ॐ उत्पत्त्यसम्भवात् ॐ
१२. अथ उत्पत्त्यधिकरणम्
सूत्रभाष्यम्
शक्तिपक्षं दूषयति–
।। ॐ उत्पत्त्यसम्भवात् ॐ ।। ४२ ।।
न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ।
सत्तर्कदीपावली
पाशुपतपक्षनिराकरणन्यायेन स्कन्दसूर्यगणेशादिमतान्यपि निराकृतानि वेदितव्यानि । शाक्ते पक्षे तु दोषविशेषसम्भवात् तं दूषयति ।। शक्तिपक्ष इत्यादिना ।। त्रिपुरी भैरवीत्यादिनाभिधेया शक्तिः केवला शक्तिः न ब्रह्मादिजगदुत्पादिका पुरुषरहितत्वात् । न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ।
तत्त्वप्रदीपिका
उक्तन्यायेन निरस्तेऽपि शाक्तेयसमयेऽधिकदूषणविवक्षया पुनरारम्भः । शक्तिस्सर्वज्ञा सर्वेश्वरी सर्वकर्त्री, सदाशिवप्रधानाः सर्वे तदधीना इति शाक्तेया मन्यन्ते । तेऽपि महान्तो मध्यमाः क्षुद्रा इति त्रिविधाः । तत्राऽद्ये पक्षे शक्तिरीषदपि पुरुषाकाङ्क्षिणी नेष्यते । अपरे तदङ्गभूतो दयितः शिवः । चरमे स एव सर्वज्ञादिगुणवान् सदृशो रमणः । तत्र प्रथमतः प्रथमं प्रतिक्षिपति । उत्पत्त्यसम्भवात् । पुरुषेभ्यः स्त्रीपुरुषेभ्यो वोत्पत्तिर्दृष्टा, न स्त्रीभ्य एव । अङ्गादीनामपि ह्यौचथ्यादिभ्यः स्पर्शनाद्यनु-ग्रहादेवोत्पत्तिः ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ।। शक्तीति ।। पूर्वन्यायेन निरस्तमपि शक्तिमतमसाधारण-दोषाविष्कारेण पुनर्दूषयतीति भावः । अत्र विष्णोर्जगत्कारणत्वे शक्तिमतविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णोर्जगत्कारणत्वमुक्तम् । तत्र शाक्तेयमतविरोधेऽनुपपत्तिशङ्का स्यादत-स्तन्निरसनीयमेव । विष्णोर्जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समयविवादः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । शक्तिरेव खलु सार्वज्ञादिगुणशालिनी सकलजगज्जननी श्रुतिस्मृतीतिहासपुराणेषु पठ्यते अतो न हरेर्जगत्कारणत्वलक्षणं सम्भवतीति प्राप्ते सिद्धान्तय-त्सूत्रमुपन्यस्य व्याचष्टे ।। उत्पत्तीति ।। न शक्तेरेव जगत्कर्तृत्वं युक्तम् । पुरुषाननुगृहीतत्त्वात् । न हि पुरुषाननुगृहीतस्त्रीमात्रात् क्वचिदुत्पत्तिर्दृष्टेति भावः ।
गुर्वर्थदीपिका
असाधारणदोषेत्यत्र पुरुषरहितस्त्रीमात्रस्य उत्पादकत्वासम्भवाख्यदोषाविष्कारेणेत्यर्थः । अयं च दोषो न पुरुषेषु स्त्रीरहितपुरुषमात्रादपि द्रोणादीनामुत्पत्तिदर्शनादिति भावेनोक्तम् असाधारणेति ।
भावबोधः
‘निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् दूष्यते’ इत्यनुव्याख्यानानुसारेणानन्तर-सङ्गतिमाह– पूर्वन्यायेनेति ।। युक्तमिति ।। अत्र विष्णोर्जगत्कारणत्वं किं न युक्तमुत युक्तमिति चिन्ता । तदर्थं शक्तिमतं श्रुत्युक्ततदपबाधनक्षमं भवत्युत नेति । तदर्थं तत्परिकल्पितं शक्तेः सर्वकर्तृत्वं सम्भवत्युत पुरुषाननुगृहीतस्त्रीभ्य अपत्योत्पत्त्यदर्शनेन न सम्भवतीति । अनुग्राहक-पुरुषाङ्गीकारपक्षेऽपि तस्योत्पत्त्युपयोगिज्ञानादिसाधनं किमस्त्युत नास्तीति । तस्योत्पत्त्युप युक्तज्ञानाद्यङ्गीकारपक्षेऽपि शक्तेः कर्तृत्वाङ्गीकारे प्रयोजनं किमस्त्युत पाशुपतपक्ष इवानुग्राहक पुरुषस्यैव कर्तृत्वसम्भवान्नास्ति प्रयोजनमिति । ‘तन्नोपपद्यते, तत उत्पत्त्यसम्भवात्’ इत्यनु-व्याख्यानेऽध्याहृतशक्तिमताऽयुक्तत्वे ‘उत्पत्त्यसम्भवात्’ इति सौत्रो हेतुरित्युक्तम् । तत्रासिद्धि-परिहारकतया भाष्यं व्याचष्टे– न शक्तेरेवेति ।। व्याप्तिप्रदर्शनपरत्वेन भाष्यं व्याचष्टे– न हीति ।। उत्पत्तिरपत्योत्पत्तिरित्यर्थः ।
भावदीपः
पूर्वमेवास्य मतस्य तुल्यन्यायतया निराकृतत्वोक्तेरपौनरुक्त्याय निराकृतौ विशेषस्य भावा-च्छक्तिमतं पृथक् । दूष्यत इत्यनुभाष्योक्तं भाष्यस्य भावमाह ।। पूर्वेति ।। दशमस्कन्धेऽपि ‘पाषण्डवामशैवाद्यैर्वेदमार्गाः कलौ यथा’ इति वाममतस्य पृथगुक्तेरिति भावः । महावाममतमाद्य-सूत्रनिरस्यमनुवदति ।। शक्तिरेवेति ।। श्रुतिस्मृतीति ।। सर्वेषामपि तत्परत्वादिति भावः । अनुक्तोपालम्भभ्रान्तिनिरासाय महावाममतनिरासकत्वं स्फोरयन्नञनुवृत्त्या साध्यसाधने आह ।। न शक्तेरेवेति ।। पुरुषाननुगृहीतत्वेऽपि कुतो न कर्तृत्वमित्यतः सौत्रो हेतुरिति भावेन तदुपपादकं भाष्यमनुवदति ।। न हीति ।।
अभिनवचन्द्रिका
पुरुषाननुगृहीतस्त्रीमात्रादिति ।। ननु पुरुषाननुगृहीतस्त्रीमात्रादुत्पत्तिः प्रमाणदृष्टा न भवति, आहोस्वित् प्रत्यक्षदृष्टा भवति । नाद्यः ‘अजामेकां लोहितशुक्लकृष्णाम्’ इति परोदाहृतबह्वागम-सद्भावात् । न द्वितीयः प्रमाणविशेषाभावस्य प्रमेयाभावासम्पादकत्वात् । मा हि भूत् प्रत्यक्षा-भावेन अतीन्द्रियार्थविलोपः, मा च भूत् आगमाभावेन ऐन्द्रियिकार्थविलोपः । किं च पुरुषाननु-गृहीताभ्योऽपि स्त्रीभ्यः घटाद्युत्पत्तिर्दृश्यत इत्यसिद्धिः । अपत्योत्पत्तिर्न दृश्यत इति चेत्, मा दर्शि, न ह्यस्माभिः लौकिकस्त्रीवत् गर्भिणी भूत्वा जगज्जनयित्री शक्तिरित्यभ्युपगम्यते । येन पुरुषानुग्रहोऽपेक्षितः स्यात् । किं नाम सङ्कल्पादेव जगज्जनयित्री शक्तिरभ्युपगम्यते । अन्यथा पुरुषान्महदादिसृष्टिरदृष्टेति ईश्वरादपि जगत्सृष्टिर्न स्यात् । अथ तत्र प्रमाणबलादभ्युपेयं तर्हि इदमप्यभ्युपेयम्, विशेषादिति चेत्, मैवम् । शक्तिः सङ्कल्पमात्रेण जगज्जनयित्री इत्यस्यार्थस्य प्रमाणादृष्टत्वादित्याशयात् । यच्च परेणोदाह्रियते न तत् स्वातन्त्र्येण जगत्कर्तृत्वे मानम्, अपि तु ईश्वराधीनतया जगत्कर्तृत्वे मानमिति बोध्यम् ।पूर्वपक्षस्तु– न विष्णोर्जगत्कारणत्वं युक्तम् । शाक्तेयमतविरुद्धत्वात् । शक्तिरेव खलु सार्वज्ञादिगुणशालिनी सकलजगज्जननी श्रुतिस्मृतीतिहासपुराणेषु पठ्यते । अतो लक्षणं हरेर्न युक्तमिति ।
सिद्धान्तस्तु– युक्तमेव हरेर्जगत्कारणत्वं शाक्तेयमतस्याप्रामाणिकत्वेनाविरोधकत्वात् । तथा हि यदुच्यते शक्तिरेव पुरुषाननुगृहीता जगत्कारणमिति न तद्युक्तं, शक्तिरेव पुरुषाननुगृहीता जगत्कारणमित्यस्यार्थस्य प्रमाणादृष्टत्वात् । परोदाहृतानां ‘अजामेकाम्’ इत्यादिप्रमाणानां तु ईश्वराधीनतयैव जगत्कारणत्वाभिधायित्वेनातत्परत्वात् । अपरे तु शाक्ता मन्यन्ते सार्वज्ञादि-गुणविधुरः सदाशिवः शक्त््यनुग्राहकोऽस्ति । तदनुगृहीतायाः शक्तेः जगत्कारणत्वे ‘अजामेकाम्’ इत्यादिश्रुतेः प्रमाणत्वात् । सदाशिवानुगृहीता शक्तिः, जगत्कारणमिति । तन्न सदाशिवस्य ज्ञानादिवैधुर्येणाऽनुग्राहकत्वायोगात् । ये तु शाक्ताः सदाशिवस्य सार्वज्ञादिकं मन्यन्ते तेषां शक्तिकारणत्वाङ्गीकारवैयर्थ्यात् तन्मतं पाशुपतमतेऽन्तर्भवतीति तन्निरासेनैव निरस्तम् । सर्वश्रुतिस्मृतिविरुद्धत्वाच्च सर्वमपि शाक्तेयमतमयुक्तमेवेति, युक्तं विष्णोर्जगज्जन्मादिकारणत्व-लक्षणमिति सिद्धम् ।
।। इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां
तत्त्वप्रकाशिकाऽभिनवचन्द्रिकायां द्वितीयाध्यायस्य द्वितीयः पादः ।।
वाक्यार्थमुक्तावली
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथग्दूष्यत इत्यनुव्याख्यानानुसारेण गतार्थतां परिहर-न्ननन्तरसङ्गतिमाह ।। पूर्वन्यायेनेति ।। अत एव दशमस्कन्धे ‘पाषण्डवामशैवाद्यैः वेदमार्गाः कलौ यथा’ इति वाममतस्य पृथगुक्तिरिति ज्ञेयम् ।। युक्तमिति ।। शाक्तेयमतविरोधादयुक्त-मुतयुक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । शाक्तेयास्त्रिविधा मताः । वामा मध्यमवामा अणुवामाश्चेति । तत्राद्यं सूत्रनिरस्यम् । महावाममतमनुवदति ।। शक्तेरेवेति ।। पुरुषानुग्रहरहिता शक्तिरेव सदाशिवाद्यखिलजगज्जननी । अतः सर्वज्ञादिगुणशालिनीत्यर्थः । तस्यास्सदाशिवाद्याश्च जायन्त इत्यनुव्याख्यानोक्तेरिति सूत्रे शक्तिमतमयुक्तम् । अध्याहृत-साध्येनोत्पत्त्यसम्भवादिति पञ्चम्यान्वयः । शक्तेः जगदुत्पत्त्यसम्भवादित्यर्थः । तदुक्तमनु-व्याख्याने ‘तन्नोपपद्यते । तत उत्पत्त्यसम्भवादिति ।। ननूत्पत्त्यसम्भवस्त्वसिद्ध इत्यतो हेतुं साधयति ।। न शक्तेरेवेति ।। तत्र व्याप्तिप्रदर्शनपरतया भाष्यं योजयति ।। न हीति ।। एतेन पुरुषाननुगृहीतस्त्रीभ्यः कुत्राप्युत्पत्त्यसम्भवात् व्यभिचाराभावात् शक्तेरपि केवलाया उत्पत्त्य-सम्भवात् तन्मतमयुक्तमिति सूत्रार्थ उक्तो भवति । ननु केवलायाः स्त्रियो घटाद्युत्पत्तिदर्शनात् व्यभिचार इति चेदपत्योत्पत्तेरिह विवक्षितत्वात् । उक्तं च सुधायाम् ‘सृष्टिशब्देनापत्योत्पत्ति-र्विवक्षिता न सृष्टिमात्रम् । केवलाभ्योऽपि स्त्रीभ्यो दर्शनात्’ इति । एतेनैतदपि निरस्तम् । शक्तेः लौकिकस्त्रीवत् गर्भिणी भूत्वापत्योत्पादकत्वानङ्गीकारात् सङ्कल्पमात्रेणापत्योत्पादकत्वात् पुरुषानुपयोग इति पुरुषानुग्रहाभावे स्त्रीणामपत्योत्पादकत्वस्य कयापि विधयानुपपत्तेरिति ।
तत्त्वसुबोधिनी
निराकृतौ विशेषस्य भावशक्तिमतं पृथक् दूष्यते इत्यनुव्याख्यानं मनसि निधायानन्तर-सङ्गतिमाह ।। पूर्वन्यायेनेति ।। उत्पत्त्यसम्भवादिति सौत्रहेतोरसिद्धिपरिहारकतया भाष्यं व्याचष्टे न शक्तेरेव इति ।। व्याप्तिप्रदर्शनपरतया भाष्यं व्याचष्टे ।। न हीति ।। उत्पत्तिः अपत्योत्पत्तिः ।
वाक्यार्थविवरणम्
ननु न दूषणीयोऽयं पक्षः । स्कन्दादिमतवदस्यापि पूर्वन्यायेन निरस्तत्वात् । यथा हि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वा असामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते । सम्बन्धानुपपत्त्यादिकं तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्यमेव । अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात् । अथोच्यते । शाक्तमते पाशुपतादावाचारभेदादेः सत्त्वात् सिद्धान्ताविशेषो नास्तीति । तन्न । सौरादिमतेष्वपि तस्य सत्त्वात् । अथ किं तेन । देवतापरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान इति ब्रूषे । तच्छाक्तेऽपि समानमित्यतो नायं पक्षः पृथग्दूष्य इत्याशङ्कायां ‘निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथग् । दूष्यत’ इत्यनुव्याख्यानं हृदि निधायोत्तरमाह ।। पूर्वोक्तन्यायेनेति ।। असाधारणेति । उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणो दोषो न पुरुषदैवतानामिति भावः ।। दूषयति ।। सूत्रकार इति शेषः । ‘तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः । भृतं भौतिकमप्येतत्’ इत्येतदनुसन्धायाह ।। सकलजगज्जननीति ।। इति प्राप्ते ।। महावाममते प्राप्ते सतीत्यर्थः । शक्तेरेव केवलाया इत्यर्थः ।। उत्पत्तिरिति ।। अत्रोत्पत्तिशब्देनापत्योत्पत्तिरिति सुधारीत्या व्याख्येया ।
वाक्यार्थमञ्जरी
पूर्वोक्तन्यायेन असामञ्जस्यादित्यनेन महावाममतमाह ।। शक्तिरेवेति ।। न शक्ते-र्जगत्कारणत्वं कुतः उत्पत्त्यसम्भवात् स्त्रीमात्रादपत्योत्पत्त्यसम्भवादित्यर्थः ।