ॐ जन्माद्यस्य यत: ॐ

२. जन्माधिकरणम्

सूत्रभाष्यम्

ब्रह्मणो लक्षणमाह

॥ ॐ जन्माद्यस्य यत: ॐ ॥ १-१-२ ॥

सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यत ।

"उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृत्ति ।

 बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकरा’ ॥ इति स्कान्दे ।

यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति । (तै.उ.३-२)

य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्र्वा (ऋ.सं.१-१५४-५) ।

चतुर्भिस्साकं नवतिं च नामभिश्र्चक्रं न वृत्तं व्यतीरँवीविपत् । (ऋ.सं.१-१५५-६) ।

"परो मात्रया तन्वा वृधान न ते महित्वमन्वश्र्नुवन्ति । न ते विष्णो जायमानो न जातो देव महिम्न परमन्तमाप’ (ऋ.सं.७-९९-१२) ।

"यो न पिता जनिता यो विधाता धामानि वेद भुवनानि विश्र्वा’ (ऋ.१०-८२-३) इत्यादि च ॥ २ ॥ अ.२ ॥

सत्तकदीपावली

किं तद् ब्रह्म यज्जिज्ञासा कर्तव्येत्यपेक्षायां जगज्जन्मादिकर्तृत्वादिविशिष्टब्रह्माभिधानमसङ्गतमिति चेत् मैवम् । सर्वथाऽनवगतस्य प्रश्र्नासम्भवात् बृहद्ब्रह्मेति ज्ञानमेव सर्वतो व्यावृत्ततया ज्ञातुं पृष्टत्वेन व्यावृत्तये लक्षणविशिष्टब्रह्माभिधानस्य सङ्गतत्वात् । निर्गुणं चेदत्र ब्रह्म विवक्षितं जन्माद्यस्य न यत इति सूत्रं स्यात् । न हि कर्तृत्वादिधर्मरहितात्किञ्चिदुत्पद्यते । जगज्जन्मादिकर्ता च हरिरेवेत्यत्र पुराणवचनमाह ॥ उत्पत्तीति ॥ भीषास्माद्वात पवते य पृथिवीमन्तरो यमयतीत्यादिश्रुतावपि विष्णुरेव जगज्जन्मादि-कर्तोच्यते । तद्ब्रह्मेति श्रवणात् । एतद्दाढर्याय विष्णुसूक्तगतश्रुती दर्शयति । य उ त्रिधात्वित्यादिना । अस्यार्थ । य प्रकृतिपुरुषकालाधारत्वात्त्रिधातुशब्दोक्त एक एव पृथिव्याद्याधार स हि विष्णुर्नम्यत्वेन नामपादोक्तैश्र्चतुर्भिर्वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यस्वरूपै सहित अष्टवस्वेकादशरुद्रविष्णुव्यतिरिक्तैका-दशादित्यहिरण्यगर्भादिदशप्रजापतिपञ्चाशन्मरुदाख्यान्नवतिसङ्ख्याकान् विशेषेणार्तान् अधिकान् अन्यांश्र्च पदार्थान् वृत्तं चक्रमिव अवीविपत् विशेषेण सृष्ट्यादिना परिवर्तयामासेत्यर्थ । तदेतज्जगत्सृष्ट्यादिमाहात्म्यं विष्णोरन्ये न प्राप्नुवन्तीत्येतदुच्यते ॥ पर इति ॥ यतो मात्रया मिते पर अपरिच्छिन्न अवध्यतीत तन्वा वृधान जगद्य्वाप्त्या विष्णो ते तव महिमानमन्ये न प्राप्नुवन्तीत्यर्थ । महिमातारतम्यपरावधिभूतं विष्णोर्महित्वं यथेदानींतनो न प्राप्नोति तथा जातो नापि जनिष्यमाणो प्राप्स्यतीत्युच्यते ॥ न त इति ॥ एतदेव महित्वं दृश्यते यो न इति । यो विश्र्वकर्मनामा पद्मनाभो न सुरनरादीनामस्माकं पितेत्याद्यपि दत्तुपुत्रादेरजनकोऽपि पिता दृष्ट इति तन्निवृत्यर्थं जनिता पितेति विशेषणम् । पातीति वा पिता विशेषेण धाता विधारक पोषको मुक्तानां तत्संपृच्छ्यत इति सम्प्रश्र्नं भुवनानि यन्तीत्यन्वय ।

तत्त्वप्रदीपिका

ब्रह्मणो लक्षणमाह-जन्माद्यस्य यत । सा च विष्णोर्ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि तस्य लक्षणा-न्याह तान्यनेन सूत्रेण भगवानाह । तथाहि ""यत प्रसूता जगत प्रसूती’’ ""सर्वे निमेषा जज्ञिरे विद्युत पुरुषादधी’’ति प्रकृतिकालसृष्ट्यभिधानेन तस्मादेव सर्वसृष्टिरुक्ता । तदधीनत्वादितरसृष्टे । ""यस्मिन्निदं सं च विचैति सर्वं यस्मिन्देवा अधि विश्र्वे निषेदु’’रिति स्थिति । ""वेनस्तत्पश्यन्विश्र्वा भुवनानि विद्वान्यत्र विश्र्वं भवत्येकनीळ’’मिति ज्ञानं संहारश्र्च । ""विवेश भूतानि चराचराणी’’त्यर्थान्नियमनम् । ""येनाऽदित्यस्तपति तेजसा भ्राजसा चे’’ति स्पष्टम् । ""ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभव-त्प्रजास्वि’’त्यज्ञानं बन्धश्र्च । ""य एनं विदुरमृतास्ते भवन्ती’’ति मोक्ष । ""यतो वा इमानि भूतानि जायन्ते, ये जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्मे’’ति तैत्तिरीयश्रुति विष्णो-रेवैतानि स्रष्टृत्वादीनि प्रसिद्धलक्षणानीत्याह ॥ य उ त्रिधात्वित्यादि । प्रकृतिपुरुषकालधातृत्वात् "त्रिधातु’ । भूमिं श्रियं च दधार । चतुर्भिरिति । वासुदेवादिनामवद्भि रूपै"र्व्यतीन्’ विशेषतोऽधि-का"न्नवतिं’ "साकं’ युगपदेव "अवीविपत्’ पर्यवर्तयत्; विप परिवर्तन इति धातो, किमुतान्यान् । प्रधानवायुना सह पञ्चाशन्मरुतो, वसवो, रुद्रादित्या एकादश, प्रजापतयश्र्च ब्रह्मदशमा नवतिर्देवा । चतुर्भिर्नामवद्भि कीर्तिमद्भिर्देवै साकं नवतिं देवान्पर्यवर्तयदिति वाऽन्वय । तथा चोक्तम्

""आदित्या वसवो रुद्रा मरुतश्र्चाश्र्विनावपि ।

बृहस्पतिश्र्च कामश्र्च मनुर्दक्षो विनायक ॥

भृगुश्र्चैवानिरुद्धश्र्च धर्मो निर्ऋतिरेव च ।

कुबेरसहिता देवा नवतिस्सम्प्रकीर्तिता ॥

अनन्तो गरुडो वायुश्र्चत्वारो ब्रह्मणा सह ।’’ इति ।

परो मात्रयेति । मात्राया "पर’ परिमाणातीतस्त्वं, तन्वा "वृधान’ वर्धमान, देहेन पूर्ण, इत्थम्भावे तृतीया । देहरूपेण पूर्ण इत्यर्थ । यतश्र्चिदानन्दात्मको विष्णोरभिन्नश्र्च देह । ते महिमानं नानुभवन्ति न प्राप्नुवन्ति ॥

१. त्वदीयाया "पृथिव्या’ प्रकृते "रजसी’ पुण्यपापे "विद्म’ । प्रकृते रजसा हि पुण्यपापे सृज्येते । "परमस्य’ ते रूपं महिमानं वा त्वमेव वित्से ।

त्वमेव "महिम्नो’ महिमसमुदायस्यान्त । ब्रह्मणश्श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा । अन्यमहिम्नां परमन्तं ते महिमानं न कश्र्चिदाप ॥

२. यत्राकं नास्ति त"न्नाकम्’ । उच्चैरस्तम्भय । "ऋष्वं’ प्रकाशरूपम् । "पृथिव्या’ पृथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं दिशमुत्थापनेन "दाधर्थे’ति सर्वधारणोपलक्षणम् । देवान्पर्यवर्तयदित्युक्त्यैव सृष्ट्यादय स्पष्टोदिता अतिमहिमोक्त्याऽपि सन्दर्शिता ॥ यो न पिता पाता ।

""स एव पितृसंस्थस्तु पातृत्वात्पितृनामक’’ इत्यैतरेयसंहितायाम् । विधाता धारणपोषणकर्ता, पोषणं ज्ञानमोक्षप्रदानेन ॥ इति जन्माधिकरणम् ॥

तत्त्वप्रकाशिका

अत्र श्रुत्युक्तब्रह्मणो विष्णुत्वसमर्थनादस्ति शास्त्रसङ्गति । श्रुत्यादिसङ्गतिस्तु तद्विजिज्ञासस्व तद्ब्रह्मेति श्रुत्युक्तं ब्रह्म जिज्ञास्यमित्युक्तं तस्य च विष्णुत्वं यावन्न साध्यते तावत्तस्य गुणपूर्त्यसिद्ध्या भेदकाभावेन जिज्ञास्यता न सम्भवतीति । तच्छ्रुत्युक्तं ब्रह्मात्र विषय । किं विष्णुरुत जीव इति सन्देह । उभयत्रापि ब्रह्मपदप्रयोग एव सन्देहबीजम् । यद्यपि पूर्वाधिकरणे विष्णावेव ब्रह्मशब्दो मुख्य इत्युक्तं तथापि स्वकृत-व्याख्यानस्थापनाय भाष्यकारैरेवोक्तत्वाद् भवति सन्देह । जीव एवेदं ब्रह्मेति पूर्व पक्ष । बृह जातिजीवेति ब्रह्मशब्दस्य जीवे रूढत्वात् । यद्यपि ब्रह्मशब्दो विष्णौ प्रवर्तते तथापि तस्य तत्र योगेनैव प्रवृत्ते । रूढियोगयोश्च रूढेरेव बलवत्त्वाज्जीववाचित्वमेव मुख्यम् । न च रूढिपरित्यागेन योगाङ्गीकारो युक्त । बाधकं विना मुख्यार्थत्यागायोगात् । न चात्र तादृशं बाधकमस्ति । तस्मात् जीव एवेदं ब्रह्म । तस्य च स्वप्रकाशत्वेनासन्दिग्धत्वादजिज्ञास्यतेति । अथ सिद्धान्तयत्सूत्रमवतारयति । ब्रह्मण इति । निर्बाधरूढिबलाज्जीव एवेदं ब्रह्मेति प्राप्ते तन्निराकर्तुं जीवग्रहणे बाधकं श्रुत्युक्तं जिज्ञास्यब्रह्मणो लक्षणमाह सूत्रकार इत्यर्थ । अस्य जगतो जन्म आदिपदोक्ते स्थितिसंहृती यतस्तद्ब्रह्मेत्यादिप्रतीतिनिरासाय सूत्रं यथावद्य्वाचष्टे ॥ सृष्टीति ॥ सृष्ट्याद्यष्टकमस्य जगतो यतो भवति तदेव जिज्ञास्यं ब्रह्मोच्यते । तल्लक्षणं च विष्णावेव सम्भवति न जीवेऽतो ब्रह्मशब्दस्य जीवे रूढत्वेऽपि बाधकसद्भावात्तद्ब्रह्मेति श्रुत्युक्तं ब्रह्म विष्णुरेवेति युक्तैव प्रागुक्तजिज्ञासेत्यर्थ । यद्यपि विष्णौ ब्रह्मशब्दो विद्वद्रूढियुक्तस्तथाप्यभ्युप-गम्योक्तिरियमिति ज्ञातव्यम् । जन्माद्यस्येति तद्गुणसंविज्ञान । लब्धजन्मनो हि स्थित्यादीत्यतो जन्मन आदित्वम् । ननु जगज्जन्मादिकर्तृत्वं यदि विष्ण्वेकनिष्ठं तर्हि भवेज्जीवापबाधकं तदेव कुत इत्यत आह ॥ उत्पत्तीति ॥ आवृतिरज्ञानम् । एकरा स्वतन्त्र । नन्वेतल्लक्षणं जिज्ञास्ये नोपलभ्यतेऽत कथं जीवापबाधकमित्यतस्तत्पूर्ववाक्ये कथितमिति तदुदाहरति ॥ यत इति ॥ यत्प्रयन्ति प्रलये । यदभि स्वेच्छया सम्यक् प्रविशन्ति मुक्तौ । सृष्ट्यादिकर्तृत्वं प्रत्येकमपि विष्ण्वैकनिष्ठं किमु सर्वमित्यभिप्रायेण स्थितिकर्तृत्वस्य तदेकनिष्ठत्वे श्रुतिमाह ॥ य इति ॥ य एक एव प्रकृतिपुरुषकालाधारक पृथिवीं द्यां सर्वभुवनानि च दधारेत्यर्थ । तथा नियमनं च तदेककर्तृकमिति श्रुतिमाह ॥ चतुर्भिरिति ॥ स बृहच्छरीरो मूलरूपी चतुर्भिर्वासुदेवादिनामभिर्नाममात्रै स्वरूपभेदशून्यै साकं नवतिं विशेषेणाधिकान् देवान् वृत्तं चक्रमिव पर्यवर्तयदित्यर्थ । अष्टौ वसव एकादश रुद्रा एकादशादित्या दश प्रजापतय पञ्चाशन्मरुत इति नवति । एतान्यपि लक्षणान्यन्यव्याप्तानि नेत्याह ॥ पर इति ॥ हे विष्णो स्वमूर्त्यैवापरिच्छिन्न त्वं मिते परोऽतोऽपरिमितत्वात्ते जगत्सृष्ट्यादिमहिमानं केऽपि न प्राप्नुवन्तीत्यर्थ । वर्तमाननिषेधात् स्यादतीतादावतिव्याप्तिरित्यत आह ॥ नेति ॥ हे विष्णो देव ते महिम्न परमन्तं सीमानं जायमानो न प्राप्नोति जातो नाप जनिष्यमाणो नाप्स्यतीत्यर्थ । जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन किन्तु पितृवदेवेति श्रुत्या दर्शयति ॥ य इति ॥ न सर्वेषाम् । न दत्तपुत्रपितृवत्पिता किन्तु जनिता जनक । सर्वाणि भुवनानि तद्गतधामानि च वेदेत्यर्थ । अतोऽतिव्याप्त्यादिशून्यविष्णुलक्षणवत्त्वाद्विष्णुरेव श्रुत्युक्तं ब्रह्म न जीवोऽतो युक्तैव ब्रह्मजिज्ञासेति स्थितम् ॥ अ-२ ॥

गुर्वर्थदीपिका

ब्रह्मणो जीवाभेदेन न जिज्ञासायां विषयतेत्याशङ्क्य जीवाभेदनिरासाय विषयत्वसमर्थनाय च जिज्ञास्ये ब्रह्मपदं प्रयुञ्जता सूत्रकारेणाज्ञरूढेरुपेक्षितत्वाद्विद्वद्रूढिमहायोगयोराश्रितत्वाद्भाष्यकृता च सौत्रब्रह्मशब्दस्यैव पोषणाय ""तदेव ब्रह्म परमं कवीना’’मिति श्रुतिं प्रमाणयताऽज्ञरूढिमुपेक्ष्य विद्वद्रूढि-माश्रित्य विष्णोरेव ब्रह्मताया निर्णीतत्वाच्च सूत्रभाष्ययोर्दिशा नोत्तराधिकरणप्रापकतयाऽज्ञरूढिमात्रेण शब्दस्य पुनर्जीववाचित्वशङ्का । तथाऽप्यभ्युपगमवादेन कथञ्चिद् ब्रह्मशब्दस्य जीववाचित्वेऽङ्गीकृतेऽपि जिज्ञासाश्रुतौ न जीवोऽङ्गीकर्तुं शक्य । तस्यामेव श्रुतौ जीवेऽसम्भावितलक्षणस्योक्तत्वेन रूढ्यपवादक-सद्भावादिति न्यायविवरणोक्तपूर्वपक्षसिद्धान्तानुसारेण टीकाकारस्य प्रवृत्ति । ""ब्रह्मणो लक्षणमाहे’’ति वदन्भाष्यकार पूर्वाधिकरणोक्तसिद्धान्तसमर्थनार्थं तत्रैव स्वभाष्ये प्रपञ्चितमखिलमनुपमृद्यैव ""लक्षण-प्रमाणाभ्यां वस्तुसिद्धि’’रिति वचनात् तयोरभावात्कथं तस्य पूर्वाधिकरणोक्तजिज्ञासेत्यभ्यधिकाशङ्कां परिहर्तुं क्रमेण जन्मादिकारणत्वाख्यलक्षणं तद्वत्त्वे सच्छास्त्राख्यप्रमाणं च समर्थयितुमुत्तराधिकरणद्वयमित्यपि सङ्गतिं सूचितवान् । अतो न ग्रन्थद्वयस्यापि वैयर्थ्यमिति ज्ञेयम् । अत एव स्वकृतव्याख्यानस्थापना-येत्याद्यपि मन्दाशङ्कैव । अधिकारिप्रयोजनसाधकाथातपदद्वयवद्विषयप्रदिपादकसौत्रब्रह्मशब्देनैव सर्वस्याप्यर्थस्य सूचितत्वेन स्वकपोलकल्पितशङ्काया कारणाभावात् । यद्यपि विषयत्वसाधक-ब्रह्मपदेनैवानन्तगुणपरिपूर्णत्वाख्यं लक्षणमिति सूचितम् । तथापि तदसम्भावनाशङ्कायां सम्भावकश्रुत्युक्त-जन्मादिकारणत्वलक्षणस्य स्पष्टं निरूपणायाधिकरणान्तरारम्भ इति सर्वमवदातम् ।

विष्णोरपरिमितत्वे तदभिन्नतन्महिम्नोऽप्यपरिमितत्वावश्यम्भावान्न परिमितगुणैरन्यै स महिमा प्राप्तुं शक्य इति भावेनोक्तम् । अतोऽपरिमितत्वादिति । जात इति वचनबलाज्जायमान इति वचनबलाद्यो जातो न यश्र्च जायमानो न किन्तु भविष्यन्नपि नेति नञावृत्त्या अतीतवर्तमानभविष्यतां महिमनिषेधप्राप्ति-रिति भावेनाह । जायमान इत्यादिना । अन्यथा महत सर्वोत्तमस्य भावो महिमेति सर्वोत्तमत्व-प्रतिपादकतया अस्यामेव श्रुतावुक्तमहिमशब्दविरोध विष्णुपदसूचितविष्णुसहस्रनामस्थ"भूतभव्य-भवत्प्रभु’रिति नामविरोधश्र्च स्यात् । इति जन्माधिकरणम् ॥

भावबोध

तस्य च विष्णुत्वं यावन्न साध्यत इति । अनेन पूर्वाधिकरणेनास्याधिकरणस्याक्षेपिकी सङ्गतिरुक्ता भवति । न सम्भवतीति । प्रकारवाचिन इतिशब्दस्येति श्रुत्यादिसङ्गतिरिति पूर्वेण सम्बन्ध । किमिति । अत्र "तद्ब्रह्म’ इति श्रुत्युक्तं ब्रह्म किं जीव उत विष्णुरिति चिन्ता । तदर्थं ब्रह्मशब्दस्य रूढार्थजीवपरित्यागेन यौगिकार्थविष्णुग्रहणे हेतुर्नास्त्युतास्तीति । तदर्थं यतो वेत्यादिपूर्वोक्तं जन्मादिकारणत्वं किं जीवसाधारणमुत विष्णुमात्रनिष्ठमिति । तदर्थं तस्य विष्णुमात्रनिष्ठत्वे प्रमाणं नास्त्युतास्तीति । मुख्य इत्युक्तमिति । मुख्यामुख्ययोर्मध्ये मुख्यस्यैव सम्प्रत्यय इत्यवधारणबलेन नोत्कटकोटिकोऽपि सन्देह सम्भवतीति भाव । स्वकृतव्याख्यानेति । "यतो नारायणप्रसादमृते’ इत्यादिनेत्यर्थ । योगेनैवेति । न्यायविवरणे पूर्वाधिकरणसिद्धान्ते "अथ कस्मादुच्यते’ इति श्रुत्युदाहरण-पूर्वकं विष्णौ तस्य योगस्यैव प्रदर्शितत्वात् । योगानङ्गीकारेण पूर्णत्वासिद्धेश्र्च श्रुतिप्रतिपादितयोगेनैव तद्य्ववहारोपपत्तौ योगरूढ्यङ्गीकारस्य व्यर्थत्वाच्चेति भाव । जीववाचित्वमेव मुख्यमिति । अनेन "जीव एवायं ब्रह्मशब्द’ इति न्यायविवरणं व्याख्यातं भवति ।

"भरद्वाज प्रवक्ष्यामि लक्षणं परवस्तुन ।

 यज्ज्ञानेन प्रकृष्टत्वं मन्दैरपि च ज्ञायते ।’

इति प्रमाणानुसारेण "ब्रह्मणो लक्षणमाह’ इति भाष्यं व्याचष्टे जीवग्रहणे बाधकमिति । जिज्ञास्यब्रह्मणो लक्षणमिति । विष्णुलक्षणत्वेन प्रमितं जगज्जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धि, जीवसम्बन्धि नेत्यर्थ । अत एव जीवग्रहणे बाधकमित्युक्तम् । "यतो वा इमानि भूतानि जायन्ते’ इति जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वेनोक्तेरिति न्यायविवरणानुसारेणाह तल्लक्षणं चेति । अभ्युपगम्योक्तिरियमिति ज्ञातव्यमिति । तथा च विद्वद्रूढ्या ब्रह्मशब्दस्य विष्णौ मुख्यत्वसाधकम् "ब्रह्मशब्दश्र्च विष्णावेव’ इत्यादिभाष्यमुपपन्नम् । सूत्रापेक्षया भाष्ये प्रकारान्तरेणोपपत्तिकथनं शिष्यव्युत्पादनार्थमिति ज्ञातव्यम् । न च रूढ्यङ्गीकारो निर्मूल । "योगवत् कवीनाम्’ इत्यादिना तत्र तत्र प्रमितत्वादिति पूर्वाधिकरण एव प्रमापितत्वात् । अत एव न्यायविवरणेऽपि श्रुत्या योगप्रदर्शन-मुपलक्षणपरमिति ज्ञातव्यम् । तत्र कण्ठतोऽनुक्तिस्तु ब्रह्मशब्दस्य गुणपूर्णत्वाभिधायकत्वानुपपादकत्वेनानुप-योगादिति भाव । तद्गुणसंविज्ञान इति । "यतो वा’ इत्यादिश्रुतौ "जायन्ते’ इत्युक्तत्वादिति भाव । एवञ्च "लब्धजन्मन’ इत्युपपन्नम् । अत एव "तद्गुणसंविज्ञान’ इत्युक्त्वाऽनन्तरम् "लब्धजन्मन’ इत्युक्तम् । अन्यथा तन्निवर्तनीयशङ्काया एवानुदयात् ।

उदयस्थितिसंहारनियमाज्ञानबन्धनम् ।

ज्ञानमोक्षौ यत पुंस स विष्णुरिति कीर्तित ॥

इति प्रमाणानुसारेणाऽऽह आवृतिरज्ञानमिति ।

यतो जातानि भूतानि जीवन्त्येतानि येन वै ।

आप्नुवन्ति लयं यत्र यत्र मुक्ति स वै हरि ॥

तस्मात् स एव जिज्ञास्यो नात्र कार्या विचारणा ॥

इति प्रमाणानुसारेण "यतो वा’ इत्यादिश्रुतिं व्याचष्टे यत्प्रयन्ति प्रलय इति ।

कर्मशेषादिरूपाणि भुवनानि चतुर्दश ।

यो दधार स वै विष्णुर्नान्यो विश्र्वस्य धारक ॥

इति विशेषप्रमाणानुसारेण व्याचष्टे य एक एवेति ।

चतुर्भिर्नामभि साकं वासुदेवादिभिर्हरि ।

वसून् रुद्रान् तथादित्यान् ब्रह्मणो मरुतस्तथा ॥

बृहच्छरीरो भगवान् नूनं शास्ति च नित्यश ॥

इति प्रमाणानुसारेण श्रुतिं व्याचष्टे स बृहच्छरीर इति ।

व्यतीनित्यस्यार्थो विशेषेणाधिकानिति । "विशेषेणाधिकत्वेन व्यतयो देवता स्मृता’ इति वचनात् । एतान्यपि लक्षणानीति । न केवलं नियामकत्वं पालकत्वञ्चेति लक्षणद्वयमेव नातिव्याप्तम्, किन्तु तदतिरिक्तान्यपि सृष्टिकर्तृत्वादीनि नातिव्याप्तानीत्याहेत्यर्थ ।

जातो जनिष्यमाणश्र्च वर्तमानस्तथैव च ।

विष्णो सृष्ट्यादिकर्तृत्वं लभते न कुतश्र्चन ।

इति वचनानुसारेणाऽऽह विष्णो इति ।

सृष्ट्यादिकरणे विष्णौ न विकारोऽस्ति कुत्रचित् ।

यथा पुत्रस्य जनने पितुर्नास्ति विकारता ॥

इति वचनानुसारेण "यो न पिता’ इति श्रुत्यभिप्रायमाह जगत्कारणत्वञ्चेति ।

तस्मात् सृष्ट्यादिकर्ता य तद्ब्रह्म स हरि स्मृत ।

न जीवादिरतो विष्णुर्विजिज्ञास्य इति स्थितम् ॥

इति वचनानुसारेणाधिकरणार्थमुपसंहरति अत इति ॥ २ ॥

भावदीप

॥ ॐ जन्माद्यस्य यत ॐ ॥ प्रत्यधिकरणं प्रतिपाद्यज्ञानेन स्पष्टत्वाद्भाष्यानुक्तामप्यन्तर्भावसङ्गतिं स्वयमाह ॥ अत्रेति ॥ एतदधिकरण इत्यर्थ ॥ सङ्गतिरिति ॥ अन्तर्भावरूपेत्यर्थ । तदुपपादनं श्रुत्युक्तेत्यादि । ब्रह्मपदवाच्यस्येत्येव वाच्ये श्रुत्युक्तेत्युक्तिस्सौत्रब्रह्मपदोक्तस्येति भ्रमनिरासाय । तथा च श्रुत्यर्थनिर्णायकन्यायग्रथनात्मके शास्त्रे अस्य श्रौतब्रह्मपदार्थनिर्णायकन्यायग्रथनात्मकस्यान्तर्भावो युक्त इति भाव ॥ विष्णुत्वेति ॥ सिद्धान्ते तस्य रूढिनिरासेन यौगिकत्वमात्रोक्तावपि योगार्थस्य विष्णावेव सम्भवात् यौगिकत्वेत्यनुक्त्वा विष्णुत्वेति फिलतोक्ति कृता ॥ श्रुत्यादीति ॥ अधिकरणमादिपदार्थ । सङ्गति पूर्वानन्तर्यरूपा ॥ एकवचनं तु एकस्य प्रदर्शनेऽन्यस्य सा सुज्ञाना एकप्रकारत्वात् श्रुत्यधि-करणसङ्गत्योरिति प्रकारैक्यबुध्या । न तु सङ्गत्यैक्यबुध्या । क्वचित् द्विवचनस्यापि प्रयोगात् । पूर्वाधिकरणतद्विषयवाक्याभ्यामेतदधिकरणविषयवाक्ययो सङ्गती त्वित्यर्थ ॥ इत्युक्तमिति ॥ विषयादिन्यायै पूर्वाधिकरणे साधितमित्यर्थ । तस्य श्रौतब्रह्मशब्दार्थस्य ॥ न साध्यत इति ॥ रूढित्याजकजन्मादिहेतुत्वरूपबाधकाख्यन्यायोपदर्शनेनेति भाव ॥ भेदकाभावेनेति ॥ तथा च पूर्वपक्षे जीवस्यैव ब्रह्मतापत्त्या पूर्वत्रेव विषयादिशून्यत्वेन तज्जिज्ञासा पूर्वसूत्रोक्ता न कार्येत्याक्षेपादाक्षेपिकी सङ्गतिरित्यर्थ । "पूर्वमाक्षिप्यते यत्र तत्र साक्षेपिकी मते’त्युक्ते । एतेन तद्विजिज्ञासस्वेत्युक्ता जिज्ञासा कार्येत्युक्तं पूर्वं तदयुक्तम् । तद्ब्रह्मेत्युक्तब्रह्मणोऽविष्णुत्वेन रूढ्या जीवत्वादिति पूर्वश्रुत्यात्र विचार्यश्रुतेरपि सङ्गति सिद्धा । वाक्यैक्येऽपि पूर्वत्र तद्विजिज्ञासस्वेत्यंश तद्ब्रह्मेति ब्रह्मश्रुतिरूपहेतूक्त्या विचारितोऽत्र तु पूर्वत्र हेतूकृततद्ब्रह्मेत्यंश उत्तरत्र तु अत्र हेतूकृतो यतो वेत्यादि पूर्वांशो विचार्यत इत्यंशभेदाद्भेद इति भाव । इतिशब्दस्य इति सङ्गतिरिति पूर्वेणान्वय । एवमग्रेऽपि सङ्गतिग्रन्थव्याख्या ध्येया ॥ तच्छ्रुत्युक्तमिति ॥ न तु सुधायामिव सर्वश्रुत्युक्तं ब्रह्मपदार्थमात्रं जीव इति पूर्वपक्ष्यते इति तच्छब्दप्रयोगाभिप्राय ॥ उभयत्रापीति ॥ तदेव ब्रह्मेति श्रुतौ विष्णौ बृहजातिजीवकमलासन-शब्दराशिष्विति जीवे प्रयोग इत्यर्थ । कारणत्वश्रवणाज्जात्यादेरिहासन्देहनिविष्टत्वं व्यक्तम् । यद्वा तदप्युपलक्ष्यम् ॥ उत जीवादिरिति ॥ यथोक्तं न्यायविवरणटीकायाम् । जीव एवेति जात्यादेरुपलक्षणम् । एवशब्दस्तु भगवन्तं व्यावर्तयतीति ॥ स्वकृतेति ॥ यतो नारायणप्रसादमृत इत्यादिना स्वकृतेत्यर्थ । तथा चेतपूर्वसूत्रे विष्णुत्वासाधनात्सन्देहो युक्त इति भाव । यत्तु स विष्णुराह हीत्यादावे-तत्पूर्वभाविसूत्रद्वये ब्रह्मशब्दस्य विष्णौ मुख्यत्वं सिद्धम् । अस्मिन्नपि शास्त्रे स्याच्चैकस्य ब्रह्मशब्दवदित्यत्र द्वितीये । परं जैमिनिर्मुख्यत्वादिति चतुर्थे च मुख्यत्वं सूत्र एव सिद्धमिति । तन्न । योगेनैव तत्र मुख्यत्वस्याभिमतत्वात् । इह तद्ब्रह्मेति श्रुतौ योगार्थस्यैव पूर्वपक्षिणाऽऽक्षेपात् । विष्णौ विद्वद्रूढिसत्त्वेऽपि इह तदभावाभ्युपगमेन केवलयौगिकत्वोपगमेनोत्तरपक्षप्रवृत्तेरिति तात्पर्यात् । अभ्युपगमकृत्यं त्वभ्युपगम्योक्तिरियमिति टीकाव्याख्याने वक्ष्याम । न च जीव एवायं ब्रह्मशब्द इति न्यायविवरणं विवृण्वान आह ॥ जीव एवेति ॥ तत्रस्थैवकारसूचितहेतुमाह ॥ रूढत्वादिति ॥ गुणपूर्तिरूपयोगस्य जीवे अयोगात् । अन्यस्य चानतिप्रसक्तस्याभावाज्जात्यादिसाहचर्याच्च रूढत्वमेवेति भाव ॥ प्रवर्तत इति ॥ तदेव ब्रह्मेत्यादिश्रुताविति भाव ॥ योगेनैवेति ॥ रूढत्वे गुणपूर्त्यसिद्धेरिति भाव । एवकारस्तु योगरूढिव्युदासार्थ । बृहन्तो ह्यस्मिन्गुणा इति श्रुत्यनुसारिक्लृप्तावयवशक्तिरूपयोगेनैवोपपत्तौ समुदायशक्तिरूपरूढेस्तदेव ब्रह्मेत्यादावपि सर्वत्राकल्पकत्वादिति भाव । एतेन विष्णौ ब्रह्मशब्दस्य रूढिरप्याक्षिप्ता ॥ रूढेरेवेति ॥ अवयवार्थनिरपेक्षाया शीघ्रमर्थोपस्थापकत्वादिति भाव । तदेव ब्रह्मेत्यादाविवात्राप्यस्त्वित्यत आह ॥ न चात्रेति ॥ तद्ब्रह्मेति श्रुतावित्यर्थ । तादृशं समुद्रशायित्वादि-रूपम् । कारणत्वं त्वदृष्टद्वारा जीवेऽपि युक्तमिति भाव । उक्तं प्रमेयं पूर्वपक्षन्यायविवरणारूढं कुर्वन्नुपसंहरति । तस्माद्रूढौ बाधकाभावादिति । जीव एवेदं ब्रह्मेत्यनेन जीव एवायं ब्रह्मशब्द इति न्यायविवरणमुक्तार्थम् । इदं ब्रह्म । तद्ब्रह्मेति श्रुत्युक्तं ब्रह्मेत्यर्थ । अत्राप्येवकारेण पूर्वोक्तदिशा जात्यादिकमपि वा विष्णुमात्रमेव वा व्यावर्त्यं बोध्यम् । जीवादावनेकत्र ब्रह्मत्वबुद्धिप्रसक्तावेव लक्षणोक्त्या विष्णुरेवेदं ब्रह्मेति सिद्धान्तयितव्यत्वात् । तस्य स्वप्रकाशत्वान्न जिज्ञास्यतेति पूर्वाधिकरणपूर्वपक्षन्यायविवरणशेषं जीव एवायं ब्रह्मशब्द इत्यत्राप्यनुवर्त्य योज्यमिति भावेन वाक्यं पूरयति ॥ तस्य चेति ॥ एतेन फलं दर्शितम् । अत्र स्वप्रकाशत्वेनेति जात्यादे सुप्रसिद्धत्वेनेत्यस्योप-लक्षणं वा अध्याहारो वा । इतिशब्द पूर्वपक्षसमाप्तौ । एवमग्रेऽपि । अत्र क्वचिज्जात्यादेर्मुख्यतोऽ-जिज्ञास्यत्वात् । देहात्मविवेकस्यावश्यकत्वादिति टीकापाठो नात्रत्यटीकापाठ । तस्य चेत्याद्युत्तर-वाक्यानानुगुण्याच्चन्द्रिकावाक्यानानुगुण्याच्च । किन्तु न्यायविवरणटीकादिस्थ एवात्र कैश्चित्प्रक्षिप्तो बहुकोशेष्वदर्शनादित्याहु ॥ अथेति ॥ अथ केन प्रयुक्तोऽयमित्यादाविव प्रकृतादर्थादर्थान्तरेऽयमथशब्द विष्णुरिति सिद्धन्तयितुमित्यर्थ । एवमन्यत्रापि । ब्रह्मलक्षणोक्तौ सङ्गत्यप्रतीतेर्जीव एवायं ब्रह्मशब्द इत्यन्यत्रोक्तं संयोजयंस्तामाह ॥ निर्बाधेति ॥ उक्तं च सङ्गम्यन्ते गुरोर्गिर इति ॥ इत्यादीति ॥ आद्यस्य चतुर्मुखस्य जन्म यत इत्येतदादिपदार्थ । ननु सूत्रे जन्मादीत्येकवचनं भाष्ये तु मोक्षा इति बहुवचनं कथं व्याख्यानमित्यत समुदायाशयं सूत्रमिति भावेनाकांक्षितपूर्त्या भाष्यसूत्रयोरर्थमाह ॥ सृष्ट्यादीति ॥ यथायोगं व्यस्तं समस्तं चेति भाव । व्यस्तसमस्तविश्वविभूतय इति प्राक् स्फुटत्वा-दत्रानुक्ति । भाष्ये बहुवचनं तु सौत्रैकवचनात्सर्वमेकं लक्षणमिति पररीत्या न भ्रमितव्यमिति बहुलक्षण-सूचनाय । व्यक्तमेतत्सुधाचन्द्रिकयो ॥ तदेवेति ॥ जन्मादिकारणत्वलक्षणयुक्तमेवेत्यर्थ । जन्मादिकारणत्वस्यैव लक्षणत्वोक्तेरिति न्यायविवरणोक्तेरिति भाव । यत इत्युक्तेस्तदिति लभ्यते । भाष्यटीकयो सृष्टिस्थितीत्यादिप्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते । लक्षणाफलं तु ब्रह्मण स्रष्टृत्वादिकमेव न तूपादानत्वमिति प्रदर्शनमिति चन्द्रिकोक्ते । अत एव वक्ष्यति यो न पितेति ॥ ब्रह्मोच्यत इति ॥ तेन पूर्वस्माद् ब्रह्मपदानुवृत्ति सूचिता । तत किमित्यतो वक्ष्यमाणं भाष्यं सर्वं हृदि कृत्वा सूत्रभाष्ययो फिलतार्थमाह ॥ तल्लक्षणं चेति ॥ सम्भवति वक्ष्यमाणदिशेति भाव ॥ न जीव इति ॥ न जीवादावित्यर्थ । ननु रूढ्या जीव इति प्राप्ते सूत्रे विद्वद्रूढ्युक्त्यैव समाधि कार्य । तदेव ब्रह्मेत्यादिश्रुत्या ब्रह्मशब्दस्य विष्णौ विद्वद्रूढे सत्त्वात् । न तु रूढौ बाधकोक्त्येत्याशङ्क्याह ॥ यद्यपीति ॥ इयमिति सौत्री बाधकोक्ति । पूर्वपक्ष्युक्तदिशा विष्णौ रूढ्यभावमङ्गीकृत्यैव न तु वस्तुत इत्यर्थ । अभ्युपगमवादफलं तु जीवभेदकगुणपूर्तिलाभेन पूर्वोक्तविषयसिद्धिरिति ज्ञेयम् । रूढ्युक्तौ तदलाभात् । अष्टकलाभायाह ॥ तद्गुणेति ॥ तस्य गुणस्य उपसर्जनीभूतस्यान्यपदार्थे सम्यग्विज्ञानं विशेषणत्वेनोपादानं यस्मिन्बहुव्रीहौ स तद्गुणसंविज्ञानो बहुव्रीहिरिति शेष । तद्गुणसंविज्ञानमति पाठे तद्गुणस्यान्यपदार्थे संविज्ञानं विशेषण-त्वेनोपादानमित्यर्थ । जन्म आदि प्रथमं यस्मिन् स्थित्यादिजात इत्यत्र कथं जन्मनस्तेषु प्राथम्यम् । "न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्भ्रमेरिवे’ति तृतीयस्कन्धोक्त्या दर्शपौर्णमासीतिथ्योरिव जन्म-संसारयोरनादित्वादित्यत आह ॥ लब्धेति ॥ सत्यमेवं तथापि लब्धजन्मन स्थित्यादिरितिवत् स्थितस्य नष्टस्य वा जन्म नेत्येकव्यक्त्यपेक्षया जन्मन प्राथम्यमिति भाव । व्यक्तमेतन्मिथ्यात्वानुमानखण्डनटीका-भावप्रकाशिकायाम् । अन्धकारभ्रान्तिं निराह ॥ आवृतिरिति ॥ एकाकित्वभ्रान्तिं निराह ॥ एकराडिति ॥ नियति व्यापारेषु प्रेरणम् । बन्ध प्रकृतित । मोक्षो बन्धादिति व्यक्तमिति भाव । एतेषामसाङ्कर्यं चन्द्रिकायां व्यक्तम् । एतेन

""सृष्टि स्थिति संहृतिश्च नियमोऽज्ञानबोधने ।

बन्धो मोक्ष सुखं दुखमावृतिर्ज्योतिरेव च ॥’’

इति तत्वसङ्ख्यानोक्त्या सुखादीन्यपि कुतो न गृहीतानीति निरस्तम् । स्कान्दे सूत्रकृतैवाष्टक-कर्तृत्वस्यैव लक्षणत्वेनोक्तत्वात् । सूत्रे तावत एव विवक्षणीयत्वात् ॥ पूर्ववाक्ये कथितमिति ॥ तेन लक्षणस्यासम्भवनिरासार्थमेतदिति दर्शितम् । अत एव वक्ष्यत्युपसंहारे व्याप्त्यादीत्यादिपदम् । नन्वत्र वाक्ये जन्मस्थितिलयमुक्तिरूपव्यापारचतुष्टयकृत्त्वमात्रमेव श्रुतं न तु सृष्ट्याद्यष्टककर्तृत्वरूपं अत कथमेतल्लक्षणं पूर्ववाक्ये कथितमित्युक्ति । मैवम् । एतद्वाक्योपलक्षितेष्वेवंरूपवाक्यान्तरेषु त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो इत्यादिषु तत्र तत्र व्यापारान्तराणां श्रवणेनात्रा-प्युपलक्षणतया सृष्ट्याद्यष्टकस्य ग्राह्यत्वादिति तात्पर्यात् । विवृतमेतत्सृष्ट्याद्यष्टकस्य श्रौतत्वं तत्वप्रदीप-चन्द्रिकयो । एकैकव्यापारोक्तिपरश्रुत्युक्तेरुपयोगाप्रतीतेराह ॥ सृष्ट्यादीति ॥ विष्ण्वेकनिष्ठमिति ॥ जीवापबाधकमिति अनुवर्तते ॥ किम्विति ॥ स्कान्दस्मृत्या परो मात्रयेति वक्ष्यमाणश्रुत्या च सर्वं विष्ण्वेकनिष्ठं सज्जीवबाधकं किमु वाच्यमित्यर्थ । सर्वमित्यनेकपरं वा । प्रागुक्तदिशा यतो वेत्यत्रोप-लक्षितसृष्ट्याद्यष्टकपरं वा ज्ञेयम् ॥ तदेकनिष्ठत्व इति ॥ एक एवेति श्रौतावधारणादेतल्लाभ इति भाव ॥ श्रुतिमिति ॥ स्मृतौ सर्वस्य तदेकनिष्ठत्वोक्तेस्सा पूर्वमुक्तेति भाव । एतेन यतो वेति वाक्ये चतुष्टयश्रवणेनाष्टकाश्रवणेऽपि तेन तत्र जीवबाधनं सिद्ध्यतीत्येतत्स्मृत्युक्तौ फलं सूचितम् । उ इत्येकस्येतिपदेनान्वयं मत्वार्थमाह ॥ एक एवेति ॥ त्रिधात्वित्यस्यार्थ प्रकृतीति । विष्णुसूक्तस्थत्वाद्य-च्छब्दो विष्णुपर । तस्य तदस्य प्रियमिति वक्ष्यमाणेनान्वय इति भाव ॥ तदेकेति ॥ श्रुतौ ब्रह्म-रुद्रादिसर्वदेवतानियमनोक्त्या एतल्लाभ इति भाव । चतुर्भिर्नामभिरित्युक्तेर्भावो नाममात्रैरित्यादि । व्यतीनित्यस्यार्थो विशेषेणाधिकानिति । "विशेषेणाधिकत्वेन व्यतयो देवता स्मृता’ इति कर्मनिर्णयोक्ते । नेत्यस्यार्थो इवेति ॥ पर्यवर्तयदिति ॥ विप परिवर्तन इति तत्वप्रदीपोक्तधातोर्णिच लुङि रूपम् । यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति काण्वश्रुतौ तृतीये ।

आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यत ।

मरुतश्चैव विश्वे च साध्याश्चैव च तद्गता ॥

इति सप्तमस्कन्धतात्पर्ये । नवचयं नवतिमित्यत्र ऋग्भाष्ये च गणश उक्तान्देवानाह ॥ अष्टाविति ॥ आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानां एकादशत्वादेकादशादित्या इत्युक्ति ॥ पञ्चाशदिति ॥ एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्त्वादिति भाव । एतेन चतुर्मुखस्यापि नियम्यत्वसिद्धि । मुख्यवायोरेव तत्त्वात् । तत्वप्रदीपे तु टीकोक्तमेकमर्थमुक्त्वा चतुर्भिनमिभि नामवद्भि साकं नवतिं देवान्पर्यवर्तयदिति वान्वय । तथा चोक्तम् ।

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ।

बृहस्पतिश्च कामश्च मनुर्दक्षो विनायक ।

भृगुश्चैवानिरुद्धश्च धर्मो निर्ॠतिरेव च ।

कुबेरसहिता देवा नवति सम्प्रकीर्तिता ।

अनन्तो गरुडो वायुश्चत्वारो ब्रह्मणा सह ॥

इतीत्यन्तेन ग्रन्थेन नामभिश्चतुर्भिरित्यनेन अनन्तादिचतुर्णाम् एकोनपञ्चाशन्मरुतां अश्विनोरैक्य-विवक्षयाऽश्विप्रभृत्येकादशदेवानां च नवतिपदेन ग्रहणमुपेत्येयं श्रुतिरन्यथापि व्याख्याता ॥ एतान्यपीति ॥ सृष्टिकर्तृत्वादीन्यष्टावपि लक्षणानीत्यर्थ । विष्णो देवत्वमित्युत्तरार्धे श्रवणादाह ॥ हे विष्णो इति ॥ तन्वा वृधानेत्यस्यार्थ स्वमूर्त्येत्यादि । मात्रयेत्यस्य मिते परिमितेरित्यर्थ । पूर्वोक्तं हेतुगर्भमिति भावेनाह ॥ अत इति ॥ आपेत्यस्य विपरिणामेनार्थमाह ॥ प्राप्नोतीति ॥ एतच्चोपलक्षणं मत्वाऽऽह ॥ जनिष्यमाण इति ॥ सर्वे च वयं च वयम् । त्यदादीनि सर्वैर्नित्यमिति एकशेषं मत्वाऽह ॥ न इति ॥ नोऽस्माकम् अस्मदादिसर्वेषामित्यर्थ । पुनरुक्तेराह ॥ न दत्तेति ॥ जनिता जनयिता । जनिता मन्त्र इति सूत्राज्जनक इत्यर्थ । विधाता धारणपोषणकर्ता । न च जीव एवायं ब्रह्मशब्द यतो वा इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेरिति न्यायविवरणारूढं दर्शयितुं तदर्थं व्युत्क्रमेणानुवदन्नधिकरणार्थं फलोक्त्योपसंहरति ॥ अत इति ॥ उक्तश्रुतिस्मृतिबलात् अतिव्याप्त्यादि-शून्येत्यवधारणार्थोक्ति । असम्भव आदिपदार्थ । स च यतो वेत्यादिवाक्योक्तितात्पर्यलब्ध । लक्ष्यैक्यादव्याप्तिशङ्का नास्त्येव । न च जीव एवेत्यवधारणं विष्णुरेवेत्यध्याहृतविष्णुपदेनान्वेतीति भावेनोक्तम् ॥ विष्णुरेव श्रुत्युक्तं ब्रह्म न जीव इति ॥ न जीवादीत्यर्थ । अत ब्रह्मणो विष्णुत्वान्निश्चितजीवत्वाभावेन सन्दिग्धत्वसम्भवादित्यर्थ ॥ अ-२ ॥

टीकागाम्भीर्यमाहात्म्यं मर्शं मर्शं पुरो मन ।

नैति तद्विस्तरभयात्करोत्यग्रेसरं मति ॥

अभिनवचन्द्रिका

अत्रेति ॥ अस्याधिकरणस्य श्रुत्यर्थनिर्णायकन्यायग्रन्थनात्मकशास्त्रान्तर्भावप्रतिपादनाय श्रुत्युक्तेति ब्रह्मविशेषणमिति द्रष्टव्यम् । तस्य विष्णुत्वमिति । श्रुत्युक्तस्य ब्रह्मण विष्णुत्वसिद्धे पुरा, श्रौतब्रह्मशब्दस्य यौगिकत्वानिर्णयेन न तेन तस्य गुणपूर्तिसिद्धि स्यात् । ततश्र्च जिज्ञास्यस्य जीवाद्भेदकाभावेनासन्दिग्धत्वापत्त्या जिज्ञास्यता न स्यादिति । तस्य विष्णुत्वसमर्थनमावश्यकम् । समर्थ्यते च श्रौतब्रह्मणो विष्णुत्वमत्राधिकरण इति श्रुत्यादिसङ्गतिरिति भाव । ननु श्रौतब्रह्मणो विष्णुत्वसमर्थनेनैव जीवभेदसिद्धिसम्भवात् जीवभेदसिद्धये किं गुणपूर्तिसिध्द्यनुसरणेनेति चेत्, सत्यम्  विष्णुत्वसिद्ध्यैव जीवाद्भेद सिध्यतीति तथापि पूर्वाधिकरणे जीवभेदसिद्धये ब्रह्मशब्देनोपन्यस्तस्य गुणपरिपूर्णत्वस्य हेतो, नाऽस्य ब्रह्मशब्देन गुणपूर्णता सिध्यति रूढ्यैव ब्रह्मशब्दस्य प्रवृत्तत्वादित्य-सिद्धिशङ्का प्राप्तौ तत्परिहाराय विष्णुत्वसमर्थनेन गुणपूर्णत्वसाधनमावश्यकम् । भाष्यकारेणैवोक्त-त्वादिति ॥ सूत्रकृता ब्रह्मशब्दो विष्णावेव मुख्य इत्यनुक्तत्वात्, भाष्यप्रवृत्ते प्राक् स्वकृतप्रथमसूत्रदर्शिनां सम्भावित संशयाऽऽहरणे न श्रुत्युक्तब्रह्मणो विष्णुत्वसमर्थनं सूत्रकारस्योपपन्नमिति भाव । एतेन भाष्यकारवचनस्य निर्णायकत्वेन संशयाहेतुत्वात् भाष्यकारेणैवोक्तत्वात् "भवति सन्देह’ इत्ययुक्तमिति परास्तम् । बृहजातिजीवेति ॥ उपलक्षणमेतत् । ब्रह्मशब्दस्य जीवे बहुलप्रयोगात् "ब्रह्माणि जीवा सर्वेऽपि परब्रह्माणि मुक्तिगा’ इति ब्रह्मशब्दस्य जीववाचितया व्याख्यानाच्चेत्यपि द्रष्टव्यम् । यद्यपि "बृहजतिजीवकमलासनशब्दराशि’ष्विति धातुव्याख्यानात् बृहधातोरेव जीवादौ रूढिसिद्धि न तु ब्रह्मशब्दस्येति जीवादौ तस्य रूढिसिद्धये नेदं धातुव्याख्यानमुदाहर्तव्यम् तथापि बृहधातो स्वार्थिकमनिन्प्रत्ययान्तत्वेन बृहधातोर्जीवे रूढिसिद्धौ ब्रह्मशब्दस्य रूढि स्वयमेव सिध्यतीति भावेन धातोरेव रूढिसिध्द्यर्थं धातुव्याख्यानमुदाहृतम् । यद्यपि ब्रह्मशब्द इति ॥ अत्राधिकरणे जीवव्यतिरिक्तेश्र्वरवादी पूर्वपक्षी । ततश्र्च ब्रह्मशब्दो विष्णौ योगेन प्रवर्तते जीवे रूढ्या प्रवर्तत इत्याद्युपपन्नमिति बोध्यम् ॥ ननु गङ्गायां घोष इत्यत्र समभिव्याहृतघोषपदमुख्यार्थान्वयानुपपत्त्या गङ्गापदमुख्यार्थस्य प्रवाहस्य त्यागवत्, अत्रापि समभिव्याहृत"विजिज्ञासस्वे’तिपदमुख्यार्थ-जिज्ञासान्वयानुपपत्त्यैव ब्रह्मशब्दमुख्यार्थस्यापि जीवस्य त्यागोऽस्त्वित्यत आह न चात्र तादृशमिति ॥ युक्तस्तत्र गङ्गापदमुख्यार्थस्य त्याग । समभिव्याहृतघोषपदमुख्यार्थान्वयानुपपत्तिसद्भावात् । प्रकृते च ब्रह्मशब्दमुख्यार्थत्यागो न युक्त  समभिव्याहृत "विजिज्ञासस्वे’ति पदस्य विचारे लाक्षणिकत्वेन मुख्यार्थान्वयानुपपत्तेरभावात् । एवं च ब्रह्मशब्दमुख्यार्थं गृहीत्वा तदन्वययोग्यमेव विजिज्ञासस्वेति पदेन लक्षणीयमिति भाव । तदिदमुक्तम्  न चाऽत्र तादृशं बाधकमस्तीति । अन्यथा  न चात्र बाधकमस्तीत्यवक्ष्यत् । उपसंहरति  तस्मादिति ॥ अत्र टीकायां "जात्यादेर्मुख्यतो जिज्ञास्यत्वात् देहात्मविवेकस्याऽऽवश्यकत्वा’दिति प्रक्षिप्तम् । ततश्र्चैवं टीकावाक्यपाठ  "तस्माज्जीव एवेदं ब्रह्मे’ति तस्यार्थ  बाधकं विना मुख्यार्थत्यागासम्भवात् जात्याद्यपेक्षया जीव एव ब्रह्मशब्दस्य बहुलप्रयोग-सद्भावात् नपुंसकब्रह्मशब्दस्य जीववत् कमलासने बहुलप्रयोगाभावात् । जीव एवेदं ब्रह्म न जात्यादि । नापि कमलासन । नापि विष्णुरिति । अवश्यं च "जात्यादौ मुख्यतो जिज्ञास्यत्वात् देहात्म-विवेकस्याऽऽवश्यकत्वा’दिति वाक्यं प्रक्षिप्तं विज्ञेयम् । अन्यथा "देहात्मविवेकस्यावश्यकत्वा’दिति जिज्ञास्यत्वं विधाय अजिज्ञास्यतेत्युपसंहारे व्याहति स्यात् । सन्दिग्धत्वं विना देहात्मविवेक-स्यावश्यकत्वायोगेन आवश्यकत्वोक्त्यैव सन्दिग्धत्वलाभात्, असन्दिग्धत्वादित्यप्ययुक्तं स्यादिति । लक्षणमाह सूत्रकार इति ॥ ननु सृष्टिकर्तृत्वादि प्रत्येकं लक्षणम् । उत मिलितमेकमेव । किं चात यदि प्रत्येकं लक्षणम् तर्हि लक्षणान्याहेति बहुवचनेन भवितव्यम् । अथ समुदितं तर्हि एकैकस्यापि व्याप्तिर्वक्तव्या । अन्यथा विशेषणवैय्यर्थ्यम् । न च सा सम्भवति, "य उ त्रिधा (ऋ.सं.१-१५५-६) त्वित्यादिना स्थित्यादे विष्ण्वेकनिष्ठत्वस्य भाष्य एवोक्तत्वात् । यतो वा इमानि भूतानि जायन्त’ (तै.उ.३-१) इत्यस्यां श्रुतौ यच्छब्दत्रयश्रवणेन यत इमानि भूतानि जायन्ते तद्ब्रह्म, येन जीवन्ति तद्ब्रह्मेत्यादि पृथगन्वयेन प्रत्येकं लक्षणत्वप्रतीतेश्र्चेति चेत्, सत्यम् सृष्टिकर्तृत्वादीनि प्रत्येकमेव लक्षणानीति । तथापि लक्षणमाहेत्येकवचनमुपपन्नम् । सूत्रकृता सृष्ट्यादिनिरूपितस्यैकस्यैव कर्तृत्वस्य लक्षणत्वेन विवक्षितत्वात् । श्रुतौ तु प्राधान्येन जगत्कारणत्वजगत्पालकत्वादीन्यनेकानि लक्षणान्युक्तानि, अर्थात्तु जगद्धर्मजनिस्थितिसंहाराद्यनेकधर्मकर्तृत्वं लक्षणमुक्तम् । सूत्रकृता तु सूचितेन जन्मादिकर्तृत्वेनैव जिज्ञास्यस्य जीवाद्य्वावृत्तिर्भवति, किमु कण्ठोक्तैर्जगत्कर्तृत्वपालकत्वादिभिरिति भावेन सूचितमेव सृष्ट्यादिकर्तृत्वं लक्षणमुक्तमिति ध्येयम् । एतेन "जन्माद्यस्य यत’ इति सूत्रे अस्येत्यनेन घटादिग्रहणवत्, इदंशब्देन उत्पत्तिस्थितिसंहारादीनामपि ग्रहणसम्भवात् "इदं यत’ इति, "जन्म यत’ इति वा, सूत्रेण सर्वस्यापि सिद्ध्या, "जन्माद्यस्य यत’ इति गुरुतरसूत्रप्रणयनमयुक्तमिति परास्तम् । अस्मिन्सूत्रे जगद्धर्म-सृष्ट्याद्यष्टकारणत्वस्यैव विवक्षितत्वेन जगत्कारणत्वस्याविवक्षितत्वात् । आदिपदोक्ते स्थितिसंहृती इति ॥ ननु आदिपदस्य पूर्वपदेनैकार्थत्वात् जन्मपदोक्तमेव आदिपदोक्तं भवेत् न तु स्थितिसंहृती आदिपदोक्ते, अन्यथा स्थितिसंहृत्योरादिपदार्थत्वे अन्यपदार्थत्वाभावात् जन्मादीत्यत्र बहुव्रीहिर्न स्यादिति चेत्, न बहुव्रीहौ समस्यमानपदयोर्व्यासज्यवृत्तिलक्षणया अन्यपदार्थपरत्वेन स्थितिसंहृत्योरादिपदार्थत्वात् । दम्पतिपुत्रस्य अन्यतरपुत्रत्वव्यवहारवत् पदद्वयार्थस्य एकपदार्थत्वव्यवहारस्य युक्तत्वात् । ननु अथापि अस्य तद्गुणसंविज्ञानबहुव्रीहित्वात् आदिपदोक्ता सृष्टिस्थितिसंहृतय इति वक्तव्यम् । यत्र वर्तिपदार्थ अन्यपदार्थैकदेश तत्रैव तद्गुणसंविज्ञानबहुव्रीहिरिति नियमात् इति चेत्, सत्यम्  स्थितिसंहृती इव जन्मापि अन्यपदार्थ एव । तथापि जन्मन समस्यमानपदशक्यत्वं स्थितिसंहृत्योस्तु तन्नेति विशेषद्योतनाय तथोक्तम् । प्रतीतिनिरासायेति ॥ यद्यपि सृष्टिस्थितिसंहारकर्तृत्वस्य ब्रह्मासाधारणधर्मत्वात् सृष्टिस्थितिसंहृतयो यत तद्ब्रह्मेति प्रतीतिर्न निरसनीया, तथापि सृष्टिस्थितिसंहारकर्तृत्ववमात्रं सूत्रार्थ इति प्रतीतिर्निरसनीयैव, सृष्टिस्थितिसंहृतिनियमनज्ञानाऽज्ञानबन्धमोक्षसुखदुखादिप्रमाणप्रमितयावद्धर्म-कर्तृत्वस्य सूत्रार्थत्वात् । प्रमाणप्रमितस्य हातुमशक्यत्वात् । भाष्ये सूत्रार्थत्वेन सृष्ट्याद्यष्टकर्तृत्वोक्तिस्तु परोक्तसृष्ट्यादित्रितयकर्तृत्वादिनियमनिरासेन प्रमाणप्रमितयावज्जगद्धर्मकर्तृत्वं सूत्रार्थ इति विज्ञेयमिति ज्ञापनाय न तु सृष्ट्याद्यष्टकर्तृत्वमेव सूत्रार्थ इत्यवधारणज्ञापनायेति बोध्यम् । लब्धजन्मन इति ॥ ननु लब्धजन्मन स्थित्यादीति, यदि जन्मन आदित्वम्, तर्हि  "बन्धस्यैव जन्मादीति बन्धाद्यस्य यत’ इति सूत्रं स्यात् इति चेत्, सत्यम् तथापि बन्धस्याऽसार्वत्रिकत्वात्, जन्मन सार्वत्रिकत्वात्, जन्मन आदित्वम् । भाष्ये "यस्मात्स हरिरेकराडिति ॥ उत्पत्त्यादिकं यस्मात्स हरिरेकराडिति उत्पत्त्यादिकर्तृत्वं प्रति हरित्वस्य व्यापकत्वोक्त्या व्यापकाभाववति व्याप्याभावनियमात्, जन्मादि-कारणत्वस्य विष्ण्वैकनिष्ठत्वं सिध्यतीति भाव । प्रत्येकमपीति ॥ एकैकनिरूपितमित्यर्थ । किमु सर्वमिति ॥ सृष्ट्यादिसर्वनिरूपितमेकमेव कर्तृत्वमित्यर्थ । एतेन प्रत्येकं विष्ण्वेकनिष्ठत्वे न समुदितानां कर्तृत्वानां लक्षणत्वम्, व्यावर्त्याभावात्, समुदितानां न च लक्षणत्वे एकैकस्यापि व्याप्तेरावश्यकत्वात् प्रत्येकं विष्ण्वेकनिष्ठत्ववर्णनमयुक्तमिति परास्तम् । त्रिधा त्वित्यस्यार्थ प्रकृतिपुरुषकालाधार इति ॥ एकादशादित्या इति ॥ आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानामेकादशत्वादियमुक्ति । तत्वप्रदीपे तु  चतुर्भि नामवद्भिर्कीर्तिमद्भि अनन्तगरुडवायुब्रह्मभि साकं नवतिं देवान् पर्यवर्तयदिति वा अन्वय’ इति टीकोक्तव्याख्यानं प्रथमत कृत्वा इत्यपि व्याख्यातम् । स्वकीयद्वितीयव्याख्याने संमतिश्र्चोक्ता

"आदित्या वसवो रुद्रा मरुतश्र्चाश्र्विनावपि ।

बृहस्पतिश्र्च कामश्र्च मनुर्दक्षो विनायक ।

भृगुश्र्चैवाऽनिरुद्धश्र्च धर्मो निर्ऋतिरेव च ॥

कुबेरसहिता देवा नवति सम्प्रकीर्तिता ।

अनन्तो गरुडो वायुश्र्चत्वारो ब्रह्मणा सहे’ति ॥

अत्राश्र्विनोरैक्यविवक्षा द्रष्टव्या । एतान्यपि लक्षणानीति ॥ केवलं नियामकत्वं पालकत्वं चेति लक्षणद्वयमेव नातिव्याप्तम्, किन्तु तदतिरिक्तान्यपि सृष्टिकर्तृत्वादीनि नातिव्याप्तानीत्याहेत्यर्थ ।

अत्र परै "न तावदुपलभ्यमानं जगदेव ब्रह्मलक्षणम् । तस्याऽनित्याऽशुद्धपरिच्छिन्नादिरूपस्य तद्विरुद्धब्रह्मलक्षणत्वानुपपत्ते । नापि नित्यत्वादिर्ब्रह्मधर्म । तस्यानुपलब्धेरिति प्राप्ते, मा भूदनुभूयमानं जगत् तद्धर्मतया तदात्मतया वा लक्षणम्; तदुत्पत्त्यादि तु भविष्यति देशान्तरप्राप्तिरिव सवितुर्व्रज्याया’ इति सिद्धान्तितम् । तन्न "यतो वा इमानी’ति वाक्येन सूत्रेण च जगत्कारणत्वस्यैव स्पष्टं लक्षणतया प्रतिभानेनोत्पत्त्यादेर्लक्षणत्वाभिधानायोगात् । जगत इव जन्मनोऽपि विरुद्धत्वेन तल्लक्षणतायोगस्य त्वद्रीत्यैव प्राप्तेश्र्च । ब्रह्मत्वसिद्धस्यापि जन्मनो लक्षणत्वे जगतोऽपि तथात्वप्राप्त्या "मा भूदनुभूयमानं जगत्तद्धर्मतया तदात्मतया वा लक्षणमित्युक्त्यनुपपत्तेश्र्च । देशान्तरप्राप्ते सवितुर्व्रज्या ज्ञापकत्वेन तल्लक्षणत्वाच्च ।

पूर्वपक्षस्तु  जीव एवेदं ब्रह्म न विष्णु जीवप्रापकरूढिसद्भावात् । न च विष्णुप्रापकयोगसद्भावात् विष्णुरेवात्रोक्तं ब्रह्म किं न स्यादिति वाच्यम् । योगाद्रूढेर्मुख्यत्वात्, बाधकं विना मुख्यार्थत्यागायोगात् । न च जिज्ञास्यत्वमेव बाधकमिति वाच्यम् । जिज्ञासापदस्य ज्ञानेच्छावाचकत्वेन विचारार्थकत्वाभावात् । ततश्र्च जीवस्य ब्रह्मपदमुख्यार्थत्वाभावात् अस्य ब्रह्मण जीवत्वे सिद्धे तस्य च स्वप्रकाशत्वेनासन्दिग्धस्याऽ- विचार्यत्वात् प्रकृतानुगुणमेव जिज्ञासापदेन लक्षणीयमिति जिज्ञासाया अविहितत्वात्, न ब्रह्मजिज्ञासा सम्भवतीति ।

सिद्धान्तस्तु ब्रह्मशब्दस्य विष्णौ योगरूढत्वात् विष्णुरेवेदं ब्रह्म । यद्यपि ब्रह्मशब्दो जीवे रूढ तथापि रूढिमात्रात् विद्वद्रूढे प्राबल्येन निर्णयोपपत्ते । अस्तु वा जीव एव रूढि । तथापि "यतो वे’ति पूर्ववाक्योक्तकारणत्वपालकत्वसंहारकत्वमुक्तप्राप्यत्वानामयोगप्रसङ्गेन मुख्यार्थस्यापि त्याज्यत्वात् । न च तेषां जीवे सम्भव इति वाच्यम्  भाष्योदाहृत "य उ त्रिधा’ त्वियादिना तेषां विष्ण्वेकनिष्ठत्वस्य सिद्धत्वात् । जिज्ञासाशब्दो विचारे रूढ, यदि वा लाक्षणिक, उभयथापि "आत्मा वा अरे द्रष्टव्य’ (बृ.उ.४-) इति श्रुतिसमाख्यानात् विचारपर एवेति तद्विरोधाच्च न जीवोऽत्र विवक्षित । तथा च जीवातिरिक्तस्य ब्रह्मण प्रागुक्तं जिज्ञास्यत्वं सिद्धम् (२.अ)

वाक्यार्थमुक्तावली

ॐ जन्माद्यस्य यत ॐ । अत्र ब्रह्मप्रतिपादिकायास्तद्ब्रह्मेति श्रुतेरर्थनिर्णयानुकूलन्यायानुसन्धानस्य क्रियमाणत्वेन शास्त्रान्तर्भावसङ्गतिरस्तीति आह अत्रेति । पूर्वाधिकरणे ब्रह्मजिज्ञासायां कर्तव्यतयोक्तायां तत्राक्षेपे प्राप्ते तत्परिहारस्य क्रियमाणत्वादस्याधिकरणस्य श्रुत्यधिकरणाभ्यामाक्षेपकी सङ्गति । अध्यायादिसङ्गतिस्तु नास्तीति प्रागेवोक्तेत्यभिप्रेत्याह श्रुत्यादीति । न सम्भवतीति । श्रुत्यादि-सङ्गतिरित्यन्वय । अत्र श्रुत्यधिकरणसङ्गत्योरेकप्रकारत्वज्ञापनाय सङ्गतिरित्येकवचनम् । वस्तुत सङ्गत्यैक्याभावेन क्वचित्सङ्गतीति द्विवचनप्रयोग । यद्यपि सिद्धान्ते ब्रह्मशब्दस्य रूढित्याजक-जन्मादिहेतुत्वरूपबाधकोपन्यासेन रूढिनिरासेन यौगिकत्वमात्रं समर्थ्यते तथापि योगार्थस्य विष्णावेव सम्भवाद्यौगिकत्वसमर्थनमित्यनुक्त्वा विष्णुत्वेति फिलतोक्ति कृता । ब्रह्मशब्दितविष्णुनिर्णायकत्वेन शास्त्रान्तर्भावप्रदर्शनार्थं च । यद्यप्यधिकरणत्रये विषयवाक्यमेकमेव । तथापि पूर्वाधिकरणे तद्विजिज्ञासस्वेत्यंश तद्ब्रह्मेति गुणसमर्पकतया जीवव्यावर्तकब्रह्मश्रुतिरूपहेतूक्त्या विचारित । अत्र पूर्वं हेतूकृतो ब्रह्मेत्यंश उत्तरत्र तु अत्र हेतूकृतो यतो वेत्यादि पूर्वांशो विचार्यत इत्यंशभेदाद्भेद इति भाव । किं विष्णुरिति । अत्र तद्ब्रह्मेति श्रुत्युक्तं ब्रह्म किं जीव उत विष्णुरिति चिन्ता । तदर्थं ब्रह्मशब्दस्य रूढार्थजीवपरित्यागेन यौगिकार्थविष्णुग्रहणे हेतुर्नास्त्युतास्तीति । तदर्थं हेतुत्वेनोपन्यस्यमानं जन्मादिकारणत्वं विष्णौ किमप्रमितमुत प्रमितमिति । कारणत्वश्रवणाज्जात्यादेरसन्देहनिविष्टत्वम् । जीवस्य त्वदृष्टद्वारा कारणत्वं सम्भवतीति तस्य सन्देहनिविष्टत्वम् । यद्वा न्यायविवरणटीकायां जीव एवेति जात्यादेरुपलक्षणम् । एवशब्दस्तु भगवन्तं व्यावर्तयतीत्युक्तत्वेनात्र जीवग्रहणमुपलक्षणं द्रष्टव्यम् । स्वकृतव्याख्यानेति । सौत्रब्रह्मशब्दस्य यतो नारायणप्रसादमृते न मोक्ष इति स्वकृतव्याख्यान-स्थापनायेत्यर्थ । जीववाचित्वमिति । न्यायप्रदर्शकं जीव एवायं ब्रह्मशब्द इति न्यायविवरणं विवृण्वन् ब्रह्मणो लक्षणमाहेत्युक्त्या लक्षणस्य सजातीयजीवव्यावर्तकत्वलाभात् । व्यावृत्तेश्र्च प्रसक्तिपूर्वकत्वात्प्रसञ्जकं पूर्वपक्षमाह जीव एवेति । यद्यपीति । "स्याच्चैकस्य ब्रह्मशब्दवत्’ । "परं जैमिनिर्मुख्यत्वादि’ति वक्ष्यमाणन्यायेनेति भाव ।

योगेनैवेति । ननूत्तरत्र योगोपपादनेऽपि देवशास्त्रे निरन्तरसूत्रद्वये आचक्षत इति प्रयोगबाहुल्य-प्रतिपादनेन रूढ्युक्ते कथमवधारणमिति चेन्न । रूढ्या विष्णुस्वीकारे रूढे जीवेषु तुल्यत्वेन तस्यापि अत्र प्राप्ति स्यादिति भयेन सिद्धान्तिना रूढ्याच्छादनेन योगेनैव तत्प्रवृत्तेरङ्गीकर्तव्यत्वात् । योगरूढ्यङ्गीकारस्य रूढ्यंशे प्रकृतोपयोगाभावेन तस्यानुपन्यसनीयत्वादित्यभिप्रेतत्वात् । रूढेरेवेति । अवयवार्थनिरपेक्षतया तस्या शीघ्रमर्थोपस्थापकत्वादिति भाव ।

ननु तदेव ब्रह्म परमं कवीनामित्यत्र रूढार्थजीवपरित्यागेन यौगिकार्थविष्णुग्रहणं दृष्टम् । तद्वत्प्रकृते किं न स्यादित्यत आह न चात्रेति । तादृशं निरवकाशम् । समुद्रशायित्वरूपं कारणत्वं त्वदृष्टद्वारा जीवेऽप्यस्तीति भाव । जन्मादिपदोक्ते इति । जन्मादिपदोक्ते स्थितिसंहृती च इति यत इति योज्यम् । यद्वा तद्गुणसंविज्ञानं गृहीत्वा जन्म विना स्थितिसंहृती यतस्तद्ब्रह्मेति योज्यम् । इत्यादि-प्रतीतीति । आद्यस्य जन्म यतो इत्यादिशब्दार्थ । भाष्ये मोक्षा इति बहुवचनं सौत्रैकवचनादेकं लक्षणमिति न भ्रमितव्यमित्याशयेन प्रवृत्तम् । सौत्रैकवचनं जात्यभिप्रायेण । आकाङ्क्षितपूरणेन सूत्रभाष्ययोरर्थमाह सृष्ट्यादीति । नन्वदृष्टद्वारा जीवस्यापि कारणत्वात्कथमनेन रूढार्थत्याग इत्यत आह लक्षणं चेति । यतो जायन्त इति साक्षात्कारणत्वस्य श्रूयमाणत्वेनादृष्टद्वारा कल्पकाभावात् । मोक्षादिहेतुत्वस्य सर्वथाऽनवकाशाच्चेति भाव । ननु रूढ्या जीव इति प्राप्ते विद्वद्रूढ्या विष्णुरिति समाधि कार्य । तदेव ब्रह्म परमं कवीनामिति विद्वद्रूढे प्रमितत्वात् । न तु योगमात्रमङ्गीकृत्य बाधकवशेन मुख्यस्यापि रूढार्थस्य त्याग इति समाधानं वक्तमुचितमित्यशङ्क्य परिहरति । यद्यपीति । अभ्युपगम्योक्तिरिति । विष्णौ रूढ्यभावमिति शेष । इयमुक्ति सौत्री बाधकोक्ति । तावतापि जीवभेदबाधकगुणपूर्तिलाभेन प्रकृतसिद्धेरिति भाव । नन्वस्तु जन्मादीत्येकवचनं जात्यभिप्रायं तथाप्य-तद्गुणसंविज्ञान किमिति मन्दाशङ्कां परिहरति । तद्गुणसंविज्ञान इति । जायन्त इत्युक्तत्वात् । अष्टकलाभाच्चेति भाव । ननु स्थित्याद्यपेक्षया जन्मन आदित्वमयुक्तम् । न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्भ्रमेरिवेति भागवतोक्त्या दर्शपौर्णमासीतिथ्योरिवोभयोरप्यनादित्वादित्यत आह लब्धेति । स्थित्यपेक्षया जन्मन पूर्वभावित्वनियमाभावेऽपि यत्र जन्मस्थिती वर्तेते तस्य लब्धजन्मन स्थित्यादिक-मिव स्थितस्य वा नष्टस्य वा जन्म नेति । तत्र जन्मन पूर्वभावित्वनियमात् । एकत्वाभिप्रायेण स्थित्यादि इत्यनुक्त्वा जन्मादीत्युक्तमिति भाव ।

नन्वस्य जगतो धर्मिणस्तद्धर्माणां च जन्मादि सृष्टिस्थिती यत इत्युक्तेऽपि संहारादिषस्यापि अस्येत्यनेन ग्रहणात् जगत्कर्तृत्ववत् संहारादिकर्तृत्वमपि सेत्स्यति । न च वाच्यमस्येति धर्मिण एव ग्रहणं न धर्माणामिति । सुखदुखादिधर्मान्प्रत्यपि कर्तृत्वस्य पृथग्वक्तव्यतापातात् । तस्मादष्टकर्तृत्वं न सूत्रार्थ इति चेन्न । सृष्ट्याद्यष्टकर्तृत्वस्य मोक्षार्थमवश्यं ज्ञातव्यत्वेनैवमुक्तत्वात् । यथोक्तम्

सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान् ।

मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्न चान्यथेति ॥

पूर्ववाक्ये कथितमिति । चतुष्टयं साक्षात् श्रुतम् । बन्धान्मोक्षदानोक्त्या बन्धकत्वमप्युक्तप्रायम् । बन्धस्य भगवदज्ञानकार्यत्वात्तत्कर्तृत्वं, विज्ञानान्मोक्षस्य प्रमितत्वात्तत्कर्तृत्वमपि, नियमनकर्तृत्व-मुपलक्षणतया द्रष्टव्यम् । अभिसमित्युपसर्गद्वयबलादिदं मुक्तिपरमिति भावेनार्थमाह । यदभि स्वेच्छयेति । विष्ण्वैकनिष्ठमित्यनतिव्याप्तमित्यर्थ । श्रुतिमाहेति । स्मृतौ सर्वस्य विष्णुनिष्ठतोक्ते । सा पूर्वमुपन्यस्तेति भाव । एक एवेति । एतेन उशब्द एवार्थ एक इत्यनेन सम्बध्यत इत्युक्तं भवति । श्रुतौ त्रिधा-त्वित्येकं पदम् । तथा नियमनमिति सर्वदेवतानियमनोक्त्या तल्लाभ इति भाव । बृहच्छरीर इत्युत्तर-वाक्यस्थं विशेष्यतया संयोज्य व्याख्यातम् । व्यतीनित्यस्यार्थो विशेषेणाधिकानिति । विशेषेणाधिकत्वात्तु व्यतयो देवता स्मृता इति कर्मनिर्णयोक्तेरिति भाव । च्रकमिवेति । नकार इवार्थको वेदे प्रसिद्ध इति भाव । पर्यवर्तयदिति "विपू’ परिवर्तन इति धातोरिति तत्वप्रदीपे । हे विष्णविति । विष्णोर्देवत्व-मित्युरार्धे श्रवणादिति भाव । अन्तमित्यस्यार्थ सीमानमिति । यथा जीवमहिमसु चतुर्मुखमहिम्न सीमत्वं यथा वा परतन्त्रमहिमसु रमामहिम्न । एवं विष्णुमहिम्नोऽपि विवक्षाविशेषेण सीमत्वं न मन्तव्यमिति भावेनोक्तं परमिति । यथोक्तं सत्तकदीपावल्याम् । महिमातारतम्यपरावधिभूतं विर्ष्णोर्महिमत्वं यथेदानीन्तनो न प्राप्नोति तथा जातोऽपि न प्राप्नोति न विकारित्वमिति । तथा च न प्रकृतावति-व्याप्तिरिति भाव ।

तत्त्वसुबोधिनी

ॐ जन्माद्यस्य यत ॐ ॥ तस्य विष्णुत्वं यावन्न साध्यत इति । अनेन पूर्वाधिकारणेना-स्याधिकरणस्याक्षेपिकी सङ्गतिरुक्ता भवति । जिज्ञासा न सम्भवतीतीत्यत्रस्थ इतिशब्दस्य प्रकारवाचिन इति श्रुत्यादिसङ्गतिरिति पूर्वेण सम्बन्ध । उभयत्रापीति । जीवे विष्णावपि इत्यर्थ । मुक्त इत्युक्तमिति । मुख्यामुख्ययो मध्ये मुख्यस्यैव सम्प्रत्यय इत्यवधारणबलेन नोत्कटकोटिकोऽपि सन्देह सम्भवतीति भाव । स्वकृतव्याख्यानेति । यतो नारायणप्रसादमृत इत्यादिनेत्यर्थ । योगेनैवेति । पूर्वाधिकरणसिद्धान्ते अथ कस्मादुच्यत इति श्रुत्युदाहरणपूर्वकं विष्णौ तस्य योगस्यैव प्रदर्शितत्वात् । योगानङ्गीकारे गुणपूर्णत्वासिद्धेश्र्च । श्रुतिप्रतिपादितयोगेनैव तद्य्ववहारोपपत्तौ योगरूढ्यङ्गीकारस्य व्यर्थत्वाच्चेति भाव । न चात्रेति । अत्र तद्विजिज्ञासस्वेति वाक्ये तादृशं तदेव ब्रह्म परमं कवीनां इत्यादौ समुद्रशायित्वस्येव प्रकृते तदभावादिति भाव । न चैवं तेनैव सविषयत्वात् आक्षेपानुपपत्तिरिति शङ्क्यम् । जीवान्यब्रह्म-धर्मिकगुणपूर्णत्वप्रकारकविशिष्टाधिकारिकपूर्वसूत्रोक्तजिज्ञासा न कर्तव्या इत्यत्र तात्पर्यात् । ननु ब्रह्मशब्दस्य जीव इव जात्यादावपि रूढिसद्भावात् तदप्यत्र ब्रह्मशब्दार्थ किं न स्यादित्यत तस्य तत्र रूढत्वेऽपि बाधकवशात्तत्परित्याग इत्याह । जात्यादेरिति ॥ जडत्वेन तस्य जिज्ञास्यत्वाभावादिति भाव । ननु जडस्यापि वियदादे "न वियत्’ इत्यादौ विचार्यमाणत्वात् जात्यादे जडत्वेऽपि जिज्ञास्यत्वं स्यादित्यत उक्तम् मुख्यत इति । तथा च जात्यादे अन्यार्थं जिज्ञास्यत्वेऽपि मुख्यत तदभावात् न जिज्ञास्यत्वमिति भाव । ननु तर्हि जीवस्यापि जिज्ञास्यत्वस्यैव बाधकत्वात् जीवोऽप्यत्र ब्रह्मशब्देन ग्राह्य इत्यत आह । देहात्मविवेकस्येति । जीवज्ञानाभावे देहात्मनो विवेकज्ञानासम्भवादिति भाव । ब्रह्मणो लक्षणमाहेति भाष्यं व्याचष्टे । जीवग्रहण इति । जिज्ञास्यब्रह्मणो लक्षणमिति । विष्णुलक्षणत्वेन प्रमितं जगज्जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धित्वेनेत्यर्थ । अत एव जीवग्रहणे बाधकमित्युक्तम् । इत्यादिप्रतीतिनिरासायेति । आदिपदेन आद्यस्य हिरण्यगर्भस्य जन्म यत तद्ब्रह्मेति । तथा जन्मादीति तद्गुणसंविज्ञानो बहुव्रीहि । ततश्र्च जन्म आदि यस्यावस्थानस्य तज्जन्मादीत्येवार्थ । जगत्पालको भगवान् विष्णुरिति प्रसिद्धेरिति अपव्याख्यानद्वयपरामर्श इति ज्ञेयम् । यथावदिति । अयं भाव । श्रौतं हि ब्रह्मणो लक्षणमिहोच्यते । श्रुतयश्र्च कृत्स्नस्यापि प्रपञ्चस्य सृष्ट्याद्यष्टककारणं परमेश्र्वरमभिदध-तीत्यत सृष्ट्याद्यष्टस्यैव जन्मादिपदार्थत्वात् अन्यथाव्याख्यानं अपव्याख्यानमेवेति । ननु पूर्वाधिकरणे तदेव ब्रह्म इत्यादिना विष्णौ विद्वद्रूढे समर्थितत्वात् तस्मादादौ कुतो न सिद्धान्त क्रियत इत्यत आह । यद्यपीति । उभयथापि सिद्धान्तसम्भवात् योगमादाय सिद्धान्त क्रियते इत्यदोष । रूढिमादायापि सिद्धान्त ऊह्य इति भाव ।

जन्म आदि यस्येति अतद्गुणसंविज्ञानो बहुव्रीहि । तथा च स्थितिकर्तृत्वमेव लक्षणमिति ये मन्यन्ते तन्मतं निराकरोति । जन्माद्यस्येति । अन्यथा यतो वेति श्रुतौ जायन्ते इत्युक्ते असम्भव इति भाव । एवं च लब्धजन्मन इत्युपपन्नम् । अत एव तद्गुणसंविज्ञानं इत्युक्त्वा अनन्तरं लब्धजन्मन इत्युक्तम् । तद्गुणसंविज्ञान इति । अत्र तच्छब्देन बहुव्रीह्यर्थोऽन्यपदार्थ उच्यते । तस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान । सर्वस्याविशेषणत्वे समासासम्भवात् समासार्थैकदेशो विशेषणमिति लभ्यते । तथा च लम्बकर्णो देवदत्त इत्यत्र देवदत्तैकदेशमेव विशेषणं कृत्वा देवदत्तो बोध्यते तथा जन्मादीत्यत्रापि विशेष्यभूतजन्मस्थितिभङ्गाद्येकदेशभूतं जन्मैव विशेषणं कृत्वा विशेष्यार्थो बोधनीय इति भाव । ननु स्थितिग्रहणमेव प्रथमत किं न कृतमित्यत आह । लब्धजन्मनो हीति । आवृतिपदेन बन्ध प्रतीयते इति स्यात् । तथा च पौनरुक्त्यमत आह । आवृति अज्ञानमिति । सृष्ट्यादिकारणस्य कुतो हरित्वमित्यतोऽन्येषामस्वातन्त्र्येण तदसम्भवात् हरे एव स्वातन्त्र्येण तत्सम्भवात् इत्याशयेन स्वातन्त्र्यसमर्पकतया एकरा इत्येतद्य्वाख्याति । एकराडिति । पर्यवर्तयदिति । विपूपरिवर्तन इति धातोरिति भाव । व्यतीनित्यस्यार्थो विशेषेणाधिकानिति । विशेषेणाधिकत्वेन व्यतयो देवता स्मृता इति वचनात् । नवतिमेव दर्शयति । अष्टाविति । पञ्चाशन्मरुत इति ॥ एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्वादिति भाव । एकादशादित्या इति । आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानाम् एकादशत्वादियमुक्ति । सृष्टिस्थितीत्यादिभाष्ये प्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते । लक्षणाप्रयोजनं च ब्रह्मण स्रष्टृत्वादिकमेव नतु उपादानत्वमिति प्रदर्शनम् । अधिकरणार्थमुपसंहरति ॥ अत इति ॥

वाक्यार्थविवरणम्

भाष्यकारेणैवेति ॥ न तु सूत्रकारेणेत्यर्थ । आदिपदोक्ते स्थितिसंहृतीति ॥ यतो वा इत्यादिश्रुत्यनुसारादिति भाव । इत्यादीत्यादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा अस्य यतो जन्मादि जन्म आदि यस्य पालनस्य तत् जन्मादीति जन्मादिशब्देन पालनमेव ग्राह्यम् । तथा च स्थितिकर्तृत्वमेव ब्रह्मणो लक्षणं, न तु सृष्टिसंहारकर्तृत्वम् । ब्रह्मविष्णुमहेश्वराणां मध्ये विष्णु पालक, ब्रह्मा स्रष्टा, महेश्वर संहारकर्तेति प्रसिद्धेरिति रामानुजीयव्याख्यानसङ्ग्रह । आदिपदेन सङ्गृहीतं व्याख्यानमयुक्त-मित्याशयेनाह । जन्मादीति । "विशेषेणाधिका यस्माद्व्यतयो देवता स्मृता’ इति प्रमाणं मनसि निधायोक्तम् ॥ विशेषेणाधिकान् देवानिति ॥ पर्यवर्तयदिति । विपू परिवर्तन इति धातुव्याख्यानादिति भाव ॥ २ ॥

वाक्यार्थमञ्जरी

॥ शास्त्रसङ्गतिरिति ॥ ब्रह्ममीमांसाशास्त्रप्रतिपाद्यब्रह्मविचारपरत्वात् ब्रह्ममीमांसाशास्त्रेऽन्तर्भाव-सङ्गतिरित्यर्थ । एवमग्रेऽपि शास्त्रसङ्गतिर्व्याख्येया ॥ श्रुत्यादिसङ्गतिस्त्विति ॥ आदिपदेनाधिकरणम् एकवचनप्रयोगश्र्चैकप्रदर्शनेनान्यापि सुज्ञानेति प्रकारैक्याभिप्रायेण चतुरधिकरण्यां यतो वेत्यादिश्रुतिरेव विचार्यत इति श्रुतिसङ्गति स्फुटा । तुशब्द शास्त्रसङ्गतित आक्षेपकत्वाख्यं विशेषमाह "पूर्वमाक्षिप्यते यत्र तत्र साक्षेपिकी मता’ इत्युक्ते । एवमग्रेऽपि यत्र पूर्वाक्षेपस्तत्राक्षेपिकी ध्येया ॥ गुणपूर्त्यसिद्ध्येति ॥ रूढ्या जीवपरत्वे यौगिकार्थगुणपूर्त्यसिद्ध्येत्यर्थ । उभयत्रेति ॥ तदेव ब्रह्मेति विष्णौ बृहजातिजीवेति जीव इत्यर्थ । मुख्य इत्युक्तमिति ॥ मुख्यामुख्ययोर्मुख्यस्यैव सम्प्रत्यय इत्यन्यतरनिश्र्चयान्नोक्तसन्देह सम्भवतीति भाव ॥ स्वकृतेति ॥ यतो नारायणप्रसादमृते न मोक्ष इत्यादिनेत्यर्थ । भाष्यकारैरेवेति । न सूत्रकारेणेत्येवशब्द । सूत्रकारेणैव परकीयसम्भावितसन्देहात्परेण तन्निरासकन्यायस्य व्युत्पादितत्वादिति भाव । इतरकोटिप्रापकं प्रतिषेधति ॥ यद्यपीत्यादिना ॥ योगेनैवेति ॥ रूढ्यङ्गीकारे गुणपूर्त्यसिद्धेरिति भाव । तर्हि पङ्कजादिशब्दवद्योगरूढिरस्तु तावतापि गुणपूर्तिलाभात् । एवं च रूढिमात्रतो योगरूढे प्राबल्याद्विष्णुरेवायं ब्रह्मेति चेन्न । अथ कस्मादिति श्रुतिसिद्धयोगेनैव तद्य्ववहारोपपत्तावसिद्धसमुदाय-शक्तिरूपरूढिकल्पनस्य व्यर्थत्वात् । पङ्कजादिशब्दे योगमात्रस्य भेकादावतिप्रसक्त्या रूढिकल्पनम् । न चात्र तथा । अन्यत्र गुणपूर्तेरनङ्गीकारात् । तदेवाह योगेनैवेत्येवकारेण । रूढेरेवेति । तस्यावयवार्थ-सापेक्षयोगापेक्षया तन्निरपेक्षतया शीघ्रोपस्थापकत्वादिति भाव । ननु तदेव ब्रह्मेत्यत्र रूढिप्राप्तजीवत्यागेन विष्णुग्रहणवदत्रापि तन्निरपेक्षतया शीघ्रोपस्थापकत्वं स्यादित्याशङ्क्याह ॥ न चेति ॥ बाधकं विनेति ॥ तत्र समुद्रस्थत्वं बाधकमिति भाव । अत्रापि जिज्ञास्यत्वं बाधकमित्यत आह ॥ न च तादृशमिति ॥ समुद्रस्थत्ववदपरिहार्यमित्यर्थ । जिज्ञास्यत्वं तु वक्ष्यमाणरीत्या जीवेऽपि सावकाशमिति भाव । ननु ब्रह्मशब्दस्य जीव इव जात्यादावपि रूढत्वात्कथं जीव एवेत्यवधारणमिति शङ्कां परिहरन्नेवोप-संहरति ॥ तस्मादिति ॥ मुख्यत अवश्यं तस्यातीवप्रसिद्धेरिति भाव । जीवस्याप्यहमिति प्रसिद्धिरस्तीत्यत स्वरूपेण सिद्धत्वेऽपि देहभिन्नत्वेन न सिद्धिरिति भावेनाह ॥ देहात्मविवेकस्येति ॥ अन्यथा ""भस्मीभूतस्य देहस्य पुनरागमनं कुत’’ इति चार्वाकोक्तरीत्या न पुण्यपापकरणाकरणे स्यातामिति भाव । यद्यपि कमलासनस्यापि प्रसिद्धिरस्ति । तथापि न तस्य जिज्ञास्यत्वं प्रयोजना-भावादिति सुधायामेवोक्तम् । ननूक्तरीत्या जीवस्य जिज्ञास्यत्वे तस्य चेत्यादिना कथं तस्याजिज्ञास्य-त्वोक्तिरिति चेत् उच्यते जात्यादिवैलक्षण्योपपादनाय देहान्यत्वादिना जीवस्य जिज्ञास्यतोक्ता । सिद्धान्त्यभिमतमोक्षफलकगुणपूर्णत्वप्रकारकजिज्ञासा निराक्रियते । अत एव चन्द्रिकायां विशिष्टाधिकारिक-मोक्षफलकजीवान्यधर्मिकगुणपूर्णत्वप्रकारकपूर्वसूत्रोक्तजिज्ञासाक्षेपेणैवेत्याद्युक्तम् ॥

ॐ जन्माद्यस्य यत ॐ ॥ अस्य प्रमितस्य चेतनाचेतनात्मकस्य जगत जन्मादि सृष्टिस्थितिलय-नियमनज्ञानाज्ञानबन्धमोक्षजातं यत यस्मात् यथायोग्यं भवति; तज्जन्मादिकारणं ब्रह्मेत्यर्थ । पूर्वपक्ष-प्रतिबन्धकयुक्तेरेव वक्तव्यत्वात् लक्षणकथनमसङ्गतमित्यत आह ॥ निर्बाधेति ॥ श्रुत्युक्तमिति ॥ विष्णुलक्षणत्वेन प्रमितं जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धित्वेनाहेत्यर्थ ॥ अस्येति ॥ इदं त्रितयकर्तृताभिधायिमायावादिव्याख्यानम् । आदिपदेन जन्म आदिर्यस्य पालनस्येत्यतद्गुणसंविज्ञान-बहुव्रीहिणा पालनकर्तृत्वमेवोच्यत इति रामानुजव्याख्यानसङ्गह ॥ निरासायेति ॥ जिज्ञासाविधायके यतो वेत्यादिश्रुतावेव चतुष्टयकर्तृत्वोक्तेरिति भाव ॥

॥ सृष्ट्याद्यष्टकमिति ॥ ननु सूत्रे जगन्निष्ठजन्माद्युच्यते । भाष्यटीकयोस्तु स्रष्टा संहर्तेत्यादिप्रयोगाद् ब्रह्मनिष्ठव्यापार उच्यते । अत कथं व्याख्यानव्याख्येयभाव इति चेत् । उच्यते । प्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते । लक्षणाप्रयोजनं च ब्रह्मण स्रष्टृत्वमेव न तूपादानत्वमिति सूचनम् । अत एव यो न पितेति श्रुतिं तथैवावतारयिष्यतीति ध्येयम् । नन्वत्र जीवे रूढिमङ्गीकृत्य बाधकवशात्तत्परित्याग इति न वक्तव्यम् । किन्तु तदेव ब्रह्म परमं कवीनामिति पूर्वाधिकरणोक्तन्यायेन ब्रह्मशब्दस्य विष्णौ विद्वद्रूढेरुक्तत्वाद्विद्वदविद्वद्रूढ्योर्विद्वद्रूढेरेव बलीयस्त्वाद्विष्णुरेवात्रोक्तं ब्रह्मेति वक्तव्यमित्याशङ्क्य परिहरति ॥ यद्यपीति ॥ अभ्युपगम्येति ॥ अभ्युपगमवादप्रयोजनं तु जीवभेदकगुणपूर्तिलाभ । रूढ्यङ्गीकारे तदलाभादिति भाव । इयमुक्ति सौत्री बाधोक्ति । रामानुज-रीत्याऽतद्गुणसंविज्ञानेऽष्टकालाभादाह ॥ तद्गुणसंविज्ञान इति ॥ तस्य गुणस्य अन्यपदार्थं प्रत्युपसर्जनी-भूतस्यान्यपदार्थे संविज्ञानं विशेषणत्वेनोपादानं यस्मिन्बहुव्रीहौ स तद्गुणसंविज्ञान यथा लम्बकर्ण-मानयेत्यादौ । प्रकृते च तस्य गुणस्यान्यपदार्थपालनादिकं प्रत्युपर्सनीभूतस्य जन्मनोऽन्यपदार्थे पालनादौ संविज्ञानं विशेषणत्वेनोपादानं कार्यं न तु चित्रगुमानयेत्यादाविव तत्परित्याग इत्यर्थ । ननु कथं जन्मन स्थित्याद्यपेक्षया आदित्वम् ? पौर्वापर्येणेति चेन्न । दर्शपौर्णमासतिथ्योरिव जन्मस्थिति-संहारप्रवाहस्यानादित्वेन पौर्वापर्यानियमादित्यत आह ॥ लब्धजन्मेति ॥ सत्यमेवं तथापि लब्धजन्मन स्थित्यादिरितिवन्न स्थितस्य नष्टस्य वा जन्मेत्येकव्यक्त्यपेक्षया जन्मन प्राथम्यमिति भाव । अज्ञानं भावरूपम् । नोपलभ्यत इति ॥ तद्विजिज्ञासस्वेत्यत्रानुपलम्भादिति भाव । प्रयन्ति प्रयान्ति । त्रिधात्वित्यस्यार्थ प्रकृतिपुरुषकालाधारक इति । यच्छब्दस्य तदस्य प्रियमित्युत्तरेणान्वय ।

"चतुर्भिर्नामभि साकं वासुदेवादिभिर्हरि ।

 वसून् रुद्रांस्तथादित्यान् ब्रह्मणो मरुतस्तथा ॥

 बृहच्छरीरो भगवान्नूनं शासति नित्यश’

इति प्रमाणानुसारेण श्रुतिं व्याचष्टे ॥ बृहच्छरीर इति ॥ बृहच्छरीरो विमिमानित्युत्तरत्रोक्तमिदम् । व्यतीनित्यस्यार्थो विशेषेणाधिकानिति । विशेषेणाधिकत्वेन व्यतयो देवता स्मृता इति कर्मनिर्णयोक्ते । वृत्तं भ्रममाणं नेत्यस्यार्थो इवेति ॥ पर्यवर्तयदिति ॥ विपरिवर्तनधातोरिति भाव । एकादशादित्या इति । आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानाम् एकादशत्वादियमुक्ति । पञ्चाशन्मरुत इति । एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्वादिति भाव । तत्त्वप्रदीपे चेमं प्रकारमभिधाय

""आदित्या वसवो रुद्रा मरुतश्र्चाश्र्विनावपि ।

बृहस्पतिश्र्च कामश्र्च मनुर्दक्षो विनायक ॥

भृगुश्र्चैवानिरुद्धश्र्च धर्मो निर्ऋतिरेव च ।

कुबेरसहिता देवा नवति सम्प्रकीर्तिता ॥

अनन्तो गरुडो वायुश्र्चत्वारो ब्रह्मणा सह’’

इति प्रमाणानुसारेण प्रकारान्तरमप्युक्तम् । अत्राश्र्विनोरेकत्वं बोध्यम् ॥ एतान्यपीति ॥ न केवलं स्थितिनियमनकर्तृत्वे किं त्वष्टावपीत्यर्थ । तन्वा वृधानेत्यस्यार्थ स्वमूर्त्यैवापरिच्छिन्न इति । मात्रयेत्यस्य मितेरिति ॥ अपरिमितत्वादिति ॥ विष्णोरपरिमितत्वोक्तौ महिम्नस्तत्स्वरूपत्वात्तस्या-परिमितत्वमुक्तमित्याशयेनेयमुक्ति ॥ वर्तमानेति ॥ वर्तमानार्थकलयोगादिति भाव । यथा जीव-महिमसु चतुर्मुखमहिम्न सीमात्वं यथा वा परतन्त्रमहिमासु रमामहिम्न सीमात्वमेवं विष्णुमहिम्नोऽपि विवक्षाविशेषेण सीमात्वं न युक्तमित्याशयेनोक्तम् ॥ परमिति ॥

""जातो जनिष्यमाणश्र्च वर्तमानस्तथैव च’’ इति प्रमाणानुसारेणेदमुपलक्षणमित्याशयेनाह ॥ जनिष्यमाण इति ॥ सर्वे च वयं च वयं त्यदादीनि सर्वैर्नित्यमित्येकशेषं मत्वा आह ॥ न सर्वेषामिति ॥ अस्मदादिसर्वेषामित्यर्थ । पौनरुक्त्यवारणायाह ॥ न दत्तपुत्रवदिति ॥ पिता पालक ॥ २ ॥

विवृति

तस्य च विष्णुत्वं यावन्न साध्यत इति ॥ अनेन पूर्वाधिकरणेनास्याधिकरणस्याक्षेपिकी सङ्गतिरुक्ता भवति । जिज्ञास्यता न सम्भवतीत्यत्रेतिशब्दस्य प्रकारवाचिन इति श्रुत्यादिसङ्गतिरिति पूर्वेणान्वय (सम्बन्ध) । उभयत्रापीति ॥ जीवे विष्णावपीत्यर्थ ॥ मुख्य इत्युक्तमिति ॥ मुख्यामुख्ययोर्मध्ये मुख्यस्यैव सम्प्रत्यय, इत्यवधारणबलेनोत्कटकोटिकोऽपि सन्देह सम्भवतीति भाव ॥ स्वकृतव्याख्यानेति ॥ यतो नारायणप्रसादमृत इत्यादिनेत्यर्थ ॥

योगेनैवेति ॥ पूर्वाधिकरणसिद्धान्ते अथ कस्मादुच्यत इति श्रुत्युदाहरणपूर्वकं विष्णौ तस्य योगस्यैव प्रदर्शितत्वात् । योगानङ्गीकारे गुणपूर्णत्वासिद्धेश्र्च श्रुतिप्रतिपादितयोगेनैव तद्य्ववहारोपपत्तौ योगरूढ्यङ्गीकारस्य व्यर्थत्वाच्चेति भाव ॥ ननु ब्रह्मशब्दस्य जीव इव जात्यादावपि रूढिसद्भावात्तदेवात्र ब्रह्मशब्दार्थ किं न स्यादित्यत आह ॥ जात्यादेरिति ॥ जडत्वेन तस्य जिज्ञास्यत्वाभावादिति भाव ॥ ननु जडस्यापि वियदादे "न वियदश्रुते’ इत्यादौ विचार्यमाणत्वाज्जात्यादेर्जडत्वेऽपि जिज्ञास्यत्वं स्यादित्यत उक्तम् ॥ मुख्यत इति ॥ तथा च जात्यादेरन्यार्थं जिज्ञास्यत्वेऽपि मुख्यतोऽभावाद-जिज्ञास्यत्वमिति भाव ॥ ननु जीवस्याप्यजिज्ञास्यत्वाज्जीवोऽप्यत्र ब्रह्मशब्देन न ग्राह्य इत्यत आह ॥ देहात्मविवेकेति ॥ जीवज्ञानाभावे देहात्मनोर्विवेकज्ञानासम्भवादिति भाव ॥ ब्रह्मणो जिज्ञासेति भाष्यं व्याचष्टे ॥ जीवग्रहण इति ॥ जिज्ञास्यब्रह्मणो लक्षणमिति ॥ विष्णुलक्षणत्वेन प्रमितं जगज्जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धित्वेनेत्यर्थ ॥ अत एव जीवग्रहणे बाधकमित्युक्तम् । ननु पूर्वाधिकरणे तदेव ब्रह्मेत्यादिना विष्णौ विद्वद्रूढे समर्थितत्त्वात्तामादायैव कुतो न सिद्धान्त क्रियते इत्यत आह ॥ यद्यपीति ॥ उभयथापि सिद्धान्तसम्भवाद्योगमादाय सिद्धान्त क्रियत इत्यदोष । रूढिमादायापि सिद्धान्त ऊह्य इति भाव ॥ जन्म आदि यस्येत्यतद्गुणसंविज्ञानो बहुव्रीहि । तथा च स्थितिकर्तृत्वमेव लक्षणमिति मन्यते तन्निरासायाह ॥ जन्माद्यस्येतीति । अन्यथा यतो वेति श्रुतौ जायन्त इत्युक्तेरसम्भव इति भाव ॥

एवं च लब्धजन्मन इत्युपपन्नम् ॥ अत एव तद्गुणसंविज्ञानं इत्युक्त्वानन्तरं लब्धजन्मन इत्युक्तम् ॥

ननु स्थितिग्रहणमेव प्रथमत किं न कृतमित्यत आह ॥ लब्धजन्मनो हीति ॥ आवृतिपदेन बन्ध प्रतीयते । तथा च पौनरुक्त्यमत आह ॥ आवृतिरज्ञानमिति ॥ एकरात्वस्य ब्रह्मादिष्वपि सत्वादतिव्याप्तिरित्यत आह ॥ एकरा स्वतन्त्र इति । पर्यवर्तयदिति ॥ विपरिवर्तन इति धातोरिति भाव । व्यतीनित्यस्यार्थो विशेषेणाधिकानिति ॥ विशेषेणाधिकत्वेन व्यतयो देवता स्मृता इति वचनात् । नवतिमेव दर्शयति ॥ अष्टाविति ॥ पञ्चाशन्मरुत इति ॥ एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्वादिति भाव ॥ एकादशादित्या इति ॥ आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानामेकादशत्वादियमुक्ति । सृष्टिस्थितीत्यादिभाष्ये प्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते ॥ लक्षणाप्रयोजनं च ब्रह्मण सृष्ट्रत्वादिकमेव न तूपादानत्वमिति प्रदर्शनम् । अधिकरणार्थमुपसंहरति ॥ अत इति ॥

॥ इति जन्माधिकरणम् ॥