ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ
५. अन्तर्याम्यधिकरणम्
सूत्रभाष्यम्
"य पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत’ (बृ.उ.५-७-३) इत्यादिनाऽन्तर्याम्युच्यते । तत्र च "एतदमृतमि’(छा.उ.४-१५-१)त्युक्तममृतत्वमुच्यते । स च "यस्य पृथिवी शरीर-मि’त्यादिना सर्वात्मकत्वात्प्रकृतिस्तत्तज्जीवो वा युक्त । न हि विष्णो पृथिव्यादि-शरीरत्वमङ्गीक्रियत इत्यत आह
॥ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ १८ ॥
"पृथिवी न वेद’ "य पृथिव्या अन्तर’ (बृ.उ.५-७-३) इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी । स हि "न ते विष्णो जायमानो न जात’ (ऋ.सं.७-९९-२) "स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्ट सर्वेषां भूतानामन्तरपुरुष’ (ऐ.आ.३-२-४) इत्यादिनाऽविदितोऽन्तरश्र्च ॥ १८ ॥
सत्तकदीपावली
एतदमृतमभयमिति यदक्ष्यन्तरपुरुषस्य विष्णुत्वसाधकममृतत्वमुक्तं तदन्तर्यामिण श्रूयते । एष त आत्माऽन्तर्याम्यमृत इति अन्तर्यामी विष्णोरन्य प्रतीयत इत्याशङ्क्य विष्णुरेवान्तर्यामीति प्रतिपादयितु-मुत्तराधिकरणमारभ्यते । य पृथिव्यां तिष्ठन्निति । यं पृथिवी न वेद पृथिवीदेवता न वेदेत्यर्थ । उभयेऽपीति काण्वा माध्यन्दिनायनाश्र्चान्तर्यामिण सकाशाज्जीवं भेदेनाधीयत इत्यर्थ । यस्य पृथिवी शरीरमित्यादिषु शरीरशब्दो न भोगायतनादित्वाभिप्राय किन्तु यौगिक इत्याह ॥ शीर्यत इति
॥ १८,१९,२० ॥ (१।२।५)
तत्त्वप्रदीपिका
""य पृथिव्यां तिष्ठन्नि’’त्यादीति प्रथमा सप्तम्यर्थे, तृतीयार्थे वा । य पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत’’ इत्यादि-वाक्येष्वन्तर्याम्युच्यते । तत्र च वाक्येषु तस्मिन्नन्तर्यामिण्येतदमृतमभयमित्यक्षिपुरुषस्योक्तममृतत्वं ""एष त आत्माऽन्तर्याम्यमृत’’ इत्युच्यते । स च यस्य पृथिवी शरीरमित्यादिना सर्वात्मकत्वात्प्रकृति-रित्यादेरयमर्थ । स चान्तर्यामी जडप्रकृतिर्युज्यते । यस्य पृथिवी शरीरमिति शरीरशब्दस्य स्वरूपवाचकत्वात् । सर्वोपादानत्वेन सर्वात्मकत्वाच्च तस्या । चित्प्रकृतिर्वा, सर्वाभिमानेन सर्वशरीरत्वात् । सर्वादानेन सर्वव्याप्त्या च सर्वात्मकत्वाच्च तस्या । तत्तदभिमानी जीवो वा । नहि विष्णो पृथिव्यादिरूपत्वं तदभिमानित्वं वाऽस्ति, येन तच्छरीरत्वमुच्येतेत्यत आह अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ विष्णुरेवान्तर्यामी, अधिदैवाधिभूताध्यात्मप्रकरणेष्वन्तर्यामिणोऽविदि-तत्वान्तरत्वादिविष्णुधर्मव्यपदेशात् । ""य पृथिव्यां तिष्ठन्नि’’त्याद्यधिदैवम् । ""यस्सर्वेषु भूतेषु तिष्ठन्नि’’त्याद्यधिभूतम् । ""य प्राणेषु तिष्ठन्नि’’त्याद्यध्यात्मम् ॥
तत्त्वप्रकाशिका
अत्र पृथिव्यादिशरीरत्विलङ्गसाहित्येन अन्यत्र प्रसिद्धान्तर्यामित्विलङ्गस्य विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । विषयवाक्योदाहरणपूर्वकं विषयं दर्शयति ॥ य इति ॥ श्रुत्यादिसङ्गतिं दर्शयति ॥ तत्रेति ॥ एतदमृतमभयमित्यक्षिस्थपुरुषस्यामृतत्वमुक्तम् । तत् काण्वमाध्यन्दिनश्रुत्योरन्तर्यामिण कस्यचित् श्रूयते "एष त आत्माऽन्तर्याम्यमृत’ इति । स चान्तर्यामी यदि विष्णोरितर स्यात्तदाऽमृतत्वं चान्यनिष्ठं नाक्षिस्थस्य विष्णुत्वसाधकं स्यादित्यवश्यं निर्णेतव्य एव । तदन्तर्यामित्वमत्र विषय । किं विष्णोरन्यस्य वेति सन्देह ॥ अमृतत्वं पृथिव्यादिशरीरत्वं च सन्देहबीजमिति भाव । सयुक्तिकं पूर्वपक्षयति ॥ स चेति ॥ सोऽन्तर्यामी प्रकृतिर्भवेत् । यस्य पृथिवी शरीरं यस्याप शरीरमित्यादि-नाऽन्तर्यामिण पृथिव्यादिशरीरत्वस्य श्रवणात् । तस्य च प्रकृतावुपपत्ते शरीरशब्दस्य स्वरूपेऽपि प्रयोगात् । प्रकृतेश्च पृथिव्यादिसर्वात्मकत्वात् । न च य पृथिव्यां तिष्ठन्नित्यादेरनुपपत्ति । "व्याप्तं कार्येषु कारणम्’ इत्यादिना कारणस्य कार्यस्थत्वोक्ते । पृथिवीं यमयतीत्येतदप्युपचारेण नेतव्यम् । पृथिव्यादिजीवस्यैव तदन्तर्यामित्वम् । पृथिव्यादिशरीरत्वादेस्तस्मिन्नति सुघटत्वादिति भाव । ननु यथा प्रकृत्यादिलिङ्गेन तेषामन्तर्यामित्वं तथाऽमृतत्विलङ्गेन विष्णो किं न स्यादित्यत आह ॥ न हीति ॥ विद्यमानेऽपि विष्णुलिङ्गे न तस्यान्तर्यामित्वम् । पृथिव्यादिशरीरत्वस्य कयाऽपि विधयाऽवकाशाभावात् । तस्य पृथिव्यादिभिन्नत्वचिच्छरीरत्वोररीकारेण पृथिव्यादिशरीरत्वानङ्गीकारात् । अमृतत्वस्य च कथञ्चि-त्प्रकृत्यादावपि सावकाशत्वात् । सावकाशस्य च निरवकाशेन बाधोपपत्ते । अतोऽन्तर्यामी न विष्णुरपि तु प्रकृत्यादय एवेति नामृतत्वमक्षिस्थस्य विष्णुत्वसाधकमिति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अन्तर्यामी विष्णुरेव । अन्तर्यामिण पृथिव्याद्यविदितत्वतदन्तरत्वाख्यधर्मव्यपदेशात् । अविदितत्वादेश्च विष्णुधर्मत्वात् । न च वाच्यं पृथिव्यादीनां जडत्वेन तदज्ञेयत्वं सर्वस्यापि सम्भवतीति । पृथिव्यादीनामधिदैवत्वेन जडत्वाभावादिति भाव । चक्षुरादीनां जडत्वेऽप्यत्रोक्तस्यैव तत्र कथनान्न विरोध । अविदितत्वादे कुतो विष्णुधर्मत्वमित्यत आह ॥ स हीति ॥ न च पृथिव्यादिजीवाविदितत्वं प्रकृते पृथिव्यादिजीवस्य वोपपद्यते ॥ १८ ॥
गुर्वर्थदीपिका
शरीरशब्दस्य स्वरूपेऽपि प्रयोगादित्यत्र व्याप्तिशरीरप्रविष्टत्वाल्लक्षणशरीरप्रविष्टत्वादित्यादौ स्वरूपेऽपि शरीरशब्दस्य प्रयोगादित्यर्थ । अत्रोक्तस्यैवेत्यत्र ""आदित्यश्र्चक्षुर्भूत्वे’’त्यादि-श्रुतेरत्राधिदैवमण्डले प्रोक्तादित्यादिदेवानामेव तत्र चक्षुराद्यध्यात्ममण्डलेऽप्युक्तत्वादित्यर्थ ।
भावबोध
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ श्रुत्यादिसङ्गतिमिति । अव्यवहितपूर्वाधि-करणोपात्तश्रुत्यादिनेत्यर्थ । यद्वा "रमणं नातियत्नस्य विक्षेपादेव युज्यते’ इत्यनुव्याख्यानोक्तरीत्या रमणकर्तृत्वेन चक्षुरादिनियामकतया चक्षुरन्तस्थत्वं रमणनियमनयो परस्परं व्याहतत्वेन न सम्भवतीत्युक्तसमन्वयिलङ्गाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति द्रष्टव्यम् । किं विष्णोरिति । अन्तर्यामित्वं किं प्रकृतिजीवयोरुत विष्णोरिति चिन्ता । तदर्थं प्रकृतिजीवयो तत्साधकत्वेनाभिमत-मन्तर्यामिणो यस्य पृथिवी शरीरमित्यादिनोक्तं पृथिव्यादिशरीरत्वं विष्णुत्वसाधकं पृथिव्याद्यविदितत्वादि-लिङ्गबाधकमुत तद्बाध्यमिति । तदर्थं पृथिव्यादिशरीरत्वं निरवकाशं पृथिव्याद्यविदितत्वादिकं सावकाशमुत विपरीतमिति । यं पृथिवी न वेदेत्यादिवाक्यगतपृथिव्यादिशब्दा जडपरा उत देवतापरा । तदर्थं पृथिव्याद्यविदितत्वं किं रूढं पृथिव्यादिशरीरत्वं च यौगिकमिति । तदर्थं पृथिव्यादिशरीरत्वस्य यौगिकत्वकल्पके परपक्षबाधकसावकाशत्वे तत्साधकपृथिव्याद्यविदितत्वनिरवकाशत्वे पृथिव्यादिशब्दानां देवतापरत्वे च प्रमाणं नास्त्युतास्तीति । तस्य प्रकृतावुपपत्तेरिति । यद्यपि यस्य दिश शरीरं यस्यात्मा शरीरमित्युक्तं दिगादिशरीरत्वं प्रकृतौ न मुख्यम् । पृथिव्यादे प्राकृतत्वेऽपि दिगादेरप्राकृतत्वात् । तथापि गौणं तदस्तु । ब्रह्मणस्तु पृथिव्यादिशरीरत्वमपि न मुख्यम् । न च नित्ये दिगादिके ब्रह्म-प्रतिशीर्यमाणत्वादिरूपयौगिकमपि शरीरत्वमस्तीति भाव । भाष्ये य पृथिवीमन्तरो यमयतीत्यंशोदाहरण-प्रयोजनमाह न च य इति । कारणस्य कार्यस्थत्वोक्तेरिति । न च प्रागुक्तपृथिव्याद्यात्मकत्वासम्भव इति वाच्यम्; कार्यकारणयोर्भिन्नाभिन्नत्वेनाभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य चाविरुद्धत्वादिति भाव । उपचारेण नेतव्यमिति । कार्यस्य कारणाधीनत्वादिति भाव । न चात्मानं यमयतीत्युक्तात्म-नियामकत्वानुपपत्ति, आत्मप्रकृते शरीरद्वारा प्रकृत्यधीनत्वेन तदुपपत्ते । नापि यमात्मा न वेदेत्युक्तात्माविदितत्वानुपपत्ति, अप्रतर्क्यमविज्ञेयमित्यादिना प्रकृतेर्दुर्ज्ञानत्वेन तस्याप्युपपत्तेरिति भाव । अतिसुघटत्वादिति । जीवानां पृथिव्याद्यभिमानित्वेन तच्छरीरत्वतन्नियामकत्वादीनामुपपादन-निरपेक्षत्वादित्यर्थ । अमृतत्वस्य कथञ्चिदिति ॥ प्रकृत्यादे स्वरूपनाशरहितत्वेनेत्यर्थ । उपलक्षणञ्चैतत् । यं पृथिवी न वेदेत्युक्तं पृथिव्याद्यविदितत्वं च पृथिव्यादीनां जडत्वादभिमानिन्यपि युक्तम् । यमात्मा न वेदेति चेतनस्य पृथगुक्ते पृथिव्यादिशब्दो नाभिमानिचेतनपर । य पृथिव्या अन्तर इत्युक्तमन्तरत्वं यदि भिन्नत्वं यदि वाऽन्तस्थत्वं तदायमपि पृथिव्यादिशरीरकेऽभिमानिन्यपि युक्तम् । आत्मानं यमयतीत्येतदपि तत्त्वाभिमानिनामस्मदाद्यात्मनियामकत्वाद्युक्तम् । यमात्मा न वेदेति त्वभिमानिजीवानां दुर्ज्ञानत्वाद्युक्तमिति भाव । पृथिव्याद्यविदितत्वतदन्तरत्वाख्येति । यं पृथिवी न वेदेत्यादिश्रुत्युदाहरणादविदितोऽन्तरश्र्चेत्युत्तरभाष्यबलात् तद्धर्मव्यपदेशादिति भाष्यमेवं व्याख्यातमिति बोद्धव्यम् । अधिदैवत्वेन जडत्वाभावादिति । यं पृथिवी न वेदेत्यादौ पृथिव्यादेर्जडत्वे जडस्य ज्ञानमात्राभावेन विशिष्य यमित्यस्य वैयर्थ्यमप्रसक्तप्रतिषेधापत्ति, यमात्मा न वेदेति प्रायपाठानुपपत्तिश्र्चेति भाव । प्रकृतेजीर्वस्य वोपपद्यत इति । तथा च तेन पृथिव्यादिजीवेन साकल्येनावेद्यत्वं हरेरेवेति भाव ।
अन्तरत्वं च
""बाह्यापेक्षां विना यस्तु रमते सोऽन्तर स्मृत ।
अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम्’’ ॥
इत्युक्तम् । स्वतो नित्यतृप्तत्वात् "तदेतत्प्रेय पुत्रात्’ इत्यादिश्रुत्या परमप्रेयोरूपाच्च ब्रह्मणोऽन्यत्र न युक्तम् । किञ्च "दिव्यो देव एको नारायण’ इत्युपक्रम्य "यस्य पृथिवी शरीरम्’ "य पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद’ इत्याद्युक्त्वा "एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण’ इत्युपसंहारान्नारायणोऽन्तर्यामीति ।
भावदीप
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ इत्यन्तभाष्यं सङ्गतिपरत्वेन व्याकुर्वन्नेतदमृत-मित्युक्तमिति वाक्यं व्याचष्टे ॥ एतदिति ॥ उभयेऽपीति सूत्रोक्त्यनुरोधात्तत्र चामृतत्वमुच्यत इत्यंशार्थमाह ॥ तत्काण्वेति ॥ य पृथिव्यामित्यादिवाक्यस्य काण्वमाध्यन्दिनशाखयोरेकरूपत्वादिति भाव । उच्यते पञ्चमेऽध्याये अन्तर्यामिण कस्यचिदित्यनेन तत्रेत्यस्यान्तर्यामिणीत्यर्थो दर्शित । कस्यचित्प्रकृत्यादे । किं तदमृतत्वोक्तिपरं वाक्यमित्यत तत्रेति परामृष्टवाक्यशेषमाह ॥ एष त इति ॥ अत एव भाष्ये आत्माऽन्तर्यामीत्येव वाच्ये अमृत इत्यंशोऽप्युक्त इति भाव । यस्य पृथिवी शरीरमित्यंशोक्ति पूर्वपक्षयुक्ते यं पृथिवी न वेद य पृथिव्यामन्तर इत्यंशोक्ति सिद्धान्तयुक्ते य पृथिवीमन्तर इत्यंशोक्तिर्भेदाध्ययनस्य सूचनायेत्याशय । स च यस्य पृथिवीत्यादिवाक्यतात्पर्यम् ॥ स चेति ॥ अन्तर्याम्यमृत इति वाक्योक्त इत्यर्थ । स च इत्यस्यार्थोऽन्तर्यामीति । प्रकृतिर्जीवो वेत्यस्यार्थ इतर इति । सर्वात्मकत्वादित्युक्तयुक्त्येत्यर्थ । तत्र चेत्यादेरुच्यत इत्यन्तस्य तात्पर्यमाह ॥ तदेति ॥ इत्यवश्येति ॥ इति सङ्गतिसम्भवादित्यर्थ ॥ अन्यस्य वेति ॥ जडप्रकृत्यादेरित्यर्थ । द्रष्टा श्रोतेति द्रष्टृत्वादे श्रवणात् न प्रकृतेरत्रावकाश इति तु अक्षरनये निरस्तप्रायं भविष्यतीति भाव । भाष्ये प्रकृतिर्जीवो वेत्युक्तावप्यन्यस्येत्युक्ति प्रकृतिजीवान्यतरानिश्चयेऽपि विष्ण्वन्यत्वेन पूर्वपक्षेऽवधारणं युक्तमिति दर्शयितुम् । सङ्गतिपरतया व्याख्यातमेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरत्वेन व्याकुर्वन् स चेति वाक्यं तावदवतारयति ॥ सयुक्तिकमिति ॥ व्यवहितत्वादन्वयोक्त्या प्रतिज्ञांशं व्याचष्टे ॥ स इति ॥ आदिपदार्थोक्तिपूर्वं हेत्वंशं व्याचष्टे ॥ यस्येति ॥ उपपत्तेरित्युक्तं व्यनक्ति ॥ शरीरेति ॥ पूर्वपक्षस्य शरीरमित्यादौ स्वरूपेऽपि प्रयोगा-दित्यर्थ ॥ एवं परिष्कृत्य भाष्यस्थं हेतुं सङ्गमयति ॥ प्रकृतेश्चेति ॥ उपादानत्वात्प्रकृते उपादानो-पादेययो ""खण्डितं रूपमेवात्र विकारोऽपि विकारिण’’ इत्युक्तेरभेदादिति भाव । यस्य दिश शरीरं यस्यात्मा शरीरमित्यादि तु ब्रह्मपक्षेऽपि न स्वरसमिति भाव ॥ इत्यादिनेति ॥ पञ्चमे कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणमिति गीतातात्पर्योक्तस्मृत्येत्यर्थ ॥ कार्यस्थत्वेति ॥ खण्डितं रूपमेवेति तत्वविवेकोक्त्या भेदस्यापि सत्त्वेन पटे तन्तव इत्यादिवदुपपत्तेरिति भाव ॥ उपचारेणेति ॥ कार्यस्य कारणायत्तत्वात् प्रकृत्यधीनत्वेन नेयमित्यर्थ । एवं न च स्मार्तमिति सूत्रव्यावर्त्यमुक्त्वा शारीरश्चेति सूत्रव्यावर्त्यं तत्तज्जीवो वेति भाष्योक्तं पूर्वपक्षमाह ॥ पृथिव्यादीति ॥ भाष्ये प्रकृतिपक्षे सर्वात्मकत्वादिति हेतूक्तिवज्जीवपक्षे हेत्वनुक्तेरभिप्रायमाह ॥ अतिसुघटत्वादिति भाव इति ॥ पृथिव्याद्यभिमानिजीवान्प्रति पृथिव्यादे स्थूलशरीरत्वादिति भाव । आदिपदेन य पृथिव्यां तिष्ठन् य पृथिव्यामन्तरो यमयतीत्यादिर्गृह्यते ॥ तेषामिति ॥ पूर्वं जीवो वेति सूत्राभाष्यदिशा जीव इत्येकवचनोक्तावपि तत्तदभिमानिनां बहुत्वेन तेषामित्यनुवाद । एकैकस्याभिमानिन पृथिव्याद्यनेक-शरीरकत्वायोगादिति भाव ॥ कयापीति ॥ पृथिव्याद्यात्मकत्वेन तत्तद्देहत्वेन वा सिद्धान्ते वक्ष्यमाणदिशा स्मर्यमाणत्वरूपयोगेन वेत्यर्थ । तद्य्वनक्ति ॥ तस्येति ॥ जन्मादिसूत्रे यो न पितेति वाक्योक्त्या भाष्ये कर्तृत्वमेव ब्रह्मणो नोपादानत्वमित्युक्तेर्भिन्नत्वमिति भाव ॥ चिच्छरीरेति ॥ विकरणत्वान्नेति चेत्तदुक्तमित्यत्रारूपवदेव हीति नये आह च तन्मात्रमिति सूत्रे च तथोक्तेरिति भाव । योगाद्रूढे-र्बलवत्त्वेनेत्यपि ग्राह्यम् । एतेन पृथिव्यादिशरीरत्वं निरवकाशमिति न्यायविवरणोक्तं निरवकाशत्वं विवृतं ध्येयम् । कथञ्चित् स्वरूपनित्यत्वेन एव पृथिव्याद्यविदितत्वमपि । अप्रतर्क्यमविज्ञेयमित्यादिना कथञ्चिन्नेयमिति । भाष्यस्थैकवचनेन परमत इव एक जीव इति भ्रान्तिं निरस्यन्नुपसंहरति ॥ अतो निरवकाशिलङ्गादिति ॥ प्रकृत्यादय इति ॥ अत एव भाष्ये तत्तज्जीव इत्युक्तिरिति भाव । तत्र चेत्यादिभाष्यं फलपरमिति भावेन तत्तात्पर्यमाह ॥ नामृतत्वमिति ॥ इत्याद्यन्तर्याम्युच्यत इति भाष्ये इत्यादीति प्रथमा सप्त्यमर्थे तृतीयार्थे वा । सप्तसु प्रथमेति सूत्रात् । क्रियाविशेषणं वा । इत्यादिवाक्येषु इत्यर्थ इति तत्वप्रदीपे व्याख्यातम् । सूत्रक्रममनुरुध्य व्युत्क्रमेण भाष्यं व्याचष्टे ॥ अन्तर्यामीति ॥ तद्धर्मेत्यत्र तच्छब्धार्थोऽन्तर्यामिण इति ॥ अन्तरत्वेति ॥ ""बाह्यापेक्षां विना यस्तु रमते सोऽन्तरस्स्मृत । अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतमिति’’ बृहद्भाष्योक्तरूपान्तरत्वेत्यर्थ । एतच्च य पृथिवीमन्तरो यमयतीति वाक्योक्तमन्तरत्वं ज्ञेयम् । न तु पृथिव्या अन्तरमित्युक्तान्तरत्वं तस्यान्तरो विविक्त इति वाक्यमेवाभिप्रेतम् । यद्वा पृथिव्या अन्तर इति पृथिव्या अन्तरोऽन्तस्स्थ इत्यन्तस्स्थरूपान्तरत्वस्येत्यर्थ । क्वचित्तदन्त(र)स्थत्वाख्येति पाठ । अन्तस्स्थो देवतानां च न विदुर्यं च देवता इति काण्वभाष्योक्ते । अन्तरो विविक्त इत्युक्तिस्तु अर्थान्तरमुपेत्येति ज्ञेयम् । तद्धर्मेति तच्छब्दस्यार्थान्तरमाह ॥ विष्णु-धर्मत्वादिति ॥ एतेन तस्य विष्णोरविदितत्वादिधर्मस्य तत्रान्तर्यामिणि व्यपदेशादिति सूत्रार्थो दर्शित । अधिदैवादिष्वित्युक्तेरुपयोगं व्यावर्त्यपूर्वमाह ॥ न चेति ॥ अधिदैवत्वेनेति ॥ देवै साकल्येनावेद्यत्वं विष्णोरेव लिङ्गमित्यर्थ । जडत्वेऽप्रसक्तनिषेध स्यादित्यर्थ । परमं तं नाप श्रोत्रादिनेति ज्योतिर्नये व्याख्यातत्वान्नात्र श्रुतिं व्याचख्यौ । स योऽत इति श्रुत्यर्थस्तूक्तोऽस्माभिर्विवक्षितगुणेत्यत्र ॥ चक्षुरादीनामिति ॥ पूर्वत्र य एषोऽन्तरक्षिरीत्यादावक्ष्यादित्यचन्द्रविद्युतां जडत्वेऽपि अत्राधि-दैवाध्यात्मादिप्रकरणेषु उक्तस्य पृथिव्यादिचक्षुरादिदेवतास्थस्यैव । तत्र पूर्वत्राक्ष्यादावुक्तेरमृतत्वमुखेन पूर्वाक्षेपसमाध्यविरोध इत्यर्थ । श्रुतौ लिङ्गस्यान्ययोगव्यवच्छेदानुक्ते स्वयमाह ॥ न चेति ॥ अप्रतर्क्यमविज्ञेयमित्यादि तु दुर्ज्ञानत्वादिपरम् । ""सूक्ष्मत्वादप्रसिद्धत्वाद्गुणबाहुल्यतस्तथा । अनिर्देश्यौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधव’’ इति द्वादशे गीतातात्पर्योक्ते । श्रुत्वाऽत्मानं वेद न चैव कश्चिदिति तु व्याख्यातं सर्वत्र प्रसिद्धेत्यादिनय इति भाव । अन्तरत्वं च बाह्यापेक्षां विना रममाणत्वरूपं वा । पृथिव्यादिदेवतान्तस्थत्वरूपं वा । द्वेधापि विष्णोरन्यत्रानवकाशमिति विवक्षितगुणोपपत्ते-रित्यत्रोक्तप्रायमिति भाव ॥ १८ ॥
अभिनवचन्द्रिका
भाष्ये यः पृथिव्यां तिष्ठन्निति ॥ यः पृथिव्यां=गरुडे तिष्ठन्, "पृथुं नारायणं वाति तमादायैव पक्षिरा । अतः स पृथिवीत्युक्त’ इति स्मृतेः । पृथिव्याः=गरुडात्, अन्तरो = विलक्षणः । यं च पृथिवी न वेद यस्य पृथिवी शरीरं शरीरवत्, यः पृथिवीम् अन्तरः सन् प्रेरयति एषः परमात्मा ते त्वया पृष्टोऽन्तर्यामी अमृतो=नाशरहित इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षिमते तु पृथिवीशब्दः प्रसिद्धपृथिवीपरः । अन्यत्समानम् । अन्तर्यामिणः कस्यचिदुच्यत इति ॥ एतदधिकरणप्रतिपाद्य-स्यामृतत्वेनोक्तत्वं पूर्वाधिकरणतच्छ्रुतिभ्यां सङ्गतिः । तत्प्रतिपाद्यस्यापि अमृतत्वेनोक्तत्वादिति भावः । उपचारेण नेतव्यमिति ॥ कार्यस्य कारणाधीनत्वादिति भावः । तस्येति ॥ शरीरशब्दो हि स्वरूपे शरीरे च वर्तते । पृथिवी च नेश्वरस्वरूपम् । नापि तच्छरीरमिति ॥ पृथिवीशरीरशब्दो न तस्मिन् घटत इति भावः । ननु प्रकृतिर्नान्तर्यामी अन्तर्यामिणि श्रुतस्याऽमृतत्विलङ्गस्य तत्रानवकाशादित्यत आह । अमृतत्वस्य चेति ॥ कथञ्चिदमृतत्वस्य श्रुत्युक्तगौणामृतत्वस्य प्रकृत्यादौ सावकाशत्वादित्यर्थः । इदमुक्तं भवति भवेदमृतत्वस्य प्रकृत्यादावनवकाशः, यदि श्रुतावन्तर्यामिणो मुख्यामृतत्वमुच्यत इति स्यात् । न चैवम् पीयूषस्यैव मुख्यामृतत्वात् । तदन्यस्य नाशराहित्यरूपस्य गौणामृतत्वात् । न च पीयूषत्वं अन्तर्यामिणः सम्भवतीति नाशराहित्यरूपं गौणामृतत्वमेव श्रुत्योच्यत इति अभ्युपेयम् । तच्च विष्णोरिव प्रकृत्यादावस्तीति । एतेन प्रकृत्यादौ कथञ्चिदमृतत्वसद्भावेऽपि मुख्यामृतत्वाभावादन्यधर्मेण मुख्यामृतत्वेन अक्षिस्थस्य विष्णुत्वसाधनसम्भवात्, नाऽमृतत्वमक्षिस्थस्य विष्णुत्वसाधकमित्युपसंहारो न युक्त इति परास्तम् । पूर्वपक्षिणा विष्णुवदेव प्रकृत्यादीनाममृतत्वाङ्गीकारात् । अन्तर्यामी विष्णु-रेवेति ॥ अनेन अधिदैवादिषु अधिदैवादिप्रतिपादकेषु "यः पृथिव्यां तिष्ठन्’ इत्यादिवाक्येषु उच्यमानोऽन्त-र्यामी विष्णुरेव पृथिव्याद्यविदितत्वान्तरत्वाख्यधर्मव्यपदेशादिति सूत्रयोजनोक्ता भवति । ननु सूत्रे अन्तर्यामी तद्धर्मव्यपदेशादित्येवास्तु, अधिदैवादिष्विति व्यर्थमित्याशङ्कां परिहर्तुं तदुपोद्धातमाह न च वाच्यमित्यादिना ॥ यदर्थमुपोद्धातः तदाह पृथिव्यादीनामिति ॥ पृथिव्यादीनां चेतनत्वसूचनाय सूत्रे तत्पदमिति भावः ।
वाक्यार्थमुक्तावली
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ किं विष्णोरिति ॥ अत्रान्तर्यामित्वं किं पृथिव्यादिशरीरत्विलङ्गेन प्रकृतिजीवयो उतामृतत्वपृथिव्याद्यविदितत्वरूपस्वपक्षसाधकेन त्रिगुणोपादानत्वदुखित्वादिप्रधानजीवधर्मानभिलपनलक्षणेन साधकाभावेन जीवान्तर्यामिणो भेदोक्ति-रूपबाधकेन च किं विष्णोरिति । तदर्थं पृथिव्यादिशरीरत्वादे विष्णावनवकाश अमृतत्वाविदितत्वादे प्रकृत्यादौ सावकाशत्वमुत अमृतत्वाविदितत्वादे अन्यत्र निरवकाशत्वं पृथिव्यादिशरीरत्वादे विष्णौ सावकाशत्वमिति ॥ तस्य प्रकृतावुपपत्तेरिति ॥ ननु यस्य दिश शरीरं यस्यात्मा शरीरम् इत्यातत् कथं प्रकृतावुपपद्यत इति चेन्न । दिशो मूर्तसंयोगादावात्मन शरीरसंयोगादौ प्रकृतिपरतन्त्रत्वेन शरीर-वच्छरीरमिति गौण्योपपत्ते । ब्रह्मणस्तु पृथिव्यादिशरीरत्वं किमपि न मुख्यम् । न च शीर्यते नित्यमेवास्मात् इत्युक्तयोगेन तन्मुख्यमिति वाच्यम् । अस्य योगस्यात्मदिगादावनवकाशात् । पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वत । इति बृहद्भाष्योक्तगौण्योपपत्तेरेव सर्वत्र स्वीकार्यत्वात् ॥ स्वरूपेऽपीति ॥ व्याप्तिशरीरलक्षणमित्यादावित्यर्थ । भाष्ये य पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयतीत्यंशोदाहरणस्य प्रयोजनमाह ॥ न चेत्यादिना ॥ कारणस्येति ॥ अनुपचितप्रकृतिभागस्येत्यर्थ । उपचितप्रकृति-भागस्येत्यर्थ इत्यप्याहु । अस्मिन् पक्षे प्रागुक्तपृथिव्याद्यात्मकत्वासम्भव इति न वाच्यम् । कार्यकारणयोर्भिन्नाभिन्नत्वेनाभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य चाविरोधात् आत्मनि तिष्ठन्निति जडस्य चेतनाधीनत्वाद्वा आवरकतया सम्बन्धाद्वा सावकाशम् । दिशि तिष्ठन् विभुत्वात् ॥ उपचारेणेति ॥ कार्यस्य कारणाधीनत्वादिति भाव । न च आत्मानं यमयतीत्युक्तात्मनियामकत्वानुपपत्ति । आत्मप्रवृत्ते प्रकृत्यधीनत्वेन शरीरद्वारा तदुपपत्ते । दिशो यमयतीत्युक्तिरपि मूर्तसंयोगादे प्रकृत्यधीनत्वेन विशिष्ट-विवक्षया । न च यमात्मा न वेद इत्युक्तात्माविदितत्वानुपपत्ति । अप्रतर्क्यमविज्ञेयमित्यादिना प्रकृतेर्दुर्ज्ञानत्वेन तस्याप्युपपत्तेरिति भाव । जीवपक्षे हेत्वनुक्तेरभिप्रायमाह ॥ सुघटत्वादिति ॥ जीवानां शरीराद्यभिमानित्वेन वा तद्देहवत्त्वेनेत्यर्थ ॥ कथञ्चिदिति ॥ पृथिव्यादे स्वरूपनाश-रहितत्वेनेत्यर्थ । अधिदैवादिष्वन्तर्यामीति भाष्येऽन्वय ॥ तदन्तरत्वाख्येति ॥ तस्या पृथिव्या अन्तरङ्गत्वं परमस्नेहविषयत्वमित्यर्थ । अन्तर्यामित्वमिति वा । अन्तरपुरुष इति भाष्योदाहृतश्रुते उभयार्थत्वसम्भवात् ।
अत्र केचित्इदं चान्तरत्वं य पृथिवीमन्तरो यमयतीत्यत्रोक्तम् । न तु पृथिव्या अन्तर इत्युक्तम् । तस्यान्तरो विविक्त इति भेदार्थत्वस्य वक्ष्यमाणत्वादित्याहु । वस्तुतस्तु पृथिव्या अन्तर इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशादित्युक्त्या पृथिव्या अन्तर इत्युक्तमेवात्र विवक्षितम् । न च तस्य भेदार्थकत्वोक्तिविरोध । अतिप्रियत्वभेदलक्षणार्थद्वयपरत्वाङ्गीकारात् । भेदार्थकत्वस्य वक्ष्यमाणत्वात् । अतिप्रियार्थकत्वस्य अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम् इति बृहद्भाष्यसिद्धत्वात् । तदुक्तं व्यासतीर्थीये । पृथिव्या अन्तर अद्भ्योऽन्तर इत्यन्तरशब्दार्थमाह ॥ अतिप्रियत्वाच्चेति ॥ अन्तरो यमयतीत्युक्तमन्तरत्व-मपि अत्र विवक्षितम् । सोऽन्तर स्ववशत्वत । बाह्यापेक्षां विना यस्तु रमते सोऽन्तर स्मृत इति व्याख्यातत्वात् । तदप्युक्तं व्यासतीर्थीये । य पृथिवीमन्तरो यमयतीत्यन्तरशब्दार्थमाह । सोऽन्तर इति । अन्तरशब्देन स्ववशत्वं कथं लब्धमित्यत आह । बाह्येति । अधिदैवादिष्वित्युक्तेरुपयोगं व्यावर्त्यशङ्कापूर्वमाह ॥ न चेति ॥ अधिदैवत्वेनेति ॥ प्रकरणान्ते इत्यधिदैवमित्युक्तत्वात् । जहत्वेन वेदनप्रसक्तेरभावेन वेदेत्युक्त्ययोगात् । "पृद्धं नारायणं वाति समादायैव पक्षिरा । अत स पृथिवीत्युक्त’ इत्यादिव्याख्यारूपप्रमाणाच्चेति भाव । ननु चक्षुरादीनां जडत्वे बाधकाभावात् ज्ञानकरणतया वेदनप्रसक्ति-सद्भावाच्च करणे कर्तृत्वोपचारेण न वेदेत्युक्तिसम्भवात् तदविदितत्वं सर्वस्य सम्भवतीति तत्रोक्तान्तर्यामिणो विष्णुत्वविरोध इत्यत आह ॥ चक्षुरादीनामिति ॥ चक्षुरादीनां जडत्वेऽपि कथञ्चित्तदविदितत्वस्य सर्वत्रोपपत्तावपि न विष्णोरन्तर्यामित्वविरोध । कुत, अत्र पृथिव्यादौ उक्तस्यैव तत्र चक्षुरादौ कथनात् । अन्यथा अन्तर्यामिणं ब्रूहीति सर्वान्तर्यामिण एकस्य प्रश्र्ने एष आत्माऽन्तर्याम्यमृत इत्यधिदैवादिप्रकरणत्रये तदवान्तरस्थानेष्वपि भिन्नभिन्नान्तर्यामिप्रतिपादनमसङ्गतं स्यात् । एष त आत्माऽन्तर्यामीति एकात्मत्वोक्त्ययोगाच्च । अतस्तस्यैकस्य पृथिव्याद्यविदितत्विलङ्गेन विष्णुत्वसिद्धौ चक्षुराद्यन्तर्यामित्वमपि तस्य सिद्ध्यतीति भाव । विस्तरस्तु प्रमेयमुक्तावल्यामनुसन्धेय ।
अन्ये तु पृथिव्यादेर्देवतात्वे पूर्वाक्षेपसमाध्ययोगमाशङ्क्याह ॥ चक्षुरादीनामिति ॥ पूर्वं य एषोऽन्तरक्षिणीत्यादौ अक्ष्यादित्यविद्युतां जडत्वेऽपि अत्राधिदैवादिप्रकरणेषु उक्तस्य पृथिव्यादि-चक्षुरादिदेवतास्थस्यैव पूर्वत्राक्ष्यादावुक्तेरमृतत्वमुखेन पूर्वाक्षेपसमाध्यविरोध इत्यर्थमाहु ।
ततश्र्चायं सूत्रार्थअधिदैवादिप्रकरणेष्वन्तर्यामितयोक्तो विष्णुरेव । तस्य विष्णोरविदितत्वान्तर-त्वाख्यधर्मव्यपदेशादिति ।
तत्त्वसुबोधिनी
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ अत्र चक्षुरन्तस्थस्य ब्रह्मत्वे हेतूकृतामृतत्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भाष्य एव उक्तम् । अन्तर्यामिणि पृथिव्यादिशरीरत्वश्रवणेऽपि प्रकृते अन्तर्यामित्वं कथमायातमिति अत आह । प्रकृतेश्र्चेति । पृथिव्याद्यात्मकत्वरूपं तत्प्रकृतावुपपद्यत एव । ननु शरीरत्वं कथं घटत इत्यत उक्तम् । शरीरशब्दस्येति । इदं पूर्वपक्षे शरीरमित्यादौ शरीरशब्दस्य स्वरूपेऽपि प्रयोगात् प्रकृतेरपि पृथिव्यादिशरीरत्वं सम्भवतीति भाव । यद्यपि दिगादिशरीरत्वं प्रकृतौ न मुख्यम् । दिगादेरप्राकृतत्वात् । तथापि गौणं तदस्तु । ब्रह्मणस्तु पृथिव्यादि-शरीरत्वमपि न मुख्यम् । न नित्ये दिगादिके ब्रह्मप्रतिशीर्यमाणत्वादिरूपयौगिकमपि शरीरत्वमस्तीति भाव । भाष्ये य पृथिवीमन्तरो यमयतीत्यंशोदाहरणस्य प्रयोजनमाह । न च य इति । कारणस्येति । न च प्रागुक्तपृथिव्याद्यात्मकत्वासम्भव । कार्यकारणयो भिन्नाभिन्नत्वेन अभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य वाऽविरुद्धत्वादिति भाव । तथापि प्रकृते जडत्वेन पृथिव्यादिनियामकत्वमनुपपन्नमत आह । पृथिवीमिति । कार्यस्य कारणाधीनत्वादिति भाव । आत्मनियामकत्वाविदितत्वादिकं तु आत्मप्रकृते शरीरद्वारा प्रकृत्यधीनत्वेन, अप्रतर्क्यम् अविज्ञेयमित्यादिना प्रकृते दुर्ज्ञानत्वेनोपपन्नमिति भाव । अतिसुघटत्वादिति । जीवानां पृथिव्याद्यभिमानित्वेन तच्छरीरत्वतन्नियामकत्वादीना-मुपपादननिरपेक्षत्वादित्यर्थ । अमृतत्वस्य कथञ्चिदिति ॥ प्रकृत्यादे स्वरूपनाशरहितत्वेनेत्यर्थ । उपलक्षणं चैतत् । यं पृथिवी न वेद इत्युक्तं पृथिव्याद्यविदितत्वं पृथिव्यादीनां जडत्वात् पृथिव्या-द्यभिमानिन्युपपत्ते । यमात्मा न वेदेति चेतनस्य पृथगुक्तेरिति द्रष्टव्यम् । पृथिव्याद्यविदितत्वतदन्तर-त्वाख्येति । यं पृथिवी न वेद इत्यादिश्रुत्युदाहरणादौ अविदितोऽन्तरश्र्च इत्युत्तरभाष्यबलात् तद्धर्म-व्यपदेशादिति भाष्यमेवं व्याख्यातमिति बोद्धव्यम् । अधिदैवत्वेन जडत्वाभावादिति । यं पृथिवी न वेद इत्यादौ पृथिव्यादे जडस्य ज्ञानमात्राभावेन विशिष्य यमित्यस्य वैयर्थ्यमप्रसक्तप्रतिषेधापात यमात्मा न वेदेति प्रायपाठानुपपत्तिश्र्चेति भाव । प्रकृतेरिति । तथा च तेन पृथिव्यादिजीवेन साकल्येनावेद्यत्वं हरेरेवेति भाव ।
वाक्यार्थविवरणम्
शरीरशब्दस्य स्वरूपे प्रयोगश्र्च इदं पूर्वपक्षशरीरमित्यादौ दृष्टम् ।
वाक्यार्थमञ्जरी
॥ काण्वमाध्यन्दिनेति ॥ य पृथिव्यां तिष्ठन्नित्यादिवाक्यस्योभयत्रापि पाठादेवमुक्तम् । यो भगवान्पृथिव्यां पृथिव्यभिमानिदेवतायां तिष्ठन्पृथिव्या अन्तरोऽविविक्त यमन्तर्यामिणं पृथिवी न वेद यस्य पृथिवी शरीरम् । तद्वशत्वादे । न केवलं तत्र स्थितिमात्रं किन्तु यो अन्तरो बाह्यापेक्षां विना रमत इति वा रमयति वाऽन्तर । पृथिवीं यमयति य एष भगवांस्ते तव आत्मा नियामक । अमृतो नित्योऽन्तर्यामीति गौतमं प्रति याज्ञवल्क्यवचनं तदेवोपपादयति ॥ शरीरशब्दस्येति ॥ इदं पूर्वपक्षशरीरमित्यादाविति शेष ॥ न चेति ॥ पृथिव्यभिन्नाया पृथिवीस्थत्वायोगादिति भाव ॥ इत्यादिनेति ॥ कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणमिति गीतातात्पर्यस्मृत्येत्यर्थ । तयोर्भिन्ना-भिन्नत्वेन भेदस्यापि सत्वादिति भाव । नन्वथापि पृथिवीं यमयेदित्युक्तपृथिवीनियामकत्वं कथमित्यत आह ॥ पृथिवीमिति ॥ कार्यस्य कारणाधीनत्वादिति भाव ॥ अतिसुघत्वादिति । पृथिव्याद्यभिमानित्वेन तच्छरीरत्व तन्नियामकत्वादीनामुपपादकनिरपेक्षत्वादित्यर्थ । कयापि विधयेत्येतदेवाह ॥ तस्येति ॥ उररीकारेण अङ्गीकारेण ॥ कथञ्चिदिति ॥ प्रकृत्यादे स्वरूपनाशरहितत्वेनेत्यर्थ ॥ ॐ अन्तर्या-म्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ अधिदैवादिपदेन तत्प्रकरणं लक्ष्यते । अन्तर्यामी विष्णुरेव । अधिदैवाधिभूतादिप्रकरणेषु तस्यान्तर्यामिण सम्बन्धितया तस्य ब्रह्मणो धर्मस्य पृथिव्याद्यविदितत्वादे-र्व्यपदेशादित्यर्थ । अधिदैवत्वेन अभिमानिदेवत्वेन । अन्यथा जडे ज्ञानाप्रसक्त्या यं पृथिवी न वेदेत्यादे अप्रसक्तप्रतिषेधकत्वापत्तिरिति भाव ॥ न चेति ॥ धराया प्रकृतिस्वस्वरूपज्ञत्वादिति भाव ॥
विवृति
अत्र चक्षुरन्तस्थस्य ब्रह्मत्वे हेतूकृतामृतत्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भाष्य एवोक्तम् । अन्तर्यामिणि पृथिव्यादिशरीरत्वश्रवणेऽपि प्रकृतेरन्तर्यामित्वं कथमागतमित्यत आह ॥ तस्य चेति ॥ ननु पृथिव्यादिशरीरत्वं कथं प्रकृतावित्यत आह ॥ प्रकृतेश्र्चेति ॥ पृथिव्याद्यात्मकत्वरूपं तत्प्रकृतेरप्युपद्यत एव । ननु शरीरत्वं कथं घटत इत्यत उक्तं शरीरशब्दस्येति ॥ इदं पूर्वपक्षे शरीरमित्यादौ शरीरशब्दस्य स्वरूपेऽपि प्रयोगात्प्रकृतेरपि तत्सम्भवतीति भाव । यद्यपि दिगादिशरीरत्वं प्रकृतौ न मुख्यं दिगादेर-प्राकृतत्वात् । तथापि गौणं तदस्तु ब्रह्मणस्तु पृथिव्यादिशरीरत्वमपि न मुख्यमिति भाव । भाष्ये य पृथिवीमन्तरो यमयमयतीत्यंशोदाहरणस्य प्रयोजनमाह ॥ न च य इति ॥ कारणस्येति ॥ न च प्रागुक्तपृथिव्याद्यात्मकत्वासम्भव । कार्यकारणयोर्भिन्नाभिन्नत्वेनाभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य चाविरुद्धत्वादिति भाव ॥ तथापि प्रकृतेर्जडत्वेन पृथिव्यादिनियामकत्वमनुपपन्नमत आह ॥ पृथिवीमिति ॥ कार्यस्य कारणाधीनत्वादिति भाव । आत्मनियामकत्वाविदितत्वादिकन्तु आत्मप्रवृत्ते शरीरद्वारा प्रकृत्यधीनत्वेन अप्रतर्क्यमविज्ञेयमित्यादिना प्रकृतेर्दुर्विज्ञेयत्वेनोपपन्नमिति भाव । अतिसुघटत्वादिति ॥ जीवानां पृथिव्याद्यभिमानित्वेन तच्छरीरत्व, तन्नियामकत्वादीनामुपपादन-निरपेक्षत्वादिति भाव । नन्वमृतत्वं प्रकृतौ कथमित्यत आह ॥ अमृतत्वस्येति ॥ प्रकृत्यादे स्वरूपनाशराहित्येनेत्यर्थ । उपलक्षणमेतत् । पृथिव्याद्यभिमानित्वादिकमप्युपपन्नमिति बोध्यम् । पृथिव्याद्यविदितत्वतदन्तरत्वाख्येति ॥ यं पृथिवी न वेदेत्यादिश्रुत्युदाहरणादाव-विदितोऽन्तरश्र्चेत्युत्तरभाष्यबलात् तद्धर्मव्यपदेशादिति भाष्यमेवं व्याख्यातमिति बोध्यम् । अधिदैवत्वेन जडत्वाभावादिति ॥ यं पृथिवी न वेदेत्यादौ पृथिव्यादेर्जडत्वे जडस्य ज्ञानमात्राभावेन विशिष्य यमित्यस्य वैयर्थ्यं अप्रसक्तप्रतिषेधापत्ति । यमात्मानं वेदेति प्रायपाठानुपपत्तिश्र्चेति भाव ॥ प्रकृतेरिति ॥ तथाच तेन पृथिव्यादिजीवेन साकल्येनावेद्यत्वं हरेरेवेति भाव ।