ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ

ब्रह्मसूत्रभाष्यम्

अथ तृतीयाध्यायस्य तृतीयः पादः

सर्ववेदा(न्तप्रत्यया)धिकरणम्

सूत्रभाष्यम्

उपासनाऽस्मिन्पाद उच्यते । सर्वपरिज्ञानं प्रथमत उच्यते —

।। ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।। १ ।।

अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ (भ.गी.२-१६) इति वचनात् । सर्ववेद-विनिर्णयोत्पाद्यज्ञानं ब्रह्म । ‘आत्मेत्येवोपासीत’ (बृ.उ.३-४-७) इत्यादिविधीनां तदुक्त-युक्तीनां चाविशिष्टत्वात् ।।

श्रीत्रिविक्रमपण्डिताचार्यविरचिता तत्त्वप्रदीपिका

भक्तानामधिकारिणां भगवदुपासनाप्रकारोऽस्मिन्पाद उच्यते । सा चोपासना द्विविधा ।

सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।

ध्यानरूपाऽपरा चैव तदङ्गं धारणादिकम्’ इति ह्यनुव्याख्याने ।।

ऋतं च स्वाध्यायप्रवचने च’ इत्यादिना स्वाध्यायप्रवचने सर्वत्रानुगमयित्वा ‘स्वाध्यायप्रवचने एवेति नाको मौद्गल्यस्तद्धि तपस्तद्धि तपः’ इति च श्रुतिः ।।

सम्यग्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च ।

न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः’ इति च कर्मतत्वे ।।

सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् ।

कार्यं नान्यत् तस्य तेन तुष्ठो भवति केशवः’ इति प्रवृत्ते ।।

ज्ञात्वाऽपि विष्णुं तस्य स्याच्छास्त्रं श्रुत्वा ततोऽधिकम् ।

मुक्तौ सुखं तत्पठतस्ततोऽप्यधिकमिष्यते ।।

व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् ।

ततोऽधिकं तु देवानां मुख्यव्याख्याकृतो यतः’ इति पाद्मे ।।

सा चोपासना ज्ञानपूर्विकेति ब्रह्मणः परिज्ञानं प्रथमतोऽपेक्ष्यम् । तच्च सर्ववेदार्थपरिज्ञानात्मकम् । सर्ववेदार्थरूपत्वाद्ब्रह्मणः । अतः सर्ववेदार्थपरिज्ञानं प्रथमत आपादनीयमाचार्यसेवापूर्वकश्रवण-मननाभ्याम् । तत्प्रथमत उच्यते ।। सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । सर्ववेदनिर्णयोत्पाद्यज्ञानं ब्रह्मेति । अयं भावः । सर्वान्वेदानधिगम्य तदर्थनिर्णयात्मकत्वेनोत्पाद्यं ब्रह्मज्ञानम् । निर्णयः शास्त्रश्रवणेनैव भवतीति तत्कार्यम् । ‘तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’ इति हि श्रुतिमत्रैव दर्शयिष्यति । ‘आत्मेत्येवोपासीत’ ‘आत्मानमेव लोकमुपासीत’ ‘तमेवैकं जानथ’ ‘विज्ञाय प्रज्ञां कुर्वीत’ इत्यादिविधीनां, ‘अत्र ते सर्व एकं भवन्ति । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते’ ‘अमृतस्यैष सेतुः’ ‘वाचो विग्लापनं हि तत्’ इत्यादिना तत्र तत्र विधिवाक्येषूक्तयुक्तीनां च सर्वशाखिनामविशिष्टत्वात् । ‘तमेवैकं जानथ’इति ‘पौर्णमासी निर्वपति’इतिवत् । न ह्येतदेतस्यैव शाखिन इति विशेषः प्रतीयते ।

श्रीजयतीर्थविरचिता तत्त्वप्रकाशिका

एतत्पादार्थं दर्शयति ।। उपासनेति ।। उपासना नाम ब्रह्मजिज्ञासा । सा च भक्तिसाध्यत्वात् ज्ञानसाधनत्वात् भक्त्यनन्तरं ज्ञानात्पूर्वमेवोच्यत इति भावः । आद्याधिकरणतात्पर्यमाह ।। सर्वेति ।। उपासना द्विविधा । समस्तस्च्छास्त्राभ्यासरूपा यामाहुः श्रवणमनने इति । ध्यानरूपा चेति । तत्राद्याया ध्यानाङ्गत्वात्सैव प्रथमाधिकरणे विधीयते । समस्तसच्छास्त्रश्रवणमननाभ्यां दूरोत्सारिताज्ञानसंशयविपर्ययस्यैव ध्यानाधिकारित्वादिति भावः । अत एवात्रास्ति शास्त्रादि-सङ्गतिः । आद्यसूत्रे श्रवणमनने कर्तव्ये इत्युक्तम् । तयोश्च सर्वशाखाऽविषयत्वेऽस्य शास्त्रस्य सर्वोपादेयताभावप्रसङ्गात्सर्वशाखाविषयत्वं समर्थनीयम् । वेदोदितं ब्रह्म विषयः । किमेकैकेनैव सर्वशाखोक्तं श्रवणमननाभ्यां ज्ञातव्यमुत स्वस्वशाखोक्तमिति पूर्वः पक्षः । प्रतिशाखमुच्य-मानानामर्थानां पृथक्त्वेन दर्शनात् । अन्यथा सर्वशाखास्वप्येकप्रकारोक्तिः स्यात् । सर्वज्ञानमन्तरेण च ध्यानानधिकारित्वे मन्दानां तदभावः स्यात् । अतः स्वस्वशाखागतार्थस्यैव ज्ञेयत्वान्नास्य शास्त्रस्य सर्वश्रुतिनिर्णायकस्य सर्वोपादेयतेति । सिद्धान्तयत्सूत्रं पठति ।। सर्वेति ।। उपनिषदो वेदान्तपदेनोच्यन्तेऽत्रेति व्याख्यानं पूर्वोत्तरविरुद्धमिति मन्वानोऽन्तशब्दं सप्रमाणकं व्याचष्टे ।। अन्त इति ।। समस्तसूत्रं व्याचष्टे ।। सर्वेति ।। पूर्वसूत्रे पूर्वपदोदितं ब्रह्म सर्ववेदनिर्णये-नोत्पाद्यज्ञानविषयः । किमुक्तं भवति । ध्यानार्थिना श्रवणमननाभ्यां सर्ववेदान्निर्णीय ज्ञातव्यमिति । कुतः । एवं काण्वैर्ज्ञातव्यमेवं माध्यन्दिनैरेवेति काण्वादिशाखास्वधिकारिविशेषनिर्देशाभावात् । स हि भवन् विधिसमीपे स्यात् । विधयश्च ‘आत्मेत्येवोपासीत’ इत्यादयः सर्वाधिकारिसाधारणा एव पठ्यन्ते । न च वाच्यं यथा कर्मविद्यायामधिकारी गृही कल्प्यते तथाऽत्राप्यधिकारिविशेषः कल्प्यतामिति । तत्र स्वर्गकामत्वादिकल्पकसद्भाववदत्र तदभावात् । कल्पकत्वं च ज्ञानविध्यर्थं तत्रोक्तयुक्तीनामत्र ‘ह्येते सर्व एकीभवन्ति’ इत्यादीनां सम्भवति । इतरांशस्य ज्ञेयादिप्रतिपाद-कत्वात् । युक्तयश्च सर्वाधिकारिसाधारणा एवातः सर्वं सर्वैज्ञातव्यमिति भावः ।

श्रीवादिराजतीर्थविरचिता गुर्वर्थदीपिका

ॐ पृथक्त्वेन दर्शनादित्यत्र ऋग्वेदिनां पुरुषसूक्ते एकप्रकारेण कथ्यते । यजुर्वेदिनां पुरुषसूक्ते तु ‘वेदाहमेतं पुरुषं महान्तम्’इत्यादिना बहूनि भिन्नार्थकानि वाक्यानि सन्ति । सर्वस्याप्येकाधि-कारिकत्वे तन्न स्यादिति भावः । उपनिषदो वेदान्तपदेनोच्यन्तेऽत्रेति व्याख्यानं पूर्वोत्तरविरुद्ध-मित्यत्र आदिसूत्रे ब्रह्मजिज्ञासां प्रतिज्ञाय केन जिज्ञासेत्याकाङ्क्षायां तृतीयसूत्रे शास्त्रेणेति निरूपितम् । शास्त्रं च ‘ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्र-मित्यभिधीयत’ इति वचनाच्चत्वारोऽपौरुषेयवेदविद्याः, भारतपञ्चरात्रमूलरामायणाख्यपौरुषेय-विद्याश्च । अतः कथमुपनिषन्मात्रचर्चेति भावः । सर्ववेदानामन्तेन प्रत्ययो यस्येति बहुव्रीह्यर्थ-भूतषष्ठ्यर्थसम्बन्धस्य विषयविषयिभावरूपत्वात् ज्ञानविषय इत्युक्तम् । इत्यादिविधीना-मित्यत्राऽऽदिपदेन ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादिविधिवाक्यं गृह्यते । आदिपदेन ‘यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म’ इति श्रुत्युक्तलोडन्तजिज्ञासा-विधिसमीपस्थमोक्षदायकत्वरूपार्थवादयुक्तीनां सङ्ग्रह इत्यर्थः । स्वर्गकामत्वादिकल्पकसद्भाव-वदित्यस्य वानप्रस्थानां च यतीनां च मुमुक्षुतया स्वर्गकामनाभावेन काम्यकर्मस्वधिकाराभावात् । ब्रह्मचारिणामध्ययनमात्राधिकारिणां काम्यकर्मस्वधिकाराभावात्स्वर्गकामत्वविशेषणेनादिपदोक्तेन अपत्नीकोऽग्निहोत्रं कथमेव जुहोति इत्यादिवाक्येन च यथा गृहस्थस्यैवाधिकारसिद्धिरित्यर्थः । कल्पकत्वं च विध्यर्थमित्यस्य ज्ञानविध्यर्थं कल्पकत्वमधिकारिकल्पकत्वं च । अत्र ‘आत्मेत्येवो-पासीत’ इत्यत्रोक्तात्मशब्देन एते वेदोक्तास्सर्वे गुणाः एकीभवन्ति एकाकारतया प्रतिपाद्या भवन्तीत्याद्यानां तत्र समीपे उक्तानां रुच्युत्पादनायोक्तार्थवादरूपयुक्तीनां सम्भवतीत्यर्थः । इतरांशस्येत्यस्य एतद्विविधवाक्यशेषतयाऽनुक्तस्य ‘सहस्रशीर्षा’ इत्यादिवाक्यजातस्य ज्ञेय-परमात्मस्वरूपमात्रप्रतिपादकत्वान्नोक्ताधिकारिविशेषकल्पकत्वमित्यर्थः । युक्तयश्चेत्यस्य युक्तयः ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्यादियुक्तयः सर्वाधिकार्यपेक्षितसकलगुणसमर्पकत्वा दुक्तविधौ सर्वेषामप्यधिकारित्वकल्पिका इत्यर्थः ।

श्रीरघूत्तमतीर्थविरचितः तत्त्वप्रकाशिकाभावबोधः

अथ’ ‘ब्रह्मजिज्ञासा’पदाभ्यामुक्तं साधनजातमस्मिन्नध्याये विचार्यत इत्यभिप्रायेण साधन-विचारोऽयमध्याय इत्युक्तम् । तत्र ‘अथ’ शब्देनोक्तयोर्वैराग्यभक्त्योः पादद्वयेन विचारितत्वा-दवसरप्राप्ताज्ञानसाधनीभूता ब्रह्मजिज्ञासा अस्मिन् पादे उच्यत इति वक्तव्यम् । उपासनाऽस्मिन् पाद उच्यत इति कथमुक्तमित्यत आह– उपासना इति ।। ‘तेनोपासा यदा भवेत् । आपरोक्ष्यं ततो विष्णोः’ इत्यनुव्याख्यानानुसारेण ‘अस्मिन्’ इत्यस्याभिप्रायमाह– सा चेति ।। ननूपासना-प्रतिपादकेऽस्मिन् पादे सर्वपरिज्ञानोक्तिः कथं सङ्गता? तस्याप्युपासनत्वेन सङ्गतत्वेऽपि प्रथमतस्तदुक्तौ किं निमित्तमित्यतः ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यान-रूपाऽपरा चैव’ इत्यनुव्याख्यानं मनसि निधाय सर्वपरिज्ञानमिति भाष्याभिप्रायमाह– उपासना द्विविधेति ।।

ननु श्रवणमनननिदिध्यासनानामेवोपासनात्वस्य जिज्ञासाधिकरणेऽभिहितत्वात् कथं सच्छास्त्राभ्यासस्याप्युपासनात्वमित्यत आह– यामाहुरिति ।। श्रवणमननयोर्ध्यानाङ्गत्वमेवो-पपादयति– समस्तेति ।। अत्र श्रवणं तत्त्वज्ञानमुत्पादयदज्ञानं निवर्तयति । मननं तु वेदार्थनिर्णयं कुर्वत्संशयविपर्ययौ निवर्तयतीति बोद्धव्यम् ।। अत एवेति ।। श्रवणमननयोरुपासनारूपत्वा-देवेत्यर्थः । पूर्वसूत्रे पूर्वपदोक्ते ब्रह्मणि सर्ववेदान्तप्रत्ययत्वं विचार्यत इत्यनन्तरसङ्गतिः । यद्वक्ष्यति पूर्वसूत्रे पूर्वपदोदितं ब्रह्मेत्यादि । कर्तव्ये इत्युक्तमिति । जिज्ञासापदेनेत्यर्थः ।। किमेकैकेनेति ।। अत्र ब्रह्म किमेकैकेनैव सर्वशाखोक्तं श्रवणमननाभ्यां ज्ञातव्यमुत स्वस्वशाखोक्तमिति चिन्ता । तदर्थं प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वं सर्वशाखोक्तज्ञानसाधकचोदनाद्यविशेषबाधकं न भवत्युत भवतीति । तदर्थं प्रतिशाखमुच्यमानानां पृथक्त्वं सर्वशाखाध्ययनाद्यभावरूपयुक्त्युपबृंहितं न भवत्युत भवतीति । तदर्थं सर्वशाखाध्ययनाद्यभावः अशक्तिनिबन्धनो न भवत्युत भवतीति । तदर्थं चोदनाद्यविशेषरूपोपपत्तेर्बाधकत्वेनोपन्यस्तानां सर्वशाखाध्ययनाभावादीनामन्यथाकरणे मूल-प्रमाणं नास्त्युतास्तीति ।। सामान्योक्तिरिति ।। ब्रह्मजिज्ञासा कर्तव्येति सामान्योक्तिरित्यर्थः । ‘भेदान्नेति चेत्’ इति सौत्रपूर्वपक्षप्रदर्शनपरं प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वात्तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियम इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– स्वस्वेति ।। अनेन तत्तच्छाखिभिरित्यादिसाध्यप्रतिपादकांशो व्याख्यातः । प्रतिशाखमित्यनेन हेत्वंशो व्याख्यातः । दर्शनादित्यनेन ‘पृथग्दृष्टिः’ इत्यनुव्याख्यानानुसारेण न्यायविवरणे पृथक्त्वपदं तद्दर्शनोपलक्षक-मित्युक्तं भवति । हेतुच्छित्तिरूपविपक्षबाधकतर्कमाह– अन्यथेति ।। सलिलवच्च तन्नियमः’ इति सूत्रनिवर्तनीयं बाधकमाह– सर्वज्ञानमिति ।। पूर्वोत्तरविरुद्धमिति ।। पूर्वं प्रथमाध्याये मन्त्र-ब्राह्मणादिरूपस्य सर्वस्य वेदस्य समन्वयस्योक्तेः ‘उपसंहारोऽर्थाभेदात्’ इत्याद्युत्तरत्रापि सर्व-वेदोक्तप्रकारेण ध्यानस्य वक्ष्यमाणत्वादत्रापि सर्ववेदपदेन मन्त्रादिरूपस्य सर्ववेदस्य ग्राह्यत्वात् ‘सर्ववेदान्त’ इत्येकं पदमङ्गीकृत्योपनिषन्मात्रग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । सूत्रे सर्ववेदानामन्तेन प्रत्ययो यस्येति व्यधिकरणो बहुव्रीहिः । अन्तपदार्थश्च ब्रह्मेत्यभिप्रेत्य प्रवृत्तसर्ववेदेति भाष्यं व्याचष्टे– पूर्वसूत्र इति ।। सूत्रभाष्ययोर्विवक्षितसाध्यस्य स्पष्टमप्रतीतेराह– किमुक्तमिति ।। अस्मिन् साध्ये सूत्रभाष्योक्तविध्यविशिष्टत्वस्य साक्षाद्धेतुत्वाभावात्तत्साध्यं साक्षाद्धेतुं तत्प्रश्नपूर्वक-माह– कुत इति ।। अधिकारिविशेषनिर्देशाभावस्य स्वरूपासिद्ध्याशङ्कापरिहारार्थमात्मेत्यादि-भाष्याभिप्रायमाह– स हि भवन्नित्यादिना ।।

नन्वधिकारिविशेषनिर्देशाभावेऽपि फलोक्त्यादिनाधिकारिविशेषनिश्चयो भविष्यतीत्याशङ्का-निरासपूर्वकं सौत्र‘आदि’शब्दव्याख्यानपरं तत्रोक्तयुक्तीनामविशिष्टत्वादिति भाष्यं व्याचष्टे– न च वाच्यमित्यादिना ।। स्वर्गकामत्वादिति ।। लोकेषणादेर्यत्यादीनामविहितत्वादिति भावः ।। तत्रोक्तयुक्तीनामिति ।। आत्मत्वमेव कुत उपास्यमित्याशङ्कायामात्मत्वे सर्वगुणानामन्तर्भावा-दित्यभिप्रायेण ‘अत्र ह्येते’ इति वाक्यस्य प्रवृत्तत्वादिति भावः ।। इतरांशस्येति ।। तद्धैतदन्तर्ह्य-व्याकृतमासीदित्यादिरित्यर्थः । सर्वाधिकारिसाधारणा एवेति ।। सर्वेषामपि ज्ञानार्थिनां मुमुक्षु-त्वादिति भावः ।

श्रीराघवेन्द्रतीर्थविरचितः भावदीपः

कतिचिन्नयेषूच्यत इति भ्रान्तिं निराह ।। पादार्थमिति ।। एतत्प्रदर्शनं च ‘वैराग्यतो भक्ति-दाढर्््यं तेनोपासा यदा भवेत् । अपरोक्ष्यं भवेद्विष्णोः’इत्यनुभाष्योक्तदिशा वृत्तवर्तिष्यमाणसङ्गति-सूचनायेति भावेन तद्व्याचष्टे ।। उपासना नामेत्यादिना ।। कर्मादिरूपोपासनाया अपरोक्षा-हेतुत्वादिह तदनुक्तेश्च तत्स्वरूपमाह ।। ब्रह्मजिज्ञासेति ।। यद्वा आद्यसूत्रस्थाथपदार्थरूप-वैराग्यभक्त्योरुक्त्यनन्तरमिह जिज्ञासापदार्थो वक्तव्यः । तथैवाध्यायादौ प्रस्तावादित्यत आह ।। उपासना नाम ब्रह्मजिज्ञासेति ।। यद्वा उपासनाया ध्यानरूपत्वादाद्यनयस्यात्रानिवेशमाशङ्क्याह ।। उपासना नामेति ।। श्रवणमनननिदिध्यासन रूपा जिज्ञासेत्यर्थः । अपादार्थत्वशङ्कां निरसितु-माह ।। उपासना द्विविधेति ।। यद्वोपासनोच्यत इत्युक्त्या सर्वपरिज्ञानमुच्यत इत्युक्तेर्विरोध-माशङ्क्योपासनैकदेशत्वादविरोध इति भावेनाह ।। उपासनेति ।। ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा च’इत्यनुभाष्योक्तेरिति भावः । उपासना ब्रह्मजिज्ञासे-त्युपासनाशब्दार्थोक्तिविरोध इत्यत आह ।। यामाहुरिति ।। जिज्ञासैकदेश एवेयमिति भावः । तथापि प्राथम्यं कुत इत्यत आह ।। ध्यानाङ्गत्वादिति ।। एतच्च तन्निर्धारणार्थेत्यत्राग्रे व्यक्तम् । समर्थितं चैतन्न्यायामृते तृतीयपरिच्छेदे । अङ्गत्वं वक्ष्यमाणदिशा व्यनक्ति ।। समस्तेति ।। श्रवणस्यौपदेशिकवाक्यार्थज्ञानरूपत्वादज्ञाननिवर्तकत्वं मननस्य युक्त्यनुसन्धानरूपत्वात्संशय-विपर्ययनिवर्तकत्वं ध्येयम् । ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति वक्ष्यमाणत्वादिति भावः ।। अत एवेति ।। सर्वपरिज्ञानस्य ध्यानाङ्गत्वादेवेति वा जिज्ञासारूपत्वादेवेति वेत्यर्थः ।

पूर्वेण सङ्गतिं सूचयन् चिन्तायाः फलमाह ।। आद्य इति ।। इत्युक्तमिति ।। श्रवणादिरूपा जिज्ञासा कर्तव्येत्यर्थस्योक्तत्वादेकदेशानुवादोऽयम् । अविषयत्वे इति पदच्छेदः ।। सर्वोपादेय-तेति ।। सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः इत्युक्त्याऽस्य शास्त्रस्य मननात्मकस्य सर्वशाखा-निर्णायकत्वादिति भावः । यद्वा मननरूपस्यास्य शास्त्रस्य कतिपयशाखाविषयत्वेऽल्पबुद्धी-नामेवोपादेयं स्यान्न सर्वपरिज्ञानाधिकारिणां महाबुद्धीनां ब्रह्मादीनामुपादेयं स्यादित्यर्थः ।। वेदोदितमिति ।। शास्त्रयोनिनयन्यायेन ब्रह्म वेदोदितमेव यद्यपि तथापि वक्ष्यमाणकोट्युपस्थित्यर्थ-मेवमुक्तम् ।। श्रवणेति ।। सर्वशाखाविषयश्रवणमननाभ्यामित्यर्थः ।। स्वस्वशाखोक्तमिति ।। स्वस्वशाखाविषयश्रवणमननाभ्यां ज्ञातव्यमिति वाक्यशेषः ।। सामान्योक्तिरिति ।। ब्रह्म-जिज्ञासेत्यत्र ब्रह्मज्ञानाय श्रवणादिकर्तव्यमिति सामान्योक्तेरुभयथापि सम्भवादिति भावः ।

सङ्गम्यन्ते गुरोर्गिरः’ इति प्रतिज्ञामनुरुन्धन् प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वा-त्तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियम इत्यन्यत्रोक्तप्रतिज्ञाहेतू संयोजयति ।। स्वस्व-शाखेति ।। हेतोरसिद्धिनिरासाय दर्शनादित्युक्तम् । क्वचित् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति, क्वचिच्च ‘विज्ञानमानन्दं ब्रह्म’ इत्यादिश्रवणादिति भावः । इमौ च प्रतिज्ञाहेतू भेदान्नेति चेदिति सूत्रो-पात्तावेवेति ध्येयम् । अप्रयोजकत्वं निराह ।। अन्यथेति ।। सर्वशाखोक्तमेव ज्ञातव्यं चेदित्यर्थः । इति नियम इत्युक्तितात्पर्यमाह ।। सर्वज्ञानमिति ।। एतच्च ‘सलिलवच्च’ इति सूत्रव्यावर्त्यमित्यग्रे व्यक्तम् ।। अत इति ।। प्रतिशाखमुक्तार्थानां पृथक्त्वदर्शनादिति वा सर्वज्ञानमन्तरेण ध्यानाधि-कारित्वे मन्दानां तदभावापातादिति वा व्यधिकरणे पञ्चम्यौ । यद्वाऽत इत्यस्यैव विवरणं स्वस्वशाखेत्यादि । इति व्याख्यानमिति ।। परकीयमित्यर्थः ।। पूर्वोत्तरेति ।। शास्त्रयोनित्वादित्यत्र ऋगादिवेदरूपशास्त्रस्य ‘ऋग्यजुः सामाथर्वाश्च’ इति स्मृत्युक्तस्य जगत्कारणे ब्रह्मणि प्रामाण्य-मभिधाय तस्यैवोपक्रमादिप्रमाणकं शक्तितात्पर्यावधारणरूपं समन्वयं समन्वयसूत्रे प्रतिज्ञाय आद्या-ध्यायेन तस्य प्रपञ्चनात्पूर्वविरुद्धमग्रे सर्ववेदोक्तगुणोपसंहारेणोपासनाप्रतिपादनादुत्तरविरुद्धमित्यर्थः ।। सप्रमाणकमिति ।। गीतावचनसहितमित्यर्थः । भाष्ये ब्रह्मेति शेषोक्तिरिति भ्रान्तिं निरस्यन् भाष्यं व्याचष्टे ।। पूर्वसूत्र इति ।। कर्तृत्वादिभ्रान्तिं निराह ।। ज्ञानविषय इति ।। हेतुहेतुमद्भावस्या-स्फुटत्वात्कर्त्रप्रतीतेश्च प्रश्नपूर्वं व्यनक्ति ।। किमुक्तमिति ।। सर्ववेदानधीत्य विचार्य च ज्ञातु-मिच्छेन्मुमुक्षुरिति श्रुतेरिति भावः । भाष्ये इत्यादिविधीनामिति बहुव्रीहिः । शाखा अन्यपदार्थ इति तावदुपेत्यैकमर्थमाह ।। एवमिति ।। अर्थान्तरमाह ।। स हि भवन्नित्यादिना ।। इत्यादय इति ।। आत्मानमेव लोकमुपासीत, तमेवैकं जानथ आत्मानं, विज्ञाय प्रज्ञां कुर्वीत, इत्यादिरादिपदार्थः । सौत्रादिपदार्थोक्तिपरं तदुक्तेत्यादिभाष्यं शङ्कापूर्वं व्यनक्ति ।। न चेत्यादिना ।। गृहीति ।। ब्रह्मचारिणो प्राप्ताग्निविद्यत्वाद्यतेरकामित्वाज्ज्योतिष्टोमेन स्वर्गकामो यजेत, ‘उद्भिदा यजेत पशुकामः’ इत्यादौ स्वर्गपश्वादिकामवत्त्वश्रवणादिति भावः । आदिपदेन अग्निविद्यावत्त्वग्रहः ।। ज्ञानविध्यर्थमिति ।। यद्यपि ‘आत्मेत्येवोपासीत’ इत्यादावुपासनाविधिरेव श्रूयते तथाप्युपासी-तेत्यस्य जानाति चेत्यर्थपर्यन्तत्वाज्ज्ञानविध्यर्थमित्युक्तम् । यथोक्तं भाक्तं वाऽनात्मवित्त्वादित्यत्र टीकायां उपास्ते जानाति चेत्युपासनाया ज्ञानपर्यन्तत्वम् । यद्वोपासीतेत्यस्यैव श्रवणादित्रितय-परत्वादेवमुक्तम् ।। तत्रेति ।। विधिसमीप इत्यर्थः । एतेन तदुक्तेति भाष्ये तत् तत्र ज्ञानविधौ विधिसमीपे इति च अर्थ उक्तो भवति ।। इत्यादीनामिति ।। ‘आत्मेत्येवोपासीत’ इत्यात्मत्व-ज्ञानमावश्यकमित्युक्तम् । तत्कुत इत्याकाङ्क्षायामात्मप्रशंसार्थमत्र ‘ह्येते सर्व एकीभवन्ति’ इत्यर्थ-वादस्तदुत्तरत्र तत्समीपे पठ्यते । तस्यायमर्थः । अत्रात्मत्वरूपगुणे एते प्राणन्नेव, प्राणो नाम भवति वदन् वाक्, पश्यंश्चक्षुः, शृण्वन् श्रोत्रं, मन्वानो मन इत्यादिनोपासना विहितः । पूर्व-वाक्येनोक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वादयः सर्वे गुणा एकीभवन्ति अन्तर्भवन्ति । तस्मात्प्रशस्त-मात्मत्वज्ञानमिति तत्र सर्वगुणसङ्ग्राहकत्वयुक्तिरुच्यते । वक्ष्यति चात्मगृहीतिरितरवदित्यत्र । तथा ‘आत्मानमेव लोकमुपासीत’ इत्यत्र य आत्मानमेव लोकमुपास्ते ‘न हास्य कर्म क्षीयत’ इत्यक्षयकर्मफलहेतुत्वयुक्तिः । उक्तं च भाक्तं वेत्यत्र तथा ‘तमेवैकं जानथ’ इत्यत्र ‘अमृतस्यैष सेतुः’ इति मुक्तोपसृप्यत्वयुक्तिरुच्यत इति इत्यादीनां सम्भवतीत्युक्तम् ।। इतरांशस्येति ।। प्राणन्नेव प्राण इत्याद्यंशस्य कस्यचिज्ज्ञेयभगवदीयगुणपरत्वात् कस्यचिज्ज्ञेयकर्माविपरत्वात् कस्यचिदु-पासनातदङ्गादिविधिपरत्वात्कस्यचित्फलप्रतिपादकत्वादित्यर्थः ।। सर्वाधिकारीति ।। वसूनामेवैको भूत्वेत्यादाविव विशेषाश्रवणादिति भावः ।

श्रीमत्सत्यनाथतीर्थयतिविरचिता श्रीमत्तत्वप्रकाशिकाव्याख्या अभिनवचन्द्रिका

(एतत्पादप्रतिपाद्यमिति अ.चं.पा.) एतत्पादार्थमिति ।। ‘तर्ह्यध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेऽप्यवान्तरभेदेन’ इति भावेनेति वर्तते । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः । भाष्ये उपासनाऽस्मिन्पादे इति । प्रायेणेति शेषः । एतेन ‘छन्दत’ इति कर्म-नियमाभावाधिकरण उपासनाऽनभिधानात् ‘उपासनाऽस्मिन्पाद उच्यत’ इत्युक्तमयुक्तमिति परास्तम् ।। अत एवेति ।। श्रवणमननयोरुपासनारूपत्वादेवेत्यर्थः ।। प्रतिशाखमिति ।। उपास्यतया स्वीकृतात् स्वशाखोक्ताद्ब्रह्मणः शाखान्तरोक्तस्य भिन्नत्वान्न तदुपासनार्थं प्रतिपत्तव्यम् । स्वशाखोक्तब्रह्मद्रोहापत्तेरिति भावः ।। अन्यथेति ।। भेदाभाव इत्यर्थः ।। विधयश्चेति ।। यद्यपि अत्र ‘श्रोतव्यो मन्तव्य’ इति विधय उदाहर्तव्याः, श्रवणविधीनामेव साधारण्यस्य सर्वेषां सर्वशाखाज्ञानाधिकारसाधकत्वात्, न तूपासनाविधयः ‘आत्मा’ इत्युपासनाविधेः सर्वसाधारण्येऽपि मध्वाद्युपासनाविधीनां सर्वसाधारण्याभावात् तथापि उपासनाविधीनामपि केषाञ्चित्सर्वसाधारण्यम् किमु ज्ञानविधीनां सर्वसाधारण्यमिति कैमुत्यज्ञापनायोपासनाविध्युदाहरणमिति बोध्यम् । अथवा । यद्यपि सर्वोपासनाविधयो न सर्वाधिकारिसाधारणाः तथापि सर्वशाखिसाधारणा एव । न हि वस्वादिपदयोग्या बह्वृचेषूत्पन्ना इति छन्दोगोक्तमधुविद्योपासनासु नाधिक्रियन्त इति साम्प्रतम् । ततश्चोपासनावाक्योदाहरणमुपपन्नम् ।। युक्तयश्चेति ।। आत्मत्वगुणस्य केनचिदुपास्यत्वे सर्वगुणान्तर्भाववत्वेनाभ्यर्हितत्वादयो युक्तयः । ताश्चैकाधिकारिणं प्रतीव सर्वान् प्रत्यप्यविशिष्टा एव । न हि आत्मत्वादीनां सर्वोपासनाफलदातृत्वेनाभ्यर्हितत्वं कंचित्प्रत्यस्ति अन्यं प्रति तु नेति विभागोऽस्तीति भावः ।

ताम्रपर्णी श्रीनिवासाचार्यविरचिता वाक्यार्थमुक्तावली

पादप्रतिपाद्यमिति ।। अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेष्ववान्तर-भेदादिति भावेनेत्यादौ पूरणीयम् । नन्वथ ब्रह्मजिज्ञासापदोक्तसाधनविचारोऽयमध्याय इत्युक्तम् । तत्राथशब्दोक्तयोर्वैराग्यभक्त्योः पादद्वयेन विचारितत्वादवसरप्राप्ता ज्ञानसाधनीभूता जिज्ञासाऽ-स्मिन्पाद उच्यत इति वक्तव्यम् । उपासनाऽस्मिन्पादे उच्यत इति । कथमुक्तमित्यत आह–  उपासना नामेति ।। ‘वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं ततो विष्णोः इति पादक्रमो भवेत् ’इत्यनुव्याख्यानानुसारेण पादक्रमनियामकमाह– सा चेति ।।

ननूपासना नामिका जिज्ञासा श्रवणमनननिधिध्यासनरूपा सर्वपरिज्ञानं च तृतयमपि भवति । ध्यानस्यापि ज्ञानरूपत्वात् । तृतयस्य च प्रथमप्रतिपाद्यत्वे शिष्टैरधिकरणैः किं निरूपणीयमित्यतः सर्वपरिज्ञानं नाम सर्ववेदार्थश्रवणजं शास्त्रीयोपक्रमादियुक्त्यपरनामकमननजं च ज्ञानं शास्त्राभ्यास-स्वरूपं च विवक्षितम् । तदिह आद्याधिकरणे निरूप्यते । ध्यानं तु मनःकरणकं शिष्टैरधिकरणै-र्निरूप्यत इति भावेन प्रथमतः सर्वपरिज्ञानोक्तौ नियामकमाह– उपासनेति ।। तदुक्तं ‘सोपासना च द्विविधा’इति । श्रवणमननयोर्ध्यानाङ्गत्वमेवोपपादयति– समस्तेति ।। अत एवेति ।। भगव-ज्ज्ञानसाधनध्यानाङ्गयोः कर्तव्यत्वसमर्थनादेवास्ति शास्त्रादिसङ्गतिरित्यर्थः। पूर्वाधिकरणे रातिर्दातुः, एष ह्येव साधु कर्म कारयति, इति सामान्योक्त्या सर्वकर्माधिकारित्वमुक्तम् । समाचारेऽधि-काराच्चेति तदेव हेतूकृत्य सर्ववेदान्तप्रत्ययत्वसमर्थनादनन्तरसङ्गतिः ।। किमेकेनेति ।। अत्र ब्रह्म स्वस्वशाखोक्तश्रवणमननाभ्यां ज्ञातव्यमुत सर्वशाखोक्तप्रकारेणेति चिन्ता । तदर्थं प्रतिशाख-मुच्यमानानां पृथक्त्वं सर्वशाखाध्ययनाभावश्च किं सर्वशाखोक्तप्रकारेण ज्ञानेऽधिकाराभावनिबन्धन उत चोदनाद्यविशेषादध्ययनविधेरर्थज्ञानपर्यवसन्नायाः सामान्यतः प्रवृत्तत्वात् सर्ववेदोक्तकर्माधिकार-सद्भावाच्चाशक्तिनिबन्धन इति ।। सामान्योक्तिरिति ।। ब्रह्मजिज्ञासा कर्तव्येति सामान्योक्ति-रित्यर्थः । अत्र भेदान्नेति सूत्रनिरस्यं पृथग्दृष्टिरित्युक्तन्यायं दर्शयन् पूर्वपक्षयति  स्वस्वशाखे-त्यादिना । हेतूच्छित्तिरूपं विपक्षे बाधकतर्कमाह अन्यथेति ।। ‘सलिलवच्च तन्नियम’ इति सूत्र-निवर्तनीयं बाधकमाह– सर्वज्ञानमिति ।। पूर्वोत्तरविरुद्धमिति ।। प्रथमाध्याये मन्त्रब्राह्मणादि-रूपस्य सर्वस्य वेदस्य गतिसामान्यस्य ‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’ इत्यादिना समन्वय-स्योक्तत्वादुपसंहारोऽर्थाभेदादिति सर्ववेदोपसंहारस्य वक्ष्यमाणत्वादत्रापि सर्ववेदपदेन मन्त्रादिरूपस्य सर्वस्य वेदस्य ग्राह्यत्वात् वेदान्तपदेनोपनिषन्मात्रग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । सूत्रे सर्ववेदा-नामन्तेन प्रत्ययो यस्येति व्यधिकरणबहुव्रीहिः । अन्तेनेति करणे तृतीयेति भावेन पूर्वानुवृत्त्या व्याचष्टे पूर्वसूत्रेति ।। सर्ववेदनिर्णयेनेति ।। सर्ववेदार्थश्रवणमननरूपनिर्णयेनोत्पाद्यं शाब्दानुमिति-लक्षणं यन्निश्चयात्मकं ज्ञानं तद्विषयज्ञानमित्यर्थः ।। किमुक्तमिति ।। एकैकेनापि सर्वशाखा-श्रवणयुक्त्यनुसन्धानाभ्यां ब्रह्म ज्ञातव्यमिति प्रतिज्ञाय सर्ववेदोत्पाद्यज्ञानविषयत्वप्रतिज्ञानेन किमुक्तं भवति, सिद्धत्वादिति भावः ।। ध्यानार्थिनापीति ।। एकैकेनापीति भावः । श्रवणमननाभ्या-मिति । श्रवणमननाभ्यामयमेवार्थो नान्य इति निर्धार्य ज्ञातुं प्रयतेतेत्यर्थः । एकैकस्यापि श्रवण-मननाभ्यां सर्ववेदोक्तब्रह्मज्ञानेऽधिकारः, न तु स्वस्वशाखोक्तमात्रब्रह्मज्ञानेऽधिकार इत्येतत्कुतः परपक्षे साधकाभावाद्वा, स्वपक्षे तत्सद्भावाद्वेत्याशयेन पृच्छति– कुत इति ।। तत्र तावत्परपक्षे साधकाभावान्न शाखानामेकाधिकारिविशेषकल्पना युक्ता । किन्तु सर्वाधिकारिकत्वमेवेति प्रतिपादयितुं चोदनाद्यविशेषादिति सूत्रखण्डं प्रवृत्तम् । तच्च भाष्ये आत्मेत्येवोपासीत इत्यादिविधीनां अविशिष्टत्वात्सर्वाधिकारिसाधारणत्वादिति व्याख्यायते, अतः साधकाभावपरतया न साक्षा-त्प्रतीयत इत्यतः साक्षात्साधकाभावप्रदर्शनपरतयापि सूत्रखण्डं व्याचष्टे– एवं काण्वैरिति ।। एतेन चोदनासु विधिगर्भासु काण्वादिशाखासु काण्वैरेवं श्रवणमननाभ्यां ज्ञातव्यं माध्यन्दिनैरेवमित्य-विशेषादधिकारिविशेषनिर्देशाभावादिति सूत्रखण्डार्थ उक्तो भवति । न चेदुद्भाष्यं व्याख्यानम् । विधीनां विधिगर्भाणां काण्वादिशाखानामविशिष्टत्वादधिकारिविशेषनिर्देशशून्यत्वादिति भाष्यार्थं तावदभिप्रेत्य टीकाप्रवृत्तिसम्भवात् । अधिकारिविशेषनिर्देशाभावस्य स्वरूपासिद्ध्या शङ्का-परिहारार्थं सूत्रखण्डं प्रकारान्तरेण व्याकुर्वदात्मेत्येवोपासीत इत्यादिविधीनामविशिष्टत्वात् इति भाष्यं व्याचष्टे– स हि भवन्निति ।। अधिकारिविशेषनिर्देशो भवत्तद्यत्प्रथमममृतं तद्वत् उपजीवन्तीतिवत् विधिसमीपे स्यादित्यर्थः ।। विधयश्चेति ।। ‘आत्मेत्येवोपासीत,’ ‘आत्मानमेव लोकमुपासीत,’ ‘तमेवैकं जानथ,’ ‘विज्ञाय प्रज्ञां कुर्वीत इत्यादयः । पौर्णमासीं निर्वपतीतिवत् सर्वाधिकारिसाधारणा एव पठ्यन्ते न तु स्वसमीपेऽधिकारिविशेषनिर्देशवन्त इत्यर्थः । यद्यपि श्रोतव्यो मन्तव्य इत्यादयः श्रवणमननविधयः प्रकृततत्वात्पठनीयाः तथाप्युपासीतेत्यस्यैव ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी’इत्युक्तरीत्या श्रवणमननविधित्वाद्भाष्यगतादिशब्देन ‘तमेवैकं जानथ, श्रोतव्य’ इत्यादिविधिग्रहणाद्वा नानुपपत्तिः । स्पष्टं तदुपासनं तु उपासनाविधीनामेव सर्वसाधारण्यं किमु ज्ञानविधीनामिति कैमुत्यद्योतनायेति ज्ञेयम् । नन्वधिकारिविशेषनिर्देशाभावेऽपि फलोक्त्यादिनाऽधिकारिविशेषनिश्चयो भवतीत्याशङ्क्य तन्निरासपूर्वकं सूत्रादिशब्दव्याख्यानपरं तत्रोक्तयुक्तीनां चाविशिष्टत्वादिति भाष्यं व्याचष्टे । न च वाच्यमित्यादिना ।। स्वर्गकाम-त्वादीति ।। लोकेषणादेर्यत्यादीनामविहितत्वादिति भावः । अत्र ह्येते कवयः सम्भवन्तीत्याद्या-नामित्याद्यपदेन तत्त्वप्रदीपरीत्यात्मानमेव लोकमुपासीत इत्यादावुक्तानां स य आत्मानमेव लोक-मुपास्ते, न हास्य कर्म क्षीयत, अमृतस्यैष सेतुः, वाचो विग्लापनं हि तदित्यादीनां ग्रहणम् ।। इतरांशस्येति ।। प्राणन्नेव प्राणो भवति, श्रुण्वानः श्रोत्रं पश्यंश्चक्षुरित्यादीतरांशस्येत्यर्थः ।। युक्तयश्चेति ।। यस्मादेते प्राणादिशब्दोक्ताः सर्वे आनन्दादय आत्मत्वेऽन्तर्भवन्ति । अत आत्मे-त्युपासने आनन्दादिगुणलाभादात्मेत्युपासीतेत्यादियुक्तयश्च सर्वाधिकारिसाधारणा एव आनन्दादेः सर्वापेक्षितत्वादिति भावः ।

पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता तत्त्वसुबोधिनी

ननु अथ ब्रह्मजिज्ञासेति पदद्वयोक्तसाधनचतुष्टये अथपदोक्तवैराग्यभक्त्योः पादद्वयेनोक्तत्वादि-दानीमवसरप्राप्ता ज्ञानसाधनीभूता जिज्ञासापदोक्तब्रह्मजिज्ञासा अस्मिन्पाद उच्यते इति भाष्ये वक्तव्यम् । उपासनास्मिन्पाद उच्यत इति कथमुक्तमित्यत आह ।। उपासना नामेति ।। ननु तथापि भक्त्यनन्तरं ज्ञानात्पूर्वं उपासनानिरूपणे कासङ्गतिरित्यत आह ।। सा चेति ।। तथा च साध्यसाधनरूपैव सङ्गतिरिति तन्निरूपणमिति भावः । ननु उपासनाप्रतिपादके अस्मिन्पादे सर्व-परिज्ञानोक्तिः कथं सङ्गता तस्याप्युपासनत्वेऽपि प्रथमतः तदुक्तौ किं निमित्तमित्यत आह ।। उपासना द्विविधेति ।। तत्राद्यमाह ।। समस्तेति ।। ननु श्रवणमनननिदिध्यासनानामे-वोपासनात्वस्य जिज्ञासाधिकरणेऽभिहितत्वात्कथं सच्छास्त्राभ्यासस्याप्युपासनात्वमित्यत आह ।। यामाहुरिति ।। द्वितीयामाह ।। ध्यानेति ।। तत्राद्याधिकरणे का निरूप्यते इति विशये सत्याह ।। तत्रेति ।। तत्र हेतुर्ध्यानेति । कथमस्य ध्यानाङ्गत्वमित्यत आह ।। समस्तेति ।। दूरोत्सारिताः अज्ञानसंशयविपर्ययाः येनेति विग्रहः । अत्र श्रवणं तत्वज्ञानं जनयदज्ञानं निवर्तयति । मननं तु वेदार्थनिर्णयं कुर्वत् संशयविपर्ययौ निवर्तयतीति बोद्धव्यम् ।। अत एवेति ।। श्रवणमननयो-रुपासनारूपत्वादेवेत्यर्थः । पूर्वसूत्रे पूर्वपदोक्ते ब्रह्मणि सर्ववेदान्तप्रत्ययत्वं विचार्यते इत्यनन्तर-सङ्गतिः ।। कर्तव्येत्युक्तमिति ।। जिज्ञासापदेनेत्यर्थः ।। सामान्योक्तेरिति ।। ब्रह्मजिज्ञासाकर्तव्येति सामान्योक्तिरित्यर्थः । नन्वस्तु प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वं तथापि स्वस्वशाखोक्तमेव ज्ञेयमिति कुतः सर्वशाखोक्तमेव ज्ञेयमिति किं न स्यादित्यत आह ।। अन्यथेति ।। एकप्रकारस्यैव वस्तुनो ध्यानार्थं ज्ञेयत्वादिति भावः ।

ननु ध्यानार्थं सर्वज्ञानस्यावश्यकत्वेन तस्य च सर्वशाखाविषयकश्रवणमननाभ्यां विना असम्भवादवश्यं सर्वशाखाविषयकश्रवणादिकर्तव्यमन्यथा ध्यानाधिकार एव न स्यादित्यत आह ।। सर्वज्ञानमिति ।। पूर्वोत्तरविरुद्धमिति ।। पूर्वं प्रथमाध्याये मन्त्रब्राह्मणादिरूपस्य सर्ववेदसमन्वय-स्योक्तेः उपसंहारोऽर्थाभेदादित्युत्तरत्रापि सर्ववेदोक्तप्रकारेण ध्यानस्य वक्ष्यमाणत्वेनात्रापि सर्ववेद-पदेन मन्त्रादिरूपस्य सर्ववेदस्याग्राह्यत्वात् वेदान्तपदेनोपनिषन्मात्रग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । सूत्रे सर्ववेदानामन्तेन प्रत्ययोयस्येति व्यधिकरणो बहुव्रीहिरन्यपदार्थश्च ब्रह्मेत्यभिप्रेत्याह ।। पूर्वसूत्र इति ।। सूत्रभाष्ययोर्विवक्षितसाध्याप्रतीतेराह । अस्मिन् पादे सूत्रभाष्योक्तविध्यविशिष्टत्वस्य साक्षाद्धेतुत्वासम्भवात्साक्षाद्धेतुं प्रश्नपूर्वकमाह ।। कुत इति ।। ननु अधिकारिविशेषनिर्देशा-भावोऽसिद्ध इत्याह ।। स हि भवतीति ।।

ननु कर्मविद्यायामधिकारिविशेषनिर्देशाभावेऽपि स्वर्गकामत्वादिरूपकल्पबलेन गृहिण एवाधि-कारित्वकल्पनवत् प्रकृतेऽपि फलोत्पत्यादिनाऽधिकारिविशेषनिश्चयो भविष्यतीत्याशङ्क्य निषेधति ।। न च वाच्यमिति ।। स्वर्गकामत्वादिति ।। लोकेषणादेः यज्ञादीनामविहितत्वादिति भावः । ननु प्रकृतेऽपि आत्मेत्युपासनाविधिसमीपोक्तानां अत्र ह्येते सर्व एकीभवन्ति इत्यादीनामेवाधिकारि-विशेषकल्पकत्वं स्यादित्यत आह ।। कल्पकत्वस्येति ।। ननु उपासनाविधिसमीपे अत्र ह्येते इत्यादिना किमर्थेयमुक्तिरित्यत उक्तम् ।। ज्ञानविध्यर्थमिति ।। उपासनाविध्युपपत्यर्थमित्यर्थः । आत्मेत्येवोपासीत इत्युक्ते तदेव कुतः उपास्यमित्याशङ्कायामात्मत्वे सर्वगुणानामन्तर्भावादित्यभि-प्रायेणात्र ह्येत इति वाक्यस्य प्रवृत्तत्वादिति भावः । युक्तीनामेव कुतः कल्पकत्वं अन्यांशस्यापि तत्किं न स्यादित्यत आह ।। इतरांशस्येति ।। तद्वेद तर्ह्यव्याकृतमासीदित्यादेरित्यर्थः । सर्वाधिकारिसाधारणा इति । सर्वेषामपि ज्ञानार्थिनां मुमुक्षुत्वादिति भावः ।

श्रीनिवासतीर्थविरचितं वाक्यार्थविवरणम्

।। समस्तेति ।। सर्वपरिज्ञानशब्दार्थोऽयम् ।। अत एवेति ।। श्रवणमननयोरुपासनात्वादेव भगवज्ज्ञानसाधनसर्वपरिज्ञानापरपर्यायसमस्तसच्छास्त्राभ्यासरूपश्रवणमननरूपोपासनस्य कर्तव्यता- समर्थनादित्यर्थः ।। अस्य शास्त्रस्येति ।। सर्वशाखानिर्णायकस्यास्य शास्त्रस्य सर्वाधिकार्यनुपादेयता स्यात् । कुतः । अधिकारिणां सर्वशाखाविषयश्रवणाद्यसम्भवादिति भावः । पृथक्त्वेन अनेक-प्रकारत्वेन ।। अन्यथेति ।। तैस्तैः स्वशाखोक्तरीत्यैव ब्रह्म न ज्ञेयं किन्तु एकेनैव सर्वशाखोक्त-रीत्येत्यङ्गीकारे ।। एकप्रकारेति ।। एकप्रकारेणानेकवस्तु ज्ञातव्यम् । अनेकप्रकारेणैवोक्तौ तस्याधिकारिणा मन्देन ज्ञातुमशक्यत्वादिति भावः ।। स हीति ।। काण्वाद्यधिकारिनिर्देशः । विधिसमीपेे विधिवाक्यसमीपे । ‘स्वर्गकामो यजेत’ इतिवदिति भावः । न त्वधिकारिविशेषं प्रति प्रवृत्ताः । तदनिर्देशादित्येवकारार्थः ।। गृही ।। अनुक्तोऽपीति शेषः ।। अत्रापि ।। उपासना-विधिवाक्यं अनुक्तोऽपीति शेषः ।। स्वर्गेति ।। स्वर्गकामनाया यत्यादेरविहितत्वात् तत्कामनावानेव गृही ज्योतिष्टोमाधिकारित्वेन कल्प्यत इत्येवं गृहिणोऽधिकारित्वकल्पकं स्वर्गकामपदमेवास्तीति स्वर्गकामत्वादिरूपकल्पकवदित्यर्थः ।। ज्ञानविध्यर्थम् ।। उपासनाविध्यर्थम् ।। ‘आत्मेत्येवो-पासीत’ इत्युपासनाविधावधिकारिविशेषकल्पकत्वं तत्रोक्तयुक्तीनामेव सम्भवतीत्यन्वयः ।। तत्रोक्तेति ।। उपासनाविधिवाक्यसमीपस्थवाक्योक्तेत्यर्थः । तत्रोक्तयुक्तीनामेव कुतः कल्पकत्व-मित्यत आह ।। इतरांशस्येति ।। ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इत्यादेरित्यर्थः ।। ज्ञेयेति ।। ज्ञेयभूतात्मस्वरूपेत्यर्थः । युक्तीनामधिकारिविशेषं प्रति प्रवृत्तत्वे युक्तमेव तासां कल्पकत्वम् । तदेव नास्तीत्याह ।। युक्तयश्चेति ।। साधारणाः अधिकारिविशेषानुपादानादिति भावः ।

शर्करा श्रीनिवासाचार्यविरचिता वाक्यार्थमञ्जरी

नन्वथ ब्रह्मजिज्ञासापदोक्तसाधनविचारात्मकेऽस्मिन्नध्याये पादद्वयेनाथशब्दोक्तवैराग्यभक्ति-निरूपणानन्तरं ब्रह्मजिज्ञासापदोक्तज्ञानसाधनीभूता ब्रह्मजिज्ञासाऽस्मिन्पादे निरूपणीया । किमुपासनानिरूपणेनेत्यत आह ।। उपासना नामेति ।। ननूपासनाप्रतिपादकेऽस्मिन्पादे सर्व-परिज्ञानोक्तिः कथं सङ्गता । तस्याऽप्युपासनात्वेन सङ्गतत्वेऽपि प्रथमतः तदुक्तौ किं निमित्तमित्यत आह ।। उपासना द्विविधेति ।। श्रवणमनननिदिध्यासनानामेवोपासनात्वस्य जिज्ञासाधि-करणेऽभिहितत्वात्कथं सच्छास्त्राभ्यासस्याप्युपासनात्वमित्यत आह ।। यामाहुरिति ।। श्रवण-मननयोर्ध्यानांगत्वमेवोपपादयति ।। समस्तेति ।। अत्र श्रवणं तत्त्वज्ञानमुत्पादयदज्ञानं निवर्तयति । मननं तु वेदार्थनिर्णयं कुर्वत्संशयविपर्ययौ निवर्तयतीति विवेकः ।। अत एवेति ।। श्रवण-मननयोरप्युपासनात्वादेवेत्यर्थः । ततश्चात्र भगवत्प्राप्तिसाधनीभूतायाः सर्ववेदश्रवणमननोपासना-रूपायाः समर्थनादस्ति शास्त्रादिसङ्गतिरित्युक्तं भवति । अविषयत्व इति छेदः ।। सर्वोपादेयतेति ।। एकशाखाविषयश्रवणादिकुर्वतः शाखान्तरज्ञानाभावेन सर्वशाखानिर्णायकैतच्छास्त्रेण प्रयोजना-भावादिति भावः ।। सामान्योक्तिरिति ।। ब्रह्मजिज्ञासा कर्तव्येति सामान्योक्तिरित्यर्थः ।। पृथक्त्वे-नेति ।। क्वचित् ‘विज्ञानमानन्दं ब्रह्म’ इति विज्ञानाद्यात्मकस्य क्वचिच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति सत्याद्यात्मकस्य वस्तुनोऽभिधानदर्शनादित्यर्थः ।

ब्रह्म सर्ववेदान्तप्रत्ययं सर्वेषां वेदानामन्तेन निर्णयेन जातो यः प्रत्ययः ज्ञानं तद्विषयः कुतः चोदनाद्यविशेषात् चोदनानामुपासनाविधीनामादिपदोक्तयुक्तीनां च सर्वान्प्रति विशेषरहितत्वादित्यर्थः ।। पूर्वोत्तरविरुद्धमिति ।। पूर्वं प्रथमाध्याये मन्त्रब्राह्मणादिरूपस्य सर्वस्य वेदस्य समन्वय-स्योक्तत्वात् उपसंहारोऽर्थाभेदादित्युत्तरत्रापि सर्ववेदोक्तप्रकारेण ध्यानस्य वक्ष्यमाणत्वात् । अत्रापि सर्ववेदपदेन मन्त्रादिरूपस्य सर्वस्यापि वेदस्य ग्राह्यत्वात्सर्ववेदान्तेत्येकं पदमंगीकृत्योपनिषद्ग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । विवक्षितसाध्यस्य स्पष्टमप्रतीतेराह ।। किमुक्तमिति ।। ज्ञातव्य-मित्यनन्तरमुक्तं भवतीत्यनुवर्तते । नन्वधिकारिविशेषनिर्देशाभावेऽपि फलविशेषादिनाऽधिकारि-विशेषनिश्चयो भविष्यतीत्याशङ्क्य निषेधति ।। न च वाच्यमिति ।। ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिका कर्मविद्या ।।  कल्पकाभावमेवोपपादयति । कल्पकत्वं चेत्यादिना ।। तत्रोक्त-युक्तीनामिति ।। आत्मत्वमेव कुत उपास्यमित्याशङ्कायामात्मत्वे गुणानामन्तर्भावादित्यभिप्रायेणा-त्रेति वाक्यस्य प्रवृत्तत्वादिति भावः । अत्रात्मत्वे एते सर्वगुणाः एकीभवन्ति अन्तर्भवन्तीत्यर्थः ।। इतरांशस्येति ।। तद्धीदन्तर्ह्यव्याकृतमासीत् इत्यादेरित्यर्थः ।। सर्वाधिकारिसाधारणा एवेति ।। सर्वेषामपि ज्ञानार्थिना मुमुक्षुत्वेन स्वयोग्येतरगुणसङ्ग्राहकात्मत्वोपासकत्वादिति भावः ।

 

 

Load More