ॐ नासतोऽदृष्टत्वात् ॐ

८. अथ असदधिकरणम्

सूत्रभाष्यम्

शून्यवादमपाकरोति–

।। ॐ नासतोऽदृष्टत्वात् ॐ ।। २६ ।।

अदृष्टत्वादसतः कारणत्वं न युज्यते ।

सत्तर्कदीपावली

क्षणिकपरमाणुपुञ्जवादान्निराकृत्य जगच्छून्यवादमुपक्षिप्य दूषयति ।। शून्यवादमित्यादिना ।। न च शून्याज्जगदुदितमिति वक्तुं शक्यते दृष्टान्ताभावात् ।

तत्त्वप्रदीपिका

नित्यं निर्विशेषमद्वितीयं स्वयम्प््राकाशमपास्तगुणदोषं वाङ्मनसागोचरं शून्यं जगत्कारणं माध्यमिका मन्यन्ते । तत्संवृत्याप्रत्ययमात्रविनिवेशिन्या विलासरूपोऽयं भेदप्रपञ्चो न तत्त्वतो विद्यते । तद्दृष्टिरपि विकल्परूपा यावत्संवृतिसंव्यवहारमात्रनिर्वहणी निर्वर्तते । स्वप्नवदेव शून्यात्म-प्रतिबोधे समूलं समुपशाम्यतीत्येतन्मतमपाकरोति ।। ॐ नासतोऽदृष्टत्वात् ॐ ।। असतो जगत्कारणत्वं न युज्यतेऽदृष्टत्वात् । न हि क्वाप्यदृश्यस्य कारणत्वं वा साधनीयम् । दृश्यत्वेऽपसिद्धान्तः । न चासतो जगत्कारणत्वंप्रमाणेन दृष्टम् । न ह्यसतः कारणत्वं क्वापि दृष्टम् । न च तादृशं शून्यंप्रमाणदृष्टम् ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ।। शून्येति ।। अत्र हरेर्जगत्कारणत्वे शून्यमतविरोधपररिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणमीश्वर इत्युक्तम् । तत्र शून्यसमयविरोधेऽभावबुद्धिः स्यादित्यतोऽसौ निराकर्तव्य एव । परमेश्वरस्य जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । मतविमतिः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । एकं शून्यमेव खल्वन्तत्रयविरहितं परमार्थतो विद्यमानं तस्मादेवैतदशेषं जगदुदेति । न च तस्यासङ्गस्य जगत्कारणत्वानुपपत्तिः । संवृतिसम्बन्धेनोपपत्तेः । न च श्रुतिविरोधः । तत्प््र•माण्यानभ्युपगमात् । अतः शून्यादेव जगदुदयसम्भवादीश्वरेणोपयोगा-भावात्सुतरामयुक्तं लक्षणमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। नेति ।। न शून्यस्य जगत्कारणत्वं युक्तम् । तत्प््रामाणाभावात् । न तावत्प््रात्यक्षमत्रास्ति । नाप्यनुमानम् । क्वाप्यसतः कारणत्वादर्शनेन दृष्टान्ताभावात्  । आगमस्तु नेष्टो दृष्टो वेति भावः ।

गुर्वर्थदीपिका

ननु शून्यं तत्त्वमिति शून्यवादिनो मतं तत्कथमसत इत्युक्तं सूत्रकृतेति चेत् न ‘भावार्थ-प्रतियोगित्वं भावत्वं वा न तत्त्वतः’ इति वदता शून्यवादिना भावाभावविलक्षणत्वं यदसल्लक्षणं तच्छून्येऽप्यङ्गीकृतम् । किं बहुना सर्वधर्मशून्यतां वदता कथं नासत्वमुररीकृतम् । न हि सर्वधर्मशून्यः कश्चित्पदार्थो लोके दृष्टः । येन तत्त्वं नाम भवेत् । ईदृशस्यापि तत्त्वाख्या चेत् शशविषाणस्यापि कुतो न स्यात् । अतोऽसत्त्वमवर्जनीयमिति भावः सूत्रकारस्य । आगमस्तु नेष्टो दृष्टो वेत्यस्य त्वदीयागमः न ममेष्टः मदीयागमस्तव नेष्टः त्वत्प््रामेयप्रतिपादको दृष्टो वेत्यर्थः ।

भावबोधः

शून्यमतविरोधेति ।। पञ्चस्कन्धात्मकप्रपञ्चस्य सत्त्वे क्षणिकत्वस्थायित्वचिन्ता । तत्सत्त्वमेव नास्ति । कुतस्तत्क्षणिकत्वादिचिन्तावसर इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ।। युक्तमिति ।। अत्र परमेश्वरस्य जगत्कारणत्वं किं न युक्तमुत युक्तमिति चिन्ता । तदर्थं शून्य-समयः किं श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं शून्यवादिपरिकल्पितं शून्यस्य जगत्कारणत्वं किं सम्भवत्युत न सम्भवतीति । तदर्थं तत्रप्रमाणं नास्त्युतास्तीति । तदर्थं शून्यस्य जगत्कारणत्वसाधकमनुमानमनाभासमुत तर्कपराहतत्वेनाभासमिति । तथा तदभिमतं शून्यस्य जगदारोपाधिष्ठानत्वं, सम्भवत्युत नेति । तदर्थं जगतः किमसत्त्वमुत सत्त्वमिति । तदर्थं जगतोऽसत्त्वाङ्गीकारे सत्त्वादितिप्रतीतिविरोधो न प्राप्नोत्युत प्राप्नोतीति । तदर्थं जगद्विषयक-सत्त्वप्रतीतिः स्वाप्नादिपदार्थसत्त्वप्रतीतिवत् भ्रान्तिरुतप्रमेति । तदर्थं तद्वदत्र बाधकमस्त्युत नास्तीति ।

ननुप्रमाणाभाव एवप्रमेयाभावं साधयति । न पुनःप्रमाणविशेषाभावः । मा भूदस्मदादि-प्रत्यक्षव्यावृत्या धर्माद्यभावसिद्धिः । तथा च कथं सूत्रभाष्ययोरदृष्टत्वादितिप्रत्यक्षाभावकथनं व्यभिचारादित्यतो नायं साक्षाद्धेतुः । किं तु हेतुसाधकं हेतुरित्यभिप्रेत्यापेक्षितं साक्षाद्धेतु-मध्याहरति– तत्प््रामाणाभावादिति ।। कथं तत्रप्रमाणाभाव इति जिज्ञासायामनुमानागमयोःप्रत्यक्षमूलत्वेन ततःप्रत्यक्षमेव वरंप्रमाणमिति तदभाव एव सूत्रभाष्ययोरुक्तमभिप्रेत्याह– न तावत्प्रत्यक्षमत्रास्तीति ।। ननु तर्हि सूत्रभाष्ययोरनुमानागमाभावोऽपि वक्तव्यः । यत्किञ्चि-द्विशेषाभावेन सामान्याभावसाधनायोगादिति चेन्न;प्रत्यक्षेण क्वचिद्दृष्टमेवानुमानेन साधनीयमितिप्रत्यक्षस्यानुमानोपजीव्यत्वात्प्रत्यक्षाभावोक्त्यैतदभावस्यापि लाभाद्वेदादिप्रामाण्यस्य शून्य-वादिना तदीयागमप्रामाण्यस्य चास्माकमनिष्टत्वेनागमस्यावक्तव्यत्वाच्चेत्यभिप्रेत्याह– नाप्यनुमान-मित्यादिना ।।

भावदीपः

अपरः शून्यमखिलमित्याद्यनुभाष्यं हृदि कृत्वा आद्यसूत्रनिरस्यमाह ।। एकं शून्यमेवेति ।। एवं चोभयहेतुकेऽपीत्युक्तदोषोऽत्र नेति भावः । नाभावः वैधर्म्याच्चेति सूत्रनिरस्योक्तिः एवेति । क्षणिकत्वपक्षोक्तदोषश्च नेति भावेनोक्तमन्तत्रयेति । देशतः कालतो वस्तुतोंऽतत्रयशब्दि-ताणुत्वानित्यत्वभेदै रहितमित्यर्थः । शून्यं चेन्निस्स्वरूपं किमित्यत उक्तम् ।। परमार्थत इति ।। सर्वधर्मोज्झितत्वाच्छून्यमिति नामेति भावः ।। संवृतीति ।। संवृतिरज्ञानम् । विप्रतिषेधाच्चा समञ्जसमित्यादिदोषश्च नेत्याह ।। तत्प््र•माण्येति ।। अत इति ।। अप्रमाणतया श्रुत्यादि-विरोधाभावादित्यर्थः । व्युत्क्रमेण भाष्यं व्याचष्टे ।। नेति ।। ननु अदृष्टमात्रेण कथं कारणत्वा-भावः । ईश्वरस्यापि तदभावापातादित्यतो मध्ये हेतुमाह ।। तत्प््रामाणेति ।। तत्तत्र कारणत्वे तदुपपादकत्वेनादृष्टत्वादित्येतस्य शून्यकारणत्वस्याप्रत्यक्षत्वात् । असति कारणत्वस्य क्वाप्यननु-भावात् । असत्कारणत्वे आगमस्यादृष्टत्वादिति त्रेधार्थं मत्वाह ।। न तावदित्यादिना ।। क्वाप्यसत इति ।। शून्यं सदिति पराङ्गीकारेऽपि सर्वधर्मराहित्ये सति असत्त्वमवर्जनीयमित्यापाद्य दूषणमिदमिति ध्येयम् ।। दृष्टो वेति ।। ‘असद्वा इदमग्र आसीत्’ इत्यादिस्तु एतेन सर्वे व्याख्याता इत्यादावन्यार्थत्वेन निर्णीत इति भावः । तत्त्वप्रदीपे तु अदृष्टत्वात्प्रमाणेनादृष्टत्वा-दित्येवोक्तम् ।

अभिनवचन्द्रिका

शून्यमतेति ।। ननु नेदं सूत्रं शून्यमतनिरासकं, ‘न शून्याददृष्टत्वात्’ इति पाठप्रसङ्गात् । न च तथा पाठोऽस्ति किन्तु नासत इति । तेन असन्मतनिरासाय ‘नासतोऽदृष्टत्वात्’ इति सूत्रम् । अभावाद्भावोत्पत्तिरिति पक्षे उदासीनानामप्रयतमानानां कृषीवलादीनां सस्यादिकार्य-सिद्धिः स्यादिति वक्तुं ‘उदासीनानामपि चैवं सिद्धिः’ इति सूत्रं प्रणीतमिति सूत्रद्वयं पूर्वाधिकरणशेष इति चेत्, न उपमर्दितात् कारणात्कार्योत्पाद इति पक्षस्य ‘असति प्रतिज्ञोपरोध’ इति सूत्रेण दूषितत्वात्तन्निरासाय पुनः सूत्रप्रणयनानुपपत्तेः । यदपि अभावाद्भावोत्पत्तिरिति पक्षे उदासीनानामप्रयतमानानां कृषीवलादीनां सस्यादिकार्यसिद्धिः स्यादिति तदतिस्थवीयः । सतः कारणस्य उपमर्दे सति कार्यमिति परो मन्यते । तत्र कः प्रसङ्गः उदासीनस्य कार्यसिद्धेः । यदि हि अत्यन्ताऽसत एव कार्यं परो मन्येत तदैवेदं दूषणं सङ्गच्छेत । न च तथा परो मन्यते । अतो नेदं सूत्रद्वयं पूर्वाधिकरणशेषः, अपि तु शून्यमतनिरासाय पृथगधिकरणमिति । ननु चोक्तं तथात्वे ‘न शून्याददृष्टत्वात्’ इति सूत्रणीयमिति, सत्यम्, ‘न शून्याददृष्टत्वात्’ इति सूत्रणीयं, तथापि शून्यस्य कारणत्वाभावे असत्त्वरूपयुक्तिसूचनार्थं तथोक्तम् । यद्यपि शून्यवादी शून्यस्य नासत्त्वमभ्युपैति, तथापि पराभिमते शून्ये प्रमाणाभावादसत्त्वं सेत्स्यतीति सूत्रकारो मन्यते ।। परमेश्वरस्य जगत्कारणत्वं विषय इति ।।

ननु अस्मिन्नधिकरणे शून्यकारणत्वं निराक्रियते । अतः शून्यस्य जगत्कारणत्वं विषयः । युक्तं न वेति सन्देह इति वक्तव्यम् । न च शून्यवादनिरासस्य विष्णोर्जगत्कारणत्वसिद्ध्यर्थत्वेन तस्यैव प्राधान्याद्विष्णोर्जगत्कारणत्वं विषय इत्याद्येव वाच्यमिति वाच्यम् । आनन्दमयाधि-करणस्यापि विष्णुजिज्ञास्यत्वसिद्ध्यर्थत्वेन तस्यैव प्राधान्यात्तत्रापि विष्णोर्जिज्ञास्यत्वं विषय इत्याद्युक्तिप्रसङ्गात् । किञ्च अधिकरणभेदज्ञापनाय हि विषयो निरूपणीयः । प्रतिपाद्यभेदा-यत्तत्वादधिकरणभेदस्य । न हि विष्णोर्जगत्कारणत्वेन विषयेण अधिकरणानि भिद्यन्त इति शक्यते वक्तुम् । एतदध्यायगतसर्वाधिकरणसाधारणत्वात् जगत्कारणत्वस्येति चेत् सत्यमिह शून्यकारणत्वं विषय इत्याद्येव वक्तव्यमिति, तथापि तद्विचारस्य विष्णुकारणत्वसिद्ध्यर्थत्वेन तस्यैवैतदधिकरणप्रधानप्रमेयत्वादेतत्सन्देहाहितस्य सन्देहस्य जगत्कारणत्वेऽपि भावात् विष्णो-र्जगत्कारणत्वं विषय इत्याद्युक्तम् ।

ननु चोक्तमानन्दमयाद्यधिकरणेष्वपि विष्णोर्जिज्ञास्यत्वं विषय इत्यादि वक्तव्यमिति, सत्यमुक्तं दुरुक्तं तत्, वैषम्यात् । आनन्दमयाद्यधिकरणेषु ब्रह्मणो जिज्ञास्यत्वसिद्धिवत् आनन्दमयत्वादि-गुणसिद्धिरपि प्रधानं प्रयोजनम् । परं तु तज्जिज्ञास्यत्वं च सर्वाधिकरणसाधारणं तत्तद्गुणलाभस्तु असाधारणम् । ततः साधरणं विषयं परित्यज्यासाधारणो निरूपितः । इह तु विष्णो-र्जगत्कारणत्वसिद्धिरेव मुख्यं प्रयोजनं समयनिराक्रिया तु तादर्थ्यात् । न हि समयो व्यसनितया निराक्रियते किन्तु विष्णोर्जगत्कारणत्वविरोधित्वात् । यद्यपि अनेन विषयनिरूपणेन नाधिकरण-भेदसिद्धिः, तथापि टीकाकृता अधिकरणभेदसिद्धये विषयस्य निरूपितत्वात् तदनुक्तिर्न दोषाय । अधिकरणभेदसिद्धये तु शून्यस्य जगत्कारणत्वं विषय इत्याद्यूह्यम् । एवमेवञ्जातीयके सर्वत्र द्रष्टव्यम् । अदृष्टत्वादित्येतत् प्रमाणादृष्टत्वादित्येवंपरमिति भावेनाह – तत्प्रमाणाभावादिति ।।

ननु प्रमाणादृष्टत्वादित्ययुक्तम् । प्रत्यक्षस्यैव तत्प्रमाणत्वादित्यत्राप्येतदेवोत्तरमिति भावेनाह– न तावत्प्रत्यक्षमिति ।। असतः कारणत्वाऽदर्शनेनेति ।। ननु दृष्टान्तनिराकरणाय कारणत्वस्य क्वाप्यदर्शनादिति वक्तव्यं न तु असतः कारणत्वादर्शनादिति । असतः कारणत्वादर्शनेऽपि सतस्तु तद्दर्शनेन तस्यैव दृष्टान्तत्वसम्भवात् । न हि पर्वते साध्यसाधनाय, पर्वतान्तरे साध्य-साधनयोः सहचारं दर्शयन्ति । नापि परेण शून्यस्य जगत्कारणत्वसाधनायाऽसत्त्वं हेतुरित्युक्तं, येनाऽसत्त्वस्य सत्यत्वसम्भवात् असदेव दृष्टान्त इति निर्बन्धः स्यादिति चेत्, सत्यं ‘कारणत्वस्य क्वाप्यदर्शनात्’ इत्येव वक्तव्यमिति, तथापि न तथा वक्तुं शक्यते । कारणत्वस्य दण्डादौ बहुलमुपलम्भादसतः कारणत्वादर्शनादित्युक्ते हि कश्चिद्दोषो भवति । तथा हि शून्यस्य कारणत्वमनुमानेन साधयता दृष्टान्तो वक्तव्यः । न च शून्यमेव दृष्टान्त इति शक्यते वक्तुं, तस्य पक्षत्वात् । नापि शून्यभिन्नः । तस्य त्वन्मतेऽसत्त्वेन, असति च कारणत्वस्य क्वाप्यदर्शनेन कारणत्वाभावस्यासत्त्वेन हेतुना तत्रानुमातुं शक््यत्वेन, साध्यवैकल्यादित्याशयेन दृष्टान्ता-भावाभिधानसम्भवात् । आगमस्तर्हि प्रमाणं भविष्यतीत्यत्रापि एतदेवोत्तरमिति भावेनाह– आगमस्त्विति ।।

वाक्यार्थमुक्तावली

पञ्चस्कंधात्मकस्यप्रपञ्चस्य सत्त्वक्षणिकत्वस्थायित्वचिन्ता । तत्सत्त्वमेव नास्ति कुत-स्तत्क्षणिकत्वादिचिन्तावसर इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। युक्तमयुक्तं वेति ।। अत्र विष्णोः कारणत्वं शून्यसमयविरोधादयुक्तं उत युक्तमिति चिन्ता । तदर्थं तत्कल्पिता शून्यस्य जगत्कारणताप्रमाणवती तदविरुद्धा उत तद्विरहिणी तद्विरुद्धा चेति । अपरः शून्यमखिलमित्याद्यनुभाष्यं हृदि कृत्वा आद्यसूत्रनिरस्यमाह ।। एकमिति ।। शून्यमेव परमार्थतो विद्यमानं न ततोऽन्यदस्तीत्यर्थः । शून्यपरमाणुष्वेव भेदाभावात् । उभयहेतुकेऽपीत्युक्तदोषा-नवकाश इत्युक्तम् एकमिति । एवकारेण नाभावो वैधर्म्याच्चेति सूत्रद्वयनिरस्योक्तिः । तस्य पारमार्थिकत्वे हेतुरन्तत्रयेति । देशतः कालतः परिच्छेदशून्यं, वस्त्वन्तरात् भेदरूपवस्तुतः परिच्छेदशून्यं चेत्यर्थः । तेन क्षणिकत्वपक्षोक्तो दोषोऽपि नेति ज्ञेयम् । परमार्थसत्त्वे कुत-स्तच्छून्यनामकमित्यतो निर्धर्मकत्वादिति भावेनोक्तं एकं निर्विशेषमिति ।। खल्वित्यनेन तस्य स्वप्रकाशतयाप्रसिद्धतामाह । तच्च परप्रकाश्यत्वाभावो न तु स्वकर्मकप्रकाशत्वम् । कुतस्तत् परप्रकाश्यं न भवतीत्यतोऽप्युक्तम् ।। एकमिति ।। सधर्मिक एवप्रमाणप्रवृत्तिदर्शनान्निर्धर्मके तदयोगादिति भावः । एतच्च नासत इत्युक्तासत्त्वपर्यवसानायेति बोध्यम् । ननु यदि शून्यमेव परमार्थसत्तर्हि किं पञ्चस्कन्धात्मकं जगदसदेव । तथात्वे कथं सदितिप्रतिभास इत्याशङ्कां परिहरन् सृष्टिविषयेऽपि विगानं दर्शयति ।। तस्मादिति ।। संवृतिरज्ञानम् । एतेन पारमार्थिकसत्यत्वाभावेऽपि सांवृतसत्यत्वाङ्गीकारात् सदितिप्रतिभास इत्युक्तं भवति । विप्रतिषेधाच्चेत्युक्तदोषमुद्धरति ।। न चेति ।। सुतरामिति ।। ईश्वरेणोपयोगाभावेन तस्यैवा-भावाल्लक्षणं सुतरामयुक्तमित्यर्थः । यद्यपि शून्यं नासदित्युपेतं माध्यमिकैः । तथापि सर्वविशेष-विनिर्मुक्तत्वेन गगनकुसुमसमत्वादसत्त्वमापाद्य दूषणाभिधानमिति सुधोक्तरीत्या ज्ञातव्यम् ।ननुप्रमाणाभाव एवप्रमेयाभावं साधयति न पुनःप्रमाणविशेषाभाव इत्यतो नायं साक्षाद्धेतुः किन्तु हेतुसाधकहेतुरित्यभिप्रेत्य साक्षाद्धेतुमध्याहरति ।। तत्प््रामाणाभावादिति ।। तदुपपादकतया सौत्रं हेतुं व्याचष्टे ।। न तावदित्यादिना ।। परागमोऽस्माकं नेष्टः । अस्म-दागमस्तु परस्य नेष्टः । नापि तादृशोऽस्मदागमो दृष्ट इत्यर्थः । तेन सूत्रे कारणत्वमित्य-ध्याहारः ।प्रमाणाभावादिति शेषः । कुतस्तदभाव इत्यतोऽसतः कारणत्वस्यप्रत्यक्षेणादृष्ट-त्वात् । अनुमानेन सिद्ध्यङ्गीकारे क्वापि दृष्टान्तेऽदृष्टत्वात्, आगमस्योभयसम्प््रातिपन्नस्यादृष्टत्वात्, तादृशास्मदागमस्यैवादृष्टत्वादिति योजनोक्ता भवति । अनुव्याख्याने तु ‘प्रमाणं च दृष्टिरेवा-खिलाद्वरम्’ इत्यत्रागमाभावस्य शिष्यैरेव ज्ञातुं शक्यत्वात्प्रत्यक्षाभावोक्त्याऽनुमानाभावस्य लब्धत्वात्प्रत्यक्षाभाव एवात्रोक्त इत्युक्तम् । स्पष्टमेतत्सुधायाम् ।

तत्त्वसुबोधिनी

पञ्चस्कन्धात्मकस्यप्रपञ्चस्य सत्त्वे क्षणिकत्वावस्थायित्वचिन्ता तत्सत्त्वमेव नास्ति । अत तत्क्षणिकत्वादिचिन्तावसरः इति पूर्वपक्षाक्षेपेणोत्थानादनन्तरसङ्गतिरिति भावः । ननु शून्यस्य जगदुत्पादकत्वे सम्बन्धस्य तस्योत्पादकत्वायोगात् । सम्बन्धस्योत्पादकत्वं वक्तव्यम् । तच्च न सम्भवतीति तस्यासङ्गतत्वात् इत्याशङ्क्य निषेधति ।। न चेति ।। संवृतिसम्बन्धेनेति ।। संव्रीयते अनेनेति संवृतिः अविद्या तत्सम्बद्धेनेत्यर्थः । सौत्रस्यादृष्टत्वात् इत्यस्य शून्यकारण (कारणत्व)- स्याप्रत्यक्षत्वादिति असति कारणत्वस्य क्वाप्यननुभवादिति । असत्कारणत्वे आगमस्यादृष्टत्वात् इति त्रेधार्थमभिप्रेत्याह न तावत्प्रत्यक्षमित्यादिना । यद्वा ननु शून्यस्य जगत्कारणत्वाभावे सूत्रभाष्ययोःप्रमाणविशेषाभावो उक्तः स चानुपपन्नःप्रमाणसामान्याभावस्यैवप्रमेयाभाव-साधकत्वेन तद्विशेषाभावस्य तत्साधकत्वाभावादित्यतो नायं साक्षात् हेतुः किन्तु हेतुसाधकहेतु-रित्यभिप्रेत्याक्षेपितं साक्षात् हेतुं अध्याहरति । तत्प््रामाणाभावात् इति ।। कथं तत्रप्रमाणाभावः इति जिज्ञासायां अनुमागमयोःप्रत्यक्षमूलत्वे ततःप्रत्यक्षमेव वरंप्रमाणमिति तदभाव एव सूत्र-भाष्ययोरुक्त इत्यभिप्रेत्याह ।। न तावदिति ।। ननु सूत्रादौप्रत्यक्षाभावकथनं चेत् अनुमानागमयोरप्यभावो वक्तव्यः यत्किञ्चिद्विशेषाभावेन सामान्याभावसाधनायोगादिति चेन्न,प्रत्यक्षेण क्वचित् दृष्टमेव अनुमानेन साधनीयमितिप्रत्यक्षस्यैवाभावोक्त्या तदभावस्यापि लाभात् वेदादिप्रामाण्यस्य शून्यवादिनः तदीयागमप्रामाण्यं चास्माकं अनिष्टत्वेनागमस्यावक्तव्याच्चेत्यभि-प्रेत्याह ।। नाप्यनुमानमित्यादि ।।

वाक्यार्थविवरणम्

शून्यमतम् । माध्यमिकमतम् ‘अनन्तं देशकालतः वस्तुतश्च’ इत्यनुव्याख्यानानुसारेण अन्तत्रयरहितमित्युक्तम् । ‘पारमार्थिकसत्यत्वं शून्यान्यस्य न हि क्वचित्’ इत्येतदनुसारेण परमार्थत इत्युक्तम् । ‘शून्यात् संवृतियोगेन विश्वमेतत्प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत्’ इत्यनुसारेणाह ।। तस्मादित्यादि ।। जगत्प्रवर्तते । नश्यति चेति शेषः । तस्य । शून्यस्य ।। श्रुतीति ।। ईश्वरस्य जगत्कारणत्वप्रतिपादका ‘यतो वा’ इत्यादिः ।। नेष्ट इतीति ।। वेदादिप्रामाण्यस्य त्वयाऽनङ्गीकारादिति भावः ।

वाक्यार्थमञ्जरी

शून्यमतेति ।। शून्यजगत्कारणत्वाभिधायिमाध्यमिकमतेत्यर्थः अन्तत्रयेति ।। देशकाल-वस्तुभ्यः परिच्छेदरहितमित्यर्थः ।। असङ्गस्येति ।। निष्क्रियस्येत्यर्थः । स्पष्टमेवं सुधायाम् । संव्रियतेऽनेनेति संवृतिरविद्या । असतः शून्यस्य जगत्कारणत्वं न युक्तम् असत्कारणत्वस्य लोकेऽदृष्टत्वादिति भावः । त्वद्रीत्या त्वां बोधयामीत्यत आह ।। दृष्टो वेति ।।

Load More