ॐ अत एव प्राण ॐ
९. प्राणाधिकरणम्
सूत्रभाष्यम्
॥ ॐ अत एव प्राण: ॐ ॥ २३ ॥
"तद्वै त्वं प्राणो अभव महान्भोग प्रजापते । भुज करिष्यमाण यद्देवान्प्राणयो नव’ इति (तै.आ.३-१४) महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् । स च प्राण प्रसिद्धेर्वायुरित्यापतति । न चैवम् । यतो विष्णुरेव प्राण । अत एव "श्रीश्र्च ते लक्ष्मीश्र्च पत्न्यौ अहोरात्रे पार्श्र्वे’ (तै.आ.३-१३) इत्यादितल्लिङ्गादेव ॥ २३ ॥
सत्तकदीपावली
उक्तन्यायेन श्रुत्यन्तरस्य विष्णुपरत्वं च साधयत्सूत्रपन्यस्य व्याचष्टे । अत एवेत्यादिना । इदमाम्ना-यते । तद्वै त्वं प्राणोऽभव इति प्राणशब्दस्य वायौ रूढत्वात्तेनात्र तावद्वायुरेवोच्यते । न च गताधिकरण-न्यायेन प्राणशब्दार्थो विष्णुरिति सिद्ध्यति । यद्देवान्प्राणयो नवेति वाक्यशेषविरोधात् । नवशब्दोप-लक्षितेन्द्रियदेवादिप्रणेतृत्वस्य प्राणिलङ्गत्वात् । आनन्दमयत्वं विष्णोरेवोक्तम् । तदपि न युज्यते महान् भोग इति प्राणशब्दार्थस्य वायो परानन्दश्रवणात् । भुज्यत इति भोग इति आनन्दस्य भोगशब्देन ग्रहणा-दित्येतं पक्षं प्रतिक्षिपति ॥ न चैवमित्यादिना ॥ श्रीश्र्च ते लक्ष्मीश्र्च पत्न्याविति श्रूयमाणं द्विरूपलक्ष्मी-पतित्वं प्राणशब्दार्थो विष्णुरेवेति ज्ञापयति । न हि वायोर्लक्ष्मीपतित्वं युज्यते । यदुक्तं देवप्रणेतृत्वं प्राणिलङ्गं तत्प्रेरके हृषीकेश एव मुख्यं प्राणस्य प्राणमिति श्रुतेरित्यर्थ । (१।१।९)
तत्त्वप्रदीपिका
अत एव प्राण । तद्वै त्वमित्यादेरयमर्थ । तस्माद्धि त्वं प्राणोऽभव । कस्मात् ? प्रजापतेर्भोगा-न्करिष्यमाणो नव देवान् तदिन्द्रियस्थान्प्राणय इति यत् । भुज्यत इत्यानन्दो भोग । नवत्वं पायूपस्थयोरेकीभावेन । अङ्कं श्रिता श्री । वक्षसि लक्षणभूता लक्ष्मी । अहोरात्रे पुरुषकालौ पार्श्र्वस्थौ । "हरिं हरन्तमनुयन्ति देवा’ "विश्र्वस्येशानं वृषभं मतीनाम्’ इत्यादिकमादिशब्द आदापयति । सर्वाध्यात्मोप-लक्षणार्थ प्राणशब्द ॥ इति प्राणाधिकरणम् ।
तत्त्वप्रकाशिका
अन्यत्राप्येवमिति ज्ञापनार्थमत्र सूत्रमादावेव पठति ॥ अत एवेति ॥ अत्र लोकतोऽन्यत्र-प्रसिद्धप्राणनाम्नो विष्णौ समन्वयसमर्थनादस्ति शास्त्रादिसङ्गति । विषयवाक्योदाहरणपूर्वकं सङ्गतिं विषयसंशयौ च सूचयति ॥ तदिति ॥ यदुदितमानन्दमयत्वं विष्णोस्तत्कस्यचित्प्राणस्य तद्वै त्वमिति वाक्ये महाभोगशब्देन प्रतीयते । यस्माद् ब्रह्मणो भोगान्करिष्यमाण कुर्वाणोऽकार्षीश्च तस्मात् त्वं महाभोगोऽभव । स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्ते । यस्मात्पायुगुह्यैक्येन नवेन्द्रियाभिमानिनो देवानचेष्टयश्चेष्टयसि च चेष्टयिष्यसि च तस्मात्त्वं प्राणश्चाभव इति । तस्य च प्राणस्य विष्णोरन्यत्वेऽ-न्यस्यैवाऽऽनन्दमयत्वं स्यादित्ययं निर्णेयो भवति । स प्राणोऽत्र विषय । किं विष्णुरुत वायुरिति सन्देह । महाभोगत्वं प्राणशब्दस्यान्यत्र प्रसिद्धिश्च सन्देहबीजमिति भाव । तत्र सयुक्तिकं पूर्वपक्षयति ॥ स चेति ॥ स प्राणो वायुर्भवेत् । प्राणशब्दस्य तस्मिन्प्रसिद्धे । न च महाभोगत्वं श्रुतिबाधकम् । श्रुतितो लिङ्गस्य दौर्बल्यात् । न च सावकाशत्वादिना बाध्यबाधकभाव । महाभोगवत्त्वस्यैव वायौ सावकाशत्वात् । प्राणश्रुतेर्विष्णावनवकाशात् । न हि तावत् प्राणपदस्य तत्र रूढिरस्ति । नापि योग सम्भवति । प्राणशब्द-प्रवृत्तिनिमित्तजीवनकारणत्वस्यान्वयव्यतिरेकाभ्यां वायावेव दर्शनात् । "यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा’ इत्यादे । तथा च निरवकाशप्राणश्रुत्या महाभोगत्विलङ्गस्य सावकाशस्य सुतरां बाधोपपत्तेर्वायुरेवायं प्राण प्रागुक्तानन्दमयश्च । प्राणशब्दस्य अन्यत्र वृत्तावपि "मुखे मुख्य प्रकीर्तित’ इति मुख्यवायावेव मुख्यत्वात्स एव प्राणो भवेदिति भाव । सिद्धान्तयति ॥ न चेति ॥ कुतो नैवमित्याशङ्कायां हेतुतया सूत्रं व्याचष्टे ॥ यत इति ॥ यतोऽयं प्राणो विष्णुरेवेति स एवानन्दमयोऽतो वायुरयं प्राण आनन्दमयश्चेत्येतन्न युक्तमित्यर्थ । कुतोऽयं प्राणो विष्णुरेव इत्यत सौत्रं हेतुमुपादाय व्याचष्टे ॥ अत एवेति ॥ श्रीलक्ष्मीपतित्वादिविष्णुलिङ्गात् प्राणो विष्णुरेवेत्यर्थ । वक्षस्थलाश्रिता श्रीरिति सम्प्रदायविद । कथं श्रुत्या पूर्वपक्षिते सति लिङ्गेन निर्णय इति चेत् लिङ्गस्य निरवकाशत्वात् प्राणश्रुतेर्विष्णावपि सावकाशत्वात् निरवकाशेन सावकाशस्य बाधोपपत्ते । रूढियोगयोरभावात् कथं विष्णौ प्राणश्रुतेरवकाश इति चेन्न । "ईशान प्राणद प्राण’ इत्यादिविद्वद्रूढेर्महायोगस्य च सत्वात् । न च जीवनस्य प्राणान्वयव्यतिरेकविरोध । प्राणगतजीवनकारणत्वस्यापि भगवदधीनत्वात् । तथा च श्रुति -
"न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ इति ।
तस्मादाध्यात्मिकाशेषशब्दोपलक्षकप्राणशब्दवाच्यो हरिरेवेति (स्थितम्) सिद्धम् ॥ २३, अ. ९ ॥
गुर्वर्थदीपिका
अन्यत्राप्येवमित्यत्राधिकरणार्थनिर्णायकसूत्रस्यैव सर्वत्रापि प्राधान्यात्तस्यैव सर्वाधिकरणेष्वप्यादौ पाठ कार्य इति सूचयितुमित्यर्थ । तर्हि सर्वत्रापि तथैव पाठ कुतो न कृत इति चेत्सत्यं गङ्गोदकेन रथ्योदकानां नैर्मल्यकरणवन्मध्ये मध्ये सङ्कलय्य पठनेन स्ववचसां पवित्रीकरणायेति ब्रूम । अत एव विष्णुलिङ्गादेव प्राणो विष्णुरिति यथास्थितसूत्रार्थस्यैवं न चेति पूर्वपक्षनिषेधहेतुत्वादर्शनाद्यस्मात्प्राणो विष्णुरिति निर्णीतस्तस्मादेवं प्राणोऽन्यो न चेति हेतुहेतुमद्भावं स्फोरयितुं यत्तच्छब्दावध्याहृत्य प्राक् सौत्रप्रतिज्ञां समाकृष्य पूर्वपक्षं तावन्निषेधति यत इति । प्राणस्य विष्णुत्वनिर्णीतिरेव कुत इत्यत अत एव विष्णुलिङ्गादेव प्राणो विष्णुरिति यथास्थितसूत्रं व्याख्याति अत एवेति ॥ एतदेवाभिप्रेत्योक्तं सौत्रं हेतुमुपादायेति । श्रीभूदुर्गाख्यरूपत्रयसम्भवेऽपि श्रीर्लक्ष्मीरिति च रूपद्वयाभावात्पत्न्याविति द्विवचनानुपपत्तिरिति शङ्का माभूदिति भावेनोक्तं वक्षस्थलेति ॥ कथमन्यथा श्रीवत्स इत्येव भगव-ल्लिङ्गस्य नाम न तु लक्ष्मीवत्स इति भाव । "को नाम विष्ण्वनुपजीवक आस यस्य नित्याश्रया-दभिहिताऽपि रमा सदा श्री’ इति तात्पर्यनिर्णये रमाऽपि यस्य वक्षसि नित्याश्रयात्सदा श्रीरित्याभि-हितासेति सम्प्रदायप्रवर्तकश्रीमदाचार्यैरेव कथितत्वात्सम्प्रदायविद इत्युक्तम् । इति प्राणाधिकरणम् ॥
भावबोध
सू० ॥ ॐ अत एव प्राण: ॐ ॥ सङ्गतिमिति । श्रुत्यधिकरणसङ्गतिमित्यर्थ । अव्यवहित-पूर्वाधिकरणसङ्गतिस्त्वत्राभ्यधिकाशङ्कानिवर्तकत्वेन, अत एवेति पूर्वोक्तहेत्वतिदेशात्, आतिदेशिकरूपा अध्यात्ममन्वयव्यतिरेकत । प्राणादिहेतुतादृष्टेरतिदेशो हि तादृश ॥
इत्यनुव्याख्यान एवोक्ता । यद्वा, "आकाशाद्वायु’ इति श्रुतिक्रमादाकाब्दविचारानन्तरमत्र वायुवाचकप्राण (प्रमाण) शब्दविचारद्वारा सङ्गति द्रष्टव्या । करिष्यमाण प्राणो य इति प्रयोगवैचित्र्येण कालत्रयेऽपि तत्कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाण अकार्षीरिति चेष्टयसि चेष्टयिष्टसीति चोक्तमिति ज्ञेयम् ॥ किमिति ॥ अत्र प्राण किं मुख्यवायुरुत विष्णुरिति चिन्ता । तदर्थं प्राणश्रुति किं श्रीपतित्वादिलिङ्गबाधिका, उत तद्बाध्येति । तदर्थं सा श्रुतिर्निरवकाशा उत सावकाशेति । तदर्थं तत्कल्पकान्वयव्यतिरेकौ किं मुख्यवायोरेवानन्यथासिद्धौ, उत विष्ण्वन्वयव्यतिरेकोपजीवित्वे-नान्यथासिद्धाविति । तदर्थं तयोस्तदुपजीवित्व एतत्कल्पकत्वेनाभिमतश्रीपतित्वादिलिङ्गस्य निरवकाशत्वे च प्रमाणं नास्त्युतास्तीति । जीवनकारणत्वस्यान्वयव्यतिरेकाभ्यामिति । अनेन पूर्वाधिकरणोदाहृत-न्यायविवरणगतजीवनान्वयव्यतिरेकेत्यंशो व्याख्यातो भवति ॥ अन्यत्र प्रवृत्तावपीति ॥ वायुवृत्ता-विन्द्रियेष्वपीत्यर्थ । स एव प्राणो भवेदिति । अन्यथा महाभोगत्वादिकं विरुद्धं स्यादिति भाव । सम्प्रदायविद इति ॥ अनेन श्रयत इति श्रीरिति श्रीशब्दनिर्वचनपूर्वकं लक्ष्मीशब्देन पौनरुक्त्यं परिहृतं भवति ॥ लक्ष्म्या अङ्कगतत्वप्रसिद्धे ॥ लिङ्गस्य निरवकाशत्वादिति ॥ अनेनानन्यथासिद्धिलङ्गैरिति न्यायविवरणं पूर्ववद्विवृतं भवति । निरवकाशेन सावकाशस्य बोधोपपत्तेरिति । अनेन सन्दिग्धश्रुति-लिङ्गाभ्यामिति पूर्वमुदाहृतन्यायविवरणं पूर्ववद्य्वाख्यातं भवति । "प्रेरकोऽस्यापि यद्धरि’ इत्यनुव्याख्यानं मनसि निधायाऽऽह प्राणगतेति ॥ ९ ॥
भावदीप
॥ ॐ अत एव प्राण: ॐ ॥ अन्यत्राप्येवमिति ॥ व्याख्येयसूत्रमेव सर्वत्राप्यादौ पाठ्यं पश्चाद्विषयादिकं वाच्यमिति सूचयितुमित्यर्थ । क्वचित् सङ्गत्यादिपूर्वकं तत्पाठस्तु श्रोतृबुद्धिसौकर्याद्याशयेनेति भाव । एतेन सङ्गतिपूर्वकत्वाभावान्नेदमधिकरणान्तरमिति चोद्यं प्रत्युक्तम् । एतेन छन्दसूत्राद्यपि अधिकरणान्तरमेव न तु प्राचां रीत्या ज्योतिरधिकरणशेष । इति सूचितम् ॥ सङ्गतिमिति ॥ आनन्दमयाधिकरणतद्विषयवाक्याभ्याम् एतदधिकरणैतद्विषयवाक्ययोरित्यर्थ । सङ्गतिपरत्वने तावद्भाष्यं व्याकुर्वन् उक्तमित्यन्तस्यार्थोक्त्या तां व्यनक्ति ॥ यदुदितमिति ॥ भाष्ये यत्तदो शेष । परमानन्दत्वमित्यस्यार्थ ॥ आनन्दमयत्वमिति ॥ यत्परमानन्दत्वमुक्तं पूर्वत्र तन्महा-भोगशब्देन प्राणस्य प्रतीयत इति शेषोक्त्या योजना सूचिता । प्रतीयत इत्येतत् श्रुत्यर्थोक्त्या व्यनक्ति ॥ यस्मादिति ॥ श्रुतौ यत्तदोरावृत्तिरिति भाव । भुज भोगान् । करिष्यमाण इत्यादिरुपलक्षणमिति मत्त्वाऽऽह ॥ कुर्वाण इति ॥ यद्देवान्प्राणयो न वेत्यस्यार्थ ॥ यस्मादित्यादि ॥ पूर्वभागार्थोक्त्यैव पूर्तौ शेषोक्तिरुत्तरत्रोपयोक्ष्यत इति भाव । ऐक्येन ऐक्यविवक्षया अनेन प्राणन्ति जीवन्ति अनेनेति प्राण इति नवदेवोपलक्षितसर्वजीवनहेतुत्वरूप प्राणपदयोग पूर्वपक्षाद्युपयोगाय दर्शित । इतिशब्दस्य इति प्रतीयत इति पूर्वेणान्वय । स चेत्यादिभाष्यभावमाह ॥ तस्य चेति ॥ अन्यत्व इति ॥ प्रसिद्धिबलाद्वायुत्व इत्यर्थ ॥ अन्यस्यैवेति ॥ विवक्षितनिरतिशयपूर्णानन्दत्वस्य द्वयोरेकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिविरोधेन अयोगादिति भाव । इत्ययमित्यत्र इतिशब्दो हेत्वर्थ । इति पूर्वाक्षेपरूप-सङ्गतिसद्भावाद्धेतोरित्यर्थ । स इति पूर्वाक्षेपकमहाभोगत्वयुक्त इत्यर्थ । इति पूर्वाक्षेपरूपसङ्गति-सद्भावाद्धेतोरित्यर्थ । स इति पूर्वाक्षेपकमहाभोगत्वयुक्त इत्यर्थ । पूर्वपक्षतद्युक्तितत्फलपरत्वेनाप्येतद्भाष्यं व्याकुर्वन् स चेति भाष्यं तावदवतार्य व्याचष्टे ॥ तत्रेति ॥ वायुर्मुख्यप्राणो भवेदित्यर्थ । महाभोगत्व-मित्युपलक्षणम् । श्रीलक्ष्मीपतित्वादिब्रह्मिलङ्गं चेत्यपि ज्ञेयम् ॥ दौर्बल्यादिति ॥ शब्दादेवेत्यत्र वक्ष्यमाणन्यायेनेति भाव । ननु निरवकाशिलङ्गेन सावकाशश्रुतिबाध पूर्वमुक्त । तथेहापि स्यादिति शङ्कते ॥ न चेति ॥ सत्यमेवं न तु इह निरवकाशिलङ्गमस्ति येन तन्न्यायविषयत्वमत्र स्यादिति भावेन सौत्रैवकारव्यावर्त्यमाह ॥ महाभोगस्यैवेति ॥ प्रजापत्युपलक्षितानां सर्वजीवानां सकलभोग-कारणत्वमन्वयव्यतिरेकाभ्यां मुख्यस्य इति सुधोक्तदिशेति भाव । उपलक्षणमेतत् । श्रीपतित्वादेरद्भ्य सम्भूत इत्यनुवाकान्तरे श्रवणेन भर्ता सन्नित्यनुवाकस्थप्राणनिष्ठत्वाभावेन वा श्रीलक्ष्म्यादिशब्दानामपि योगेन तत्प्राणभार्यापरत्वेन वा सावकाशत्वादित्यपि ध्येयम् । उक्तं च सुधायां न चात्र वाक्ये पूर्ववदनन्यथासिद्धं किमपीश्वरिलङ्गमस्ति येन श्रुतिबाधं प्रत्येष्याम इति । सुधायां गतार्थत्वमाशङ्क्याधिका-शङ्कोक्तिरपि वास्तविलङ्गनिरवकाशत्वोपगमपक्ष एवेति ध्येयम् । एवं निर्बाधरूढप्राणश्रुत्यादिसिद्धेऽपि प्राणाश्रितपूर्वपक्षे तद्दाढर्यायाभ्युच्चयत्वेन श्रुतेर्निरवकाशत्वमप्याह ॥ प्राणश्रुतेरिति ॥ अत एव वक्ष्यति सुतरामिति ॥ न तावदिति ॥ लोकप्रयोगाभावादिति भाव । "अध्यात्ममन्वयव्यतिरेकत । प्राणादिहेतुतादृष्टे’ इरित्यनुभाष्योक्तमेव हेतुमाह ॥ प्राणशब्देति ॥ जीवनकारणत्वस्येति ॥ यद्देवान् प्राणयो नव । तत्प्राण इति वाक्यशेषे तस्यैवोक्तेरिति भाव । एतदर्थमेव पूर्वं शेषस्याप्यर्थोक्ति । ननु मुख्यवायोरतीन्द्रियत्वात् प्राणे सति जीवनं तदभावे तदभाव इति कथमन्वयव्यतिरेकाभ्यां जीवनहेतु-त्वस्य मुख्यवायौ दर्शनमित्यत प्रत्यक्षतोऽभावेऽपि शब्दात्स्यादेवेत्याह ॥ यत्प्राप्तिरिति ॥ श्रेष्ठश्चेत्यत्र द्वितीये भाष्योक्ता स्मृति । एतेनाध्यात्मगतशब्दानामन्वयव्यतिरेके विद्यमानेऽपीति न्यायविवरणांशो विवृत । भाष्ये प्रसिद्धेरित्यस्य जीवनहेतुत्वरूपप्राणपदप्रवृत्तिनिमित्तस्य स्मृतिबलेन वायावेव प्रसिद्धे-रित्यप्यर्थ उक्तो भवति । उक्तं च सुधायाम् । भाष्येऽप्यस्य सर्वस्य स्वीकारार्थं प्रसिद्धेरित्याहेति । तेनेयं प्रमेयाश्रिता शङ्का च भाष्यारूढैवेति ज्ञेयम् ॥ महाभोगत्वेति ॥ लिङ्गान्तरोपलक्षणम् । उक्तमित्यन्तं फलपरं चेत्युपेत्य तात्पर्यमाह ॥ प्रागुक्तानन्दमयश्र्चेति ॥ अन्यत्रेति ॥ जडरूपप्राण-वृत्त्यादावित्यर्थ ।
"चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते ।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्य प्रकीर्तित’ ॥
इति द्वितीये । न वायुक्रिये पृथगुपदेशादित्यत्र भाष्योक्तस्मृत्या "हस्तचरणश्रवणत्वगादीन्प्राणान्’ इति भागवते प्रयोगेण लोकप्रसिद्ध्या चेति भाव । मुख्यत्वादित्युपलक्षणम् । सुधोक्तदिशा वायुवृत्त्यादि-जडं प्रति त्वमेवमभव इत्युक्त्ययोगाच्च । ओषधे त्रायस्वैनमित्यादेरप्यभिमानिपरत्वादित्यपि ध्येयम् । हेतुत्वं व्यञ्जयन्नेव न चैवमिति साध्येनान्वयमाह ॥ यतोऽयमिति ॥ प्राणस्तत्त्वित्यस्यार्थ प्राणो विष्णुरेवेति ॥ श्रीलक्ष्मीपतित्वादिति ॥ यद्यपि तैत्तिरीये ह्रीश्च ते लक्ष्मीश्चेत्येव पाठ । तथाप्यत्र शाखान्तरस्थवाक्यान्यप्युदाहरणतया ग्राह्याणीति सूचयितुं श्रीश्च त इति शाखान्तरस्थवाक्यशेषो दर्शित इति भाव । तथा च वक्ष्यति दहरनये धृतेश्चेति सूत्रे टीकायाम् । अत्र स सेतुरिति वक्तव्ये एष सेतुरित्युक्ति शाखान्तराणामप्यत्रोपसङ्ग्रहार्थम् ॥ एवमन्यत्रापीति ॥ एवं चात्र तत्समाख्यया ह्रीरपि श्रीरेवेति भाव । एतल्लिङ्गस्य अनुवाकान्तरस्थत्वेऽप्यनुवाकान्तरस्थप्राणनिष्ठत्वं च श्रीश्च त इति युष्मच्छब्दनिर्दिष्टस्यैव तद्वै त्वमिति निर्देशेन ऐक्यप्रत्यभिज्ञानबलेनेति ज्ञेयम् । अत एवोक्तं सुधायां सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्येति । आदिपदेन तमेव मृत्युममृतं तमाहुस्तं भर्तारं तमु गोप्तारमाहुरिति । यस्तद्वेद ब्रह्मणैष रमत इत्यादेर्ग्रह । इत्यादितल्लिङ्गादिति भाष्यस्य पूर्वप्रतिज्ञाया-न्वयमाह ॥ प्राण इति ॥ विष्णोरेकपत्नीकत्वप्रसिद्धे पत्न्याविति कथमित्यत स्थानभेदस्थरूपविशेषाभि-प्रायेण तथोक्तिरित्युपेत्य स्थानभेदमाह ॥ वक्षस्थलेति ॥ लक्ष्मीस्त्वंकस्थितेति भाव । ननु कथमेवं तत्वप्रदीपे हि अङ्काश्रिता श्री वक्षसि लक्षणभूता लक्ष्मीरित्युक्तेरित्यत स्वोक्तार्थे संमतिमाह ॥ इति सम्प्रदायविद इति ॥ तथा चोदाहरन्ति ।
तस्या श्रिय स जगतो जनको जनन्या वक्षोधिवासमकरोत्परमं विभूते ।
श्री स्वा प्रजा सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ।
इत्याद्यष्टमस्कन्धादिस्थानि वाक्यानि । ""लिङ्गं बलवदेव स्यात्’’ इत्यनुभाष्ये सौत्रैवकारस्यानुवादेन बलवदिति व्याख्यानमिति सुधोक्तदिशा सौत्रेवकारेण लिङ्गस्य प्राबल्यमुक्तम् । तद्य्वक्तिपरमनन्यथासिद्ध-लिङ्गैभगवद्विषयत्वमेवेति न्यायविवरणांशं शङ्कापूर्वं विवृणोति ॥ कथमिति ॥ निरवकाशत्वादिति ॥ लक्ष्म्यादिशब्दानामन्यत्राप्रयोगान्मुख्यार्थत्यागापातात् । अन्यपरत्वे नामानीतिवत् मानाभावात् नान्यत्र यौगिकतेति भाव । अत एव सुधायां श्रीलक्ष्मीपतित्वस्याप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वादित्युक्तम् ॥ सावकाशत्वादिति ॥ वक्ष्यमाणदिशेति भाव । बाधोपपत्तेरित्यनेन प्रमाणाश्रिता शङ्काऽपास्ता । प्रमेयाश्रितामपि तामनूद्य "अध्यात्मगैश्च प्राणाद्यैरेको मुख्यतयोदित’ इत्याद्यनुभाष्योक्तदिशा निराह ॥ रूढीति ॥ ईशान इति सहस्रनामसु । आदिपदेन प्राणस्य प्राण इति तलवकारे प्राणस्य प्राणस्त्विति काण्वश्रुतौ प्राणबन्धनं हि सोम्य मन इति छान्दोग्यादौ च तत्र तत्र विष्णौ प्रयोगबाहुल्यादिति ग्राह्यम् । महायोगभावं व्यक्तीकर्तुमुक्तमनूद्य प्रेरकोऽस्यापि यद्धरिरित्यनुभाष्योक्तमाह ॥ न चेति ॥ अधीनत्वादिति ॥ पृथग्भगवद्गतत्वाच्चेत्यपि ध्येयम् ॥ श्रुतिरिति ॥ काठके इतरेण तु जीवन्तीति तद्गतत्वं यस्मिन्नेतावित्यनेन तु प्राणगतस्य तदधीनत्वमुच्यत इति ज्ञेयम् । इतरेणेत्येतच्च विष्णुपरम् । पूर्वत्र मध्ये वामनमिति वामनशब्दात् उत्तरत्र च गुह्यं ब्रह्म सनातनमिति ब्रह्मशब्दात् येन जातानि जीवन्तीति समाख्यानाच्च । अत्र यद्यपि मुख्यप्राणरूपयोरेवेशाधीनत्वमुच्यते न तु तयोर्जग-ज्जीवनकारणत्वस्यापि । प्रत्युत न प्राणेनेति निषेधश्च । तथापि प्राणादिदमाविरासीत्प्राणो धत्त इति पञ्चवृत्त्यैतत्प्रवर्तते । प्राणो वाव पञ्चवृत्तिरिति । उत्क्रान्तप्राणान् शूलेन समासं व्यतिषन्दहेत् नैनं ब्रूयु पितृहासीति । तथा प्राण उत्क्रमिष्यन्यथा सुहय पवीशशङ्कून् सङ्खिदेदेवमितरान्प्राणान्समखिद-दित्यादि श्रुतिभिर्यप्राप्तिरित्यादिस्मृतिभिश्च मुख्यप्राणस्यापि जीवनहेतुत्वस्य प्रमितत्वेन प्राणेन स्वतन्त्रेण मर्त्यो न जीवतीत्येवंरूपेण तत्स्वान्त्र्यमात्रनिरासार्थत्वादेतच्छ्रुते । न केवलं प्राण एव चेतनानां विधारक किन्तु विष्णुं समाश्रित्य प्राणो जीवान्बिभर्त्ययमिति काठकभाष्योक्तमहाकौर्मस्मृतौ तथैव व्याख्यानाच्च । अत एव सुधायां प्रेरकोऽस्यापीत्यत्रास्य जीवनादे प्रेरको हरिरित्याद्यनेकार्थमभिधायोक्तम् । संवदतीमं सर्वमप्यर्थं श्रुतिर्न प्राणेन इत्येवं जातीयकेति । अत्रापि मुख्यत्वोपपादनं पूर्वत्रेवात्रानुवृत्तावधारण-लब्धं बोध्यम् । मुखे मुख्य इत्युक्तिस्तु प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इति श्रुतेश्चक्षुरादिकरणभूतप्राणापेक्षयैव । तदुक्तमैतरेयभाष्ये ।
""अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते ।
तस्मात्प्राणादिशब्दाश्च विष्णावेव हि मुख्यत’’
इति । अत एवेति सौत्रांशार्थस्तस्मान्निरवकाशिलङ्गसत्त्वादिति । प्राणस्तत्त्वित्यस्यार्थ आध्यात्मिकेति । अध्यात्मगतशब्दानामिति न्यायविवणोक्तेरिति भाव । प्रधानत्वात् पूर्वाक्षेपिलङ्ग-युक्तत्वाच्च प्राणशब्द साक्षात्सूत्र उपात्त इति भाव । यत्तु अत एवेति सौत्रेतच्छब्देन पूर्वोक्तकारणत्व-परामर्शस्यैव स्वारस्यात्तस्य च कतमा सा देवता प्राण इति होवाच इति छन्दोग्यवाक्यस्थप्राण एव श्रवणान्न तद्वै त्वं प्राण इति वाक्यं सूत्रानुगुणमिति । तत्तुच्छम् । पूर्वत्र परोवरीयस्त्वादिरूप-निरवकाशिलङ्गस्यैव हेतूकरणादिह चात एवेति सर्वनाम्ना निरवकाशिलङ्गस्यैव परामर्शात् । तस्य च तैत्तिरीयवाक्येऽपि भावात् तदेव लिङ्गमत्रापि परामर्ष्टव्यमित्यत्र हेत्वभावात् । तद्वाक्ये पूर्वपक्षानुदयस्य चन्द्रिकायां व्यक्तत्वाच्च यत्किञ्चिदेतत् ॥ २३ ॥ अ. ९ ॥
अभिनवचन्द्रिका
अत एव प्राण इत्यस्य "तद्वै त्वं प्राणो भव’ इति श्रुत्युपक्रमत्वभ्रमं निवारयितुमाह अत्र सूत्रमिति ॥ प्राणनाम्न इति ॥ यद्यपि "यद्देवान्प्राणयो नवे’(तै.आ.३-१४)ति श्रुतेरस्य लिङ्गात्म-कत्वम्, तथापि नामात्मकत्वस्यापि भावात् प्राणनाम्न इत्युक्तम् । विषय इति ॥ सङ्गतिमित्यनन्तरं दर्शयन्निति शेष । एतेन सङ्गतेर्मुखत एवाभिधानात् सङ्गतिं सूचयतीत्यनुपपन्नमिति परास्तम् । सङ्गतिं दर्शयन् विषयसंशयौ सूचयतीत्यभिधानात् । यद्यपि प्राणशब्देन विषयो दर्शित । तथापि विषयत्वं नोक्तमिति तत्सूचकत्वाभिधानमुपपन्नम् । प्राणपदं वायौ प्रसिद्धं परमानन्दत्वं विष्णुत्वेन सहचरितमिति विष्णुत्ववायुत्वकोटिस्मारकयो परमानन्दप्राणशब्दयोरभिधानात् अस्य भाष्यस्य संशयसूचकत्वमुपपन्नमिति द्रष्टव्यम् । ननु परमानन्दत्वोक्तिमात्रेण कथं पूर्वाधिकरणेन सङ्गतिरुक्ता भवेत्, अतीताधिकरणप्रतिपाद्ये परमानन्दत्वाभावादित्यत आह यदुदितमिति ॥ अनेनानन्दमयाधिकरणै-तदधिकरणप्रतिपाद्ययो आनन्दमयत्वरूपैकधर्माक्रान्तत्वं सम्बन्ध इत्युक्तं भवति । तस्य च प्राणस्येति ॥ ननु तस्य च प्राणस्य विष्णोरन्यत्वे आनन्दमयत्वमन्यस्यैव प्रसज्यत इत्ययुक्तम् "तद्वै त्व’मित्युक्तिबला-दन्यस्यानन्दमयत्ववत्, उक्तिबलादेव विष्णोरप्यानन्दमयत्वसम्भवत् । अन्यथा शुक्ल कम्बल, शुक्लं वस्त्रमित्युक्ते यदि वस्त्रस्य कम्बलान्यत्वं स्यात्, तर्हि अन्यस्यैव शुक्लत्वं प्रसज्यत इति वस्त्रस्यापि कम्बलत्वं प्रसाध्यं स्यात् । यदि तत्रोक्तिबलादुभयोरपि शुक्लत्वम्, इहापि तथास्त्विति चेत्, सत्यम् इत्युक्तिबलादन्यत्रानेकेषामेकजात्यवाच्छिन्नधर्माक्रान्तत्वं सम्भवतीति बाधकाभावात् । न प्रकृते द्वयोरानन्दमयत्वं सम्भवति, आनन्दमयत्वस्य सर्वेश्र्वरत्वाविनाभूतत्वेन अनेकेश्र्वरत्वापातात् । न च तद्युक्तं जगद्विलयप्रसङ्गात् । ततश्र्च अवश्यमेकस्याऽऽनन्दमयत्वापलापे कर्तव्ये विष्णोरेव तदपलपनीयं विष्णोस्तत्पुच्छत्वोक्ते । आनन्दमये ब्रह्मशब्दस्तु तदवयवस्य ब्रह्मत्वादुपचारेण नेय इति द्रष्टव्यम् । लिङ्गदौर्बल्यादिति ॥ यद्यपि पूर्वपक्षिणा वायुरेवायं प्राण प्रागुक्तानन्दमयश्र्चेति वदता महाभोगत्वस्य विष्णुलिङ्गत्वानङ्गीकारात्, विष्णुलिङ्गमेव नेति वक्तव्यम् । दौर्बल्यं तु सर्वथा न वक्तव्यम् तथापि अङ्गीकारवादेनेति बोध्यम् । पूर्वाधिकरणेन गतार्थतापरिहाराय अभ्यधिकाशङ्कामाह नापीति ॥ आकाशशब्दस्य विष्णौ योग सम्भवति प्राणशब्दस्य तु योगोऽपि न सम्भवतीति आकाशशब्दविषयक-शङ्कात प्राणशब्दविषयकशङ्का बलवतीति भाव । अन्वयव्यतिरेकाभ्यामिति ॥ यद्यपि जीवन-कारणत्वान्वयव्यतिरेकौ नास्मदध्यक्षसिद्धौ, तथापि स्वस्वोत्तमत्वविषये प्राणेन सह विवदमानाना-मिन्द्रियाभिमानिदेवानां प्रत्यक्षसिद्धौ, अस्माकं तत्प्रत्यक्षत्वसिद्धिस्तु "त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसी’(ऐ.णा.२-१-४)ति देवकर्तृकप्राणस्तुत्यन्यथानुपपत्त्या भवति । यद्वा कुलालादिशरीरस्य घटाद्यन्वयव्यतिरेकदर्शनमेव घटादिकं प्रति कुलालाद्यन्वयव्यतिरेकदर्शनमिति लोकैरभ्युपगतत्वादिहापि वायुविकारस्य तद्देहस्थानीयस्य जीवनान्वयव्यतिरेकदर्शनं वायोरन्वयव्यतिरेकदर्शनत्वेनोक्तमिति द्रष्टव्यम् । अत एव सुधायां वायुविकारशरीरत्वान्मुख्यस्येत्युक्तम् । न केवलं जीवनहेतुत्वमन्वयव्यतिरेकगम्यम्, अपि तु आगमसिद्धं चेति भावेनाह यत्प्राप्तिरिति ॥ यद्यप्यत्र तत्प्राप्तेरुत्पत्तिकारणत्वमेवोच्यते तथापि उत्पत्तिर्नाम प्राणशब्दाभिधेयेन्द्रियधारकदेहसम्बन्ध, "जीव प्राणधारण’ इति धातुव्याख्यानात् । जीवनकारणत्वं च प्राणधारणकारणत्वमेवेति उत्पत्तिकारणत्वेन जीवनकारणत्वलाभादेतदुदाहरणमर्थवत् । लिङ्गस्य सावकाशस्येति ॥ अङ्गीकारवादोऽयम् । विष्णुलिङ्गत्वमेव नेति हृदयम् । मुख्यत्वादिति ॥ उपलक्षणमेतत् । प्राणवृत्तावचेतनायां "तद्वै त्वं प्राणो भव’ इत्यादिनिर्देशानुपपत्तेश्र्चेत्यपि द्रष्टव्यम् । सम्प्रदायविद इति ॥ स्वमतन्तु, न केवलमङ्कगाया श्रियोऽहमित्युक्ते, अङ्काश्रिता श्री, वक्षसि लक्षणभूतत्वाल्लक्ष्मीरिति सिद्धत्वान्नोक्तम् । अत एव तत्वप्रदीपे अङ्काश्रिता श्री वक्षसि लक्षणभूता लक्ष्मीरित्युक्तम् । अङ्कवक्षस्थलाश्रितयो-र्लक्ष्मीरूपयोरभिन्नत्वेन द्वयोरपि श्रीलक्ष्मीशब्दवाच्यत्वात् संप्रदायमतमपि प्रामाणिकत्वात् ग्राह्यम् । ननु "ईशान प्राणद प्राण’ इति प्रमाणे परमेश्र्वरस्य प्राणदातृत्वाभिधानमयुक्तम् । अन्वयव्यतिरेकाभ्यां प्राणदातृत्वस्य मुख्यप्राणनिष्ठत्वावगमादित्याशङ्क्य निषेधति न चेति ॥ ननु अयं निषेधोऽनुपपन्न । अन्वयव्यतिरेकसिद्धस्य मुख्यप्राणगतप्राणदातृत्वस्य बाधकाभावेनाऽपलापायोगादित्यत आह प्राणगतेति । न वयमन्वयव्यतिरेकसिद्धं प्राणदातृत्वं मुख्यप्राणेऽपलपाम, येनोक्तदोष स्यात्, किं नाम मुख्यप्राणे अन्वयव्यतिरेकसिद्धं प्राणदातृत्वमभ्युपगम्य तत्परमेश्र्वराधीनमिति परमेश्र्वर प्राणद इत्युच्यत इत्यर्थ ।
पूर्वपक्षस्तु वायुरेवायं प्राण । प्राणशब्दस्य तत्र रूढत्वात् । न च प्राणश्रुते विष्णौ सावकाशत्वं, रूढेरभावात् । यौगिकार्थस्य जीवनकारणत्वस्य अन्वयव्यतिरेकाभ्यां वायावेव दर्शनात् । तस्माद्वायुरेवायं प्राण, प्रागुक्तानन्दमयश्र्चेति न ब्रह्मजिज्ञासा सम्भवतीति ।
सिद्धान्तस्तु विष्णुरेवायं प्राण निरवकाशश्रीलक्ष्मीपतित्विलङ्गात् । "ईशान प्राणद प्राण’ (सहस्रनाम) इति विद्वद्रूढेर्महायोगस्य च विष्णौ सत्त्वेन श्रुते सावकाशत्वात्, प्राणगतजीवनान्वय-व्यतिरेकस्यापि "न प्राणेन नाऽपानेन मर्त्यो जीवति कश्र्चन’ (का.उ.५-४) इति श्रुते भगवदधीनत्वात् । तस्मात्प्राण प्रागुक्ताऽऽनन्दमयश्र्च विष्णुरेवेति युक्ता तज्जिज्ञासेति सिद्धम् । (९.अ.)
वाक्यार्थमुक्तावली
ॐ अत एव प्राण: ॐ ॥ अन्यत्राप्येवमिति ॥ यत्रादौ सूत्रं नोदाहृतं तत्र सर्वत्राप्यादौ सूत्रानुसन्धानं कार्यम् । अन्यथा विषयानुपस्थित्या सङ्गत्यादिजिज्ञासाऽयोगादिति ज्ञापनार्थं सूत्रमादौ पठतीत्यर्थ ॥ सङ्गतिरिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अत्राप्यधिकाशङ्कानिवर्तकत्वेनात एवेति पूर्वोक्तहेत्वतिदेशादातिदेशिकरूपा द्रष्टव्या । तदुक्तमनुव्याख्याने "अध्यात्ममन्वयव्यतिरेकत । प्राणादिहेतुतादृष्टेरतिदेशो हि तादृश’ इति । करिष्यमाण प्राण राजति इति प्रयोगवैचित्र्येण कालत्रये तत्कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाणोऽकार्षी चेष्टयसि चेष्टयिष्यसीति चोक्तमिति ज्ञेयम् ॥ ऐक्येनेति ॥ सामीप्येनैक्यविवक्षयेत्यर्थ ॥ किं विष्णुरीति ॥ किमयं प्राणो मुख्यवायुरुत विष्णुरिति चिन्ता । तदर्थं प्राणश्रुति तत्प्रवृत्तिनिमित्तं यद्देवान् प्राणय इत्युक्तं देवादिसर्वजीवनकारणत्विलङ्गं च निरवकाशतया स्वभावतश्र्च बलवत्वात् श्रीलक्ष्मीपतित्वादिलिङ्गबाधकमुत स्वयं सावकाशं निरवकाशेन बाध्यमिति । तदर्थं श्रीलक्ष्मीपतित्वादिलिङ्गानां निरवकाशत्वे प्राणश्रुत्यादे सावकाशत्वे च प्रमाणं नास्त्युतास्तीति । महाभोगत्वस्यैवेति ॥ "सर्वं सपूतमश्नाति स्वधितं मातरिश्र्वना’ इत्यादिश्रुत्या प्राणस्य सर्वात्तृत्वेन तज्जन्यपरमानन्दत्वोपपत्तेरिति भाव । स च प्राण इत्यत्र चशब्द एवार्थो वायुरेवेत्यन्वेतीति भावेन तद्य्वावर्त्यमाह प्राणश्रुतेर्विष्णाविति ॥ निरवकाशत्वमुपपादयति ॥ न हि तावदिति ॥ नामानि सर्वाणीति सामान्यरूढिरस्तीति चेन्न । वक्ष्यमाणबाधकेन सर्वशब्दसङ्कोचोपपत्ते । न च तदधीनत्वादर्थ-वदिति न्यायावतार । तस्यैवाभावस्य वक्ष्यमाणत्वादिति भाव ॥ नोपयोग इति ॥ तथापि किं प्रवृत्तिनिमित्तं साक्षाद्विष्णुगतमुत स्वामितासम्बन्धेन तद्गतम् । नाद्य इत्याह प्राणशब्देति ॥ अन्वयेति ॥ प्राणे प्रपन्न उदतिष्ठत् । तत्प्राण उत्क्रान्तेऽपद्यतेति श्रौतान्वयव्यतिरेकाभ्यां प्राणप्रतिमाभूतश्र्वासोच्छ्वाससद्भावे जीवनं तदभावे तदभाव इति प्रात्यक्षिकान्वयव्यतिरेकाभ्यां वेत्यर्थ । दर्शनादित्यनेन प्रसिद्धेरित्येतत् प्राक् । प्राणश्रुतेस्तत्र प्रसिद्धेर्महायोगतल्लिङ्गस्यापि तत्रैव प्रसिद्धेरिति द्वेधा व्याख्यातमधुना प्राणपदप्रवृत्तिनिमित्तस्यापि तत्रैव प्रसिद्धेरिति द्वेधा व्याख्यातं भवति । नापि द्वितीय इत्याह यत्प्राप्ति-रिति । तस्योत्पत्तिर्मृतिश्र्चैव कथं प्राणस्य युज्यत इत्युत्तरार्धमादिपदेन गृह्णाति । तथा च नास्यान्य स्वामीति भाव ॥ अन्यत्रेति ॥ जडरूपवायुवृत्ताविन्द्रियतद्देवेष्वित्यर्थ ॥ स एवेति ॥ अन्यथा महाभोगत्वादेव जीवनकरत्वं जडं प्रति त्वमेवमभव इति च विरुद्धं स्यादिति भाव । सूत्रस्य न चैवं यत इति सम्बन्धभाष्येणान्वयमाह यतोऽयं प्राण इति सूत्रे तत्त्वित्यनुवर्तते । एवकारस्तु लिङ्गस्य निरवकाशतया प्राबल्यसूचक इत्यभिप्रेत्य सूत्रार्थमाह श्रीलक्ष्मीति ॥ सम्प्रदायविद इति ॥ वक्षसि लक्षणभूता लक्ष्मीरिति तत्वप्रदीपोक्तत्वेऽपि स्वोपदेशकाचार्यसम्प्रदायोऽयमिति भाव । एतेनाङ्कस्थिता लक्ष्मीरिति ध्वन्यते । तेन स्थानभेदरूपविशेषापेक्षया पत्न्याविति द्विवचनमित्यपि ज्ञापितं बोध्यम् ॥ निरवकाशत्वादिति ॥ लिङ्गं बलवदेव स्यादित्यनुव्याख्यानोक्तदिशा शब्दादेव प्रमित इतिवल्लिङ्गप्राबल्यस्य सूत्रेऽवधारणेन सूचितत्वदिति भाव ॥ प्राणगतेति ॥ न केवलं साक्षादन्यगतस्यापीत्यर्थ । स्वातन्त्रेण न प्राणेन नापानेन कोऽपि जीवति । किन्तु प्राणादय सर्वे इतरेणैव जीवन्तीति कुत यस्मिन्नेतावुपाश्रितौ जीवनविषये तेनेतरेण तु विशिष्य जीवन्तीति भाष्यार्थ ।
तत्त्वसुबोधिनी
ॐ अत एव प्राण: ॐ ॥ अन्यत्राप्येवं ज्ञापनार्थमिति । न केवलं आनन्दमयाधिकरणे प्रथमं सूत्रोदाहरणं सङ्गत्यादिजिज्ञासाजननार्थं किं त्वन्यत्रापि प्रथममुदाहरणं तत्प्रदर्शनार्थमेवेति ज्ञापयितु-मित्यर्थ ॥ सङ्गतिमिति ॥ श्रुत्यधिकरणसङ्गतिमित्यर्थ । अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अभ्यधिका-शङ्कानिरासपूर्वकं पूर्वाक्तहेत्वतिदेशात् आतिदेशिकी । यद्वा आकाशाद्वायुरिति श्रौतक्रमानुसारेणाधिकरणानां क्रम । अप्रतीतार्थत्वात् विषयवाक्यार्थमाह ॥ यस्मादिति ॥ करिष्यमाण प्राण एजति इति प्रयोगवैचित्र्येण कालत्रयेऽपि तत्कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाण अकार्षीरिति चेष्टयसि चेष्टयिष्यसीति चोक्तमिति ज्ञेयम् । ननु प्राणेन प्रजापते भोगदानेऽपि स्वस्य महाभोगत्वसिद्धि कुत इत्यत आह ॥ स्वस्येति ॥ ननु महाभोगत्विलङ्गस्य वायाववकाशवत् प्राणश्रुतेरपि विष्णाववकाशात् न मुख्यप्राणोऽत्र प्रतिपाद्यत इत्यत आह ॥ प्राणश्रुतेरिति ॥ कुतो नावकाश इत्यतो रूढिराहित्यादित्यत आह ।
न हि तावदिति ॥ विष्णौ प्राणपदस्य लोकप्रसिद्ध्यभावादिति भाव । तथापि प्रकर्षेण अणतीति प्राण इति योगेन विष्णुपरत्वं स्यादित्यत आह ॥ नापीति ॥ कुतो जीवान्वयव्यतिरेकौ वायावेवेत्यतस्तत्र प्रमाणमाह ॥ यत्प्राप्तिरिति ॥ ननु प्राणशब्दस्य वायाविव इन्द्रियेष्वपि वृत्तेस्तेषामेव ग्रहणं किं
नेत्यत आह ॥ प्राणशब्दस्येति ॥ वायुवृत्तावपीति ॥ वायुवृत्ताविन्द्रियेष्वपीत्यर्थ ॥ स एवेति ॥ अन्यथा महाभोगत्वादिकं विरुद्धं स्यादिति भाव । ननु श्रीलक्ष्मीशब्दयो पौनरुक्त्यमित्यत आह ॥ वक्षस्थलेति ॥ अनेन श्रयत इति श्रीरिति श्रीशब्दनिर्वचनमित्युक्तं भवति । लक्ष्म्या अङ्कगतत्वप्रसिद्धेरिति भाव ॥
वाक्यार्थविवरणम्
"लक्ष्म्या वक्षस्स्थिताया’ इति विष्णुस्तुतौ वक्षस्स्थलाश्रितत्वं लक्ष्म्यास्तत्त्वप्रदीपिकाकारैरुक्तमस्ति । अत स्वसम्प्रदायमाह ॥ वक्षस्स्थलेति ॥ समीपे स्थित्वा सेवादिकारिणी लक्ष्मीरित्युच्यते इति द्रष्टव्यम् ।
वाक्यार्थमञ्जरी
अन्यत्राप्येवमिति ॥ अत्रादाविति ॥ व्याख्येयसूत्रमेवादौ पाठ्यम् । अन्यथा सङ्गत्याकाङ्क्षानुदयात् । पश्र्चाद्विषयादिकं वाच्यमिति सूचयितुमित्यर्थ । क्वचित्सङ्गत्यादिपूर्वकतत्पाठस्तु श्रोतृबुद्धिसौकर्यायेति भाव ॥
ॐ अत एव प्राण: ॐ ॥ तद्वै त्वं प्राण इत्युक्तप्राणो विष्णुरेव । श्रीश्र्च ते लक्ष्मीश्र्च पत्न्याविति निरवकाशश्रीलक्ष्मीपतित्विलङ्गादेवेत्यर्थ । लिङ्गनिरवकाशत्वमेवकारार्थ । यत्तच्छब्दयोरावृत्तिं मत्वा श्रुत्यर्थमाह ॥ यस्मादिति ॥ अभव इत्यतीतार्थकलघटनाय करिष्यमाण इत्येतदुप-लक्षणमित्या-शयेनाह ॥ कुर्वाणोऽकार्षीश्र्चेति ॥ हेतुहेतुमद्भावं व्यनक्ति ॥ स्वस्येति ॥ इन्द्रियाभिमानिदेवानां दशत्वादाह ॥ पायुगुह्यैक्येनेति ॥ ऐक्यविवक्षयेत्यर्थ । द्वितीयाध्यायभाष्योदाहृतस्मृतिमुदाहरति ॥ यत्प्राप्तिरिति ॥ यथाक्रममन्वय ॥ सुतरामिति ॥ स्वभावत एव बाधे निरवकाशत्वादिना किम्विति भाव । वायुरेवेत्यवधारणानुपपत्तिमाशङ्क्याह ॥ प्राणशब्दस्येति ॥
"चेष्यायां बाह्यवायौ च मुख्यवायौ च गीयते ।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्य प्रकीर्तित’ ॥
इति द्वितीयाध्यायभाष्योदाहृता स्मृति ॥ श्रीलक्ष्मीरिति ॥ यद्यपि ह्रीश्र्च त इति तैत्तिरेया पठन्ति तथापि शाखान्तरमप्यत्रोदाहर्तमित्याशयेन शाखान्तरस्थवाक्यमत्रोदाहृतमिति ध्येयम् । रमारूपविशेषयो स्थानविशेषाकाङ्क्षायामाह ॥ वक्षस्थलाश्रिता श्रीरिति ॥ लक्ष्म्यास्त्वङ्कगतत्वं प्रसिद्धमिति भाव । ननु कथमयं निर्णय । न च वाच्यं तस्या श्रिय स जगतो जनको जनन्या
वक्षोधिवासमकरोत्परमं विभूते । श्री स्वा प्रजा सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ इति भागवतवचनेन निर्णय इति । न केवलमङ्कगाया श्रियोऽहमिति भगवत्पादै श्रियोऽङ्कगत-त्वोक्ते । नापि श्रयते वक्षस्स्थलमिति श्रीरिति तन्निर्वचनेन तन्निर्णय । श्रयतेऽङ्कमित्यपि सम्भवात् वक्षसि लक्षणभूता लक्ष्मीरिति तत्त्वप्रदीपोक्तनिर्वचनानुसारेण वैपरीत्यसम्भवाच्च । तस्मात्कथं श्रियो वक्षस्स्थलाश्रितत्वनिर्णय इत्यत आह ॥ इति सम्प्रदायविद इति ॥ तथा च सम्प्रदाय एवात्र निर्णायकप्रमाणमित्युक्तं भवति । अत एव श्रीवत्स इत्येव भगवल्लिङ्गस्य नाम न लक्ष्मीवत्स इति । व्यामिश्रोक्तिस्तु "लक्ष्मी पद्मालया पद्मा कमला श्रीर्हरिप्रिया’ इति श्रीलक्ष्मीशब्दयो पर्यायत्वाद्युक्ता । स्मरणीयमुरोविष्णोरिन्दिरावासमित्यादिवत् । या त्वङ्कश्रिता श्री वक्षसि लक्षणभूता लक्ष्मीरिति निरुक्ति । सा रूपविशेषयोरभेदाभिप्रायेण वस्तुस्थितिकथनाय न स्थाननियमाभिप्रायेणेत्यर्थ । एतेनैव स्वोक्तार्थे भगवद्वाक्यरूपागममनभिधाय सम्प्रदायोक्तौ किं बीजम् । न च तयोरभेद एवेति वाच्यम् । आगमो ग्रन्थनिबन्धनं वाक्यम् । सम्प्रदायस्तूपदेशपरम्परामात्रमिति भेद इति प्रमेयदीपिकोक्तेरिति निरस्तम् । उक्तरीत्या भगवद्वाक्यस्य स्वोक्तार्थानिर्णायकत्वशङ्कानिरासाय सम्प्रदायग्रहणादिति ॥ महायोगस्य चेति ॥ प्राणशब्दप्रवृत्तिनिमित्तजीवनप्रदत्वस्य तत्रैव निरवधिकत्वादिति भाव ॥ न प्राणेनेति ॥ कश्र्चन मर्त्यो जीव प्राणादिना न जीवति किन्तु यस्मिन्हरावेतौ प्राणापानावुपाश्रितौ तेनेतरेण हरिणा सर्वे जीवन्तीत्यर्थ ॥ आध्यात्मिकेति ॥ आत्माधिकाराख्यग्रन्थप्रतिपाद्यमत्यन्तात्माभि-मानविषयान्तकरणादिदेहपर्यन्तमध्यात्मं तद्गतमित्यर्थ । यथोक्तम् । "आत्माभिमानाधिकारस्थितमध्यात्म-मुच्यते । देहाद्बाह्यं विनातीवबाह्यत्वात्’ इति ॥ ९ ॥
विवृति
अन्यत्राप्येवमिति ज्ञापनार्थमिति ॥ न केवलमानन्दमयाधिकरणे प्रथमं सूत्रोदाहरणं सङ्गत्यादि-जिज्ञासाजननार्थं किं त्वन्यत्रापि प्रथममुदाहरणं तत्प्रदर्शनार्थमेवेति ज्ञापयितुमित्यर्थ ॥ सङ्गतिमिति ॥ श्रुत्यधिकरणसङ्गतिमित्यर्थ ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अभ्यधिकाशङ्कानिरासपूर्वकं पूर्वोक्त-हेत्वतिदेशादातिदेशिकी ॥ यद्वा आकाशाद्वायुरिति श्रौतक्रमानुसारेणाधिकरणानां क्रम ॥ अप्रतीतार्थत्वा-द्विषयवाक्यार्थमाह ॥ यस्मादिति ॥ करिष्यमाण प्राण इति प्रयोगवैचित्र्येण कालत्रयेऽपि कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाण अकार्षीरिति चेष्टयसि चेष्टयिष्यसीति चोक्तमिति ज्ञेयम् ॥ ननु प्राणेन प्रजापतेर्भोगदानेऽपि स्वस्य महाभोगत्वसिद्धि कुत इत्यत आह ॥ स्वस्येति ॥ ननु महाभोगत्विलङ्गस्य वायाववकाशवत् प्राणश्रुतेरपि विष्णाववकाशान्न मुख्यप्राणोऽत्र प्रतिपाद्य इत्यत आह ॥ प्राणश्रुतेरिति ॥ कुतो नावकाश इत्यतो रूढिराहित्यादित्याह ॥ न हि तावदिति ॥ विष्णौ प्राणपदस्य लोकप्रसिद्ध्य-भावादिति भाव ॥ तथापि प्रकर्षेण अणतीति प्राण इति योगेन विष्णुपरत्वं स्यादित्यत आह ॥ नापीति ॥ कुतो जीवान्वयव्यतिरेकौ वायावेवेत्यतस्तत्प्रमाणमाह ॥ यत्प्राप्तिरिति ॥ तर्हि श्रुत्यादौ विष्णौप्राणशब्दप्रसिद्धिविरोध इत्यत आह ॥ प्राणशब्दस्येति ॥ वायुवृत्तावपीति ॥ वायुवृत्ताविन्द्रियेष्व-पीत्यर्थ ॥ स एवेति ॥ अन्यथा महाभोगत्वादिकं विरुद्धं स्यादिति भाव ॥ ननु श्रीलक्ष्मीशब्दयो पौनरुक्त्यमित्यत आह ॥ वक्षस्थलेति ॥ अनेन श्रयत इति श्रीरिति श्रीशब्दनिर्वचनमुक्तं भवति ॥ लक्ष्म्या अङ्कगतत्वप्रसिद्धेरिति भाव ॥
॥ इति प्राणाधिकरणम् ॥