ॐ समना चाऽसृत्युपक्रमादमृतत्वं चाऽनुपोष्य ॐ

६. समनाधिकरणम्

सूत्रभाष्यम्

।। ॐ समना चाऽसृत्युपक्रमादमृतत्वं चाऽनुपोष्य ॐ ।। ७ ।।

देशतः कालतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात्स्वत एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च– ‘द्वौ वाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चेतौ ज्ञात्वा विमुच्यत’ इति । नैतावता साम्यम् ।।

तत्त्वप्रदीपिका

तेजः परस्यां देवतायाम्’ इति श्रुतेः श्रीदेव्याश्चेतरदेववत् परमात्मप्रवेशात्मको मोक्षोऽस्तीत्या-शङ्कायां पुनः प्रत्यभिधत्ते । समना चेत्यादि सूत्रम् ।। समनेति बहुव्रीहिसमासात् मुख्यार्थत्वान्न स्वरूपमात्रेण, देशतः कालतश्च व्याप्तिः, ज्ञानानन्दात्मभिर्देहेन्द्रियादिभिरपीत्यङ्गीकर्तव्यम् । प्रथमायाः षष्ठ्यर्थत्वेन तस्याः श्रीदेव्याः संसारानुपक्रमादित्यन्वयः । कदाचिदपि संसारो नासीदित्येतदर्थमनुपक्रमादिति भाष्यपदम् । न तु वयं कदाचिदपि सूत्रपदं व्याख्यातुमिच्छामः शक्नुमो वा । न हि देवजातिरपि कोऽपि वेदैकपतेः साक्षात्परमपुरुषस्य श्रीमद्बादरायणभगवतोऽनन्तसद्गुणस्य सकलविषयसततविकसितसुमतेर्मतिविलसितं समवगाहितुं शक्नुयात् । यस्यानन्तदेशकालव्यापिनि विज्ञाने बत परमाणुतामणति निखिलोऽपि निगमसमूहसम्भृतोऽर्थसार्थः । यत्तु खलु गिरिश-गरुडादिगुरवोऽप्यत्याश्चर्यमनुवर्णयाञ्चक्रुः–

वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ।

 अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ।।

 उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ।

 इति शङ्कापनोदार्थं स आह करुणाकरः ।।

 अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः ।

 निर्णीयते मयैवायं रोमकूपलयोदिना ।।

 यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानुषैः ।

 मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ।।

 इति प्रकाशयन् वेदपतिराह प्रमेयताम् ।

 निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ।।

 को नाम गतिसामान्यमनन्तागमसम्पदः ।

 ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम्’ इति ।।

तस्यैतस्य सर्वश्रुतीतिहासपुराणतन्त्रयुक्तिमूलं परमात्मतत्वविषयनिर्णयात्मकं सूत्रजातं जगति सुरवरपुरस्सरकविजनमनस्सरसिजसमूहसहस्रकिरणेभ्यो गुरुतमभाष्यकारभट्टारकेभ्य एभ्योऽपरः को व्याचक्षीत । किन्तु प्राज्ञतमानामेषामाज्ञाबलमवलम्ब्य आरूढप्रौढदुरधिगममार्गाः कतिचन भाष्य-पदानि व्याचिख्यासवस्सूत्रमिह गुरुभिरुदीरितमुदाहराम एव केवलम् । क्वापि च मुखतो विवृतमपि किमपि पदमभिमुखविकसितकरतलविलसितामलकवदविरतमनुवीक्ष्यमाणसूत्रार्थजातानां दुर्विगाहमतिमहासमुद्राणां मितपदं चेदं भाष्यं बह्वर्थमिह कुर्वतां कृपालूनामनुग्रहादर्थाक्षिप्तमर्थं प्रति-दर्शयाम इति । चशब्दोऽवधारणे । स्वत एवामृतत्वं तस्येति व्याख्यातत्वात् । उक्तन्यायेना-प्रलयाद्देव्याः ‘तेजः परस्यां देवतायाम्’ इति समीपस्थित्यर्थं योजयितव्यं गुरौ वसतीतिवत् । जगत्प्रवृत्त्यभावार्थं च व्याप्त्याद्यनुक्तविशेषान् सप्रमाणकं प्रमापयितुं चायं पुनरुपन्यासः ।।

तत्त्वप्रकाशिका

अत्र प्रकृतेर्विष्णौ लयाभावसमर्थनादस्ति शास्त्रादिसङ्गतिः । प्रकृतेर्भगवति लयेऽधिकारित्व-प्रसङ्गादुक्तबाध इत्युपपादनीयमेतत् । प्राणादुत्तमा प्रकृतिर्विषयः । परमात्मनि लीयते न वेति सन्देहः । भगवदधीनत्वं नित्यमुक्तत्वं च सन्देहबीजम् । लीयत इति पूर्वः पक्षः । भगवदधीनत्वात् । न च तदनिर्णायकम् । ‘तेजः परस्यां देवतायाम्’ इति विशेषश्रुतेश्च । अन्यथा वागादीनां मनः-प्रभृतिषूक्तलयोऽपि न स्यात् । न च प्रकृतेरसंसारित्वस्योक्तत्वाल्लयाभावः । असंसारित्वस्यैवानु-पपत्तेः । तथात्वे भगवता सर्वसाम्यापातात् । न च गुणान्तरवैषम्यम् । नित्यं संसारराहित्ये सर्वगुणोपपत्तेः । न च सर्वसाम्यमङ्गीकर्तुं शक्यम् । सिद्धान्तविरोधात् । अतस्तस्या-स्संसारित्वाद्भगवति लयसद्भावादधिकारित्वेनाधिकारिणां प्राणावसानत्वोक्तिरयुक्तेति । सिद्धान्त-यत्सूत्रमुपन्यस्य व्याचष्टे ।। समनेति ।। अत्राद्यश्चशब्दः पूर्वसूत्रान्नञोऽनुकर्षार्थः । न प्रकृतिर्लीयते । यतस्तस्या अनुपोष्यानुपास्य स्वत एवामृतत्वम् । न हि नित्यमुक्ताया लक्ष्म्या लयः सम्भवति । नित्यमुक्तत्वमेव तस्याः कुतः । कदापि संसारोपक्रमणाभावात् । तदपि कुतः । परमपुरुष-वन्नित्यत्वात्सर्वगतत्वाच्च । न हि संसारित्वे तदुपपत्तिरिति भावः । एतेन ‘तदधीनत्वात्’ इति प्रत्युक्तम् । न च श्रुतिविरोधः । अतिसामीप्यार्थतयोपपत्तेः । ‘हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः’ । इति वचनात् । यदुक्तं प्रकृतेरीश्वरवन्नित्यसर्वगतत्वेनानुपक्रान्तसंसारित्वान्नित्यमुक्तत्वं तत्कुत इत्यत आह ।। बृहदिति ।। नन्वेवं प्रकृतेरपि नित्यमुक्तत्वाङ्गीकारे भगवता सर्वसाम्यमापतितमित्यत आह ।। नेति ।।

भावबोधः

प्रकृतेर्विष्णौ लयाभावसमर्थनादिति ।। ननु श्रियो देहलयाभावप्रतिपादकस्या स्याधिकरणस्य कथमस्मिन् देहक्षयप्रतिपादकेऽन्तर्भाव इति चेदुच्यते सोऽध्यक्षे तदुपगमादिभ्यः इत्यत्र साक्षा-च्चतुर्मुखस्य परमात्मन्येव लयोऽभिहितः । स न युक्तः । प्रमाणाभावात् । न च प्राणः परमुप-गच्छति इत्यादिश्रुतिरेव मानमिति वाच्यम् ‘प्राणस्तेजसि’ इति विशेषश्रुतिबलेन तेजोद्वारा परमात्मोपगमादिप्रतिपादकत्वेन तस्याः सावकाशत्वात् । न च ‘प्राणस्य तेजसि लयो मार्गमात्र-मुदाहृतम्’ इति स्मृत्या ‘प्राणस्तेजसि’ इति श्रुतेर्गतिरुक्तेति वाच्यम्; अनुपपत्त्यभावेन गतिकथन-स्याप्ययोगात् । न च तेजसि लये परमात्मनि लयाभावात् कथं मोक्ष इति वाच्यम्; चतुर्मुखस्य परमात्मनि लयेन चतुर्मुखे लीनानां देवानां मोक्षवत्तेजसोऽपि परमात्मनि लयेन तत्प्रलीनस्य चतुर्मुखस्य मोक्षोपपत्तेः । एवं चतुर्मुखस्य साक्षाद्विष्णौ देहलयस्य श्रियस्तत्र देहलयाभावसमर्थनं विनाऽसिद्धेस्तत्साधकत्वेन ‘हानौ तूपायनशब्दशेषत्वात्’ इत्यादिना उपासनापादान्तर्भाववदस्यापि सम्भवत्येवात्रान्तर्भावः । किं च ‘कामादितरत्र’ ‘तत्र चायतनादिभ्यः’ इत्याद्यधिकरणस्योपासने अधिकाराभावप्रतिपादकस्यापि उपासनापादेऽन्तर्भाववदस्याप्यत्रान्तर्भावोपपत्तिरिति । अत्र यदि तत्तद्देवानां तत्तद्भूतोद्भवत्वयुक्त्या ‘पृथिव्यामृभवो विलीयन्ते’ इत्यादिविशेषश्रुत्या ऋभ्वादीनां पृथिव्यादौ लयस्तर्हि लक्ष्म्या अपि पराधीनविशेषलाभवत्त्वेन परमात्मोद्भूतत्वात् ‘तेजः परस्यां देवतायाम्’ इति विशेषश्रुतेश्च परमात्मनि लयः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति ।। परमात्मनीति ।। अत्र प्रकृतिः परमात्मनि लीयते उत न लीयत इति चिन्ता । तदर्थं ‘तेजः परस्यां देवतायाम्’ इति श्रुतिः परमात्माधीनत्वयुक्तिश्च किमबाधितविषयोत बाधितविषयेति । तदर्थं तद्बाधकं प्रकृतेर्नित्यमुक्तत्वादिकं नास्त्युतास्तीति । तदर्थं नित्यमुक्तत्वाद्यङ्गीकारे प्रकृतेः परमात्मना सर्वसाम्यमुत पारमेश्वरगुणान्तरराहित्येन किञ्चित्साम्यं वेति । तदर्थं प्रकृतेः किञ्चित्परमात्म-साम्याङ्गीकारे सर्वात्मनाऽसाम्यप्रतिपादिका ‘असमैव’ इति श्रुतिविरोधो भवत्युत न भवतीति । तदर्थं सा श्रुतिः प्रकृतिविषयोत जीवमात्रविषयेति । तदर्थं प्रकृतेः परमात्मना किञ्चित्साम्यादौ विशेषप्रमाणं नास्त्युतास्तीति ।। अन्यथा वागादीनामीति ।। एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मनआदौ लयस्य साधितत्वादत्र तयोरसाधकत्वे तत्राप्यसाधकत्वप्रसङ्गादिति भावः ।

प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात्, सर्वसाम्यमेवेश्वरेण न चेत् संसारित्वमेवेति न्यायविवरणे न चेत्संसारित्वं प्रकृतेः तर्हि संसाराभावादिनेश्वरेण सर्वसाम्य-मेवेत्यन्वयमभिप्रेत्य तद्भागं व्याचष्टे– तथात्व इति ।। ईशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वादिति न्यायविवरणांशं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न च गुणान्तरवैषम्यमिति ।। स्वातन्त्र्यादिगुणान्तरेण वैषम्यमित्यर्थः ।। नित्यसंसारराहित्य इति ।। अनेन संसाराभावादि-नेत्यस्येशेनेत्यत्रापि सम्बन्धप्रदर्शनपूर्वकं ईशेनान्यथा स्वनियम्यत्वापूर्णत्वादेः कर्तुमशक्यत्वेन स्वातन्त्र्यस्य सुदृढत्वादिति न्यायविवरणांशो व्याख्यातो भवति । न चेत् सर्वसाम्यमेवेति न्यायविवरणांशस्य सम्बन्धमभिप्रेत्याह– न च सर्वसाम्यमित्यादिना ।। तथा च सिद्धान्तविरोधात् सर्वसाम्यं न चेत् संसारित्वमिति व्याख्यातं भवति ।। नित्यत्वाच्चेति ।। देहतोऽपि नित्यत्वा-दित्यर्थः । अत एव परमेश्वरवदित्युक्तम् । तेन न जीवेषु व्यभिचार इति बोध्यम् । तदधीनत्वादिति ।। प्रत्युक्तमिति ।। उक्तयुक्तेः प्राबल्येन तया बाधितत्वादिति भावः ।

भावदीपः

लयाभावेति ।। लयापवादस्यापि लयोक्तिपरपादादिसङ्गतत्वादिति भावः । सम्मत-मेतत्पूर्वतन्त्रादावपि । एतेन तदधीनत्वविशेषश्रुत्यादिरूपपूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेराप-वादिक्यनन्तरसङ्गतिरपि सूचिता ।। उक्तेति ।। कामादितरत्र तत्र चेत्यत्रोक्तोपासनानधिकारित्वबाध इत्यर्थः । यद्वा इयदित्यत्रोक्तेत्यर्थः । प्रकृतेरप्रकृतत्वशङ्कानिरासायाह ।। प्राणादिति ।। यद्वा परमात्मनि लीयते न वेत्येवंरूपसंदेहादिघटनायोक्तम् ।। प्राणादिति ।। कामादिति नयसिद्धत्वादाह ।। भगवदित्यादि ।। अस्य पूर्वापवादरूपत्वात्तदधीनत्वविशेषश्रुतिभ्यां पूर्वसिद्धान्तरीत्यैवेह पूर्वपक्षं भाष्यादौ कण्ठतोऽनुक्तमप्यर्थादुक्तप्रायं स्वयं व्यनक्ति ।। लीयत इतीत्यादिना ।। वागादिवदिति भावः । उक्तहेतोरप्रयोजकत्वं निराह ।। अन्यथेति ।। उक्तहेतुद्वयभावेऽपि लयाभाव इत्यर्थः । प्रागुक्तप्रयोगे संसारित्वमुपाधिः तस्य च वागादौ साध्यव्यापकस्य साधनवतः पक्षाद्व्यावृत्तत्वेन लयरूपसाध्यस्यापि व्यावर्तकत्वादिति शङ्कते ।। न चेति ।। उक्तत्वात् कामादित्यत्रेति भावः ।

तदाक्षेपेण पूर्वपक्षप्रवृत्तिं असृत्युपक्रमादिति सौत्रहेतुव्यावर्त्यमाह ।। असंसारित्वस्यैवेति ।। एतेन कामादित्यनेनागतार्थत्वं विभावितं ध्येयम् । कुतोऽनुपपत्तिरित्यतः संसाराभावादिना सर्वेषां साम्यमेवेश्वरेणेत्यन्यत्रोक्तं तदपीतेरिति सूत्रव्यावर्त्यं बाधकमुक्त्वा अनुपपत्तिं व्यनक्ति ।। तथात्व इति ।। सर्वपदतात्पर्यं शङ्कोत्तराभ्यां व्यनक्ति ।। न चेत्यादिना ।। असंसारित्वादन्यगुणै-र्वैषम्यमित्यर्थः । इष्टापादनत्वं निराह ।। न चेति ।। संसारित्वमिति न्यायविवरणांशतात्पर्यं विवृण्वन्नेव फलोक्त्योपसंहरति ।। अत इति ।। असंसारित्वे भगवता सर्वसाम्यापत्तिरूप-बाधकादित्यर्थः ।। प्राणावसानत्वोक्तिरिति ।। इयदामननादित्यत्रेति भावः । एतेनाधिकारिणां प्राणावधित्वनिर्णयात् श्रियोऽनधिकारित्वाल्लयायोग इति प्रत्युक्तम् । तस्यैवाक्षेपादिति ।। अन्तिमचशब्दस्यावधारणार्थत्वं स्वत एवेति भाष्येण चशब्दोऽवधारण इति तत्वप्रदीपोक्त्या च व्यक्तमिति आद्यस्यार्थं स्वयमाह ।। आद्य इति ।। प्रकरणाल्लीयत इत्यन्वेति । प्राणादुत्तमत्वेन श्रौततेजःपदेन च प्रकृतिर्बुद्धौ सन्निधापितेति भावः । तत्र हेतुतया व्युत्क्रमेण सूत्रभाष्ये योजयति ।। यत इत्यादिना ।। आत उत्वं छान्दसमित्युपेत्याह ।। अनुपास्येति ।। एतस्य व्याख्यानं स्वत एवेत्येतदिति दर्शयति ।। स्वत एवेति ।। चशब्दार्थ एवेति भावः । हेतोरप्रयोजकत्वं निराह ।। न हीति ।। उपक्रमणं सम्बन्धः । तत्पदोक्तितात्पर्यं कदापीति । देशत इत्यादेर्भावार्थः परमेत्यादि । देहतोऽपि नित्यत्वाच्चेत्यर्थः । हेत्वोरसिद्धिरव्याप्तिश्च निरसिष्यत इति भावः । अप्रयोजकतां हेतोर्निराह ।। न हीति ।। प्रागुक्तलयानुमानविरोध इत्यत आह ।। एतेनेति ।। सर्वगत्वादिना लयप्रयोजकसंसाराभावकथनेनेत्यर्थः । प्रत्युक्तं सोपाधिकत्वेन निरस्तमित्यर्थः ।। श्रुतीति ।। तेजः परस्यामिति श्रुतीत्यर्थः ।। अतिसामीप्येति ।। गुरौ वसतीतिवदिति भावः । एकादशस्कन्धे चतुर्विंशाध्यायतात्पर्योक्तमाह ।। हरेरिति ।। नित्येति ।। नित्यत्वेन सर्वगतत्वेन चेत्यर्थः । पूर्वसूत्रोक्तामृतत्वहेतोस्तर्कपराहतिनिरासकत्वेनोत्तरसूत्रसम्बन्धभाष्यमवतारयति ।। नन्विति ।। एवं नित्यसर्वगतत्वेनेत्यर्थः ।

अभिनवचन्द्रिका

अस्ति शास्त्रादिसङ्गतिरिति ।। अस्याधिकरणस्य, शास्त्रेणाऽन्तर्भावलक्षणा सङ्गतिः अध्यायपादाभ्यां प्रासङ्गिकी सङ्गतिरस्तीत्यर्थः । एतेन प्रकृतेर्विष्णौ लयाऽभावसाधनादस्ति शास्त्रादिसङ्गतिरित्ययुक्तम् । लयसमर्थनस्यैवान्तर्भावप्रयोजकत्वेन लयाभावसमर्थनस्य तद्विरोधित्वादिति परास्तम् ।। उक्तबाध इति ।। अधिकारिणां प्राणावसानत्वबाधः स्यादित्यर्थः ।। भगवदधीनत्वं नित्यमुक्तत्वं चेति ।। प्रकृतेस्तावान्नित्यमुक्तत्वं श्रूयते । नित्यमुक्तत्वं चोत्पत्ति लयादिविरोधि । तथा भगवदधीनत्वं श्रूयते । पराधीनस्य च लयो नियतः । एवं च नित्य मुक्तत्वं पराधीनत्वं च विरुद्धम् । किमत्र तत्वमिति न जानीम इति विमर्शवतः सन्देह उपजायते किं भगवदधीनत्वात्प्रकृतिर्लीयते इत्यभ्युपगन्तव्यम्, उत नित्यमुक्तत्वमिति । एतेन लयस्य मुक्त्यर्थत्वात् नित्यमुक्तत्वदर्शने च लयाभावनिर्णयात्सन्देहानुपपत्तिरिति परास्तम् । ननु कामस्य रुद्राधीनत्वेऽपि तत्र लयाऽभावेन व्यभिचारान्न तदधीनत्वं तत्र लये प्रमाणं, किंतु सम्भावकं, न च सम्भावकनिरूपणमात्रेणाऽर्थः सिध्यतीति प्रमाणं वाच्यम् । न चाऽत्र प्रमाणमस्ति । ततो न प्रकृतिः परमात्मनि लीयत इत्याशङ्क्य निषेधति – न चेति ।। तेजः परस्यां देवतायामिति ।। न वयं सम्भावकमात्रेणाऽर्थं साधयामः, किन्नामसम्भावनया श्रुत्या चेति भावः ।। अन्यथेति ।। श्रुत्यनादर इत्यर्थः । अत्र सूत्रे अनुपोष्याऽमृतत्वमुच्यते । न चैतावता लयाऽभावः सिध्यति । तन्मोक्षस्योपवासव्रतजन्यत्वनिषेधेऽपि श्रवणाद्युपासनासाध्यत्वाऽनिषेधात् इत्याशङ्क्य परिहाराय ‘अनुपोष्य’ इति पदमनूद्य तल्लक्ष्यार्थमाह – अनुपोष्येति ।। कदापि संसार इति ।। कदापि संसारसम्बन्धाभावादित्यर्थः । संसारसम्बन्धाऽभावादित्येतावता पूर्णे यत् ‘कदापि’ इति वचनं तत् सीताद्यवतारेषु दुःखश्रवणात् तदा संसारोऽस्तीति भ्रमनिरासायेति बोध्यम् । एतेन संसारस्याऽनादित्वेन संसारोपक्रमस्य क्काप्यभावात् महालक्ष्म्यास्तदभावाऽभिधानमसङ्गतमिति परास्तम् ।। परमपुरुषवत्सर्वगतत्वादिति ।। परमपुरुषवदिति नित्यत्वविशेषणम् । यथा हि परमपुरुषस्य रामकृष्णादिसर्वरूपेण नित्यत्वम् । एवं महालक्ष्म्या अपि सीतारुक्मिण्यादिरूपेण नित्यत्वादसंसारः । न हि संसारिणो देवदत्तादेः देवदत्तादिसंज्ञकदेहावच्छिन्नतया नित्यत्वं विद्यत इति भावः । एतेन नित्यानामेव जीवानां संसारदर्शनात्संसाराऽभावसिद्धये नित्यत्वाऽभिधानं न युक्तमिति परास्तम् ।

वाक्यार्थमुक्तावली

।। शास्त्रादिसङ्गतिरिति ।। नन्वत्र देहक्षयस्यानुक्तत्वात् कथं अध्यायपादसङ्गतिरिति चेन्न । प्रकृतेः परमात्मनि देहक्षये प्राणस्य प्रकृतावेव देहक्षयस्योपपत्तेः ‘प्राणस्य तेजसि लयो मार्गमात्र-मुदाहृतम्’ इति प्रागुक्तस्यायोगात् सोऽध्यक्ष इत्येतदयुक्तमित्याक्षेपनिरासेन प्राणस्य परमात्मन्येव देहलयोपपादनाय प्रकृतेर्लयाभावसमर्थनपरस्याप्यस्याध्यायपादान्तर्भावसम्भवात् । विस्तरस्तु भावबोधे । यद्वा शास्त्रेणान्तर्भावलक्षणाध्यायपादाभ्यां प्रासङ्गिकी सङ्गतिरिति टीकार्थः । अत एव तत्वप्रदीपे ‘अवसितः प्रासङ्गिकः प्रकृतिस्वरूपनिरूपणाप्रकारः’ इति वक्ष्यतीति ज्ञेयम् ।। उक्तबाध इति ।। इयदामननादिति प्राणावसानत्वोक्तबाध इत्यर्थः । अत्र यदि तत्तद्देवानां तत्तद्भूताधीनत्वयुक्त्या पृथिव्यामृभव इत्यादिविशेषश्रुत्या च तत्तद्भूतेषु लयस्तर्हि महालक्ष्म्याः अपि भगवदधीनत्वात् ‘तेजः परस्यां’ इति विशेषश्रुतेश्च परमात्मनि लयः स्यादन्यथा तदपि न स्यादित्याक्षेपेणोत्थाना-दनन्तरसङ्गतिः । प्राणादुत्तमेति सरस्वतीव्यावृत्तये । प्राणस्तेजसि तेजः परस्यामिति विषय-वाक्यसूचनाय च । प्रकृतिः परमात्मनि लीयते न वा इति चिन्ता । तदर्थं सा संसारिणी न वेति । तदर्थं असंसारित्वे भगवत्साम्यं प्रसज्यते न वेति । पूर्वन्यायेन पूर्वपक्षयति ।। भगवदिति ।। न च तदिति ।। शेषदेवाधीनायाः अपि सौपर्ण्यास्तत्र लयाभावदर्शनादिति भावः । यद्वा मुक्तानां भगवदधीनानामपि लयाभावदर्शनादिति भावः ।। अन्यथेति ।। एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मन आदौ लयस्य साधितत्वादत्र तयोः असाधकत्वे तत्राप्यसाधकत्वप्रसङ्गादिति भावः । कामादितरत्रेत्यत्र नित्यमुक्तत्वस्य समर्थितत्वात् गतार्थतेत्यत आह ।। न चेति ।। कुतो न वाच्यमित्यतो नैतावता साम्यं तदपीतेरिति सूत्रभाष्यनिरस्यं सुदार्ढ्यमिति न्यायं दर्शयति ।। तथात्व इति ।। संसाराभावे ईश्वरवत् तस्यापि सुदृढत्वात् भगवता सर्वसाम्यापातादित्यर्थः ।

ननु नित्यमुक्तत्वेऽपि न सर्वसाम्यमीश्वरस्य परतत्वादिति सूत्रखण्डे ईश्वरेच्छानुसारेणेति भाष्ये चोक्तत्वादित्याशङ्क्य निषेधति ।। न चेति ।। कुतो नेत्यतो न्यायं प्रकारान्तरेण व्यनक्ति ।। नित्यमिति ।। नित्यं संसारराहित्ये अत एवेशेनापि अन्यथाकर्तुमशक्यत्वेन सुदृढत्वात्सर्व-गुणोपपत्तेरित्यर्थः ।। आद्य इति ।। द्वितीयस्तु एवार्थः । अनुपोष्यैवेति सम्बध्यते । यत इति हेत्वर्थे च । बृहच्छ्रुतिसमुच्चायकेति भावः ।। प्रकृतिरिति ।। समनेति हेतुगर्भविशेषणस्येदं विशेष्य-मध्याह्रीयत इति भावः । समनाया इति षष्ठ्यंततया विपरिणाममङ्गीकृत्योक्तं तस्या इति । उक्तं च तत्वप्रदीपे । चशब्दोऽवधारणे । स्वत एवामृतत्वं तस्या इति व्याख्यातत्वात् । प्रथमायाः षष्ट्यर्थत्वेन तस्या देव्याः संसारानुपक्रमादित्यन्वय इति । असृत्युपक्रमादित्यत्रा सृतेरिति वाच्ये उपक्रमादित्युक्तिस्तु उपक्रम उपगमनं उपसंक्रमणं सम्बन्ध इति यावत् । तथा च कदापि संसारसम्बन्धाभावद्योतनायेति भावेनोक्तं कदापि संसारोपसंक्रमणाभावादिति ।

उक्तं च तत्वप्रदीपे । कदापि संसारो नासीदित्येतदर्थं अनुपक्रमादिति भाष्यपदं न तु वयं कदाचित्सूत्रपदं व्याख्यातुमिच्छाम इति । समनेति हेतुगर्भं विशेषणं व्यावर्त्यपूर्वं व्याचष्टे ।। तदपीति ।। नित्यत्वादिति ।। देहतोऽपि नित्यत्वादित्यर्थः ।। न हीति ।। संसारित्वे शरीरा-वच्छेदस्य देहनाशस्य च वाच्यत्वात्सर्वगतत्वनित्यत्वयोरयोग इति भावः । तथा च समनायाः ईश्वरेण देशतः कालतश्च व्याप्त्या ईश्वरसमतया नित्याया देव्या असृत्युपक्रमात् कदापि संसार-सम्बन्धाभावात् । अनुपोष्यानुपास्यैवामृतत्वमतस्समना प्रकृतिरध्यक्षे न लीयत इति सूत्रार्थः । ननूपस्थितेस्तद्वचनादित्यत्रैव प्रकृतेर्नित्यत्वेन संसाराभाव उपपादित इति चेदत्रोक्तं तत्वप्रदीपे । व्याप्त्याद्यनुक्तविशेषवर्णनात् सप्रमाणकं प्रमापयितुं चायं पुनरुपन्यास इति ।। अतिसामीप्येति ।। उपलक्षणमेतत् । जगत्प्रवृत्त्यभावार्थतयेत्यपि द्रष्टव्यम् । सुप्तिश्च प्रकृतेः प्रोक्ता अतीव भगवद्रतिः । अनास्थाऽन्यत्र च प्रोक्तेति । तत्वप्रदीपे च तेजः परस्यां देवतायामिति समीपस्थित्यर्थं योजयितव्या गुरौ च वसतीतिवत् जगत्प्रवृत्त्यभावार्थं चेति ।

तत्त्वसुबोधिनी

प्रकृतेः विष्णौ लयाभावसमर्थनादिति ।। न च श्रियो लयाभावप्रतिपादकस्यास्य कथमत्र पादेऽन्तर्भाव इति वाच्यम् । सोऽध्यक्षे इत्यत्र साक्षाच्चतुर्मुखस्य परमात्मन्येव लयोऽभिहितः स न युक्तः । प्रमाणाभावात् । न च प्राणः परमुपगच्छतीति श्रुतिः प्रमाणं प्राणस्तेजसीति विशेषबलेन तस्याः सावकाशत्वात् । न च प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतमित्यनेन तस्याः गतिरुक्तेति वाच्यम् । अनुपपत्यभावेन गतिकथनायोगात् । न च तेजसि लये परमात्मनि तदभावादयं मोक्ष इति वाच्यम् । चतुर्मुखस्य परमात्मनि तदभावात् कथं मोक्ष इति वाच्यम् । चतुर्मुखस्य परमात्मनि लयेन चतुर्मुखे लीनानां मोक्षवत् तेजसोऽपि परमात्मनि लयेन तत्रालीनस्य चतुर्मुखस्य मोक्षोपपत्तेः । एवं चतुर्मुखस्य साक्षाद्विष्णौ देहलयस्याश्रयत्वं तत्र देहलयाभावसमर्थनं विनासिद्धेः तत्साधनत्वेन हानौ त्वित्यादीनामुपासनापादान्तर्भाववदस्यापि सम्भवत्येवान्तर्भावः । किं च कामादितरत्र चाय-तनादिभ्यः इत्यस्योपासने अधिकाराभावप्रतिपादकस्याप्युपासनापादान्तर्भाववदस्यापि अन्तर्भावो-पपत्तेरिति ध्येयम् । अत्र यदि तत्तद्देवानां तत्तद्भूतोद्भवत्वयुक्त्या पृथिव्यामृभव इत्यादिविशेषश्रुत्या च ऋभ्वादीनां पृथिव्यादौ लयः तर्हि लक्ष्म्या अपि पराधीनत्वविशेषलाभवत्वेन परमात्मोदितत्वात्तेजः परस्यां देवतायामिति विशेषश्रुतेश्च परमात्मनि लयः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। अन्यथा वागादीनामिति ।। एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मन आदौ लयस्य साधितत्वात् ।। अत्र तयोः असाधकत्वेन तत्राप्यसाधकत्वप्रसङ्गादिति भावः ।। न च गुणान्तर-वैषम्यमिति ।। स्वातन्त्र्यादिगुणान्तरवैषम्यमित्यर्थः ।। नित्यत्वाच्चेति ।। देहतोऽपि नित्यत्वा-दित्यर्थः । अत एव परमेश्वरवदित्युक्तम् । तेन न जीवेषु व्यभिचार इति बोद्धव्यम् । एतेन तदधीनत्वादिति प्रत्युक्तमिति । नित्यमुक्तत्वात्तेन संसारित्वाख्योक्तयुक्तेः प्राबल्यात्तया-बाधितत्वादित्यर्थः ।

वाक्यार्थविवरणम्

उक्तबाध इति ।। इयदामननादित्यनेनाधिकारिणां प्राणावसानत्वोक्तिबाधादित्यर्थः ।। अनुपपत्तेरिति ।। सीतादिरूपेण संसारदर्शनादित्यर्थः ।। एतेनेति ।। परमपुरुषवत् सर्वगतत्व-नित्यत्ववचनेनेत्यर्थः ।। प्रत्युक्तमिति ।। भगवदधीनत्वमात्रस्य लयाप्रयोजकत्वादिति भावः । श्रुतीति ।। तेजः परस्यामिति श्रुतीत्यर्थः ।

वाक्यार्थमञ्जरी

उक्तेति ।। इयदामननादित्यत्रोक्तस्याधिकारिणां प्राणावसानत्वस्य बाध इत्यर्थः ।। तेज इति ।। तेजोऽभिमानिनी रमा परस्यां देवतायां परमात्मनि संपद्यत इत्यर्थः ।। अन्यथेति ।। एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मनआदौ लयस्य साधितत्वात् अत्र तयोरसाधकत्वे तत्राप्य-साधकत्वप्रसङ्गादिति भावः ।। उक्तत्वादिति ।। कामादितरत्रेत्यर्थः ।। गुणान्तरेति ।। स्वातन्त्र्या-दीत्यर्थः ।। सर्वगुणेति ।। संसाराभावे ईशनियम्यत्वाभावेन स्वातन्त्र्यादेरपि सम्भवादिति भावः ।। ॐ समना चाऽसृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ।। समो देशकालाभ्यां व्याप्त्या समो ना परमपुरुषो यस्याः सा समना रमा हरौ न लीयते कुतः यतोऽस्या अनुपोष्य चानुपास्यैवामृतत्वं मुक्तत्वं तदेव कुतः असृत्युपक्रमात् सृतिः संसारः कदापि संसारोपक्रमणाभावात्तदपि कुत इत्यतः समानेति हेतुगर्भं विशेषणं उपक्रमणं सम्बन्धः ।। प्रत्युक्तमिति ।। उक्तयुक्तेः प्राबल्येन तथाऽधीनत्वयुक्तेर्बाधितत्वादिति भावः । वचनादेकादशतात्पर्ये अत्र रमाया अत्यन्तसामीप्यं नाम जगद्व्यापारत्यागेन वटजलाभरणरूपेण केवलहरिसेवारतत्वं बोध्यम् ।

Load More