ॐ अत्ता चराचरग्रहणात् ॐ

२. अत्तृत्वाधिकरणम्

सूत्रभाष्यम्

"जन्माद्यस्य यत’ (ब्र.सू.१-१-२) इत्युक्तम् । तत्रात्तृत्वं "स यद्यदेवासृजत तत्तदत्तु-मध्रियत । सर्वं वा अत्तीति तददितेरदितित्वमि’ (बृ.उ.३-२-५)त्यदिते प्रतीयते । "स यद्यदेवासृजते’ति पुल्लिङ्गं च "कूटस्थोऽक्षर उच्यत’ (भ.गी.१५-१६) इतिवत् । अत्रोच्यते

॥ ॐ अत्ता चराचरग्रहणात् ॐ ॥ ९ ॥

न हि चराचरस्य सर्वस्यात्तृत्वमदिते ।

"स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।

 वासुदेव पर पुंसामितरेऽल्पस्य वा न वे’ति स्कान्दे ।

"एक पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपा ।

 यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देव’

इति (घृत.सू.) श्रुति ॥ ९ ॥

सत्तकदीपावली

बृहदारण्यके श्रूयते । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वमिति । तत्र जन्माद्यस्य यत इति परमेश्र्वरधर्मत्वेनोक्तं सर्वसंहर्तृत्वापरपर्यायं सर्वात्तृत्वं प्रतीयमानं विचार्यते । तत्रेदं तावददिते प्रतिभाति तददितेरदितित्वमिति श्रवणात् । स इति पुल्लिङ्गनिर्देशोऽदितिविषय कथमिति वाच्यम् । कूटस्थोऽक्षर उच्यत इति प्रकृतिविषयप्रयोगवदुपपद्यते इत्येतं पक्षं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे ॥ अत्तेत्यादिना ॥ स यद्यदेवेत्यादिनोक्तो विष्णुरेव । नादिति । सर्वं वा अत्तीति सर्वात्तृत्वश्रवणात् । नहि सचराचरविश्र्वं दक्षपुत्र्यदितिरत्ति । विष्णुरेव सर्वात्तेत्यत्र श्रुत्यन्तरं प्रमाणमाह ॥ एक इति ॥ स एको भुवनगोप्ता पुरस्तादादौ बभूव यत इदं विश्र्वं बभूव यं च सांपराये प्रलयकाले निगीर्णोदनवत्समस्त-भुवनमप्येति प्रविशति । स देवो हरिरिह यज्ञे नोऽस्माकमायुरर्थं घृतमत्त्विति मन्त्रार्थ । तथाच श्रुत्यन्तरं यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन । मृत्युर्यस्योपसेचनं क इत्थावेद यत्र स इति ।

तत्त्वप्रदीपिका

जन्माद्यस्य यत इति विष्णोस्सर्वकर्तृत्वात्तृत्वाद्युक्तम् । तत्रात्तृत्वमन्यस्य स्याददितिशब्दवाच्यस्येत्या-शङ्क्य परिहरति । स यद्यदेवासृजत स संवत्सरो यद्यदेवासृजत, स संवत्सरस्रष्टाऽऽत्मा तत्तदत्तुं मनोऽध्रियत । ॐ अत्ता चराचरग्रहणात् ॐ । एक पुरस्तादित्यस्यायमर्थ । योऽस्य जगत पुरस्तादेक एव, यत इदं जगद्बभूव, यश्र्च भुवनस्य गोपा बभूव ॥ साम्पराये प्रलये मुक्तौ च ॥

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धादितिशब्देन सहोक्तात्तृत्विलङ्गस्य हरौ समन्वयप्रतिपादनादस्ति शास्त्रादि-सङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति ॥ जन्मेति ॥ "जन्माद्यस्य यत’ इति सूत्रे जन्मादिकारणत्वं विष्णोरुक्तम् । तन्मध्यपतितं संहर्तृत्वापरपर्यायवाच्यमत्तृत्वं बृहदारण्यके कस्यचित् श्रूयते । सोऽदितिर्यद्यदसृजत तत्तदत्तुं मनोऽध्रियतादच्च । कुत सर्वात्त्री सा सर्वमत्तीति यत्तदेव हि अदितेरदितित्वं अदितिशब्दप्रवृत्तिनिमित्तम् । अन्यथा तन्न स्यादिति । तच्च यदा हरेरितरस्य स्यात्तदा प्रागुक्तलक्षणस्यातिव्याप्तिप्रसङ्गादवश्यं निर्णेयमेव । तदत्तृत्वं विषय । किं विष्णोरन्यस्य वेति सन्देह । लक्षणसूत्रमदितिश्रुतिश्च सन्देहबीजम् । अदितेरेव तदत्तृत्वमिति पूर्व पक्ष । तददितेरित्यदितिश्रुते । न च श्रुतिर्विष्णुविषया किं न स्यादुक्तन्यायादिति वाच्यम् । अदितित्विलङ्गात् । न ह्यदितिभिन्नस्यादितित्वं सम्भवति । अतो न प्रागुक्तं ब्रह्मलक्षणं युक्तमिति भाव । नन्वेतदत्तृत्व-मदितेश्चेत्कथं स इति पुल्लिङ्गं युक्तं स्यादतस्तेन श्रुत्यादिबाध इत्यत आह ॥ स इति ॥ यथा रमायां पुंशक्तिमत्त्वात् पुल्लिङ्गप्रयोग "कूटस्थोऽक्षर उच्यते’ "सोऽहं वायुं दिशां वत्सं वेद’ इत्यादौ तथा अत्रापि सम्भवतीति भाव । यदाहु "पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती क्वचित्’ इति । ननु स इति प्रकृतसंवत्सरपरामर्शान्नैतच्चोद्यावकाश । मैवम् । "स तया वाचा तेन आत्मनेदं सर्वमसृजत’ इत्युक्तस्यैव "स यद्यदेव’ इत्यनुवादात् । तत्र च विरिञ्चस्य तृतीयया प्रकृतत्वाददित्याख्यमृत्योरेव प्रथमया प्रकृतत्वात् । तथा च सोऽदिति संवत्सरेण यद्यदसृजतेति योजनायामस्ति चोद्यावकाश । सिद्धान्तयत्सूत्रमवतारयति ॥ अत्रेति ॥ विष्णुरेवात्ताऽत्रोच्यते । सर्वं वा अत्तीति चराचरस्याद्यतया ग्रहणादिति सूत्रार्थ । चराचरण-ग्रहणेऽपि कुतो नादितेरत्तृत्वमित्यत आह ॥ न हीति ॥ चराचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम् । सूत्रस्य श्रुतिविसंवादप्रतीतिनिरासोऽस्य प्रयोजनम् । चराचरात्तृत्वं विष्णोरपि कुत इत्यत आह ॥ स्रष्टेति ॥ अस्वातन्त्र्येणाल्पस्य भवन्ति स्वातन्त्र्यापेक्षया न वा । य एकोऽस्य पुरस्ताद्बभूव सृष्टाविदं जगद्यतो बभूव । यश्च भुवनस्य गोप्ता यं च मुक्तिप्रलययोर्भुवनं प्रविशति स हरिर्न आयुरर्थे घृतमाहुतिरूपमत्त्वित्यर्थ । न च वाच्यं श्रुतिलिङ्गाभ्यां पूर्वपक्षे कथं लिङ्गमात्रेण निर्णय इति । लिङ्गस्योक्त-रीत्या निरवकाशत्वात् । अदितिश्रुतेर्विष्णावपि सावकाशत्वात् । लिङ्गस्य चादितिशब्दवाच्यत्वमदितित्वमिति सावकाशत्वात् । सावकाशश्रुतिलिङ्गाभ्यां निरवकाशिलङ्गमात्रस्य प्राबल्यात् ॥ ९ ॥

गुर्वर्थदीपिका

घटशब्दप्रवृत्तिनिमित्तघटत्वजातेरिवादितेरदितित्वमित्यत्रोक्तादितिशब्दप्रवृत्तिनिमित्तादितित्वजाते देवमातर्येव स्थितत्वान्नादितिश्रुति सर्वनामवत्यपि विष्णौ नेतुं शक्यत इति भावेनोक्तम् । अदितित्व-लिङ्गादिति । ""स तया वाचे’’ति सरस्वत्या सहोक्तस्य ""तेनाऽऽत्मने’’ति प्रागुक्तब्रह्मण एव संवत्सराभिमानितया ततोऽप्यादौ संवत्सरपदेनापि प्रस्तुतत्वात् संवत्सरेणेत्युक्तम् । एवं च प्राक्प्रथमान्त-पदेनोक्तोऽपि संवत्सर उत्तरसृष्टिवाक्ये आत्मेनेति तृतीयान्तपदोक्तब्रह्मात्मकत्वात्तदनुवादरूपे ""स यद्यदेवे’’ति वाक्ये न प्रथमान्तपदेन वक्तुं शक्य । किं त्वनुवादस्य वादानुसारित्वात्संवत्सरेणेति तृतीयान्तपदेनोपग्राह्य । प्रथमान्तपदेन त्वदितिरेवेति शङ्कितुरभिप्राय । स यद्यदेवेत्यत्र यद्यत्तत्तदिति स्थलद्वयेऽपि वीप्साबलाच्छ्रौत सर्वशब्दो न सङ्कोचार्ह इति सूचनाय सूत्रे चराचरग्रहणम् । चरा न भवन्तीत्यचरा स्थिरजीवा जडाश्र्च । सावकाशत्वादित्युपलक्षणम् । सर्वं वा अत्तीति यत्तदेवादितित्वमिति निर्वदन्त्या श्रुत्या अखण्डजातेरगृहीतत्वान्नादिताववकाश इत्यपि द्रष्टव्यम् । न च वाच्यमदिते-रित्यत्रादितित्वजाते प्राप्तिरिति । अत्राप्यदितिशब्दवाच्यस्य हरेरित्येवार्थस्य ग्रहणान्निरुपचरित-सर्वात्तृत्वप्रस्तावाद्देवमातुरदिते सर्वथा ग्रहणायोगात् ॥ १-२-२ ॥

भावबोध

ॐ अत्ता चराचरग्रहणात् ॐ ॥ ९ ॥ श्रुत्यादिसङ्गतिमिति ।

अत्र सर्वगतत्वं तु प्रथमं प्रविचार्यते ।

एतद्भावाभिधं लिङ्गं क्रियालिङ्गं तत परम् ॥

इत्यनुव्याख्यानानुसारेण सत्तां विना क्रियाकर्तृत्वासम्भवात् प्रथमं सत्तामभिधाय तदनन्तरं तत्सापेक्षक्रियानिरूपणात् ॥

""तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधक ॥’’

इत्यनुव्याख्यानानुसारेण प्रथमं स्थितिकर्तृत्वं विचार्यानन्तरं संहर्तृत्वविचाराद्वा न्यायविवरणटीकारीत्या भवत्वादित्यादिश्रुत्यादिनां विष्णाववकाशोऽदितिस्वरूपत्वरूपादिति लिङ्गस्यादितिभिन्ने विष्णौ सर्वथाऽसम्भवेन तत्सहितादितिश्रुतेर्विष्णावनवकाश इति पूर्वाधिकरणवैषम्येण पूर्वपक्षोत्थानाद्वा अव्यवहितपूर्वाधिकरणसङ्गतिरपि द्रष्टव्या । प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य ""सर्वं वा अत्ती’’ति कथमनुवाद इत्यत आह आदच्चेति । किं विष्णोरिति । अत्रात्तृत्वं किं देवमातुरदितेरुत विष्णोरिति चिन्ता । तदर्थमदितिश्रुत्यदितित्विलङ्गे किं विष्णुप्रापकिलङ्गप्रकरणबाधके उत तद्बाध्ये इति । तदर्थं श्रुतिलिङ्गे निरवकाशे, लिङ्गप्रकरणे तु सावकाशे उत विपरीतमिति । वाक्यग सर्वशब्द किं सङ्कुचितार्थ उत चराचररूपाशेषार्थक इति । वाक्यं किं प्रसिद्धार्थे शब्दान्वयाख्यायिकमुताप्रसिद्धार्थे योगोक्त्या ""तत्तदत्तुमध्रियत’’ इति प्रतिज्ञाते सर्वात्तृत्वे हेतुपरमिति । तदर्थमदितिश्रुत्यदितित्विलङ्गे लोकप्रसिद्धादिति-स्वरूपत्वरूपाभ्याम् अदितिभिन्ने विष्णावनवकाशे उत वैदिकप्रसिद्धिक्रियास्वरूपत्वरूपाभ्यां सावकाशे । तदर्थं तयोर्निरवकाशत्वे प्रकरणस्यानन्यपरत्वेन तद्विरोधो न प्राप्नोत्युत तस्य विष्णुपरत्वेन तद्विरोध प्राप्नोतीति । तदर्थमत्र प्रकरणे "नैवेह किञ्चन’ इत्यादिनोक्तं प्रलयावस्थानाप्सम्भवसंवत्सरसृष्टिकर्तृत्वादिक-मन्यस्य सम्भवत्युत विष्णोरेवेति । तदर्थं तस्य विष्णुमात्रनिष्ठत्वे प्रमाणं नास्त्युतास्तीति । उक्तन्याया-दिति । न चान्तराधिकरणविषयवाक्ये सवित्रादिशब्दवददितिशब्दस्याभावात् तत्रादितिशब्दस्य समन्वयोऽ-सिद्ध इति वाच्यं; तत्र श्रुतेन्द्रादिशब्दानामधिदैवगतसकलशब्दोपलक्षकत्वाङ्गीकारेणास्यापि शब्दस्य तन्न्यायविषयत्वादिति भाव । अदितित्विलङ्गादिति ॥ ननु कथमेतल्लिङ्गमिति चेत्, उच्यते अत्रादितेरदितित्वमिति हि श्रूयते । "त्व’प्रत्ययश्र्च जातेर्वाचक । यथा पृथिवीत्वं गोत्वमित्यादौ । तदसम्भवे स्वरूपस्यैव । यथाकाशत्वं चन्द्रत्वमित्यादौ । न चादितित्वं नाम जाति सम्भवति । व्यक्तेरभावात् । ततोऽदितित्व-मदिते स्वरूपमेव न चान्यदिति स्वरूपभूतमदितित्वमीश्र्वरस्य न भवति । अत्यन्तभिन्नत्वादित्यर्थ । तथा च निरवकाशैतल्लिङ्गसाहचर्याददितिश्रुतिरपि निरवकाशेति न विष्णुविषयेति भाव । अनेन "सन्दिग्धा श्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं च’ इति न्यायविवरणं व्याख्यातं भवति । इति योजनाया-मस्ति चोद्यावकाश इति । यद्यपि "स यद्यदेव’ इत्यत्र "स’ इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्य उक्तम् ॥

""यद्यत् ब्रह्मासृजत् पूर्वं तत्तदत्ति जनार्दन ॥’’

इति स्मृते । उत्तरत्र "सोऽकामयत, भूयसा यज्ञेन भूमो यजेयेति’ इत्यादौ चतुर्मुखपरत्वदर्शनाच्च । पूर्वत्रापि "स तया वाचा तेनात्मना’ इति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्तसंवत्सरस्य व्यवधानेन प्रकृतत्वाच्च । संवत्सरसृष्टमत्तुमेव मृत्यो संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वोचितत्वाच्च । कर्तुरपि संवत्सरस्य भगवत्स्वातन्त्र्यविवक्षया "तेन’ इति करणत्वेन निर्दिष्टस्यापि "स’ इति कर्तृत्वेन निर्देशोपपत्तेश्र्च । तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेन आदित्याख्यमृत्योरेव परमार्श इति पूर्वपक्षे पुंल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येवेति भाव । अत एव योजनायामित्युक्तम् । अल्पस्य वा न वेत्येतद्विरुद्धमित्यतो व्याचष्टे । अस्वातन्त्र्येणाल्पस्येति । अनेन निखिलस्यैक एवेत्यत्र स्वतन्त्र एवेत्यर्थ इति सूचितं भवति । य एक इत्यस्यामिदंशब्दस्य द्वितीयबभूवशब्देनान्वयं साम्पराय-शब्दस्य मुक्तिप्रलयोभयार्थत्वमभिप्रेत्यैक पुरस्तादिति वाक्यं व्याचष्टे । एक इत्यादिना । अदितिशब्दवाच्यत्वमिति । भावे हि "त्व’प्रत्यय स्मर्यते । तद्धि भावशब्दप्रवृत्तिनिमित्तं; तच्च क्वचिज्जाति, क्वचित् क्रिया, क्वचित् गुण, क्वचित् द्रव्यम्, क्वचित् स्वरूपम् । तत्र यत् सर्वात्तृत्वं तददितित्वमदितिशब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते । अत एव श्रुति सर्वमत्तीति । क्रियाकर्तृत्वस्य प्रवृत्तिनिमित्तत्वं विधत्ते । एवञ्चादितिशब्दवाच्यत्वमदितित्वं न त्वदितिस्वरूपत्वम् । अदितिशब्दवाच्यत्वं चादितिभिन्नस्यापि विष्णोरदनक्रियाकर्तृत्वेनापि सम्भवतीत्यदितित्विलङ्गस्य सावकाशत्वादिति भाव ।

भावदीप

ॐ अत्ता चराचरग्रहणात् ॐ ॥ प्रतीयत इत्यन्तं भाष्यं सङ्गतिपरत्वेन व्याचष्टे ॥ जन्माद्यस्येति ॥ तत्रेत्यस्यार्थ तन्मध्यपतितेति ॥ अपरपर्यायेति ॥ ""अद्यतेऽत्ति च भूतानि’’ । ""स सर्गकाले तु करोति सर्वं संहारकाले तु तदत्ति भूय’’ इत्यादे विष्णो संहर्तृत्वस्योर्णनाभ्यादिवदेवात्तृत्वरूपत्वादिति भाव । एतच्च पूर्वाक्षेपलाभायोक्तम् । अन्यथाऽतृत्वस्यान्यनिष्ठत्वे जन्मादिसूत्रोक्तसंहर्तृत्वरूपलक्षणाक्षेपो न स्यादिति भाव ॥ श्रूयत इति । तृतीयाध्याये । आदच्चेति शेषोक्ति । अभक्षयच्चेत्यर्थ । तत्र हेतुत्वेन श्रुतिशेषं योजयति ॥ कुत इति ॥ सेति शेष । तदर्थ सर्वात्त्रीति । तदेव सर्वात्तृत्वमेवादितित्व-निमित्तम् अदितिपदवाच्यत्वे निमित्तमित्यर्थ । अन्यथा सर्वात्तृत्वाभावे तत् अदितिपदवाच्यत्वम् अदितिर्देवतामयीत्यादौ न स्यात् । अस्ति च तत् । अतोऽदितिर्देवतामयीत्यादौ अदितिपदवाच्यत्वमेव सर्वात्तृत्वे हेतुरित्यर्थ । इति श्रूयते इत्यन्वय । तेन भाष्ये इतिशब्दानन्तरं श्रूयत इति तच्चेति शेष इति दर्शितम् । अदिते प्रतीयत इत्यस्य तात्पर्यमाह ॥ तच्च यदेति ॥ उक्तमित्यन्तस्य तात्पर्यं प्रागुक्तेति ॥ अतिव्याप्तीति ॥ विष्णोरिवान्यस्यापि असङ्कुचितसर्वात्तृत्वस्य कालभेदेन वाच्यत्वादित्यर्थ । भाष्येऽत्तृत्वमदितेरिति प्रतिज्ञांशमनुवदति ॥ अदितेरेव तदत्तृत्वमिति ॥ प्रतीयत इत्यत्र हेत्वाकाङ्क्षायां सन्दिग्धा श्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं चेति न्यायविवरणोक्तमाह ॥ तददितेरितीति ॥ सन्दिग्धपदोक्तं सावकाशत्वं श्रुतेराशङ्क्य लिङ्गेनोज्जीवयति ॥ न चेति ॥ उक्तेति ॥ आधिदैविकसर्वशब्दसमन्वयोक्तिपरान्तर्नयोक्तन्यायादित्यर्थ । तत्र सर्वदेवगतशब्दानां महायोगविद्वद्रूढिभ्यां हरौ मुख्यत्वस्योक्तत्वादिति भाव । लिङ्गस्य निरवकाशत्वमाह ॥ न हीति ॥ अदितित्वस्यादित्य-साधारणधर्मस्यादितिस्वभावत्वात् । तद्भिन्नस्य विष्णोरनश्नन्निति श्रुतेरत्तृत्वस्यायोगादित्यर्थ । उक्तमित्यन्तस्य तात्पर्यमाह ॥ अत इति ॥ विष्णुभिन्नस्यैवात्तृत्वादिति भाव । भाष्यस्थादिपदार्थमाह ॥ सोऽहमिति ॥ छान्दोग्ये तृतीयाध्याये दिामकचतुर्दिक्षुस्थितभगवद्बाहूनामित्यर्थ । सोऽहं वत्सं ततो जातं वायुं मुख्यप्राणं वेद जानामीति लक्ष्मीवाक्यम् । तद्भाष्योक्तमेव वचनं पठति ॥ यदाहुरिति ॥ यद्यद्ब्रह्माऽसृजदिति बृहद्भाष्यदिशा शङ्कते ॥ नन्विति ॥ इति योजनायामिति ॥ परामर्शे समानविभक्त्यन्तपदेन प्रकृतत्वं तन्त्रमिति भ्रान्तस्य पूर्वपक्षिणो योजनायामित्यर्थ । मृत्युनैवेदमावृतमासीत् अशनाया हि मृत्युरिति पूर्वत्र मृत्युपदस्यापि अदित्यां प्रयोगे पुल्लिङ्गसमाधानमेवमेव ध्येयमिति भावेन प्रागदित्याख्यमृत्युरित्युक्तम् ॥ भाष्येऽनुक्ते स्वयमाह ॥ विष्णुरेवेति ॥ तत्त्वित्यनुवृत्त-स्यार्थोऽयम् ॥ अस्येति ॥ सर्वस्येति व्याख्यानस्य । अल्पस्य वा न वेति व्याहतमत आह ॥ अस्वातन्त्र्येणेति ॥ अस्येति ॥ इदंपदस्य विपरिणामेनात्राप्यन्वय । क्वचित्तु अथ यश्च भुवनस्येति पाठ । य इत्यनुवृत्ति । साम्पराये मुक्तिप्रलययो । स्पष्टार्थत्वाद्भाष्ये स्मृते पूर्वमुक्ति । एतेन सर्वमत्तीति श्रुतं सर्वात्तृत्विलङ्गं हरेरन्यत्रानवकाशमिति दर्शितम् । सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चित-लिङ्गप्रकरणयोरेव बलवत्त्वमिति न्यायविवरणवाक्यं भाष्ये सङ्गमयितुं तद्य्वावर्त्यशङ्कामाह ॥ न चेति ॥ विष्णावपीति ॥ या प्राणेन संविशत्यदितिर्देवतायमीति काठकादौ प्रयोगादिति भाव । अदिति-शब्दवाच्यत्वमदितिशब्दप्रवृत्तिनिमित्तम् अदनकर्तृत्वरूपमदितित्वमिहाभिप्रेतं तद्विष्णावपि युक्तम् । ""स्रष्टा पाता तथैवात्ता’’ इति स्मृते । अनशनश्रुतिगतेस्तूत्तरनये वक्ष्यमाणत्वादिति भाव ॥ ९ ॥

अभिनवचन्द्रिका

कस्यचित् श्रूयत इति ॥ जन्माधिकरणे (१-१-२) विषयवाक्योक्तजगज्जन्मादिकारणत्वान्तर्गत-संहर्तृत्वापरपर्यायवाच्यात्तृत्वस्य, एतदधिकरणप्रतिपाद्याऽदितिनिष्ठतया प्रतीतिरेव पूर्वाधिकरणतच्छ्रुतिभ्यां सङ्गतिरिति भावः । ननु "अत्तृत्वं कस्यचित् श्रूयत’ इत्ययुक्तम् । अत्तृत्वाश्रवणादित्यतः श्रुतिं व्याचष्टे सोऽदितिरिति ॥ यद्यपि स मृत्युरिति वक्तव्यम्, तस्यैव प्रकृतत्वात्, तथापि "मृत्युरेवाऽदिति’रिति मनसि कृत्वा सोऽदितिरित्युक्तम् । यद्यपि "यद्यद्ब्रह्माऽसृजत्पूर्वं तत्तदत्ति जनार्दन’ इति प्रमाणपर्यालोचनया स इति पदं संवत्सरपरम्, तथापि "स तया वाचा तेनाऽऽत्मनेदं सर्वमसृजते’(बृ.३-२-५)ति तच्छब्देन मृत्योः प्रकृतत्वात्, अत्रापि तस्य परामर्श इति पूर्वपक्षी मन्यत इति द्रष्टव्यम् । "आदच्चे’ति शेषोक्तिः । अदनं कुतोऽभ्युपगम्यत इति पृच्छति कुतः सर्वात्त्री सेति ॥ उत्तरमाह सर्वमत्तीति यदिति ॥ सर्वमत्तीति यत् तदेवाऽदितेः अदितित्वे अदितिशब्दवाच्यत्वे निमित्तम् । अत्तृत्वाऽनङ्गीकारे बाधकमाह  अन्यथेति ॥ अत्तृत्वानङ्गीकारे अदितिशब्दवाच्यत्वं न स्यादिति भावः । अतिव्याप्तिप्रसङ्गादिति ॥ अतिव्याप्तिबुद्धिप्रसङ्गादित्यर्थः । एतेनाऽत्तृत्वस्य हरेरितरगामित्वस्यैवाऽतिव्याप्तित्वात् "हरेरितरस्य स्यात् तदाऽतिव्याप्ति-प्रसङ्गा’दित्ययुक्तमिति परास्तम् । अतिव्याप्ति बुद्ध्यापादनस्यैव इहाभिमतत्वात् । किं विष्णोरिति ॥ यद्यपि प्राक् लक्षणस्याऽतिव्याप्तिप्रसङ्गादित्यभिधानात् किं विष्णोरेव उताऽन्यस्यापि वेति सन्देहो वक्तव्यः, तथापि सूत्रस्याऽनेकसंशयनिरासकत्वद्योतनाय "विष्णोरन्यस्य वे’ति संशयो दर्शितः । तददितेरिति ॥ बृहदारण्यकोक्तमत्तृत्वम्, अदितेरेवेति भावः । उक्तन्यायादिति ॥ योगेन सावकाशत्व-रूपादुक्तन्यायादित्यर्थः । अदितित्विलङ्गादिति ॥ "तददिते;’ इति अदितिशब्दोक्तादितित्व-रूपधर्मश्रवणादित्यर्थः । न तु "अदितेरदितित्व’मिति वाक्यान्तर्गताऽदितित्वशब्दोक्ताऽदितित्व-लिङ्गादित्यर्थः । एतेन श्रुत्यैव ""सर्वं वा अत्तीति यत् तदेवाऽदितेः अदितित्वम्’’ इति सर्वाऽत्तृत्वाऽदितित्वयोरैक्याभिधानात् विष्णोरेव सर्वात्तृत्वमिति वदन्तं प्रति सर्वात्तृत्वरूपाऽदितित्विलङ्गेन अदितिश्रुतेः विष्णुविषयत्वाऽभावसाधनमयुक्तमिति परास्तम् । सर्वात्तृत्वात्मकाऽदितित्वभिन्नेन अदिति-शब्दोक्तेन रूढिप्रवृत्तिनिमित्तेनाऽदितित्वरूपधर्मेण श्रुतेः विष्णुविषयत्वाभावसाधनात् । न हीति ॥ यथा दुःखिबद्धादिभिन्नस्य हरेः स्वातन्त्र्यादिना प्रवृत्तिनिमित्तेन तच्छब्दवाच्यत्वेऽपि यथा दुःखादिकं न सम्भवति तथा रूढिविषयादितिभिन्नस्य रूढिप्रवृत्तिनिमित्तमदितित्वं न सम्भवतीत्यर्थः । स्त्रियः पुल्लिङ्गशब्दवाच्यत्वमेव नेति मन्वानः शङ्कते  नन्वेतदत्तृत्वमिति ॥ तथाऽत्रापीति ॥ यद्यपि  "यद्यद्ब्रह्माऽसृजत्पूर्व’मिति उदाहृतप्रमाणानुसारेण स इति तच्छब्दः संवत्सरपरः । स्त्रीषु च पुल्लिङ्गाः शब्दाः बहवो दृश्यन्त इति पुल्लिङ्गानुपपत्तेरभावात् समाधानं कर्तव्यम् तथापि अङ्गीकारवादेन समाहितमिति द्रष्टव्यम् । अत्र टीकायां पुंवच्छक्तिमती क्वचि’दिति प्रमाणोदाहरणानन्तरं "नन्वि’त्यारभ्य "अस्ति चोद्यावकाश’ इत्यन्तानि न टीकावाक्यानि । अपि तु व्याख्यातृवाक्यानि । अवश्यं चैतदेवं विज्ञेयम् । मृत्योः प्रथमतया प्रकृतत्वदिति मृत्योः प्रकृतत्वाभिधानवैय्यर्थ्यात् । "स’ इत्यनेन संवत्सरपरामर्शे पुल्लिङ्गचोद्यानवकाशवत्, मृत्युपरामर्शपक्षेऽपि चोद्यानवकाशसाम्यात् । स मृत्युः यद्यदेवाऽसृज-त्तत्तदत्तुमध्रियते’(बृ.३-२-५)ति योजनासम्भवात् । तथा "सोऽदितिः संवत्सरेणे’त्युत्तरवाक्यस्य अनुपपन्नार्थत्वात् । न हि "सः संवत्सरेण यद्यदसृजते’ति योजनाप्रयुक्तः चोद्यावकाशः । येनेदं वाक्यं उपपन्नार्थं प्रतीमः किं तु  स इति पुल्लिङ्गस्याऽदितिपरत्वाभ्युपगमप्रयुक्तः । किं च यदीदं टीका-वाक्यं स्यात् "अस्ति चोद्यावकाश’ इत्यनन्तरं "ततश्च तन्निवृत्तये भाष्यवाक्यं चेदमर्थव’दिति दृश्येत । न च दृश्यते येनेदं सर्वं वाक्यं टीकावाक्यमिति प्रतीमः । नन्वत्र सूत्रे चराऽचरग्रहणस्योक्तं हेतुत्वं न युज्यते । "देवदत्तोऽन्नमश्नाति पश्यत्येव चराचर’ मित्यादौ चराचरग्रहणेऽपि अत्तुर्विष्णुत्वाभावेन व्यभिचारात् । किं च विष्णुः चराचराऽत्तृत्वादित्यनुमानपर्यवसाने साध्यावैशिष्ट्यमित्यतः सूत्रं योजयति विष्णुरेवात्ताऽत्रोच्यत इति ॥ चराचरस्येतीति ॥ "श्रुत्यनुसारेणे’ त्यतः परं "व्याख्यानाय प्रवृत्तानी’ति शेषः । ततश्चैवं योजना "स यद्यदेवासृजते’ति श्रुत्यनुसारेण सर्वपदव्याख्यानाय प्रवृत्तानि सूत्राक्षराणि चराचरेत्यनूद्य, सर्वस्येति व्याख्यानं व्याख्येयप्रदर्शनं कृतमिति । एतेन चराचरेत्यस्य सर्वस्येति व्याख्यानं निष्फलं, सूत्रस्य श्रुतिविसंवादशङ्कानिरासकत्वाभावात् । श्रुतौ चराचरपदस्य सर्वस्येत्यव्याख्यातत्वात् श्रुत्यनुसारेणेत्यप्यनुपपन्नमिति परास्तम् । श्रौतसर्वपदस्य व्याख्यानं सौत्रचराचरपदमित्यङ्गीकारात् । अत्र "सूत्रपदमनूद्ये’ति वक्तव्ये "सूत्राक्षराणी’ति वचनं, सूत्रे चराचरस्येति षष्ट्यन्तस्याऽश्रवणात् अन्यथाऽनुवादः कृत इति शङ्कानिरासाय । नेदं सूत्रपदानुवादरूपं येन विसंवादशङ्का स्यात्, किं तु प्रातिपदिकैकदेशानुवाद इति भावः । अदितिश्रुतेरिति ॥ अदितिशब्दरूढेरपि "यो देवानां नामधे’ति श्रुतिबलेन विष्णावपि सावकाशत्वादित्यर्थः । लिङ्गस्य चेति ॥ चशब्दोऽप्यर्थे । लिङ्गस्यापि रूढिप्रवृत्ति-निमित्तस्याऽदितित्विलङ्गस्यापि सावकाशत्वादित्यन्वयः । कथं सावकाशत्वमित्यत उक्तम् अदिति-शब्दवाच्यत्वमदितित्वमितीति ॥ इतिशब्दो हेतौ । यस्मात् अदितिशब्दवाच्यत्वं अदितिशब्दरूढि-विषयत्वम्, अदितित्वप्रयुक्तम्, अतः सावकाशत्वमिति भावः । इदमुक्तं भवति  अस्ति तावत्परमेश्वर-स्याऽदितिशब्दरूढिविषयता । महायोगसद्भावात् । महायोगस्य रूढ्यविनाभावात् । न चाऽदितिशब्द-रूढिविषयत्वं अदितित्वमन्तरा सम्भवतीति अदितिशब्दरूढप्रवृत्तिनिमित्तमदितित्वमपि विष्णावस्तीति ।

वाक्यार्थमुक्तावली

ॐ अत्ता चराचरग्रहणात् ॐ ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितसङ्गतिस्तु पूर्वाधिकरणे सत्तामभिधायात्र तत्सापेक्षक्रियानिरूपणात् । तदुक्तं ""सर्वगत्वं तु प्रथमं प्रविचार्यते । एतद्भावाभिधं लिङ्गं क्रियालिङ्गे तत परम्’’ इत्यनुव्याख्याने । यद्वा तत्र तत्र स्थितो विष्णु तत्तच्छक्तिप्रबोधक इत्यनुव्याख्यानानुसारेण प्रथमं स्थितिकर्तृत्वं विचार्यानन्तरं संहर्तृत्वविचारात् । यद्वा न्यायविवरणटीकारीत्या भवत्वादित्यादिश्रुतीनां विष्णाववकाश इति पूर्वाधिकरणवैषम्येन पूर्वपक्षोत्थानादिति द्रष्टव्यम् । प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य सर्वं वा अत्तीति कथमनुवाद इत्यत आह ॥ आदच्चेति ॥ अभक्ष-यच्चेत्यर्थ । तदेव सर्वात्तृत्वमेव । अदितिशब्दप्रवृत्तिनिमित्तम् अदितिपदवाच्यत्वे निमित्तमित्यर्थ । अन्यथा सर्वात्तृत्वाभावे तत् अदितिपदवाच्यत्वम् अदितिर्देवतामयी इत्यादौ न स्यादित्यर्थ । अस्ति च तदतस्तद्वाक्येऽदितिपदवाच्यत्वमेव सर्वात्तृत्वे हेतुरित्यर्थ । विष्णोरिति ॥ अत्रात्तृत्वं किमदितिश्रुते, तन्निरवकाशत्वोपपादकादितित्विलङ्गाच्च किं देवमातुरुत चराचरात्तृत्विलङ्गप्रकरणाभ्यां विष्णोरिति चिन्ता । तदर्थं श्रुतिलिङ्गयोर्निरवकाशत्वं लिङ्गप्रकरणयो सावकाशत्वम् उत वैपरीत्यं चेति ॥ नन्वन्तस्थत्वाधि-करणेऽधिदैवसकलशब्दसमन्वयस्योक्तत्वात् तन्न्यायेनादितिश्रुतेरपि सावकाशत्वमिति गतार्थतामाशङ्क्याह ॥ न चेति ॥ आदितित्विलङ्गादिति ॥ अयं भाव । अदितित्वमिति श्रूयते । किं तददितित्वं सर्वं वा अत्तीति निर्वचनबलात् अत्तृत्वमेव वा उत जाति अथाकाशत्वचन्द्रत्वादिवत् उपाधिरूप स्वरूपधर्म? आद्यं दूषयति ॥ न हीति ॥ अदितेश्र्चेज्जीवत्वात् पिप्पलं स्वाद्वत्तीत्युक्तात्तृत्वं युज्यते । अदितिभिन्नस्य त्वनश्र्नन्नित्यादिश्रुतिविरोधात् नात्तृत्वरूपमदितित्वं सम्भवतीत्यर्थ । न द्वितीय । आदितेरेकत्वेन व्यक्त्यभेदरूपजातिबाधकवशात् जातित्वानुपपत्ते । अङ्गीकृत्याह ॥ न हीति ॥ घटभिन्ने घटत्वाभाववत् अदितिभिन्ने नादितित्वजाति सम्भवतीत्यर्थ । तृतीयं दूषयति ॥ न हीति ॥ अदितिस्वरूपधर्म-स्यादितिभिन्ने नावकाश इत्यर्थ । न चादितिशब्दो भगवत्पर इति अनुपपत्यभाव । अदितित्वेनादिति-शब्दस्य तत्र विधित्सितत्वेनानुवादानुपपत्ते । अन्यथाऽन्योन्याश्रयप्रसङ्गादिति भाव ॥ प्रकृति-संवत्सरेति ॥ यद्यद् ब्रह्माऽसृजत्पूर्वं तत्तदत्ति जनार्दन इति बृहद्भाष्यरीत्या इत्यर्थ । इति योजनाया-मिति ॥ स यद्यदेवासृजतेत्यत्र स तया वाचा तेनात्मनेत्यनुसारेण सोऽदिति तेन संवत्सरेणेत्यनुवृत्या योजनायामित्यर्थ । बृहद्भाष्यवाक्यं तु स्वतन्त्रकर्तृभगवदपेक्षया करणत्वेन निर्दिष्टस्यापि तदधीनकर्तृत्वं चास्तीति भावेनानुवृत्तस्य तेनात्मनेत्यस्य यद्यत् ब्रह्मेति प्रथमान्तेनानुवादपरं न तु स इत्यर्थपरम् ।

भावबोधे तु पूर्वपक्षरीत्या टीकायामियमर्थोक्तिरिति उक्तम् । तत्त्वित्यनुवृत्तिमभिप्रेत्य सूत्राक्षरार्थमाह ॥ विष्णुरेवेति । अनुवृत्यनुसारेणात्तृत्व इति वक्तव्ये पुल्लिङ्गनिर्देश स तया वाचा तेनात्मनेत्यादौ स इति पुल्लिङ्गेन प्रकृतमृत्युरेव निर्णेयश्रुतावुच्यत इति ज्ञापनाय सर्वग्रहणादिति वक्तव्ये सूत्रे चराचरेत्युक्ति सर्वशब्दस्यार्थसङ्कोचाभावसूचनार्था । व्याहतिनिरासाय इतरेऽल्पस्य वा न वा इत्येतद्व्याचष्टे ॥ स्वातन्त्र्येणेति ॥ अदितिशब्दवाच्यत्वमिति ॥ अदितिशब्दवाच्यतावच्छेदकतत्प्रवृत्तिनिमित्ता-दनक्रियाकर्तृत्वमित्यर्थ । भावे हि त्वप्रत्यय स्मर्यते । तद्धितभावश्र्च शब्दप्रवृत्तिनिमित्तम् । तच्च क्वचिज्जाति क्वचित् क्रिया क्वचिद्गुण क्वचिद्द्रव्यं क्वचित् स्वरूपम् । अयं च क्रियाशब्द । श्रुत्यैव तथोक्तत्वात् । एवं चादितिशब्दवाच्यत्वम् अदितिभिन्नस्यापि विष्णो अदनक्रियाकर्तृत्वेन सम्भवतीति अदितित्विलङ्गस्य सावकाशत्वमनश्र्नन्निति श्रुतेर्गतिरत्र भविष्यतीति भाव ।

तत्त्वसुबोधिनी

ॐ अत्ता चराचरग्रहणात् ॐ ॥ अत्र पूर्ववैषम्यप्रदर्शनेन पूर्वपक्षोत्थानात् अनन्तरसङ्गति । विषयवाक्यार्थमाह । सोऽदितिरिति । प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य सर्वं वा अत्तीति कथमनुवाद इत्यत आह । आदच्चेति । उक्तन्यायादिति । अन्तराधिकरणोक्तन्यायादित्यर्थ । न चान्तराधि-करणविषयवाक्ये सवित्रादिशब्दवददितिशब्दस्याभावात् तत्रादितिशब्दस्य समन्वयोऽसिद्ध इति वाच्यम् । तत्र इन्द्रादिशब्दानां अधिदैवगतसकलशब्दोपलक्षितत्वाङ्गीकारेणास्यापि शब्दस्य तन्न्यायविषयत्वादिति भाव । ननु लिङ्गमपि सावकाशमत आह । न ह्यदितिभिन्नस्येति । अत्रादितेरदितित्वमिति श्रूयते । त्वप्रत्ययश्र्च जातेर्वाचक । यथा पृथिवीत्वमिति । तदसम्भवे स्वरूपस्यैव । यथा आकाशत्वमिति । न चादितित्वं नाम जाति सम्भवति । व्यक्तेरभेदात् । ततोऽदितित्वम् अदिते स्वरूपमेव । न चादितिस्वरूपभूतम् अदितित्वम् ईश्र्वरस्य सम्भवति । अत्यन्तभिन्नत्वादित्यर्थ । तथा च निरवकाशै-तल्लिङ्गसाहचर्याददितिश्रुतिरपि निरवकाशेति न विष्णुविषयेति भाव । ननु स तयेत्यत्रापि प्रथमया संवत्सरपरामर्शात् प्रकृतेऽपि तस्यैव परामर्श इत्यत आह । तत्र विरिञ्चस्येति । इति योजनायामस्ति चोद्यावकाश इति । यद्यपि स यद्यदेव इत्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्ये उक्तम् । यद्यद् ब्रह्मासृजत् पूर्वं तत्तदित्ति जनार्दन इति स्मृते । उत्तरत्र सोऽकामयत भूयसा यज्ञेन यजेयेत्यादौ चतुर्मुखपरत्वदर्शनाच्च । पूर्वत्रापि स तया वाचा तेनात्मनेति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्तसंवत्सरस्याव्यवधानेन प्रकृतत्वाच्च । संवत्सरसृष्टमत्तुमेव मृत्यो संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वस्यैवोचितत्वाच्च । कर्तुरपि संवत्सरस्य भगवत्स्वातन्त्र्यविवक्षया तेनेति करणत्वेन निर्दिष्टस्यापि स इति कर्तृत्वेन निर्देशोपपत्तेश्र्च । तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येव । न च  तथापि स ऐक्षत इत्यादौ पुल्लिङ्गेनैव तच्छब्देन मृत्युनेति मृत्युशब्देन च प्रस्तुततया गुरो दारा पूज्या इतिवत् पुल्लिङ्गोपपत्तिरिति वाच्यम् । दारादिशब्देषु पुल्लिङ्गस्त्रीलिङ्गादे शब्दसाधुतैव । न त्वर्थसाधुता । न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम् । एवं चादिते पुल्लिङ्गो मृत्यु-शब्दोऽप्ययुक्त । परमपुरुषे तु स्त्रीलिङ्गोऽप्यदितिशब्द प्रकृत्यधिकरणन्यायेन युक्त । तथा चास्ति चोद्यावकाश । नन्वेवं व्याख्यानस्य किं प्रयोजनमत आह । सूत्रस्येति । अल्पस्य वा न वा इत्येतद्विरुद्धमित्यतो व्याचष्टे । अस्वातन्त्र्येणाल्पस्येति । अनेन निखिलस्यैक एवेत्यत्र स्वतन्त्र एवेत्यर्थ इति सूचितम् । यत इत्यस्यावृत्तिम् इदंशब्दस्य द्वितीयबभूवशब्देनान्वयं साम्परायशब्दस्य मुक्तिप्रलयो-भयार्थत्वमभिप्रेत्य एक पुरस्तादिति वाक्यं व्याचष्टे । एक इत्यादिना । उक्तरीत्येति । स्रष्टा पाता इत्यादिभाष्योक्तरीत्येत्यर्थ । तर्हि अदितिश्रुते का गतिरत आह ॥ अदितिश्रुतेरिति । लिङ्गस्यापि सावकाशत्वमाह ॥ लिङ्गस्य चेति । अदितिशब्दवाच्यत्वमिति । भावे हि त्वप्रत्यय स्मर्यते । तद्धि तद्धितभावश्र्च शब्दप्रवृत्तिनिमित्तम् । तच्च क्वचिज्जाति क्वचित् क्रिया क्वचिद्गुण क्वचिद्द्रव्यं क्वचित्स्वरूपम् । तत्र यत्सर्वात्तृत्वं तददिति त्वम् अदितिशब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते । अत एव श्रुति सर्वं वा अत्तीति । क्रियाकर्तृत्वस्य प्रवृत्तिनिमित्तत्वं विधत्ते । एवं चादितिशब्दवाच्यत्वमदितित्वं न तु अदितिस्वरूपत्वम् । अदितिशब्दवाच्यत्वं च अदितिभिन्नस्यापि विष्णो अदनक्रियाकर्तृत्वेनापि सम्भवतीति अदितित्विलङ्गस्य सावकाशत्वादिति भाव । ननु सैद्धान्तिकिलङ्गस्य निरवकाशत्वप्रयुक्त-प्राबल्यवत्पूर्वपक्षीयिलङ्गस्यापि बहुत्वप्रयुक्तप्राबल्यमस्तीति प्रविरोध स्यादत आह । सावकाशेति ।

वाक्यार्थविवरणम्

अदितित्विलङ्गादिति ॥ अदितिस्वरूपिलङ्गादित्यर्थ । एतदुपपादनं न्यायविवरणटीकातोऽव-गन्तव्यम् ॥

वाक्यार्थमञ्जरी

अत्तुं भक्षणार्थम् । अध्रियत दधार । आदच्चेति शेषोक्ति । अभक्षयदित्यर्थ । कुत इति प्रश्र्नोत्तरमाह ॥ सर्वमिति ॥ अदितित्वम् अदितिशब्दवाच्यत्वं हि यस्मादत सा सर्वात्त्रीत्यर्थ । अन्यथा सर्वात्तृत्वाभावे तत् अदितित्वम् अदिते देवमातु । उक्तन्यायात् अन्तर्यामिपरत्वादिरूपात् । अदितित्वं अदितिस्वरूपत्वं त्वप्रत्ययस्य व्यक्त्यभेदेन जातिपरत्वायोगे आकाशत्वमित्यादाविव स्वरूप-परत्वस्यैव वक्तव्यत्वादिति भाव ॥ बाध इति ॥ वक्ष्यमाणरीत्या लिङ्गस्यापि सावकाशत्वादिति भाव । पुंशक्ति पुरुषशक्ति ॥ सोऽहमिति ॥ सोऽहं दिशा दिामकचतुर्दिगवस्थितभगवद्रूपाणां वत्सं पुत्रं वायुमेवमुक्तरीत्या वेदेति रमावाक्यम् । आहु छान्दोग्यभाष्ये ॥ प्रकृतेति ॥ स संवत्सरोऽ-भवदिति संवत्सरशब्देन प्रकृतचतुर्मुखपरामर्शादित्यर्थ ॥ तृतीयान्ततया तृतीयान्ततेनेतिशब्देन प्रथमान्तस इत्यनेन इति योजनायाम् ॥ अस्ति चोद्यावकाश इति ॥ यद्यपि बृहद्भाष्ये स यद्यदेवेत्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेवोक्तम् । तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्तीति भाव । अत एवेति योजनायामित्युक्तम् ॥ ॐ अत्ता चराचरग्रहणात् ॐ ॥ सर्वं वाऽत्तीत्यत्रोक्तोऽत्ता संहर्ता विष्णुरेव । नादिति सर्वमिति चेतनाचेतनजातस्य भक्ष्यतया ग्रहणादभिधानादिति यावत् ॥ विसंवादेति ॥ श्रुतौ चराचरेत्यश्रवणादिति भाव । अस्य व्याख्यानस्य व्याहतिं परिहरति ॥ अस्वातन्त्र्येणेति ॥ आयुरर्थे आयुष्यार्थम् । उक्तरीत्येति । स्रष्टा पातेति भाष्योक्तरीत्या । सावकाशत्वादिति । या प्राणेन संविशत्यदितिर्देवतामयीति तत्रापि प्रयोगादिति भाव ॥ अदितिशब्दवाच्यत्वमिति ॥ पाचकत्वमित्यादाविवादनक्रियाकर्तृत्वमेवादितित्वं तद्धितभावश्र्च शब्दप्रवृत्तिनिमित्तमिति भाव ॥

विवृति

अत्र पूर्ववैषम्यप्रदर्शनेन पूर्वपक्षोद्धारादनन्तरसङ्गति ॥ विषयवाक्यार्थमाह ॥ सोऽदितिरिति ॥ प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य सर्वं वा अत्तीति कथमनुवाद इत्यत आह ॥ आदच्चेति ॥ उक्त-न्यायादिति ॥ अन्तराधिकरणोक्तन्यायादित्यर्थ ॥ न चान्तराधिकरणविषयवाक्ये सवित्रादिशब्दवददिति-शब्दस्याभावात्तत्रादितिशब्दस्य समन्वयोऽसिद्ध इति वाच्यम् ॥ तत्रेन्द्रादिशब्दानामधिदैवगतसकलशब्दोप-लक्षणत्वाङ्गीकारेण अस्यापि शब्दस्य तन्न्यायविषयत्वादिति भाव ॥ ननु लिङ्गमपि सावकाशमत आह ॥ न ह्यदितिभिन्नस्येति ॥ अत्रादितेरदितित्वमिति श्रूयते त्वप्रत्ययश्र्च जातेर्वाचक । यथा पृथिवीत्वम् । तदसम्भवे स्वरूपस्यैव । यथाऽकाशत्वम् ॥ न चादितित्वं नाम जाति सम्भवति ॥ व्यक्तेरभेदात् ॥ ततोऽदितित्वमदिते स्वरूपमेव ॥ न चादितिस्वरूपमदितित्वमीश्र्वरस्य सम्भवति ॥ अत्यन्तभिन्नत्वादित्यर्थ ॥ ननु स तयेत्यत्रापि प्रथमया संवत्सरपरामर्शात् प्रकृतेऽपि तस्यैव परामर्श इत्यत आह ॥ तत्र विरिञ्चस्येति ॥ इति योजनायामस्ति चोद्यावकाश इति ॥ यद्यपि स तयेत्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्य उक्तम् ॥ यद्यद् ब्रह्मासृजत्पूर्वं तत्तदत्ति जनार्दन इति स्मृते ॥ उत्तरत्र सोऽकामयत भूयसा यज्ञेन यजेयेत्यादौ चतुर्मुखपरत्वदर्शनाच्च ॥ पूर्वत्रापि स तया वाचा तेनात्मनेति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्तसंवत्सरस्याव्यवधानेन प्रकृतत्वाच्च । संवत्सरसृष्टमत्तुमेव मृत्यो संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वस्यैवोचितत्वाच्च । कर्तुरपि संवत्सरस्य भगवत्स्वातन्त्र्यविवक्षया तेनेति करणत्वेन निर्दिष्टस्यापि स इति कर्तृत्वेन निर्देशोपपत्तेश्र्च ॥ तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येव । न च तथापि स ऐक्षत इत्यादौ पुल्लिङ्गेनैव तच्छब्देन मृत्युनेति मृत्युशब्देन च प्रस्तुततया गुरोर्दारा पूज्या इतिवत्पुल्लिङ्गनिर्देशोपपत्तिरिति वाच्यम् ॥ दारादिशब्देषु पुल्लिङ्गस्त्रीलिङ्गादे शब्दासाधुतैव न त्वर्थसाधुता ॥ न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम् ॥ एवं चादितौ पुल्लिङ्गो मृत्युशब्दोऽप्ययुक्त ॥ परमपुरुषे तु स्त्रीलिङ्गोऽप्यदितिशब्द प्रकृत्यधि-करणन्यायेन युक्त ॥ तथा चास्ति चोद्यावकाश ॥ नन्वेवं व्याख्यानस्य किं प्रयोजनमत आह ॥ सूत्रस्येति ॥ अल्पस्य वा न वेत्येतद्विरुद्धमित्यतो व्याचष्टे ॥ अस्वातन्त्र्येणाल्पस्येति ॥ अनेन निखिलस्यैक एवेत्यर्थ स्वतन्त्र एवेत्यत्र इति सूचितम् ॥ यत इत्यस्यावृत्तिम् इदंशब्दस्य द्वितीयबभूवशब्देनान्वयं साम्परायशब्दस्य मुक्तिप्रलयोभयार्थत्वमभिप्रेत्यैक पुरस्तादिति वाक्यं व्याचष्टे ॥ य एक इत्यादिना ॥ उक्तरीत्येति ॥ स्रष्टा पातेत्यादिभाष्योक्तरीत्येत्यर्थ ॥ तर्हि अदितिश्रुते का गतिरत आह ॥ अदितिश्रुतेरिति ॥ लिङ्गस्यापि सावकाशत्वमत आह ॥ लिङ्गस्य चेति ॥ अदिति-शब्दवाच्यत्वमिति । भावे हि त्वप्रत्यय स्मर्यते ॥ तद्धितभावश्र्च शब्दप्रवृत्तिनिमित्तम् ॥ तच्च क्वचिज्जाति, क्वचित्क्रिया, क्वचिद्गुण, क्वचिद्द्रव्यं, क्वचित्स्वरूपं, तत्र यत्सर्वातृत्त्वं तददितित्वमदिति-शब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते । अत एव श्रुति सर्वं वा अत्तीति । क्रियाकर्तृत्वस्य प्रवृत्तिनिमित्तत्वं विधत्ते ॥ एवं चादितिशब्दवाच्यत्वमदितित्वं न त्वदितिस्वरूपत्वम्, अदितिशब्दवाच्यत्वं चादितिभिन्नस्यापि विष्णोरदनक्रियाकर्तृत्वेनापि सम्भवतीति अदितित्विलङ्गस्य सावकाशत्वादिति भाव ॥ ननु भवदीयिलङ्गस्य निरवकाशत्वप्रयुक्तं प्राबल्यं, मदीयस्य तु बहुत्वप्रयुक्तं प्राबल्यमिति प्रतिरोध स्यादत आह ॥ सावकाशेति ॥

Load More