ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ

३. न सङ्ख्योपसङ्ग्रहाधिकरणम्

सूत्रभाष्यम्

॥ ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ १२ ॥

"यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित’ (बृ.उ.६-४-१७) इत्यादिषु बहु-सङ्ख्योपसङ्ग्रहेऽपि न विरोध । तस्यैवाकाशादिषु नानाभावात्तदतिरिक्तस्वरूपत्वाच्च ॥

सत्तकदीपावली

नन्वेवमपि ये बहुसङ्ख्याभिधायिन शब्दा न ते विष्णुवाचका तस्य एकत्वात् । एकत्वबहुत्वयो परस्परं विरोधादितीमं पूर्वपक्षं प्रतिक्षिपति ॥ न सङ्ख्येत्यादिना ॥ बहुसङ्ख्याभिधायित्वेऽपि पञ्चजनशब्दस्य न भगवद्वाचकत्वविरोध । भगवत एव आकाश-प्राणचक्षुश्रोत्रान्नमनस्सुबहुरूपत्वेन प्रादुर्भूतत्वात् । तदाधारत्वेन तदतिरिक्तस्वरूपत्वात्। तथा चायं वाक्यार्थ । यस्मिन् सर्वदेहगते परमात्मनि प्रतिदेहं पञ्चपञ्चजना आकाशाख्या प्रकृतिश्च प्रतिष्ठिता । स्वयं च षडन्तर्नियामको अतिमुख्यत तन्नामा लीलया स्वस्मिन्नेव प्रतिष्ठित । एवमुक्तप्रकारेण सर्वशब्दवाच्यं तं परमात्मानं परब्रह्मविद्वान् स पञ्चाऽन्योऽमृतो भवतीति ।

तत्त्वप्रदीपिका

"यस्मिन् पञ्च पञ्च जना’ इत्यादिषु बहुसङ्ख्ययोपसङ्गृहीतत्वादन्य एवोच्यन्ते, न विष्णु । तस्यैकस्य बहुत्वासम्भवात्, "यस्मिन्’ इति विष्णावुपसङ्ग्रहाच्च, तेषां बहुसङ्ख्यानां न विष्णुत्व-मिति न मन्तव्यम् । तस्यैव विष्णोराकाशे जनेषु च स्थितानां बहुरूपाणां भावात् "यस्मिन्’ इति तेषामधिकरणत्वेन तदतिरिक्तस्वरूपवत्त्वाच्च । न चैकस्य बहुत्वविरोध । विशेषा-देवोपपत्ते ।

तत्त्वप्रकाशिका

अत्राधाराधेयत्वादिलिङ्गेनान्यत्रैव प्रसिद्धानां पञ्चजनादिशब्दानां हरौ समन्वयप्रतिपादना-दस्ति शास्त्रादिसङ्गति । समन्वयसूत्रे सर्वशब्दानां परमात्मपरत्वमुक्तम् । सर्वान्तर्गताश्च पञ्चजनादिशब्दा वाजसनेयके श्रूयन्ते । "यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित । तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्’ इति । सर्वशरीरेषु अनुवृत्त्यर्थं पञ्च पञ्चजनेति । तद्वाच्यं विष्णोरन्यच्चेत्तर्हि समन्वयसूत्रानुपपत्तिरित्यवश्यं निर्णेतव्यम् । तत्पञ्चजनादिशब्दवाच्यं विषय । विष्णुरन्यद्वेति सन्देह । समन्वयसूत्रमन्यत्रैव प्रसिद्धिश्च सन्देहबीजम् । न पञ्चजनादिशब्दवाच्यो विष्णुरिति पूर्व पक्ष । तच्छब्दस्य बहुत्वसङ्ख्याविशिष्टवस्तुवाचित्वात् । बहुत्वस्य चेश्वरे विरुद्धत्वात् । "एकमेवाद्वितीयम्’ इत्यादिश्रुते । न च स्वस्य ईश्वरस्य बहुत्वाभावेऽप्यन्यगतबहुत्वस्य तदधीनत्वेन बहुत्वसङ्ख्यावाचिशब्दवृत्ति । वशीकृतबहुजनेऽपि राजनि तददर्शनात् । अवरादिशब्दवदन्यत्रादृष्टत्वेऽपि वृत्ति किं न स्यादिति चेन्न । तत्र हेत्वन्तरेण सिद्धायां वृत्तौ निमित्तमात्राश्रयणात् । न चात्रास्ति तादृशं नियामकम् । न च "सर्वे वेदा’ इति श्रुतिर्नियामिका । तस्या सङ्कोचसम्भवात् । "ऋतं पिबन्तौ’ इत्यादाविव स्वगतभेद-शून्यस्यापि परमात्मनो बहुरूपत्वेन बहुत्वोक्ति किं न स्यादिति चेन्न । प्रतिशरीर-मात्मान्तरात्मवद्बहुत्वे मानाभावात् । यस्मिन्निति सप्तम्या निर्दिष्टस्य वाक्यशेषबलेन परमात्मत्वाच्च न तदाधेयानां पञ्चजनाकाशानां परमात्मत्वम् । न ह्येकस्यैवाधाराधेयभावो युज्यते । हरेराधेयत्वं (एव) च नास्ति किमुत विरुद्धं स्वाधारत्वम् । अतस्तस्य पञ्चजनादि-शब्दवाच्यतासम्भवान्न युक्तं समन्वयसूत्रमिति । एवं प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥नेति॥ अपिपदेन पूर्वसूत्राद्विरोधपदाकर्षणम् । युक्तमेव पञ्चजनाऽऽकाशशब्दवाच्यत्वं भगवत। स्वगतभेदशून्यस्यापि नानारूपत्वेन बहुत्वसङ्ख्योपसङ्ग्रहाविरोधात् । न च प्रतिशरीरं परमात्मनो बहुरूपत्वमप्रामाणिकम् । शरीरान्तर्गताकाशप्राणादिपञ्चजननियामकत्वेन तेषु नानाभावस्य न्यायप्राप्तत्वात् । न च यस्मिन्नित्याधारस्य विष्णुत्वात्पञ्चजनादीनामाधेयानां विष्णुत्वम् । आकाशादिगतरूपेभ्योऽतिरिक्तस्य शरीरनियामकरूपस्य तत्रोक्ते । शरीरनियाम-केश्वराधाराकाशादिषु भगवतोऽवस्थानमात्रेण आधाराधेयभावोऽपि युज्यते । अत परमात्मन पञ्चजनादिशब्दवाच्यत्वाद्युक्तं समन्वयसूत्रमिति भाव ॥

गुर्वर्थदीपिका

तत्र हेत्वन्तरेणेत्यत्र "सोऽवर सोऽनित्य सोऽवरयति सोऽनित्ययति’ इति विशेष-श्रुतिरूपहेतुर्हेत्वन्तरमित्युच्यते । वाक्यशेषबलेन "तमेवमन्य आत्मानम्’ इत्युत्तरवाक्यबलेन । पूर्वसूत्राद्विरोधपदाकर्षणमित्यत्र पूर्वसूत्रोक्ताविरोधपदं बुद्ध्या विभज्यात्राप्याकर्षणीयमित्यर्थ । शरीरान्तर्गताकाशप्राणादीत्यत्र प्राणादीनां प्रचारायावकशप्रदातृत्वात् आकाशपदवाच्या-काशस्था मूर्तिरेका । अत एव तेजआदिभूनियामकमूर्तीरसङ्गृह्याकाशस्यैव ग्रहणं कृतम् । पञ्चपदोक्ता प्राणादिपञ्च । नियमनाय तदन्तस्था अपरा । एतासां सर्वासामाधारभूता शरीरव्यापिनी काचनैका मूर्तिरिति विवेक।

भावबोध

समन्वयसूत्र इति ॥ यदि ज्योतिष्टोमेत्यादिपदानां व्युत्पत्त्यनुपपत्तिपरिहाराय तदवयव-ज्योतिरादिपदानां कर्मादिपरत्वं तर्हि "यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित’ इति वाक्य-प्रतिपाद्याधाराधेयभावाद्यनुपपत्तिशान्तये तदवयवपञ्चजनादिशब्दानामप्यन्यपरत्वं स्यादिति पूर्वपक्षोत्थानसम्भवात् अव्यवहितपूर्वाधिकरणसङ्गतिरिति ज्ञेयम् ॥ किं विष्णुरिति ॥ अत्र "यस्मिन् पञ्च पञ्चजना’ इति वाक्यगतपञ्चजनादिशब्दावाच्यं किं विष्णोरन्यदुत विष्णुरिति चिन्ता । तदर्थं "सर्वे वेदा’ इत्यादिवाक्यगत सर्वशब्द किं सङ्कुचितार्थ उतासङ्कुचितार्थ इति। तदर्थं विष्णो पञ्चजनादिशब्दवाच्यत्वाङ्गीकारे आधाराधेयभावादिविरोध किं प्राप्नोत्युत नेति । तदर्थमाधाराधेयभावबहुत्वादिकं किं भेदेनैव निर्वाह्यमुत विशेषेणापीति । पञ्चजनानां विष्णुत्व-निश्चायकं नास्त्युत अस्तीति । तदर्थं प्राणस्य प्राणमिति वाक्यशेष पञ्चजनविषयको न भवत्युत भवतीति । तदर्थं तस्मिन् वाक्ये किं चतुर्णामेकोक्तिरुत पञ्चानामपीति । बहुसङ्ख्योप-सङ्ग्रहेऽपीति भाष्यसूचितयुक्तिमाह तच्छब्दस्येति । बहुत्वस्य चेति । अनेन परस्पर-विरोधश्चेत्युक्तन्यायो बहुत्वैकत्वयोरेकस्मिन् विरोध इति व्याख्यातो भवति । अत एव न्यायविवरणे आधाराधेयत्वादिकमित्यादिशब्द । न्यायविवरणं सङ्गमयितुमाह यस्मिन्निति । वाक्यशेषबलेनेति । यस्मिन्निति यच्छब्दोक्तम् "तमेवमन्यमात्मानं विद्वान् ब्रह्मामृतोऽमृतम्’ इति वाक्यशेषे तमिति तस्यात्मत्वादिप्रतिपादनादिति भाव ॥ किमुत विरुद्धमिति ॥ अनेन परस्परविरोधश्चेति न्यायविवरणम् आधाराधेयत्वयोरेकस्मिन् विरोध इति व्याख्यातो भवति ॥ विरोधपदाकर्षणमिति ॥ अविरोध इत्यतो बुद्ध्या विवेकेनेति भाव ॥ स्वगत-भेदशून्यस्यापीति ॥ अनेन भाष्यन्यायविवरणगतस्यैवेत्यर्थ उक्तो भवति । अनेन बहुरूपत्वा-दधिकरणाधेयत्वादि तस्यैव युज्यत इति न्यायविवरणमपि अधिकरणाधेयत्वेत्येतत्परित्यागेन व्याख्यातम् ॥ न च यस्मिन्निति ॥ अनेन सूत्रेऽतिरेकादिहेतुसाध्याविरोधप्रतियोगि-विरोधस्फोरकत्वेनाधाराधेयभावसङ्ग्रहोऽपि सङ्ख्योपसङ्ग्रहादित्यनेनोपलक्षणीय इत्युक्तं भवति ।

भावदीप

अधिकरणाधेयत्वादिकमिति न्यायविवरणसूचितिलङ्गेन अन्यत्रैव प्रसिद्धिमाह ॥ अत्रा-धाराधेयत्वेति ॥ बहुत्वमादिपदार्थ । अन्यत्रैव प्राणचक्षुप्रभृतिषु । भाष्ये पञ्चजनशब्दो बहुत्ववाचिशब्दमात्रोपलक्षणम् । विरोधिसर्वबाहुल्येत्यनुभाष्योक्तेरिति भावेनाह ॥ पञ्चजनादि-शब्दानामिति ॥ आनुमानिकनयभाष्येण तुल्यन्यायतया सूचिते श्रुत्यधिकरणसङ्गती स्वयमाह ॥ समन्वयेति ॥ श्रूयन्त इति ॥ षष्ठेऽध्याये । यस्मिन्निति सप्तम्यन्तस्य सर्वप्राणिशरीरवाचिन शरीरनियामकतया सर्वशरीरेषु विन्यस्तभगवद्रूपपरत्वं द्योतयितुं तमेवेति श्रुतिलिङ्गोक्तिपरवाक्य-शेषोद्धार । स्यु पुमांस पञ्चजना इत्युक्ते समस्तपदमिति भ्रमं निरस्यन् पञ्चपञ्चेति वीप्साया कृत्यमाह ॥ सर्वेति ॥ "सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता । परस्परविरोधश्च विरोध कार्य तद्वतो’ इत्याद्यनुभाष्ये परस्परविरोध इत्युक्तं विवृण्वान बहुसङ्ख्योपसङ्ग्रहेऽपीति भाष्यसूचितयुक्तिमाह ॥ तच्छब्दस्येति ॥ तदधीनत्वादर्थवदित्यनेन गतार्थत्वमाशङ्क्याह ॥ न च स्वस्येति ॥ वशीकृतेति ॥ ननु जनानां राजवशत्वेऽपि न तद्गतं बहुत्वं राजाधीनम् । अस्तु वा कथञ्चिद्बहुत्वं राजाधीनम् । तथापि भृत्यगतदुखनिगडबन्धादे राजाधीनत्वेऽपि राज्ञि दुखिबद्धादिपदाप्रयोगवदुपपत्तेर्न व्यभिचार इति चेत् । अत्रोक्तं चन्द्रिकायाम् । तदधीनत्वन्याये सत्यपि हरौ बहुत्वाद्यस्ति न वेति विचारात्तदाच्छादन एव तात्पर्यमिति वा बहुत्ववाचिशब्देषु स्वातन्त्र्यस्य निमित्तत्वे "अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले । अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम्’ इत्यनुभाष्योक्तदिशा बद्धादिशब्दवदमङ्गलत्वाभावात् वशीकृतबहुजनेऽपि राज्ञि तत्प्रयोगोपपत्ते न तन्निमित्तमित्यभिप्रायो वेति ॥ हेत्वन्तरणेति ॥ नामानि सर्वाणि । सोऽवर सोऽनित्य इति प्रमाणान्तरेणेत्यर्थ ।

ननु गुहां प्रविष्टावित्यत्रोक्तन्यायेन हरौ द्वित्ववद्बहुत्वमपि सिद्धम् । एकत्वविरोधित्वे द्वित्वबहुत्वयोरविशेषादिति भावेन तेनास्य गतार्थत्वमाशङ्क्य निराह ॥ ऋतं पिबन्ता-वित्यादाविवेति ॥ द्वितीयसूत्रव्यावर्त्यं हेतुमाह ॥ मानाभावादिति ॥ तत्र तु "घर्मा समन्ता त्रिवृतं व्यापतु,’ "आत्मन्तरात्मा’ इति हरिरिति मानमस्तीति भाव । एकस्थानेकत्वं विरुद्ध-मित्युत्सर्गस्य क्वचिन्मनेनाऽन्यथात्वेऽपि न सर्वत्रेति भाव । परस्परविरोधश्चेत्येतद्भाष्यदिशा एकस्यानेकत्वं विरुद्धमिति व्याख्यायेदानीं न्यायविवरणदिशा प्रकारान्तरेण व्याख्यातुमाह ॥यस्मिन्निति ॥ तमेवेति वाक्यशेषबलेनेत्यर्थ ॥ हरेरिति ॥ "एको दधार’ इत्यादिना हरेरेव सर्वाधारत्वादिति भाव ॥ अत इति ॥ बहुत्वादिविरोधादित्यर्थ । असूत्रितं विरोध इत्येतत्किमिति भाषितमित्यत आह ॥ अपिपदेनेति ॥ बुद्धिविभागेनेति भाव । समन्वयपरत्वं स्फोरयन् शेषोक्त्या भाष्यं हेतुत्वेन व्याचष्टे ॥ युक्तमिति ॥ तस्यैव इत्येव इत्येवकारसूचितमाह ॥ स्वगतभेदशून्यस्यापीति ॥ नानाभावान्न विरोध इत्यंशस्यार्थो नानेत्यादि । आकाशादि-ष्विति भाष्योक्तेरुपयोगाय मानाभावादिति प्रागुक्तशङ्कामनूद्योत्तरसूत्रतात्पर्यलब्धमाह ॥ न च प्रतिशरीरमिति ॥ एतेन बहुरूपत्वादधिकरणाधेयत्वं तस्यैव युज्यत इत्यंशं विवृण्वान तत्र हेत्वाकाङ्क्षायां तस्यैवातिरिक्तस्वरूपत्वाच्च इति भाष्योक्तं हेतुं योजयन्नुक्तशङ्कामनूद्य निराह ॥ न च यस्मिन्निति ॥ इदानीं न्यायविवरणं सङ्गमयति ॥ शरीरेति ॥ अत इति ॥ बाधका-भावादित्यर्थ ॥

अभिनवचन्द्रिका

वाजसनेयके श्रूयन्त इति ॥ अस्याधिकरणस्य समन्वयाधिकरणप्रतिपाद्यशब्दराश्यन्तर्गत-पञ्चजनादिशब्दनिर्णायकत्वं समन्वयाधिकरणेन सङ्गतिरिति बोध्यम् ॥ यस्मिन्पञ्चपञ्चजना इति ॥ यस्मिन्सर्वदेहगते परमात्मनि, प्रतिदेहं, पञ्च=पञ्चत्वसङ्ख्याविशिष्टाः, पञ्चजनाः, आकाशाख्यप्रकृतिश्च प्रतिष्ठिताः । स्वयं च षडन्तर्नियामकोऽतिमुख्यतः, तत्तन्नामा लीलया स्वस्मिन्नेव प्रतिष्ठितः । एवमुक्तप्रकारेण सर्वशब्दवाच्यं तं परमात्मानम् अमृतं ब्रह्म विद्वान्, स्वयं चान्योऽमृतो भवतीति श्रुत्यर्थः । अत्र टीकायां श्रूयमाणं "सर्वशरीरेष्वनुवृत्त्यर्थं पञ्चपञ्च’ इति वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । पञ्चजनशब्दस्याखण्डत्वेन सर्वशरीरेष्वनुवृत्त्यर्थं पञ्चपञ्चेत्युक्तमित्युक्त्ययोगात् । अन्यथा जनशब्दस्यैव समन्वेतव्यत्वं स्यात् न तु पञ्चजन-शब्दस्य । अत एव भाष्ये पञ्चत्वसङ्ख्याविशिष्टाः पञ्चजना इत्यभिप्रेत्य पञ्चजनानाहेत्युक्तम्, अन्यथा जनानाहेत्यवक्ष्यत् ॥ तत्पञ्चजनादिशब्दवाच्यमिति ॥ आदिशब्देनाकाशशब्दो ग्राह्यः ॥ विष्णुरिति पूर्वःपक्ष इति ॥ ननु अन्ये पञ्चजनादिशब्दवाच्या इति पूर्वःपक्षो वक्तव्यः, अन्यत्रैवप्रसिद्धत्वरूपपूर्वपक्षहेतोस्तत्रैव सम्भवात् । अन्यथा आनन्दमयाद्यधिकरणेष्वपि आनन्दमयो न विष्णुरित्येव पूर्वपक्षः स्यात् न तु ब्रह्मादिरिति "यस्मिन्पञ्चजना’ इत्यादिषु बहुसङ्ख्योपसङ्गृहीतत्वात्, "अन्य एवोच्यते न विष्णुरिति तत्वप्रदीपोक्तेश्च’ इति चेत्, सत्यम् तथा वक्तव्यम्, तथापि आनन्दमयाद्यधिकरणेषु हिरण्यगर्भादीनां यथा आनन्दमयत्वं सिद्धान्तिनः सर्वथाऽनिष्टं न तथा पञ्चजनादीनां विष्ण्वन्यत्वं सर्वथानिष्टं विष्णुनियम्यानां प्राणादीनां मुख्यवृत्तिमात्रेण, भगवतस्तु परममुख्यवृत्त्या वाच्यत्वस्य प्रामाणिकत्वादिति विशेषद्योतनायैव "न विष्णु’ इति पूर्वः पक्षः प्रदर्शित इति द्रष्टव्यम् । एवमन्यत्रापि बोध्यम् ॥ तच्छब्दस्येति ॥ पञ्चजनशब्दस्य पञ्चेति प्रथमपञ्चशब्दसामानाधिकरण्येन बहुत्वसङ्ख्याविशिष्ट-वस्तुवाचित्वादित्यर्थः ॥ बहुत्वाभावेऽपीति ॥ बहुत्वविश्रान्त्यधिकरणत्वाभावेऽपीत्यर्थः ॥ वशीकृतबहुजनेऽपीति ॥ ननु विषमोऽयमुपन्यासः । जनानां राजवशत्वेऽपि तद्बहुत्वस्य राजाधीनत्वाभावात् । एवं च राजनि वशीकृतबहुत्वाभावात् बहुत्ववाचिशब्दवृत्त्यदर्शनं न दोषायेति चेत्, न राजापेक्षाबुद्धिजन्यत्वेन बहुत्वस्यापि तदधीनत्वात् ॥ हेत्वन्तरेणेति ॥ "सोऽवरः । सोऽवरयति सोऽनित्य सोऽनित्ययति’ इति श्रुतिरूपकारणान्तरेणेत्यर्थः । "उप-सङ्ग्रहात्’ इति सूत्रखण्डस्याऽऽवृत्त्या युक्त्यन्तरसूचकत्वमभिप्रेत्याह यस्मिन्निति ॥ सप्तम्येति॥ अनेन "सङ्ख्योपसङ्ग्रहादपी’ति सूत्रखण्डः "यस्मिन्पञ्चजना’ इत्यादिषु बहुसङ्ख्ययोपसङ्गृहीतत्वात् यस्मिन्निति विष्णोराधारत्वेनोपसङ्ग्राच्च विष्णुत्वाङ्गीकारे विरोध इति व्याख्यातो भवति ॥ वाक्यशेषबलेनेति ॥ "तमेवमन्य आत्मानम्’ इति वाक्यशेषबलेनेत्यर्थः ॥ अपिपदेन पूर्वसूत्रादिति ॥ ननु न पूर्वसूत्रे विशकिलतं विरोधपदमस्ति, किंत्वविरोधपदमेव, न च बुध्या विवेकेन विरोधपदाकर्षणमिति वाच्यम् । अविरोध पदस्यैवाकर्षणेऽस्मिन्सूत्रे नञोऽ-प्रयोक्तव्यत्वेन सूत्रस्याल्पाक्षरत्वसम्भवेन बुध्द्या विवेकेन विरोधपदाकर्षणवैयर्थ्यात् ।

अपि च भाष्यकारस्य नाऽपिपदेन विरोधपदाकर्षणमभिमतं, किन्तु अध्याहारः, बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोध इत्यपिशब्दप्रयोगात् । अन्यथा बहुसङ्ख्योपसङ्ग्रहे न विरोध इत्यवक्ष्यत् इति चेत्, उच्यते यदि नञः प्रयोगमकृत्वा अपिपदेन विरोधपदाकर्षणमभिप्रेत्य सूत्रकारः "सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च’ इत्येवं सूत्रं विदध्यात्, तर्हि इदं सूत्रं पूर्वाधिकरणशेषतया कर्मक्रमादिविरोधपरिहाराय हेत्वन्तराभिधानपरमिति विज्ञायेत । तन्मा विज्ञायि । किन्तु पञ्चजनादिशब्दैरीश्वरग्रहणे सङ्ख्योपसङ्ग्रहादिविरोधपरिहारपरमिति ज्ञायता-मित्याशयेन सूत्राल्पाक्षरत्वमप्यपहाय अपिपदेन विरोधपदमात्रमाकृष्य सूत्रे नञः प्रयोगं कृतवान्। अत एव रज्ज्वा, अयसा वा, यावदेव काष्ठादिकं बद्धं तावदेव यथाऽनुकृष्यते, तद्वत् अपिपदेन सम्बद्धतया यावद्विवक्षितं तावदेवाऽनुवर्तत इति सूचनाय अपिपदप्रयोगः कृतः । यदत्रोक्तं भाष्यकारस्य नाऽपिपदेन विरोध पदाकर्षणमभिमतमिति । तन्न भाष्यकारः अपि-शब्दस्य समुच्चयार्थकत्वभ्रमनिरासाय "सङ्ग्रहादपि’ इति यथावस्थितानुवादमपहाय "सङ्ख्योप-सङ्ग्रहेऽपि’ इत्यनूद्य नञन्वयपूर्वकमपिपदं "न विरोध’ इति व्याचख्यावित्यङ्गीकारात् ॥ अतिरिक्तस्य शरीरनियामकरूपस्येति ॥ नन्वतिरिक्तत्ववचनं व्यर्थं "स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि’ इति प्रमाणेन स्वाधारत्वस्य सिद्धत्वादिति चेत्, सत्यम्  अस्त्येव स्वाधारत्वमीश्वरस्य, तथापि इह आधारत्वेनोक्तरूपं वस्तुतो रूपविशेष एव । किं स्वाधार-त्वोपपादनाय प्रमाणगवेषणप्रयासेनेति भावेन सूत्रकृता "अतिरेकाच्च’ इत्युक्तम् । अत एव टीकाकृता तथैवोक्तमिति द्रष्टव्यम् ।

वाक्यार्थमुक्तावली

आधाराधेयत्वादीत्यादिपदेन बहुत्वं गृह्यते ॥ अन्यत्रैवेति ॥ प्राणचक्षुरादिष्वित्यर्थ ॥ पञ्चजनादीति ॥ पञ्चजनादिशब्द इत्यर्थ । श्रुत्यादिसङ्गतिमाह समन्वयसूत्र इति ॥ अव्यवहितसङ्गतिस्तु यद्यतोऽत्र पञ्चजनादिशब्दवाच्यत्वमन्यस्य स्यात्तर्हि पूर्वाधिकरणीयं ज्योतिरन्यस्य स्यात् पञ्चजनेषु तद्देवा ज्योतिषां ज्योतिरिति ज्योतिषा आम्नातत्वादिति पूर्वाक्षेपाद्वात्रसिद्धान्तसाधकतया पूर्वहेतूनां विवक्षितत्वात् कर्मक्रमादिविरोधाभावेऽपि बहुत्व-विरोध इत्यधिकाक्षेपेणोत्थानाद्वेति बोध्यम् । स्यु पुमांस पञ्चजना इत्युक्ते समस्तपदमिति भ्रमं निरस्यन् पञ्चपञ्चेति वीप्साया कृत्यमाह सर्वेति ॥ विष्णुरन्यद्वेति ॥ पञ्चजनादि-शब्दवाच्यमन्यदुत विष्णुर्वेति चिन्ता । बहुत्वसङ्ख्यादिकं किं भेदनिर्वाह्यमुतविशेषनिर्वाह्यमिति तदर्थं पञ्चजनानां विष्णुत्वनिश्चायकं नास्त्युतास्तीति । तदर्थं सिद्धान्तिना विष्णुत्वनिश्चयाक-लिङ्गाभिधायकतयाभिमतवाक्यशेषे चतुर्णामेवोक्त्या वाक्यशेष पञ्चजनविषयो न भवत्युत ज्योतिषा सह पञ्चकपूरणेन पञ्चजनविषयो भवतीति । सङ्ख्योपसङ्ग्रहादपीति सूत्रसूचित-पूर्वपक्षमाह तच्छब्दस्येति ॥ तदधीनत्वादर्थवदित्यनेन गतार्थमाशङ्क्याह न च स्वस्येति ॥ वशीकृतेति ॥ ननु जनानां राजवशत्वेऽपि न तद्गतं बहुत्वं राजाधीनम् । अस्तु वा कथञ्चि-द्बहुत्वं राजाधीनं तथापि भृत्यगतबन्धादे राजाधीनत्वेऽपि राज्ञि दुखिबद्धादिशब्दप्रयोगवदु-पपत्ते। न चामङ्गलत्वात् दुख्यादिशब्दस्य राजाप्रियकरत्वाच्छक्तिसद्भावेऽप्यप्रयोगो नैवं प्रकृत इति वाक्यम् । प्रकृतेऽप्यस्मिन् राष्टे्र राजाबहुरिति चेत् तत्रोक्तं चन्द्रिकायाम् । तदधीनत्वन्याये सत्यपि हरौ बहुत्वाद्यस्ति न वेति विचारात्तदाच्छादनेनेह पूर्वपक्ष इति ज्ञातव्यम् (बोध्यम्) ।

यद्वा राजा बहु पुर्या इत्यर्थोपपत्या बद्धादिशब्दवदमङ्गलत्वाभावात् वशीकृतबहुजनेऽपि राज्ञि तत्प्रयोगोपपत्तेरिति भाव इति ॥ हेत्वन्तरेणेति ॥ सोऽवर सोऽनित्य इति विशेष-श्रुत्येत्यर्थ । ननु गुहां प्रविष्टावित्यत्रोक्तन्यायेन हरौ द्वित्वमपि सिद्धम् । एकत्वविरोधित्वे द्वित्वबहुत्वयोरविशेषादिति भावेनास्य गतार्थत्वमाशङ्क्यापाकरोति ॥ ऋतं पिबन्तावित्यादा-विवेति ॥ नानाभावादिति ॥ एतच्च द्वितीयसूत्रनिरसनीयपूर्वपक्षप्रदर्शनपरम् । तत्र वाक्य-शेषिलङ्गोक्ते । अतिरेकाच्चेतिसूत्रव्यावर्तनीयं पूर्वपक्षमाह यस्मिन्निति ॥ वाक्यशेषेति ॥ तमेवमन्य आत्मानमिति वाक्यशेषे आत्मब्रह्मश्रुत्या मोक्षाङ्गज्ञानविषयत्वामृतत्विलङ्गयोश्च सत्त्वादिति भाव: । एको दाधार भुवनानि, भर्ता सन् भ्रियमाणो बिभर्तीत्यादिना च तस्यैव सर्वमूलाधारत्वादिति भाव: ॥ अपिपदेनेति ॥ सङ्ख्योपसङ्ग्रहेऽपि यस्मिन्नित्याधारत्वोक्ताव-पीत्यनेन लोकरीत्याङ्गीकारानर्हस्याङ्गीकारोऽपीति अनौचित्ये तथा अपिपदेन पूर्वसूत्राद्बुध्या विवेकेन विरोधपदाकर्षणं च सूचयतीत्यर्थ ॥ यद्वा न केवलं कर्मवाक्यगतपदवाच्यत्वे कर्मक्रमादिविरोधो न सङ्ख्योपसङ्ग्रहेऽपीति समुच्चायकापिपदेन समुच्चेयाविरोधप्रतियोगितया-विरोधपदाकर्षणभाष्यसूत्रे च समन्वेतव्यशब्दानुक्ते समन्वयपरत्वं स्फोरयन् व्याचष्टे ॥ युक्त-मेवेति ॥ नामानि सर्वाणीत्यादिश्रुत्या तदश्रीनत्वादिप्रागुक्तनिचयेनोपपन्नमेवेत्यर्थ । एवं बहिरेव प्रतिज्ञाहेतूदर्शयन् बाधकपरिहारकत्वेन सूत्रभाष्ये प्रवृत्त इति हृदि निधायाकाशादि-ष्वित्यंशं विहाय भाष्यं योजयति ॥ स्वगतभेदेति ॥ तस्यैवेत्यस्य तस्यैकस्यैवेत्यर्थम् । मत्वोक्तं स्वगतभेदशून्यस्यापीति । एतेन सूत्रेऽपिपदेन स्वगतभेदशून्यस्यापीत्यर्थ उक्तो ज्ञेय । नाना-भावादित्यस्यार्थो नानारूपत्वेनेति । बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोध इत्यस्य तात्पर्यं बहुत्वे-नेति। आकाशादिषु नानाभावादित्येतद्य्वाख्यातुमाह न च यस्मिन्निति ॥ सूत्रे तत्वित्यस्ति । पञ्चजन इति तत्वप्रदीपरीत्या व्युत्पत्युपपत्ते न प्राणचक्षु श्रोत्रमनांसि कुत ता वा एता इत्यादिश्रुते । एवं तर्हि पञ्चेत्युक्तबहुत्वसङ्ख्याविरोध । स्वगतभेदशून्यस्य तदयोगाद्यस्मि-न्नित्याधाराधेयभावविरोधश्चेत्यत सूत्रम् अपिस्वगतभेदशून्यस्य कुण्डबदरवदाधाराधेयभाव-शून्यस्यापि तस्य नानाभावादचिन्त्यशक्तिघटितविशेषेण नानारूपत्वाच्छरीरान्तर्गताकाश-प्राणादिनानाविधपदार्थेषु नियामकतया नानाभावस्य प्रमितत्वात् बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोध: । जना इत्युक्त शरीरस्थाकाशादिगतरूपेभ्योऽपि यस्मिन्नित्युक्तशरीरस्थरूपस्य विशेषबलादतिरिक्तत्वाच्चाधाराधेयभावेऽपि सङ्ग्रहेऽपि न विरोध इति सूत्रार्थ: ॥

तत्त्वसुबोधिनी

अत्र ज्योतिष्टोमेत्यादिपदानां व्युत्पत्यनुपपत्तिपरिहाराय तदवयवज्योतिरादिपदानां कर्मपरत्वं तर्हि यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठित इति वाक्यप्रतिपाद्याधाराधेयभावाद्यनु-पपत्तिशान्तये तदवयवपञ्चजनादिशब्दानामपि अन्यपरत्वं स्यादिति पूर्वपक्षोत्थानसम्भवादधि-करणसङ्गति ॥ यस्मिन्निति ॥ यस्मिन् आत्मनि पञ्चजना प्रतिष्ठिता आत्मानं ब्रह्म पूर्णम् अमृतम् अन्य पुमान् एवं विद्वान् अमृत मुक्तो भवतीत्यर्थ । ननु पञ्चपञ्चेति द्विरुक्ति किमर्थेत्यत आह ॥ सर्वेति ॥ अस्तु बहुत्वसङ्ख्या विशिष्टवस्तुवाचित्वं ततकिमित्यत आह ॥ बहुवचनस्येति ॥ कुत इत्यत आह ॥ एकमेवेति ॥ तत्र हेत्वन्तरेणेति ॥ अवरादिशब्देषु सोऽवरयतीत्यादिश्रुतिरूपहेत्वन्तरेण भगवद्वाचित्वसिद्धौ सत्यां तदधीनत्वस्य निमित्तत्वा-श्रयणादित्यर्थ । अत्रापि श्रुत्यन्तरं भविष्यतीत्यत आह ॥ न चात्रेति ॥ अत्र पञ्चजशब्द-वाच्यत्वे अवरादिशब्देष्विव श्रुतिरूपं नियामकं नेत्यर्थ ॥ प्रतिशरीरमिति ॥ शरीरमात्रे आत्मान्तरात्मेति परमात्मरूपद्वयवत् पञ्चरूपसत्वेन किमपि प्रमाणमित्यर्थ । वाक्यशेष-बलेनेति ॥ यस्मिन्निति ॥ यच्छब्दोक्तं तमेवेति वाक्यशेषे तत इति परामृश्य तस्यात्मत्व-प्रतिपादनादिति भाव ॥ विरोधपदाकर्षणमिति ॥ अविरोध इत्यतो बुद्ध्या विवेकेनेति भाव। ननु बहुत्वसङ्ख्या परमात्मनि नोपपद्यते । तस्य स्वगतभेदशून्यत्वादित्यत आह ॥ स्वगतेति ॥ न च यस्मिन्निति ॥ आधाराधेयभावस्य भेदव्याप्तत्वादिति भाव ॥ तत्रोक्ते-रिति॥ यस्मिन्नित्यत्रोक्तिरित्यर्थ । शरीरस्य नियामको य ईश्वर । स आधारो येषां तानि एवम्भूतानि यानि आकाशादीनि तेष्वित्यर्थ ।

वाक्यार्थविवरणम्

हेत्वन्तरेणेति ॥ "नामानि सर्वाणि’ "सोऽवर’ इत्यादिश्रुतिरूपहेत्वन्तरेणेत्यर्थ: । आधेयत्वं च नास्तीति । सर्वाधारत्वादिति भाव । ननु भवेदियमित्युक्तशङ्कां पञ्चजनिलङ्गोक्त्या परिहर्तुमित्यन्वय॥

वाक्यार्थमञ्जरी

आधाराधेयत्वं चाग्रे यस्मिन्निति सप्तम्या निर्दिष्टेत्यादौ व्यक्तम् ॥ यस्मिन्निति ॥ यस्मिन्हरौ पञ्च पञ्चजना प्रतिपुरुषं प्राणादय पञ्चजना आकाशो मूलप्रकृति तन्नियामक-भगवद्रूपविशेषाश्चेत्येते आश्रितास्तमेवात्मानं मन्ये जानीयाम् । किन्तज्ज्ञानेनेत्यत आह ॥विद्वानिति ॥ अमृतं नित्यमुक्तं ब्रह्मविद्वानमृतो मुक्तो भवतीत्यर्थ । द्विवचनप्रयोजनमाह ॥ सर्वेति ॥ यो यो धूमवानित्यादाविव वीप्साया सर्वसङ्ग्राहकत्वादितिभाव । तच्छब्दस्य पञ्चजनादिशब्दस्य ॥ अवरादिशब्दवदिति ॥ अवरत्वादिनियामकतया तच्छब्दवाच्यत्व-स्यान्यत्रादर्शनादिति भाव । हेत्वन्तरेण सोऽवर । सोऽनित्यं इत्यादिना तादृशं निरवकाशम् ॥ वाक्यशेषबलेनेति ॥ यच्छब्दोक्तमेव तमेवेति परामृश्य तस्यात्मत्वविधानादिति भाव ॥ हरेराधेयत्वमिति ॥ पराधीनस्यैव घटादेर्भूतलाधेयत्वदर्शनादिति भाव । ॐ न सङ्ख्योप-सङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ । पञ्चजनादिशब्दवाच्यत्वेन बहुत्वसङ्ख्यास्वीकारेऽपि न विरोध: कुत: नानाभावात् भगवतो नानारूपाणां सद्भावात् न चाधाराधेयभावानुपपत्ति: यच्छब्दोक्तरूपस्य रूपपञ्चकापेक्षयातिरिक्तत्वेन तत्सम्भवादित्यर्थ: ॥ विरोधपदाकर्षणमिति ॥ अविरोध इत्यतो बुद्ध्या विवेकेनेति भाव । ईश्वराधारेत्यत्र बहुव्रीहि: ॥ अवस्थानमात्रे-णेति॥ पराधीनत्वाव्यावृत्त्यर्थं मात्रशब्द: ॥

 


Load More