्यो रूपाणि बहुपापैकहेतुत्वान्मृत्युरूपात्मकमिमं लोकं जाग्रदाख्यमतिक्रामति तारयति हि प्रसिद्धम् । यद्वा स आत्मा स्वप्नो भूत्वान्तरिक्षलोकान्तर्गतो भूत्वा मृत्यो रूपाणि बहुमृत्युसरूपात्मकं पापहेतुभूतं चेमं लोकं भूलोकमतिक्रामति जीवमन्तरिक्षगं कुर्वन् तारयति सजीवं प्रति ज्योतिष्ट्वेनोक्त अयं समान सन्नित्यादिनोक्त पुरुषो जायमानो वैतस्यैव व्याख्यानं शरीरमभिसम्पद्यमान इति जीवगतशरीराभिसम्पत्तिनियामक सन् पाप्मभि संसृज्यते जीवेन पापानि कारयित्वा तत्फलदानाय तानि गृह्णाति स आत्मा म्रियमाण न मरणमात्रमत्र विवक्षितं किन्तु उत्क्रमन् ऊर्ध्वं गच्छन् जीवगतोत्क्रमणनियामक सन्पाप्मनो विजहाति जीवकृतपापफलं न ददातीत्यर्थ ॥ उभयानिति ॥ उभयानित्यस्यैव विवरणं पाप्मन आनन्दांश्चेति । सभगवान् जाग्रदवस्थायां जीवानुभूयमानानि पापफलानि दुखानि सुप्तावनुभूयमानानन्दांश्च पश्यतीत्यर्थ ।
जीवस्य पूर्वोक्तात्मज्योतिष्ट्वं कदेत्युच्यते ॥ स यत्रेति ॥ स आत्मा यत्र यदा स्वपिति जीवं प्रस्वापयति तदेत्यर्थ । तस्यैव महिमान्तरमुच्यते ॥ स्वप्नान्त इति ॥ देव स्वप्रान्ते स्वप्नावस्थायामुच्चावचमीयमान वासनारूपेषूच्चनीचेषु गजपिपीलिकादिषु प्रविशन्स्वस्य बहूनि रूपाणि कुरुत इत्यर्थ ॥ भयानीति ॥ स भगवान् जीवस्य भयानि पश्यन्नपि जक्षदिवास्त इति पूर्वेणान्वय ॥ किं ज्योतिरिति ॥ हे याज्ञवल्क्य अयं पुरुष संसारी किं ज्योतिर्यस्यासौ किं ज्योतिरस्य पुरुषस्य प्रवृत्त्यादिव्यापारे स्वयमसमर्थत्वेन किञ्चिज्ज्योतिरपेक्षितं किं तज्ज्योतिरिति ज्योतिरिति जनकेन पृष्टो याज्ञवल्क्यो हे सम्राड्राजन् अयं पुरुष आदित्य एव ज्योति-र्यस्यासावादित्य ज्योतिरित्युवाचेत्यर्थ ॥ तस्यैवेति ॥ अस्येतीदंशब्दस्य प्रकृतजीवपरामर्श-कत्वादिति भाव ॥ आत्मज्योतिष्ट्वोक्ताविति ॥ स्वप्रकाशत्वोक्तावित्यर्थ ॥ तदात्मेति ॥ ज्योतिष्ट्वेनोक्तात्मेत्यर्थ ॥ तदाविशिष्येति ॥ सुषुप्तौ विशेषेणेत्यर्थ ॥ अत्रायं पुरुष इति ॥ आत्मप्रश्नोपसंहारेणायं पुरुष स्वयञ्ज्योतिरिति वाक्ये नात्मैवास्य ज्योतिरित्युक्तस्यैवार्थस्य प्रत्यभिज्ञानादित्यर्थ । तथा चात्रायं पुरुष इति वाक्ये स्वयं शब्दानुरोधेन स्वप्रकाशत्व-स्यैवोक्त्या तत्समर्थनार्थत्वायात्मैवास्य ज्योतिरित्यस्यापि स्वप्रकाशत्वार्थकत्वे आत्मप्रश्नोत्तरस्य ज्योतिशब्दस्य जीवपरत्वमेवेतिभाव ॥ ॐ ज्योतिर्दर्शनात् ॐ ॥ हृद्यन्तर्ज्योतिरित्युक्त-ज्योतिर्विष्णुरेव कुत दर्शनात् ज्योतिश्रुतेर्विष्णुमात्रवाचित्वप्रतिपादकविष्णुरेव ज्योतिरिति-श्रुतेरित्यर्थ । श्रुतावुत्सृजन्पूर्वदेहं त्यजन् द्रष्टुश्चक्षुष इति स्वातन्त्र्यस्नेहयोरन्तर्णिजितिसूत्रं स्वातन्त्र्यस्नेहयोर्विवक्षितयोसतोर्णिजन्तर्गतो न तु प्रयुज्यत इति सूत्रार्थ । तथा च यथा द्रष्टुश्चक्षुषो नातिजिह्वेत्यत्र द्रष्टुरित्यस्य दर्शयितुरित्यर्थ तथेहापि स्वातन्त्र्यस्य विवक्षितत्वात् णिचोऽन्तर्गतत्वेनातिक्रामतो इत्यादेरतिक्रामयतीत्याद्यर्थत्वमितिभाव ॥ वागादिसत्वेनेति ॥ जागरावस्थायामपि ज्ञानकारणानां वागादीनां सत्वेन ज्ञानकारणान्तरव्यवच्छेदकत्वा-योगादित्यर्थ । तदुक्तं बृहद्भाष्ये ॥ भाव इति ॥ यद्यपि जाग्रति सूर्यादेर्भावे सत्वे सुषुप्ताव-भावेऽपि स्वयं साक्षाद्विष्णुरेव जीवानां ज्योतिस्तथापि सूर्याद्यभावे सति तद्विष्णोर्ज्योतिष्ट्वं विशेषतो ज्ञेयमित्यर्थ ॥ अत्रेति ॥ अत्र सुप्तौ भगवान् स्वयं विष्णुरेव जीवस्य ज्योति जाग्रद्यपि तथात्वात् किं विशिष्योच्यत इत्युक्तम् ॥ विशेषत इति ॥ तदेव कथमित्यत उक्तम् ॥ नैवेति ॥ यद्यस्मादत्र सुप्तावन्यज्ज्योतिर्नास्तीत्यर्थ ॥ इत्युक्तेति ॥ बृहद्भाष्योक्तेत्यर्थ । तथाचात्रायं पुरुष स्वयंज्योतिरित्यत्र स्वयंशब्दस्य परमात्मपरत्वेन परमात्मज्योतिष्ट्वमेवोच्यते न जीवस्य स्वप्रकाशत्वमिति नैतदनुरोधेनात्मैवास्य ज्योतिरित्यस्य स्वप्रकाशार्थकत्वमिति भाव । एवमन्यार्थतेति सम्बन्ध । अतो बाधकाभावस्य पूर्वमनुक्तेरेवमिति परामर्शायोग इति न शङ्क्यम् ॥ स्वाप्नपदार्थेति ॥ अथ रथान् रथयोगान्पथ सृजत इत्यनेनोक्त इत्यर्थ ॥ असङ्गतेरिति ॥ ज्योतिषो जीवत्वे तत्र भगवत्प्रतिपादकमन्त्रोदाहरणासङ्गतेरित्यर्थ ।
तदेते श्लोका भवन्ति स्वप्नेन शारीरमभिप्रहत्यासुप्त सुप्तानभिचाकशीतीत्यस्यायमर्थ । तत् तत्र पूर्वोक्तार्थे एते वक्ष्यमाणा श्लोका मन्त्रा प्रमाणत्वेन भवन्ति । के ते हिरण्मय परमात्मा स्वप्नेन सुषुप्त्या शारीरं जीवमभिप्रहत्य संयोज्य स्वयमसुप्त सुप्तान् शारीरानभिचाकशीति पश्यतीति ॥
॥ इति ज्योतिरधिकरणम् ॥