ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ
३. अथ अभ्युपगमाधिकरणम्
सूत्रभाष्यम्
लोकायतिकपक्षं निराकरोति–
।। ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ।। ६ ।।
यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किंप्रयोजनम् । अतः स्वव्याहतेरेवोपेक्ष्यः ।
सत्तर्कदीपावली
प्रत्यक्षैकप्रमाणवादिनो जगदनित्यं मन्यमानस्य लोकायतस्य शास्त्रं विषयप्रयोजनरहित-त्वादुपेक्षणीयम् । तथा हि । घटादेस्तावत्प््रात्यक्षसिद्धत्वेन ज्ञापनानुपयोगान्नासौ विषयः । धर्मादेरनङ्गीकारान्न सोऽपि विषयो वक्तुं शक्यते । धर्मार्थमधर्मनिवृत्त्यर्थं च लोकायासनिवृत्तेः धर्माद्य-भाववादस्य लोकोपकारःप्रयोजनमिति न वाच्यम् । धर्माद्यभावज्ञाने परस्परहिंसादिनापकारस्यैव प्राप्तेः । न च लोकोपकारेण चार्वाकस्यप्रयोजनम् । अदृष्टाभावात् । अतो धर्माद्यभावं वदत स्वसमयस्यानर्थक्यमङ्गीकृतमेवेति नासौ समयीत्येतत्प््रातिपादयति ।। लोकेत्यादिना ।।
तत्त्वप्रदीपिका
निरीश्वरनिरासप्रस्तावे तदनतिविप्रकृष्टत्वाल्लोकायतिकपक्षो निरस्यते । सेश्वरः कश्चित्साङ्ख्यत्व-सामान्यादन्तरा तं चामुं च निराकृतः । न च तदीश्वरस्येश्वरत्वम् । अनुग्रहमात्रशक्तिमत्वेनाऽ-स्वातन्त्र्यात् । अव्याप्तत्वाच्च केषाञ्चित्तद्यूथ्यानाम् । अतो निराकर्तव्योऽसौ । स्वतन्त्रं सर्वशक्तिं सर्वव्याप्तमीशं विदुषां न चानीश्वरवादिभ्य ईश्वरमनीश्वरं वदतामतिवैशिष्ट्यमस्ति । अश्रोत्रियत्वं च सपङ्क्तीनां व्यञ्जयितुरन्तराले बहिश्चरस्योपालम्भस्सभ्यानां सारस्यमाधत्ते । गुणोपसंहारपादे समयनिराकरणमनवसरदुःस्थं च ।
अभ्युपगमेऽप्यर्थाभावात् । यस्य धर्माधर्मौ तत्फलं च स्वर्गनिरयनिश्श्रेयसादि नास्तिप्रमाणा-भावात्तत्सिद्धान्ते शास्त्राभ्युपगत्यैव नप्रयोजनम् ।प्रत्यक्षैकप्रमाणप्रणयिनश्च न परप्रतिबोधनप्रयोजनं शास्त्रम् । अतश्च न धर्माद्यभावबोधनेन परोपकारःप्रयोजनं वाच्यम् । तेन च परोपकारो नप्रत्यक्षः । केन च तदभावमयमज्ञो व्यज्ञासीदनादृतान्यमानः । अनुपलब्धिमात्रादभावनिश्चयश्चातिप्रसङ्गी । न च लोकोपकारादपि तस्यप्रयोजनम् । अदृष्टाभावात् । सुखदुःखादेः स्वाभाविकत्वात् ।प्रत्युत हिंसादोषनिषेधनात्स्वस्यापि वधाद्यनर्थप्राप्तिः । अतः स्वव्याहतेरेवोपेक्ष्यः । स्वव्याहतिर्हि महतीयम्– अनुमानमागमश्च नप्रमाणं व्यभिचारादिति मद्वाक्यादवगन्तव्यमिति । निष्फलं मच्छास्त्रमिति तु महीयसी । स्ववधान्न दोष इति महिष्ठा । अतो न तदुत्तरे परेणप्रयतनीयमित्यर्थः ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ।। लोकायतिकेति ।। अत एवात्र विष्णोर्जगत्कारणत्वे चार्वाक-समयविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । हरिर्जगत्कर्तेत्युक्तम् । तत्र चार्वाकमतविरोधेनाभावा-पत्तेस्तन्निराकार्यमेव । तदीश्वरस्य जगत्कर्तृत्वं विषयः । युक्तं न वेति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । अन्तरेणापीश्वरं पूर्वपूर्वस्मादुत्तरोत्तरोत्पत्तिसम्भवात् । क्वचित्स्वभावादेव मदिरोत्पत्तिवदुपपत्तेश्च । न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्तः । तस्या-प्रामाण्यात् । न च धर्माद्यसिद्धिविरोधः । तदनभ्युपगमात् । न हि धर्माद्यनभ्युपगमे किंचिद्बाधकं पश्यामः । न ह्येतस्याभावापराधेन सत्यामपि बाह्यसामग्र्यां कार्यानुत्पादो दृष्टो येन जानीमोऽस्त्य-लौकिकं कारणमिति । अतोऽदृष्टस्य वस्तुनोऽभावान्नेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। अभ्युपगमेऽपीति ।। युक्तमेव विष्णोर्जगत्कारणत्वम् । यदुक्तमदृष्टार्थ एव नास्तीति कुतो जगदीश्वरः कुतस्तरां जगत्कारणत्वमिति । तत्रप्रष्टव्यम् । तत्सिद्धान्ते किंप्रयोजनमिति । अपेक्षितं खलु शास्त्रेऽधिकार्यादि । तत्र न तावद्धर्मस्वर्गापवर्गादि अनभ्युपगमात् । नापि दृष्टं धनादि तदभावात् । वार्तादिप्रयोजनत्वाच्च तस्य । न च धर्माद्यभाव-बोधनद्वारा लोकोपकारः । तदभावज्ञाने परस्परहिंसादिनापकारस्यैव प्राप्तेः । न चोपकारोऽपि स्वरूपतःप्रयोजनमिति तेनापिप्रयोजनं वाच्यम् । न तावददृष्टं तदभावात् । नापि दृष्टम् । न हि कुवर्त्मना गच्छन्तंप्रतिमार्गोपदेष्टाऽऽविपालो लौकिकैरदृष्टनिरपेक्षैरुपक्रियते । अतो न किंचित्समयस्यप्रयोजनम् । नापि विषयः अदृष्टाभावात् । नापि दृष्टः । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । नापि धर्मादिभ्रान्तिनिरासाय तदभावः । तदुपायाभावात् । न हिप्रत्यक्षं धर्माद्यभावं गृह्णाति । अपरामर्शेऽदर्शनात् । परामर्शे दर्शनं तु नानुमानाद्भिद्यते । विषयप्रयोजनाभावे काऽधिकारिणंप्रत्याशा । माऽस्तु मत्सिद्धान्तेप्रयोजनादीति चेत्तर्हि यः सिद्धान्तोऽसौप्रयोजनादिमानिति नियमात् । अतः सिद्धान्तेऽपिप्रयोजनाद्यभावाद्यभ्युपगमे तस्य स्वव्याहतिः स्यात् । न ह्यभ्युपगमोऽप्रयोजनश्चेति युक्तम् । मे माता वन्ध्येतिवत् स्वव्याहतं च वदन् भवानुपेक्ष्य एव जायते न तु परिहाराय विषय इति भावः । अतश्चार्वाकसमयस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं जगत्कारणत्वं ब्रह्मण इति सिद्धम् ।
गुर्वर्थदीपिका
पूर्वपूर्वस्मादिति महीमहीधरादेरुत्पत्तिकथनं क्वचित् स्वभावादेव मदिरोत्पत्तिवदिति जीवो-त्पत्तेः कथनम् । नारिकेलादिवृक्षान्तर्गतनीरस्यैव क्षुरधारया कुसुमाग्रच्छेदे सति तस्यैव नीरस्य मदिरात्मकरूपान्तरवद्रूपत्रययोगाख्यविशेषकारणेन देहस्यैव जीवत्वमिति चार्वाकैरुक्तत्वादिति भावः । नापि दृष्टं धनादीत्यत्र लोकोपकारे कृते सति लोकैर्दीयमानं धनधान्यादिकं दृष्टमित्यु-च्यते । तदभावादित्यस्य तस्य धनस्य शास्त्रसाध्यत्वाभावादित्यर्थः ।। वार्तादीति ।। कृष्यादि-र्वैश्यवृत्तिः । आदिपदेन चौर्यादिकं गृह्यते । उपक्रियत इत्यत्र उपकारः प््रिायवचनताम्बूल-दानादिः । अपरामर्शेऽदर्शनादित्यत्र अपरामर्शो घटादीनामिवेन्द्रियस्य सम्प््रायोगमात्रं, परामर्शस्तु, अस्ति चेदुपलभ्येत न चोपलभ्यते तस्मान्नास्तीति तर्कः । अभ्युपगच्छति विवक्षितंप्रमेय-मनेनेत्यभ्युपगमः शास्त्ररूपः सिद्धान्तः । आयाससाध्यबहुतरशास्त्ररचनाच्च,प्रयोजने सत्येव स्यान्नान्यथेति भावः । सौत्राऽपि पदसूचितं विषयाद्यभावं च सूचयति नापि विषय इति ।
भावबोधः
चार्वाकसमयेति ।। तथा च मा भूदचेतनस्य कर्तृत्वम्, शरीरस्य चेतनत्वेन कर्तृत्वापत्ते-रीश्वरवैयर्थ्यात् । न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्तः । तस्याप्रामाण्याङ्गीकारा-दित्यभ्यधिकाशङ्कया पूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ।। युक्तं न वेति ।। अत्रेश्वरस्य जगत्कर्तृत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं चार्वाकसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं तच्छास्त्रे विषयप्रयोजनादिकमस्त्युत नास्तीति । पूर्वपूर्वस्मादिति ।। देहरूपचेतनादित्यर्थः ।प्रकारान्तरेणापि देहरूपचेतनोत्पत्युपपत्तिमाह– क्वचिदिति ।। यथा क्रमुकचूर्णपूर्णादीनांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तज्जनकत्वम् । तथा पृथिव्यादिभूतानांप्रत्येकं चैतन्योत्पादकत्वाभावेऽपि समुदितभूतचतुष्टस्य स्वभावादेव चैतन्यजनकत्वोपपत्तेश्चेत्यर्थः । समुदितानामपि भूतानां न सर्वत्र चैतन्योत्पादकत्वमित्यभिप्रेत्य क्वचिदित्युक्तम् । तदभावादिति । श्रुतशास्त्रस्यापि धनाद्यभावदर्शनादित्यर्थः । सूत्रभाष्ययोरर्थप्रयोजनशब्दाभ्यां न केवलं फलमात्रं विवक्षितम्, किं तु विषयोऽपीत्याह– नापि विषय इति ।। अपरामर्शे अदर्शनादिति । इन्द्रियसन्निकृष्टघटादिप्रतियोगिकाभावज्ञानस्येव धर्माद्यभावज्ञानस्य सदिति जायमानस्याऽ-दर्शनादित्यर्थः ।
ननु घटोऽस्ति न वेति परामर्शानन्तरं घटो नास्ति अनुपलभ्यमानत्वादिति घटाभावज्ञान-वदत्रापि धर्माभावज्ञानं स्यादित्यत आह– परामर्श इति ।। अनुमानं तु त्वन्मते नप्रमाणमिति भावः । विरोधस्फोटकसौत्रादिपदव्याख्यानरूपं स्वव्याहतेरेवेति भाष्यं व्याचष्टे– अतः सिद्धान्तेऽपीति ।। अनेन सौत्राभ्युपगमशब्दार्थोऽप्युक्त इति । ‘सिद्धान्त’ इति ‘मास्तुप्रयोजनम्’ इत्युक्त्योर्व्याहतिमुपपादयितुं तदर्थयोर्विरोधमाह– न ह्यभ्युपगम इति ।।
भावदीपः
अत एवेत्युक्तार्थम् । एवमग्रेऽपि । कथं तर्हिप्रथमोत्पत्तिरित्यत आह ।। क्वचिदिति ।। धान्यादितो यथा मदिरोत्पत्तिस्तथा पृथिव्यादिभूतस्वभावादेवेत्यर्थः । पूर्वोक्तदोषास्पृष्टतामाह ।। न चेति ।। ‘चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्’ इत्यनुभाष्योक्ततन्मतानुरोधेन हेतुमाह ।। तस्येति ।। यस्येत्यादिभाष्यसूचितमाह ।। तदनभ्युपगमादिति ।। कार्यानुत्पत्तिरेव बाधिकेत्यत आह ।। न ह्येतस्येति ।। अत इति ।। दृष्टसामग््रयैव कार्योत्पत्तिसम्भवादित्यर्थः । किंप्रयोजनमिति भाष्यंप्रश्नार्थत्वेन व्याचष्टे ।। तत्रप्रष्टव्यमिति ।। किं शब्दस्याक्षेपार्थत्वं मत्वा यस्येत्यादिभाष्यतात्पर्यमाह ।। न तावदिति ।। भाष्येऽधर्मशब्दो धर्मादन्यतज्जन्यस्वर्गादिपर इति दर्शितम् । एतेनाभ्युपगमेऽपि त्वदीयसिद्धान्तेऽप्यर्थाभावात् धर्मादिलक्षणादृष्टरूपप्रयोजनाभावा-भ्युपगमाददृष्टंप्रयोजनं नास्तीति सूत्रार्थो दर्शितः । आक्षेपार्थकभाष्यस्थकिंशब्देन सूचितं दृष्ट-फलाभावं च व्यनक्ति ।। नापीत्यादिना ।। वार्ता वाणिज्यम् । एतेनार्थाभावात् शास्त्रेण धनादिरूपदृष्टप्रयोजनाभावात् । अभ्युपगमे त्वदीयसिद्धान्ते दृष्टमपिप्रयोजनं नास्तीति सूत्रार्थो दर्शितः । न च तेन लोकोपकारः । धर्माद्यभावज्ञाने परस्परहिंसादिनाऽपकारस्यैव प्राप्तेरिति तत्त्वनिर्णयोक्तं हृदि कृत्वाह ।। न चेति ।। लोकोपकार इति ।। इदानीं धर्मादिबुध्या कामोपभोगोपरुद्धानां लोकानां धर्माद्यभावबोधने यथेष्टंप्रवृत्तिसम्भवादुपकारःप्रयोजनं भवतीत्यर्थः ।। परस्परहिंसेति ।। धनवनिताद्यपहारार्थमिति भावः । एतेनाभ्युपगमेऽपि लोकोप-कारः फलमित्यङ्गीकारेऽपि अर्थाभावाच्छास्त्राल्लोकोपकाररूपप्रयोजनस्याभावात्प्रत्युतानर्थस्यैव भावात् । तत्सिद्धान्ते लोकोपकारोऽपि फलं न भवतीत्यपि सूत्रवृत्तिर्दर्शिता । न चोपकारेण तस्यप्रयोजनं अदृष्टाभावादिति तत्त्वनिर्णयोक्त्यनुरोधेन लोकोपकारेणापि किंप्रयोजनमिति भाष्यार्थमुपेत्याह ।। न चेति ।। अदृष्टाभावेनैव दृष्टमपि नेत्याह ।। नापि दृष्टमिति ।।
ननु कथं दृष्टं नास्ति । उपकारकर्तरि उपकृतो लोकःप्रत्युपकारं करिष्यति । यथा लोके अजाविपालाय तेनोपदिष्टमार्गो लोको द्रविणादि ददाति तद्वदित्यत आह ।। न हीति ।। सत्य-मेतदविपालो लौकिकैरुपक्रियत इति । तदुपकर्तुःप्रत्युपकाराददृष्टमस्तीत्यनुसन्धानस्य सत्त्वात् त्वया तु तदनुसन्धानमदृष्टाभावबोधनेन त्याजितमिति उपकृतोऽपि लोकः किमर्थंप्रत्युपकारं कुर्यादिति भावः । अयमप्यर्थः पूर्ववत्सूत्रारूढ ऊह्यः । भाष्येप्रयोजनपदेनप्रयुज्यतेप्रवर्त्यते अधिकारी येनेति व्युत्पत्या विषयपरोऽपीति भावेन तद्भाष्यं विषयाक्षेपपरतया व्याचष्टे ।। नापीति ।। अप्राप्त इति ।। मानान्तरावेद्यस्यैव शास्त्रवेद्यत्वादित्यर्थः । एतेनार्थाभावात् दृष्टादृष्ट-रूपविषयाभावादिति सूत्रार्थो दर्शितः ।। अपरामर्श इति ।। धर्मादिकं नास्तिप्रत्यक्षेणानुप-लम्भादित्यादिपरामर्शाभावे धर्माद्यभावस्याप्रतीतेः ।। परामर्श इति ।। परामर्शे धर्माद्यभावदर्शनं त्वित्यर्थः । परामर्शपदेनानुमितिकरणस्य दर्शनपदेनानुमितेश्च त्वयैवोक्तत्वादिति भावः । अतः स्वव्याहतेरेवेति भाष्यं विवरितुमाह ।। मास्त्विति ।। अत इति भाष्यस्थपदानुवादः तस्यार्थः ।। सिद्धान्तेऽपीत्यादि ।। एतेनाभ्युपगमेऽप्यर्थाभावादिति सूत्रमर्थगत्या व्याख्यातं भवति । स्वव्याहतिमुपपादयति ।। न हीति ।। मत्सिद्धान्त इत्यनेन सप्रयोजनत्वाद्यविनाभूतसिद्धान्तत्व-मभ्युपगम्य मास्तुप्रयोजनादीत्यनेनाप्रयोजकत्वाद्युक्तिर्व्याहतेत्यर्थः । तेनानिष्टं कथं भवेदित्यनु-व्याख्यानसुधायां नञा निर्दिष्टमनित्यमित्युक्तदिशा वाक्यादौ नेति वक्तव्यमिति निषेधस्या-नित्यत्वान्मे मातेतिप्रयोगः साधुः । अत्र भाष्ये उपेक्ष्य इत्युक्त्या टीकायां न युक्तमित्युक्त्या सूत्रे पूर्वस्मान्नञनुवृत्तिः सूचिता ।। अत इति ।। स्वव्याहतत्वादित्यर्थः ।
अभिनवचन्द्रिका
पूर्वाचेतनादुत्तराचेतनोत्पत्तावपि देहे चैतन्योत्पत्तिः कथमित्यत आह– क्वचिदिति ।। वृक्षान्तरस्य मदिरोत्पादकत्वाभावेऽपि वृक्षविशेषस्य स्वभावात्तज्जनकत्ववत्, घटादिरूपाचेतनेषु चैतन्योत्पादकत्वाभावेऽपि देहरूपाचेतनस्वभावादेव चैतन्योत्पत्तिरिति भावः ।। अतोऽदृष्टस्येति ।। अतीन्द्रियानङ्गीकारे बाधकाभावाददृष्टं वस्त्वेव नास्ति । ततश्च कुत ईश्वरः, कुतस्तमां तज्जगत्कारणत्वं स्यात् । न कुतोऽपीति ईश्वरस्योक्तं जगत्कारणत्वलक्षणं न युक्तमिति प्राप्ते सिद्धान्तयत् सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । तत्र ‘प्रष्टव्यम्’ इत्यारभ्य अधिकरणसमाप्तिपर्यन्तं टीकार्थोऽस्माभिर्न ज्ञात इति टीका न व्याख्यायते ।
पूर्वपक्षस्तु– न युक्तं विष्णोर्जगत्कारणत्वम्, अन्तरेणापीश्वरं पूर्वस्मात्पूर्वस्मादुत्तरोत्तरोत्पत्ति- सम्भवात् । चैतन्योत्पत्तेरपि मदिरोत्पत्तिवत् स्वभावादेवोपपत्तेः । न च श्रुत्यादिबाधो वक्तुं युक्तः । तस्याप्रामाण्यात् । न च तस्याप्रामाण्ये धर्माद्यसिद्धिप्रसङ्गः । अतीन्द्रियवस्तुनोऽ-भावेनेष्टत्वात् । अत ईश्वराभावान्नेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति ।
सिद्धान्तस्तु– युक्तमेव विष्णोर्जगत्कारणत्वं, चार्वाकसमयस्य विषयप्रयोजनादिशून्यत्वेना-प्रमाणत्वेन विरोधाभावात् । तथा हि न तावच्चार्वाकसमयस्यातीन्द्रियं विषयः तदभावात् । नाप्यैन्द्रियिकं, तस्य प्रत्यक्षसिद्धत्वेन शास्त्रानपेक्षणात् । नापि स्वर्गापवर्गादिश्रोतृफलं तद-भावात् । नापि दृष्टं धनादि, तस्य कृष्यादिलघूपायसाध्यत्वात् । नापि प्रणेतुः प्रयोजनं पश्यामः, न च धर्माद्यभावप्रतिपादनद्वारा लोकोपकारः प्रयोजनमिति वाच्यम् । धर्माधर्माद्यभावज्ञाने परस्परहिंसादिना अपकारस्यैव प्राप्तेः । नापि उपकारः स्वतः प्रयोजनम्, सुखदुःखावाप्तिहा-निरूपत्वाभावात् । न वा तेनापि किञ्चित्साध्यं प्रयोजनं पश्यामः । एवंविधे अधिकारी दूरोत्सारितः । तदभावादेव सम्बन्धोऽपि । अतः चार्वाकसमयस्याऽप्रामाणिकत्वाद्युक्तं जगत्कारणत्वं हरेरिति सिद्धम् ।
वाक्यार्थमुक्तावली
ननु लोकायतेनेश्वराद्यनङ्गीकारान्निरीश्वरसांख्यमतसन्निकृष्टत्वात् द्वितीयाधिकरणे वा असाङ्ख्यत्वादतितुच्छत्वाच्च पञ्चमे वा तन्मतं निरसनीयम् । कुतः सेश्वरानन्तर्यम् ? न च वक्तव्यं, न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्त’ इति वक्ष्यमाणाभ्यधिकशङ्कयै-तदानन्तर्यमिति, सर्वसाङ्ख्यदूषणानन्तरमपि अस्या अभ्यधिकाशङ्कायाः कर्तुं युक्तत्वादिति । अत्रोच्यते । न ऋत इत्यादेर्गुणभूतेश्वरविषयत्वाद्व्यतिरेकानवस्थितेरितिप्रथमाधिकरणोक्तदोषो नेत्यभ्यधिकशङ्कया द्वितीये प्राप्ते मा भूत्केवलस्याचेतनस्य कर्तृत्वं मा च भूत् ईश्वरानुगृहीतस्या-चेतनस्य किन्तु शरीरस्य चैतन्याश्रयस्य कर्तृत्वमस्तु । न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्तस्तदप्रामाण्यादित्यभ्यधिकाशङ्कया प्राप्तस्याधिकरणस्य फलतो निरीश्वरसाङ्ख्यानन्तर्योपपत्तेः । अत एव आनन्तर्यसङ्गतिः ।। युक्तमिति ।। विष्णोर्जगत्कर्तृत्वं युक्तमुत चार्वाकसमयविरोधा-दयुक्तमिति चिन्ता । तदर्थं चार्वाकसमयस्य श्रुतिसिद्धान्तविरोधक्षमत्वमस्त्युत विषयादिशून्य-त्वान्नास्तीति ।। पूर्वेति ।। चैतन्याश्रयपित्रादिदेहात् पुत्रोत्पत्तिसम्भवादित्यर्थः । चैतन्यशक्ति-रहितात् गोमयादेः कथं चैतन्यशक्तिकवृश्चिकाद्युत्पत्तिरित्यत आह– क्वचिदिति ।। कारणे मद-शक्त्यभावेऽपि मदिरायां स्वभावादेव वृश्चिकवत् स्वभावादेव तृप्तिकादौ चैतन्योत्पति-र्मदिराद्युत्पत्तिवद्युज्यत इत्यर्थः । एकैकत्र भूते चैतन्यजनकशक्त्यभावेऽपि समुदिते तदुपपत्तेः । क्रमुकचूर्णपर्णानांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तद्दर्शनादिति भावः । सूत्रभाष्ययोरर्थ-प्रयोजनशब्दाभ्यां न केवलं फलमात्रं विवक्षितम् । किन्तु ‘अर्थोऽभिधेयो रैवस्तुप्रयोजननिवृत्तिषु’ इत्यभिधानात्प्रयुज्यते प्रेर्यतेप्रणेताप्रणयने श्रोता श्रवणे येन तत्प््रायोजनमिति व्युत्पत्तेश्च विषयोऽपि विवक्षितः । अधिकारिसम्बन्धयोरुपलक्षणमेतदिति भावेन किंप्रयोजनमिति भाष्यंप्रश्नार्थत्वेन व्याचष्टे ।। तत्रप्रष्टव्यमिति ।। अपेक्षितं खलु शास्त्रेऽधिकार्यादि । तत्र तावत् त्वत्सिद्धान्ते किंप्रयोजनम् ? विषयस्यादृष्टं दृष्टं वेतिप्रश्नार्थः । किंशब्दस्याक्षेपार्थत्वं मत्वा यस्येति भाष्यं तावत्प््रायोजनाक्षेपकत्वेन व्याख्याति ।। न तावदिति ।। भाष्ये धर्माधर्मौ न स्त इत्यतीन्द्रियाभावोक्त्या स्वर्गादिफलाभावोऽप्युक्तप्राय इति भावेन स्वर्गेत्याद्युक्तम् । धर्मस्य फल-साधनत्वात् फलत्वम् ।। तदभावादिति ।। शास्त्रश्रवणेऽपि धनाद्यदर्शनादिति भावः । न तावद्द्रष्टमिति ।। एतेन यस्य धर्माद्यतीन्द्रियं नास्ति तत्सिद्धान्ते किमदृष्टप्रयोजनेनोपकारेणापीतिप्रकारान्तरेण व्याख्यातं भवति ।। अदृष्टनिरपेक्षैरिति ।। एतेन धर्माद्यतीन्द्रियाभावे तत्सिद्धान्तेऽ- दृष्टनिरपेक्षैः आविपालस्य किंप्रयोजनं लभ्यत इतिप्रकारान्तरेण व्याख्यतम् । विषयाक्षेपकतया भाष्यं योजयति ।। नापीति ।। अप्राप्त इति ।। मानान्तरावेद्ये विषये शास्त्रंप्रयोजनवदिति न्यायार्थः ।। अपरामर्श इति ।। इन्द्रियसन्निकृष्टघटादिप्रतियोगिकाभावस्येव धर्माद्यभावज्ञानस्य झडिति जायमानस्यादर्शनादित्यर्थः ।
ननु घटोऽस्ति न वेति परामर्शान्तरं घटो नास्त्यनुपलभ्यमानत्वादिति घटाभावज्ञानवदत्रापि धर्माभावज्ञानं स्यादित्यत आह ।। परामर्श इति ।। अनुमानं तु त्वन्मते नप्रमाणमिति भावः । विरोधस्फोरकसौत्रापि पदव्याख्यानरूपं स्वव्याहतेरेवेति भाष्यं व्याचष्टे । अनेनाभ्युपगमपदं सिद्धान्तान्तरपरमित्युक्तं भवति । अर्थाभावाभ्युपगमादित्यनेनाभ्युपगमेऽपीतिप्रकारान्तरेण व्याख्यातं बोध्यम् । तच्च स्वव्याहत्युपपादकं सूत्रेऽपिपदं विरोधस्फोरकं समुच्चायकं च । अनपेक्षत्वादिति पूर्वसूत्रांशः । अनपेक्षित एवेत्यनुवर्तते । अभ्युपगम इति चात्र विपरिणम्यते । ततश्च न केवलमस्मदुपपादनेन किन्त्वभ्युपगमेऽपि स्वाङ्गीकारेणाप्यभ्युपगमे सिद्धान्तेऽप्यर्था-भावात् विषयप्रयोजनाभावादस्मदुपपादनमन्तरेण त्वयैव सिद्धान्तेऽपिप्रयोजनाद्यभावाभ्युपगमा-दभ्युपगमः स्वसिद्धान्तः स्वव्याहतेरनपेक्षितः उपेक्षणीय एवेति सूत्रार्थः ।
तत्त्वसुबोधिनी
मा भूत् केवलमीश्वरगुणकं वाप्रधानं जडत्वात् कर्तृ, तथापि ईश्वरो न कर्ता देहस्यैव चेतनाचेतनत्वेन कर्तृत्त्वात् ईश्वरस्य व्यर्थत्वात्, न च सांख्यंप्रति इव श्रुत्यादिविरोधः तस्या-प्रमाणत्वादित्याक्षेपेणोत्थानात् । तथा च वस्तुतोऽचेतनस्य देहस्यैव कर्तृत्वाङ्गीकारेण साङ्ख्यमताकृष्टत्वात्तथा उक्तः । सूत्रे वक्ष्यमाणपुरुषाश्मदृष्टान्तनिर्वाहकनिरासविषयत्वात् चानन्तरसङ्गतिसद्भावेन मध्ये चार्वाकस्य निरासः इत्याह ।। चार्वाकेति ।। पूर्वपूर्वस्मादिति ।। देहरूपचेतनादित्यर्थः ।प्रकारान्तरेणापि देहरूपचेतनोत्पत्त्युपपत्तिमाह ।। क्वचिदिति ।। यथा क्रमुकपर्णचूर्णानांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तज्जनकत्वं तथा पृथिव्यादिभूतानां चैतन्योत्पादकत्वाभावेऽपि समुदितभूतचतुष्टयस्य स्वभावादेव चैतन्यजनकत्वोपपत्तेरित्यर्थः । समुदितानामपि भूतानां न सर्वचैतन्योत्पादकत्वमित्यभिप्रेत्य क्वचिदित्युक्तम् । ननु बाधक-सद्भावात् धर्मादिकं अङ्गीकर्तव्यमत आह ।। न हीति ।।
ननु धर्माद्यभावे दृष्टान्ताभावात् कार्यानुत्पाद एव बाधक इत्यत आह ।। न ह्येतस्येति ।। तदभावादिति ।। तस्य धनादेरेतच्छास्त्रसम्बन्धाभावादित्यर्थः । श्रुतशास्त्रस्यापि धनाद्यभाव-दर्शनादिति भावः ।। वार्तादीति ।। धनस्य कृषिगोरक्षणादिरूपप्रवृत्तिसाध्यत्वाच्च नैतत्प्रयोजनत्वमिति भावः ।। तदभावज्ञाने इति ।। धर्माधर्माभावज्ञाने इत्यर्थः ।। न चोपकारोऽपीति ।। सुखदुःखाभावेतरत्वादिति भावः । सूत्रभाष्ययोरर्थप्रयोजनशब्दाभ्यां न केवलं फलमात्रं विवक्षितं किन्तु विषयोऽपीत्याह ।। नापीति ।। कुतो नेत्यत आह ।। अप्राप्त इति ।। केनापिप्रमाणेन अप्राप्त इत्यर्थः । दृष्टविषयस्य तुप्रत्यक्षेणैव प्राप्तेरिति भावः ।
ननु धर्माद्यभाव एव विषयः । न च तत्प््रादर्शनं व्यर्थम्, धर्माद्यभावरूपप्रयोजनवत्वेनैव वैय्यर्थ्याभावादित्याशङ्क्य निषेधति (नापीति) न चेति ।। तदुपायाभावादिति ।। धर्माधर्माद्य-भावप्रतिपादनोपायाभावादित्यर्थः ।प्रत्यक्षमेव तत्रोपाय इत्यत आह ।। न हीति ।। अपरा-मर्शेऽदर्शनादिति ।। इन्द्रियसन्निकृष्टघटादिप्रतियोगिकाभावज्ञानस्येव धर्मादिकं नास्ति,प्रत्यक्षेणानुपलम्भादित्यादिपरामर्शाभावे धर्माद्यभावस्याप्रतीतेरित्यर्थः । ननु घटोऽस्ति न वेति परामर्शानन्तरं घटो नास्त्यनुपलभ्यमानत्वादिति घटाभावज्ञानवदत्रापि परामर्शेन धर्माभावज्ञानं स्यादित्यत आह ।। परामर्शे इति ।। परामर्शेनेत्यनेनानुमितिकरणस्य, दर्शनशब्देनानुमितेश्च त्वयैव वक्तव्यत्वादित्यर्थः । अनुमानं तु त्वन्मतेनप्रमाणमिति भावः । विषयाद्यभावेन नाधिकार्यपि न समयस्य सम्भवति । विषयजिज्ञासयोःप्रयोजनकामस्यैवाधिकारित्वादिति आह ।। विषयेति ।। विरोधस्फोरकसौत्रापिपदव्याख्यानरूपं स्वव्याहतिरेवेति भाष्यं व्याचष्टे ।। अतः सिद्धान्तेऽपीति ।। स्वव्याहतिमुपपादयति ।। न ह्यभ्युपगम इति ।। मत्सिद्धान्तः इत्यनेना-प्रयोजनवत्वोक्तिः व्याहतेत्यर्थः । अत्र भाष्ये अपेक्ष्य इत्यनेन टीकायां न युक्तमित्यनेन च पूर्व-सूत्रान्नञोऽनुवृत्तिर्दर्शिता । अनेन च त्वदीयशास्त्रस्य सिद्धान्तत्वानभ्युपगमेति सिद्धमस्मदिष्टम् । अभ्युपगमेति तद्व्यापकयोः विषयप्रयोजनयोः अभावाभ्युपगमाद्व्याप्त इति सूत्राक्षरयोजना सूचिता ।
वाक्यार्थविवरणम्
ननु सकलपदार्थोत्पत्तिनिमित्तादृष्टापरपर्यायधर्माद्यभावे कार्यानुत्पाद एव बाधक इत्यत आह ।। न हीति ।। एतस्य ।। धर्मादेः । नन्वसङ्गतप्रश्नोऽयमित्यत आह ।। अपेक्षितं हीति ।। यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैवाधिकारित्वेनाधिकारिणः शास्त्रप्रवृत्त्यर्थंप्रयोजनादि-प्रश्नो युक्त इत्यर्थः । आदिपदेन सम्बन्धस्य नियोज्ययजमानादेर्वा ग्रहणम् । फलश्रुतिप्रेर्यो हि नियोज्य इत्येवं नियोज्यत्वादेरपिप्रयोजनादिघटितत्वादित्याशयः ।। तदभावादिति ।। अधिगत-शास्त्रस्यापि धनाद्यभावेन तस्य शास्त्रप्रयोजनत्वायोगादिति भावः ।। वार्तेति ।। कुसीदमुच्यते । आदिपदेन कृष्यादि । तथा च न धनादिप्रयोजनस्य शास्त्रेण जन्यजनकभावादिसम्बन्धो युक्त इति भावः । एवं श्रोतृप्रयोजनाभावमुक्त्वाप्रणेतृप्रयोजनं च निराह ।। न चेति ।। नापीत्यर्थः । शास्त्रप्रणेतुः फलमिति शेषः ।। स्वत इति ।। सुखदुःखावाप्तिहान्योरन्यतरत्वाभावादिति भावः ।। दृष्टमिति ।। उपकारजन्यजनानुरागप्रभवं संपदादिकमित्यर्थः । नेदमपिप्रयोजनं तस्याप्यदृष्टाय-तत्वे तदभावेऽस्याप्यभावादित्याह ।। न हीति ।। अदृष्टनिरपेक्षैरिति ।। कृतघ्नतानिमित्त-प्रत्यवायानुसन्धानशून्यैरित्यर्थः । अदृष्टं च त्वन्मते नास्तीति भावः । यथोक्तमन्यत्र । कृतघ्नता-निमित्तप्रत्यवायानुसन्धाने सत्येवमेतत् । तत्त्वयैव धर्माद्यभावंप्रतिपादयता त्याजितमिति । तद्भावः । धर्माद्यभावः ।। तदुपायेति ।। धर्माद्यभावबोधनोपायेत्यर्थः ।।प्रत्याशेति ।। उक्तरीत्याऽधिकारित्वस्य विषयादिघटितत्वादित्यर्थः ।। अधिकारिणामिति ।। बहुवचनमाद्यर्थे । तेन नियोज्यादिग्रहणम् । सम्बन्धस्य वा सम्बन्धिनामभावे तदयोगादिति ध्येयम् ।
वाक्यार्थमञ्जरी
पूर्वपूर्वस्मादिति ।। देहरूपचेतनादित्यर्थः ।प्रकारान्तरेणापि देहरूपचेतनोत्पत्युपपत्तिमाह ।। क्वचिदिति ।। यथाक्रमुकचूर्णपर्णादीनांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तज्जनकत्वं तथा पृथिव्यादिभूतानांप्रत्येकं चैतन्योत्पादकत्वाभावेऽपि समुचितभूतचतुष्टयस्य स्वभावादेव चैतन्य-जनकत्वोपपत्तेश्चेति भावः । समुचितानामपि भूतानां न सर्वत्र चैतन्योत्पादकत्वमित्यभिप्रेत्य क्वचिदित्युक्तम् ।। श्रुत्यादीति ।। यतो वेत्यादीत्यर्थः । एवमग्रेऽपि । ननु धर्मादेः सकल-जगन्निमित्तकारणत्वे न तदभावे कार्यमात्रविलोपप्रसङ्ग इत्यत आह ।। न हीति ।। अभ्युप-गमेऽपि सिद्धान्तेऽपि अर्थाभावात् विषयप्रयोजनयोरभावात् व्याहतमेतन्मतमित्यर्थः ।। तदभावा-दिति ।। श्रुतशास्त्रस्यापि धनाद्यभावदर्शनादित्यर्थः । वार्ता वाणिज्यम् ।। लोकोपकार इति ।। तथात्वे निरंकुशकामोपभोगप्रवृत्तेरिति भावः । हिंसादिना प्राप्तेन निमित्तेन । शास्त्रप्रवृत्तेः प्राग-धर्मादिशङ्कया मर्यादाभूत् । शास्त्रेण तदभावज्ञाने च परस्परधनवनिताद्यपहारेण परस्परहिंसादिकं स्यात् । तथाचापकार एवानेन कृतः स्यात् । न हि कपर्दिकालाभाय लक्षलाभं नाशयन्नुपकारी भवतीति भावः । अभ्युपेत्याह ।। न चेति ।। सुखदुःखप्राप्तिनिवृत्योरन्यतराभावादितिभावः । दृष्टं जनानुरागप्रभवं धनादि तदप्यदृष्टायत्तमित्याह न हीति ।। अदृष्टेति ।। कृतघ्नतानिमित्तप्रत्य-वायेत्यर्थः । अप्राप्तेप्रमाणान्तरेण ।। अपरामर्श इति ।। इन्द्रियसन्निकृष्टघटादिप्रतियोगिका-भावज्ञानस्येव धर्माद्यभावज्ञानस्य झटिति जायमानस्यादर्शनादित्यर्थः । ननु घटोऽस्ति न वेति विमर्शानन्तरं घटो नास्ति अनुपलभ्यमानत्वादिति घटाभावज्ञानवदत्रापि धर्माद्यभावज्ञानं स्यादित्यत आह ।। परामर्शेति ।। अनुमानं तु त्वन्मते नप्रमाणमिति भावः ।। केति ।। यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैव तत्राधिकारित्वादिति भावः ।। सिद्धान्त इति ।। मास्तुप्रयोजनमित्युक्त्योर्व्याहतिमुपपादयितुं तदर्थयोर्विरोधमाह ।। न हीति ।। सप्रयोजन-स्यैवाभ्युपगमसिद्धान्तत्वादिति भावः ।
।। इति अभ्युपगमाधिकरणम् ।। ३ ।।