ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ

९. अथ अन्तराधिकरणम्

सूत्रभाष्यम्

।। ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ।। १५ ।।

प्राणान्मनो मनसश्च विज्ञानम्’ ।

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ (कठ.उ. ३-१३)

इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत् न, विशेषप्रमाणाभावात् ।

तत्त्वप्रदीपिका

अन्तरेत्यादिसूत्रम् । मनसश्च विज्ञानमिति श्रुतेर्मनः कार्ये विज्ञाने यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनीति श्रुत्यन्तरात्कारणस्य मनसो विलयावगमनादनयोः सृष्टिक्रम एव लयेऽपीति चोद्यम् । यच्छेद्वाङ्मनसीति वाचं मनसि यच्छेदित्यर्थः । वाचोऽधिकरणान्तरादृष्टेः । तद्यच्छेज्ज्ञान आत्मनीति मनसस्तद्दृष्टेः । ‘वाङ्मनसि सम्पद्यत’ इत्यादेश्च ।

तत्त्वप्रकाशिका

अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमधिभूतादिलयविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि-सङ्गतिः । सकललयकर्ता हरिरित्युक्तम् । लयविषये च श्रुतिविरोधे न समन्वयः सम्भवेदिति निवार्योऽसौ भवति । प्रकृताधिभूतादीनि विषयः । किं सर्वाण्युत्पत्तिक्रमवैपरीत्येन लीयन्ते कानिचित्क्रमेणापि वेति संशयः । ‘अक्षरात्परमादेव’ इति श्रुतेर्वक्ष्यमाणलिङ्गदर्शनस्य च विरोधः सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तत्पठित्वा पूर्वपक्षांशं तावद् व्याचष्टे ।। अन्तरेति ।। न सर्वेषां व्युत्क्रमेण लयः किं तु केषाञ्चिद् व्युत्क्रमात् । तथा हि । विज्ञानतत्त्वं तावन्मन-स्तत्त्वादुत्पन्नं श्रूयते ‘मनसश्च विज्ञानम्’ इति श्रुतौ तस्य च पश्चादुत्पन्नस्य विज्ञानतत्त्वस्य पश्चादेव लयः पूर्वावस्थितस्य मनस्तत्त्वस्य पूर्वमेव लयः श्रूयते ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ इति श्रुतौ । अनेन च लिङ्गदर्शनेन विज्ञानमनसी विनाऽन्येषां व्युत्क्रमाल्लयस्य प्राप्तत्वा-दुक्तमेव युक्तम् । लोकानुकूलं चैतत् । लोकेऽपि केषाञ्चित् क्रमात्केषाञ्चिद् व्युत्क्रमाल्लयदर्शनात् । न च सामर्थ्यतारतम्यविरोधः । विज्ञानमनसोः समसामर्थ्यस्यापि सम्भवात् । न चेतरश्रुतिविरोधः । तस्याः सयुक्तिकलिङ्गदर्शनविरुद्धाया अप्रामाण्योपपत्तेः । तथा च न श्रुतिसमन्वयो हरौ सिध्यतीति भावः । वाङ्मनसी यच्छेत् वाङ्मनसि लीयत इति स्मरेदित्यर्थः । सिद्धान्तांशं व्याचष्टे ।। नेति ।। न विज्ञानमनस्तत्त्वे विना विपरीतक्रमेण लयः किं तु सर्वेषामपि । विज्ञानमनस्तत्त्वयोर्यथोत्पत्तिलय इति विशेषप्रमाणाभावात् । सर्वेषामपि व्युत्क्रमाल्लयस्य श्रुतत्वाच्चेति भावः ।

गुर्वर्थदीपिका

वक्ष्यमाणलिङ्गदर्शनेन इत्यत्र ‘मनसश्च विज्ञानम्’ इति श्रुतावापाततो जनकतया प्रतीतमनसो जन्यतया प्रतीतविज्ञाने लयाख्यं लिङ्गम् । क्वचित्क्रमेण लयोऽप्यस्तीति ज्ञापकं लिङ्गमित्यर्थः । समसामर्थ्यस्यापि सम्भवादिति वदतोरुभयोरपि साम्यात्कारणस्य कार्येऽपि लयस्सम्भावित इति सूचितम् । वस्तुगत्या कारणमल्पशक्तिमत् कार्यमधिकशक्तिमदिति शङ्कितुरभिप्रायः । अन्यथा कार्ये लयस्योपोद्बलनासम्भवेन पूर्वपक्षप्राबल्यायोगात् । अत एवापिपदं टीकायामिति ज्ञेयम् । वाङ्मनसि लीयत इति स्मरेदित्यत्र ‘तद्यच्छे’ इति मनोमात्रस्यान्यत्र लयश्रवणात्सहोक्तयोरपि वाङ्मनसोर्वाचं मनसि यच्छेदित्यर्थाल्लभ्यत इति भावः । विज्ञानमनस्तत्वयोरिति वदता देहिनामन्तःकरणरूपमनस-स्तज्जन्यज्ञानस्य चोत्पत्तिक्रमेण लयश्रवणेऽपि महाप्रलये नश्यतोर्विज्ञानमनस्तत्त्वयोरुत्पत्तिक्रमेण नाशाश्रवणादिति सूचितम् । सर्वेषामपि व्युत्क्रमाल्लयस्य श्रुतत्वादित्यत्र ‘अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद्विलयश्च’ इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयस्य श्रुतत्वादित्यर्थः । ननूत्पत्तिक्रमेण नाशस्य साक्षात् श्रुतत्वात् ‘तल्लिङ्गा’ इति कथं सूत्रं तद्भाष्यं चेति चेन्न । ‘विज्ञानमनसी अन्तरा विपरीतक्रम’ इत्यस्यार्थस्य श्रुतावश्रुतत्वादस्मिन्नर्थे सा श्रुतिर्लिङ्गतया प्रमाणम् । क्वचित्क्रमलयस्य श्रुतत्वान्न सर्वत्र व्युत्क्रमेण लय इति हि वक्तव्यम् । तथा च लिङ्ग-लैङ्गिकभावादेव स्वाभीष्टसाध्यसिद्धिरिति भावः सूत्रभाष्यकारयोरिति बुद्धिमता बोद्धुं शक्यत्वात् ।

भावबोधः

अधिभूतादिलयविषयश्रुतिविरोधपरिहारादिति ।। पूर्वाधिकरणोक्तव्युत्क्रमेण लयेऽत्र क्वचिदपवादनिरासादनन्तरसङ्गतिरिति ज्ञातव्यम् । किमिति । अत्राधिभूतादीनि किं मनस्तत्त्व-विज्ञानतत्त्वे विना व्युत्क्रमेण लीयन्ते उत सर्वाण्यपि व्युत्क्रमेणैव लीयन्त इति चिन्ता । तदर्थं सर्वेषां व्युत्क्रमेण लयाभिधानात् ‘त्र्यक्षरात् परमादेव’ इति श्रुतिः, ‘प्राणान्मनो मनसश्च विज्ञानं’ ‘यच्छेद्वाङ्मनसी प्राज्ञः’ इति श्रुतिद्वयप्रतिपादितोत्पत्तिलययोरेव क्रमरूपलिङ्गदर्शनबाधिता उत न वेति । तदर्थं तल्लिङ्गे क्रमलोकदृष्ट्यनुसारित्वरूपे युक्तियुक्तत्वेन निरवकाश उत सावकाश इति । तदर्थं ‘प्राणान्मनो मनसश्च विज्ञानम्’ इति सृष्टिश्रुतिगतमनोविज्ञानशब्दौ किं तत्त्वपरावुतान्तः-करणावबोधपराविति । तदर्थं तयोस्तत्र शक्तत्वेऽपि एतच्छ्रुतिगतमनोविज्ञानशब्दयोरन्तःकरणाव-बोधपरत्वनियामकं कार्यकारणभावावेदकान्वयव्यतिरेकरूपप्रमाणं नास्त्युतास्तीति । विज्ञानमनसोः क्रमेणेति सौत्रनिर्देशे तदुभयव्यतिरिक्तानां व्यत्क्रमेण लय इत्यस्यार्थस्यालाभात् ‘अन्तरा विज्ञानमनसी क्रमेण’ इति निर्देशः कृतः । उत्पत्तिक्रमेण लीयमानत्वेनाभिमते विज्ञानमनसी अन्तरेत्युक्तिसामर्थ्यात् सूत्रे क्रमशब्दोऽव्युत्क्रमपर इत्यभिप्रे त्य प्रवृत्तं विज्ञानमनस्यन्तरा विपरीतक्रम इति भाष्यं केषाञ्चित् क्रमाल्लयः केषाञ्चित् व्युत्क्रमाल्लय इत्यङ्गीकार इति न्यायविवरणानुरोधेन व्याचष्टे– किं तु केषाञ्चिदिति ।। अनेनान्तरा विज्ञानमनसी व्युत्क्रम इति न्यायविवरणांशोऽपि व्याख्यातः । केषाञ्चित् क्रमात् केषाञ्चिद् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादिति न्यायविवरणोक्तमाह– लोकानुकूलमिति ।। न च सामर्थ्येनेति ।। पूर्वाधिकरणे पूर्वमुत्पन्नानां सामर्थ्याधिक्यस्योत्तरोत्पन्नानां सामर्थ्याल्पत्वस्योक्तत्वेन पूर्वोत्तरोत्पन्नमनस्तत्त्वविज्ञानतत्त्वयोरपि प्राप्तसामर्थ्ये तारतम्येन विरोध उत्पत्तिक्रमेण लयाङ्गीकार इत्यर्थः ।। समसामर्थ्यस्यापीति ।। ‘सामर्थ्याधिक्यमेतेषाम्’ इति स्मृतौ पूर्वोत्पन्नानां सामर्थ्याधिक्यान्ययोगव्यवच्छेदकावधारणाद्य-भावादित्यर्थः । ‘सर्वं वा एतत् क्रमादुत्पद्यते क्रमात् विलीयत’ इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लये सङ्ग्रहादिति न्यायविवरणं मनसि निधायाह– सर्वेषामपीति ।।

भावदीपः

अस्य पूर्वोक्तप्रमेयस्थापनामात्रार्थत्वात्पूर्ववदेवानन्तरसङ्गतिमाह ।। सकललयेति ।। इति श्रुतेरिति ।। पूर्वभाष्योक्तश्रुतेरित्यर्थः ।। वक्ष्यमाणेति ।। यथोत्पत्तिलयश्रवणरूपलिङ्गेत्यर्थः । पूर्वपक्षस्य पूर्वाक्षेपरूपफलाय तदाक्षेपप्रकारं च दर्शयितुं केषाञ्चित्क्रमाल्लयः केषाञ्चिद् व्युत्क्रमाल्लय इत्यन्यत्रोक्तिमनुरुध्य साध्यमध्याहृत्य तत्र हेतुपरतया पूर्वपक्षभाष्यं व्याचष्टे ।। न सर्वेषामिति ।। उक्तमेव केषाञ्चिदित्युक्तमेवेत्यर्थः । लिङ्गदर्शनस्य अक्षरादिति श्रुतितः प्राबल्याय केषाञ्चित्क्रमाल्लयः केषाञ्चिद् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादन्तराविज्ञानमनसी व्युत्क्रम इत्यन्यत्रोक्तां लोकदृष्ट्यनुसारियुक्तिं विवृणोति ।। लोकानुकूलं चैतदित्यादिना ।। उपपद्यते चेति पूर्वसूत्र-खण्डोक्तयुक्तिविरोधमाशङ्कते ।। न चेति ।। मनोविज्ञानयोः पूर्वोत्तरकालमुत्पन्नयोर्बहुलाल्प-शक्तिमत्त्वेन चिराचिरकालस्थायित्वावश्यम्भावेन व्युत्क्रमलय एव युक्तो न त्वनुक्रमलय इत्यर्थः । न्यूनाधिकसामर्थ्यासिद्धिं भाष्ये जन्मलयश्रुत्योरुक्त्या सूचितामाह ।। समेति ।। सृष्टौ मनसः पूर्वमवस्थानात् लये च विज्ञानस्य पश्चादवस्थानादिति भावः ।। न चेतरेति ।। अक्षरात्परमादेवेति श्रुतिविरोध इत्यर्थः ।। सयुक्तिकेति ।। लोकानुकूल्यरूपयुक्तिसहितेत्यर्थः ।। तथा चेति ।। अक्षरादिति श्रुत्यप्रामाण्ये अन्यत्राप्यनाश्वासापातादिति भावः । श्रुतौ मनसि वाक् यच्छेत् उपरमेत् । यम उपरमे इति धातोर्लीयत इत्यर्थः । तत्र प्राज्ञ इत्यस्यान्वयाय तद्वशत्वेन तद्ध्यानं लयो नाम न चापरः । कुतस्तु मानुषो देवान्नियच्छेद्विनियामकानिति काठकभाष्यानुरोधेन ज्ञान-लक्षणामाश्रित्याह ।। इति स्मरेदित्यर्थ इति ।। तत्वप्रदीपे तु वाचं मनसि यच्छेदित्यर्थ इत्युक्तम् । मनसीति दैर्घ्यं छान्दसम् । नञः पूर्वभाष्येणान्वयं दर्शयति ।। न विज्ञानेति ।। अनेन सूत्रे पूर्वप्रकृतो लयोऽन्वेतीति सूचितम् । विशिष्टनिषेधः सविशेषणे हीति न्यायेन विशेषणनिषेधफलक इति भावेन पर्यवसितमाह ।। किं तु सर्वेषामपीति ।। ननु सर्वेषां व्युत्क्रमलये मानाभावादेव क्वचिदनुक्रमोऽपि लयः स्यादित्यतः सर्वं वा एतत्क्रमादुत्पद्यते क्रमाद्विलीयत इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लय-सङ्ग्रहादित्यन्यत्रोक्तरीत्याऽविशेषादिति सूत्रखण्डस्याविशेषप्रमाणादित्यर्थान्तरं मत्त्वा भाष्यभावमाह ।। सर्वेषामपीति ।।

अभिनवचन्द्रिका

समसामर्थ्यस्यापि सम्भवादिति ।। ननु मनस्तत्वस्य विज्ञाने लयव्युत्पादनाय वैपरीत्येन सामर्थ्यस्यापि वक्तव्यम्, न तु समबलत्वसम्भवादिति । लयाधिकरणस्य अधिकबलवत्त्वनियमादिति चेत्, न ब्रूमो वयमेकमेव सामर्थ्यमुभयत्र समानमिति । येनोक्तदोषः स्यात् । किं नाम विज्ञान-तत्त्वोत्पादनाय मनस्तत्त्वस्य विशिष्टं सामर्थ्यम् । एवं च कृत्वा समसामर्थ्यमिति । तद्यथा लोके कश्चिद्बलेनोत्तमः । एवमपि तौ समावुच्येते ।

पूर्वपक्षस्तु – न विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वं युक्तम् । किन्तु विज्ञानमनसी अन्तरा व्युत्क्रमेण लयकर्तृत्वम् ‘मनसश्च विज्ञानम्’ इति मनस उत्पन्ने विज्ञानतत्त्वे ‘तद्यच्छेत् ज्ञान आत्मनि’ इति मनस्तत्त्वस्य लयश्रवणात्, लोकानुगुण्याच्च । लोके क्रमेण, व्युत्क्रमेण च लयदर्शनात् । न च सामर्थ्यतारतम्यविरोधः । मनस उत्पत्तिविषये सामर्थ्याधिक्यमित्यङ्गीकारे बाधकाभावात् । अतः सयुक्तिकलिङ्गदर्शनविरुद्धायाः क्रमश्रुतेः अप्रामाण्योपपत्तेः न श्रुतिसमन्वयो युक्त इति ।

सिद्धान्तस्तु – युक्तमेव विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वम् । विज्ञानमनसोरपि बाधकाभावेन व्युत्क्रमेण लयाङ्गीकारात् । न च ‘मनसश्च विज्ञानः’ इति श्रुत्या मनस्तत्त्वात् विज्ञान-तत्वस्योत्पन्नत्वेन मनस्तत्वस्य विज्ञानतत्वे लयाङ्गीकारे कथं न विरोध इति वाच्यम् । श्रुत्यर्था-परिज्ञानात् । न हि सा श्रुतिः मनस्तत्त्वाद्धि ज्ञानतत्त्वस्योत्पत्तिमाचष्टे । किं तर्हि मन इन्द्रियाद् ज्ञानस्योत्पात्तिमाचष्टे । तदुक्तम् –

परादव्यक्तमुत्पन्नमव्यक्तात्तु महांस्तथा ।

 विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखात् ।।

 विज्ञानतत्त्वात् मनो मनस्तत्वाच्च खादिकम् । इति ।

अतः श्रुत्यविरोधेन सर्वेषां व्युत्क्रमेण लयसिद्धेः हरौ श्रुतिसमन्वयो युक्त इति सिद्धम् ।

वाक्यार्थमुक्तावली

अस्य क्वचिदपवादनिरासेन पूर्वोक्तप्रमेयस्थापना मात्रार्थत्वादनन्तरसङ्गतिमाह ।। सकललयेति ।। किमिति ।। अत्राधिभूतादीनि प्राणान्मनोमनसश्च विज्ञानं, ‘यच्छेद्वाङमनसी प्राज्ञस्तद्यच्छेद-ज्ञानआत्मनि’ इति श्रुतिद्वयप्रतिपादितयोरुत्पत्तिलययोरेकक्रमरूपलिङ्गदर्शनबलाक्तिं मनस्तत्व-विज्ञानतत्वे विना व्युत्क्रमेण लीयन्ते, उत सर्वाण्यपि अक्षरात्परमादेवेति श्रुत्या व्युत्क्रमेण लीयन्त इति चिन्ता । तदर्थं मनसश्च विज्ञानमिति श्रुतौ मनो विज्ञानशब्दौ किं तत्वपरौ उत अन्तःकरणा-वबोधपराविति ।। वक्ष्यमाणेति ।। मनोविज्ञानयोरुत्पत्तिक्रमेण लयश्रवणरूपवक्ष्यमाणलिङ्गेनेत्यर्थः । यथाश्रुतसूत्रानुरोधेन मनोविज्ञानयोरेव क्रमेण लयोऽन्येषां व्युत्क्रमेण लय इति पूर्वपक्षिणा पूर्वोक्तापवाद आशंक्यत इति व्याख्याने केषांचित्क्रमाल्लयः केषांचिद्व्युत्क्रमाल्लय इति न्याय-विवरणविरोधः । तत्र मनोविज्ञानातिरिक्तानामपि क्रमाल्लयस्याशङ्क्यमानत्वादित्यभिप्रे त्य पूर्वसूत्रा-द्विपर्येण तु क्रम इत्यनुवर्तितस्याश्रुतन्वयः । न सर्वेषां व्युत्क्रमेण लयः किन्तु केषांचिदित्यभिप्रे त्य बहिरेव प्रतिज्ञामाह ।। न सर्वेषामिति ।। तर्हि सूत्राविरोध इत्यतः केषांचित्क्रमाल्लय इत्यत्रोदाहरणप्रदर्शनाय सूत्रं प्रवृत्तमिति भावेन सङ्गमयति ।। तथा हीति ।। लिङ्गदर्शनेनेति ।। मनसश्च विज्ञानं, यच्छेद्वाङ्मनसीप्राज्ञस्तद्यच्छेद्ज्ञान आत्मनि’ इति श्रुत्योः मनसो विज्ञानं जायते, वाचो मनसि लीयन्ते, मनश्च विज्ञाने लीयत, इति स्मरेदित्युक्तत्वेऽपि, विज्ञानमनसोः क्रमेणान्येषां व्युक्त्रमेण लय इत्येवं विधिरूपत्वाभावेनागमविधया बोधकत्वाभावात् । पूर्वमुत्पन्नस्य मनसः पश्चादुत्पन्ने लयश्रवणं विज्ञानमनसी विना व्युत्क्रमेण लय इत्यत्रान्यथानुपपत्तिमुखेन लिङ्गमितिभावः ।। उक्तमेव युक्तमिति ।। केषाञ्चित्क्रमाक्तेषाञ्चिद्व्युत्क्रमादित्युक्तमेवेत्यर्थः ।। ननु लिङ्गदर्शनेनोभयोः क्रमाल्लयस्य प्राप्तत्वेऽपि कथं बहूनामित्थंतत्सिद्धिरित्यतो लोकदृष्ट्यनुसारित्वमित्युक्तन्यायं संगमयति लोकानुकूलं चेति ।।

उपपद्यतेचेति पूर्वसूत्रखण्डोक्तयुक्तिविरोधमाशङ्कते न चेति ।। मनोविज्ञानयोः पूर्वोत्तर-कालोत्पन्नयोः चिराचिरकालावस्थानावश्यंभावेन, बहुलाल्पशक्तित्वेन व्युत्क्रम एव युक्तो न त्वनुक्रम इत्यर्थः ।। समेति ।। सृष्टौ मनसः पूर्वमवस्थानात् । प्रलये विज्ञानस्य पश्चादवस्थानात् कालसाम्येन समसामर्थ्यस्यापि सम्भवादित्यर्थः । न च वामनपुराणे पूर्वोत्पन्नस्य सामर्थ्या-धिक्योक्तिविरोधः । तस्य व्युत्क्रमेण लीयमान पूर्वोत्पन्नविषयत्वादिति भावः । श्रुतौ वाङ्मनसी यच्छेत् उपरमेत् । यम उपरम इति धातोः लीयत इत्यर्थः । तर्हि प्राज्ञ इत्यस्यान्वयो नास्तीत्य-तस्तद्वशत्वेन ध्यानं लयो नाम न चापर इति काठकभाष्यानुसारेणाह ।। स्मरेदिति ।। मनसीति दीर्घश्चान्दसः । नञः पूर्वेणान्वयमाह ।। न विज्ञानेति ।। विशेषप्रमाणाभावादितिभाष्यस्य बुध्या विवेकेन विशेषप्रमाणाभावादित्यर्थान्तरं मत्वा तदनुसारेण सूत्रखण्डस्यार्थान्तरं सर्वसङ्ग्रह इत्युक्तन्यायं सङ्गमयितुमाह ।। सर्वेषामपीति ।। सर्वं वा एतत्क्रमादुपद्यते व्युत्क्रमाद्विलीयत इति श्रुतत्वाच्चेत्यर्थः । सूत्रे क्रमेणेत्यस्य व्युत्क्रमेणेत्यर्थः । लय इति शेषः ।। तल्लिङ्गादिति ।। विज्ञानमनसोरुत्पत्तिक्रमेण लये यथोत्पत्तिलयरूपलिङ्गादित्यर्थः ।

तत्त्वसुबोधिनी

अधिभूतलयविषयेति ।। पूर्वाधिकरणोक्तव्युत्क्रमेण लयेऽत्र क्वचिदपवादनिरासादपवाद-सङ्गतिरिति भावः ।। वक्ष्यमाणलिङ्गदर्शनस्य चेति ।। पश्चादुत्पन्नस्य विज्ञानतत्वस्य पश्चाल्लय-कथनरूपलिङ्गदर्शनस्येत्यर्थः । विज्ञानमनसी क्रमेणेति सौत्रनिर्देशे तदुभयव्यतिरिक्तानां व्युत्क्रमेण लय इत्यर्थस्यालाभात् अन्तरा विज्ञानमनसी क्रमेण इति निर्देशः कृतः । उत्पत्तिक्रमेण लीयमानत्वेन अभिमते विज्ञानमनसी । अन्तरेत्युक्तिसामर्थ्यात् सूत्रे क्रमशब्दः व्युत्क्रमपर इत्यभिप्रे त्य प्रवृत्तं विज्ञानमनस्यन्तरा विपरीतक्रम इति भाष्यं व्याचष्टे ।। किन्तु केषाञ्चिदिति ।। कुत्र श्रूयत इति तत्राह ।। यच्छेदिति ।। अस्त्वेवं लिङ्गदर्शनम् । ततः किं तत्राह ।। अनेन च लिङ्गदर्शनेनेति ।। उक्तमेव फलमिति ।। विज्ञानमनसी विना व्युत्क्रमेण लय इत्युक्तमित्यर्थः । लोकानुसारित्वयुक्तिमाह ।। लोकेति ।। न च सामर्थ्येति ।। पूर्वमुत्त्पन्नानां सामर्थ्याधिक्य-स्योत्तरोत्पन्नानां सामर्थ्याल्पत्वस्योक्तत्वेन पूर्वोत्पन्नमनस्तत्वविज्ञानतत्वयोरपि सामर्थ्यतारतम्येन विरोध उत्पत्तिक्रमेण लयाङ्गीकार इत्यर्थः ।। समसामर्थ्यस्यापीति ।। सृष्टौ मनसः पूर्वमवस्थानात् प्रलये विज्ञानतत्वस्य पक्षादवस्थानात् सामर्थ्यं सम्भाव्यत इत्यर्थः । यद्वा सामर्थ्याधिकमेतेषामिति स्मृतौ पूर्वात्पन्नानां सामर्थ्याधिक्यायोगव्यवच्छेदकावधारणाद्यभावादित्यर्थः ।। सयुक्तिकलिङ्ग-दर्शनविरुद्धाया इति ।। लोकानुसारित्वरूपयुक्तिसहितलिङ्गदर्शनविरुद्धाया इत्यर्थः । ननु यच्छेदिति श्रुत्यनुसारेण विज्ञानमनस्तत्वयोः क्रमेण लय इत्यत आह ।। विज्ञानेति ।। श्रुत्यन्तरमप्यत्रास्तीत्याह ।। सर्वेषामिति ।।

वाक्यार्थविवरणम्

अक्षरात्परमादेव’ इति श्रुतेरिति ।। तत्र सर्वस्यापि व्युत्क्रमाल्लयोक्तेः व्युत्क्रमाद्विलयश्चै-वेत्यत्र सर्वमित्यस्य विभक्तिविपरिणामेन सर्वस्येत्यनुवृत्तेरभिप्रे तत्वादिति भावः ।। उक्तमेवेति ।। व्युत्क्रमेण लय इत्युक्तं युक्तमेवेत्यर्थः । विपरीतक्रम इति भाष्येण सूत्रस्थं क्रमेणेति पदं व्युत्क्रमेणेति व्याख्यातं भवति ।। यच्छेदिति ।। मनस्तत्त्वं विज्ञानतत्त्वे लीयते तच्चात्मनिलीयत इत्युक्त्याऽऽदौ मनस्तत्त्वलयः पश्चाद्विज्ञानतत्त्वलय इत्यर्थः ।। यथोत्पत्तिं लयः ।। उत्पत्त्यनुसारेण लयः इति यावत् ।। श्रुतत्वाच्चेति ।। अक्षरात्परमादेवेति श्रुत्युक्तत्वादित्यर्थः ।

वाक्यार्थमञ्जरी

अक्षरादिति ।। अत्र सर्वशब्दस्य षष्ठ्यन्ततया विपरिणतस्य विलयशब्देनाप्यन्वयादिति भावः ।। लिङ्गेति ।। क्रमादुत्पन्नयोर्मनोविज्ञानयोः क्रमाद्विलयाख्येत्यर्थः ।। ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ । विज्ञानमनसी विज्ञानमनस्तत्वे अन्तरा विना क्रमेण व्युत्क्रमेणान्येषां लयः कुतः तल्लिङ्गात् तत्रोक्तेऽर्थे मनसश्चेत्यादिश्रुत्युक्तात्क्रमादुत्पन्नयोर्विज्ञानमनसोः क्रमाल्लयाख्यलिङ्गादिति चेन्न अविशेषात् विज्ञानमनसोरुत्पत्तिक्रमेणैव लय इत्यत्र विशेषप्रमाणा-भावाद्व्युत्क्रमाद्विलय श्चेति विशेषप्रमाणाच्चेत्यर्थः ।। न च सामर्थ्येति ।। पूर्वोत्तरलययोः क्रमेणाल्पाधिकसामर्थ्ययोः प्रयोजकत्वेन मनोविज्ञानयोश्च सामर्थ्याधिक्यमेतेषामित्युक्तरीत्या क्रमेणाधिकाल्पसामर्थ्यवत्वादिति भावः ।। समसामर्थ्यस्यापीति ।। स्मृतौ पूर्वोत्पन्नानां सामर्थ्याधिक्यायोगव्यवच्छेदकावधारणाद्यभावादिति भावः । वाक्तदभिमानिन्युमा मनसि तदभि-मानिनि रुद्रे, तन्मनो ज्ञान आत्मनि विज्ञानतत्वाभिमानिनि लीयत इति स्मरेदिति वाक्यशेषार्थः ।

Load More