ॐ हानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॐ
१७. हान्यधिकरणम्
सूत्रभाष्यम्
मुक्तस्योपासना कर्तव्या न वेत्यतो ब्रवीति —
।। ॐ हानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॐ ।। २७ ।।
नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः । ‘ब्रह्मविदाप्नोति परम्’ (तै.उ. ३-१०) इति मोक्षवाक्यशेषत्वादितरेषाम् । तच्चोक्तम्— ‘एतत्सामगायन्नास्ते’ (तै.उ. ३-१०) इत्यादि । ब्रह्मतर्के च
‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।
नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ।।
‘कृष्णो मुक्तैरिज्यते वीतमोहैः’इति च भारते ।।
तत्त्वप्रदीपिका
मुक्तस्योपासना कर्तव्या न वेति निरूप्यते । न कर्तव्येति प्राप्तम् । विध्यभावात् । प्रयोजना-भावाच्च । मोक्षार्थं ह्युपासना । तत्पर्यन्तं च विधेयत्वम् । अतः कुतो मुक्तस्योपासनाप्राप्तिः । कर्तव्यैवेत्यपरः पक्षः । मुक्तस्यापि परतन्त्रत्वात् । तदा तदा विशेषभोगापेक्षयोपास्तिसम्भवादिति । अत आह– हानौ त्वित्यादि सूत्रम् ।। आसंसारहानेर्विहितत्वात्प्रयोजनाय क्रियते । तद्धानौ मोक्षेतूपासना स्वेच्छया क्रियते न कर्तव्यत्वात् । न हि तत्र विधिः । मोक्षवाक्यशेषत्वा-दुपास्तिविधिवाक्यानां मोक्षमुत्पाद्य कृतार्थत्वात् । तस्य च प्राप्तप्राप्यफलस्य साधनानिच्छुत्वात् । न च परतन्त्रत्वेऽपि तदा तदोपास्त्यधीनो मुक्तभोगः । सङ्कल्पादेवेति वक्ष्यमाणत्वात् । न च न क्रियते । ‘एतत्साम गायन्नस्ते’ ‘ऋचां त्वः पोषमास्ते पुपुष्वान्’इत्यादि श्रुतेः ।
‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः’ इति स्मृतेश्च । उपगानं साम्ना । स्तुतिरन्यैः । कुशाद्यैरित्यादिशब्देन प्राङ्मुखत्वादि ।।
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनोपासनस्य मुक्तावप्यनुवृत्तिसमर्थनादस्ति शास्त्रादिसङ्गतिः । मुक्तावुपासन-सिद्धौ तस्य प्रागतिशयेन कर्तव्यतासिद्धेस्तत्समर्थनीयम् । तत्र विषयसंशयौ दर्शयति ।। मुक्तस्येति ।। प्रकृतोपासना विषयः । मुक्तेन क्रियते न वेति सन्देहः । प्राप्तफलत्वं क्रियान्तरश्रुतिश्च सन्देहबीजमिति भावः । मुक्तस्येत्यनेनैव पूर्वपक्षोऽपि सूच्यते । न मुक्तेनोपासना क्रियते । तथा हि । किं मुक्तस्योपासना कर्तव्या न वा । नोभावपि कल्पौ । फलप्राप्तिप्रसङ्गात् । तथा चापूर्णताप्रसक्तेः । आद्ये विधिबद्धत्वेन मुक्तेः संसारसमानधर्मतापत्तेश्च । द्वितीये अविहितत्वादेव करणं च नोपपद्यते । अतः सोपाधिकमेवोपासनमिति भक्तिर्व्यर्थेति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अस्त्येव मोक्षे भगवदुपासना । न च विधिबद्धत्वेन संसारसमानधर्मत्वं मुक्तेः । विनाऽपि विधिं स्वेच्छयोपासनाभ्युपगमात् । न चैवं तत्करणस्यानुपपत्तिः । नियतब्रह्मयज्ञानन्तरमपि कुशैराच्छन्देन स्वेच्छयैव द्विजन्मनां मन्त्रसामाध्ययनादिदर्शनादिति भावः । अस्ति चेदुपासनं मुक्तानां तत्कुतः स्वेच्छया, विधित एव किं न स्यादित्य आह ।। ब्रह्मेति ।। न मुक्तस्योपासनं विधिनिबन्धनम् । सर्वोपासनाविधीनां मोक्षवाक्यशेषत्वात् । ब्रह्मज्ञानेन मोक्ष इत्युक्ते तत्कथं भवेदित्यपेक्षायां तादर्थ्येन उपासनाविधयः प्रवृत्ताः । मोक्षसिद्ध्यर्थं प्रवृत्ता विधयः कथं मुक्तविषया भवेयुरिति भावः । भवेदियं चिन्ता यदि मुक्तस्योपासनमेव स्यात्तदेव कुत इत्यत आह ।। तच्चेति ।। तच्चोपासनं स्वेच्छयेत्यत्र स्मृतिमाह ।। ब्रह्मतर्के चेति ।। किं च मुक्तानां यज्ञादिकर्माप्यास्ति किमुतोपासनमिति भावेनाह ।। कृष्ण इति ।।
गुर्वर्थदीपिका
क्रियान्तरश्रुतिरित्यस्य ‘जक्षन् क्रीडन्रममाणः’ इत्यादिनोक्तभक्षणादिक्रियान्तरश्रुतिरित्यर्थः । फलप्राप्तिप्रसङ्गादित्यस्योपासनायाः कर्तव्यत्वे तज्जन्यसमीचीनफलप्राप्तिः । अकर्तव्यत्वे निषिद्ध-तत्करणेन मुक्तौ विपरीतफलप्राप्तिरित्यर्थः । अतस्सोपाधिकमेवोपासनमित्यत्र सोपाधिकं यावन्मुक्तिक्रियमाणत्वात्संसारोपाधिकमित्यर्थः ।
भावबोधः
प्रागतिशयेन कर्तव्यतासिद्धेरिति । वेधाद्यर्थभेदादिति योग्यफलकमेवोपासनं कर्तव्यं नायोग्यफलकमित्युक्त्याऽर्थादुपासनस्य सोपाधिकत्वप्राप्तावतिशयेन कर्तव्यत्वाभावाक्षेपोदयेऽत्र तन्निरास इत्यनन्तरसङ्गतिरिति भावः ।। विषयसंशयौ दर्शयतीति ।। कर्तव्या न वेत्यस्य क्रियमाणा न वेत्यर्थ इति भावः ।। मुक्तेनेति ।। अत्र उपासना किं मुक्तेन न क्रियते उत क्रियत इति चिन्ता । तदर्थमुपासनाफलेन नियतोत न नियतेति । तदर्थमुपासनाविधयः किं मुक्तानप्यधि-कुर्वन्त्युत नेति । तदर्थं उपासनाविधीनां मोक्षवाक्यमात्रशेषत्वं न सम्भवत्युत सम्भवतीति । तदर्थं उपासनाविधीनां मोक्षार्थत्वं वदन् तदन्यार्थत्वमप्यस्ति उत मोक्षमात्रार्थत्वमिति । तदर्थं मुक्तानां फलान्तरं नास्त्युतास्तीति । तदर्थं मुक्तानामुपासनाफलाभावे न युक्तोत तदभावेऽपि युक्तेति । मुक्तस्योपासना कर्तव्या विहिता न वा । नोभावपि कल्प्यौ । मुक्तत्वादेवेति मुक्तस्येत्यादि-भाष्यस्यार्थान्तरमभिप्रेत्याह– मुक्तस्येत्यनेनैव इत्यादिना । तमेव पूर्वपक्षं मुक्तावुपासनाभावे फलादिकमपि स्यादिति न्यायविवरणानुसारेण प्रपञ्चयति– तथा हीति ।। कर्तव्या न वेति ।। विहिता वा क्रियते, उताविहिता क्रियत इत्यर्थः ।। फलप्राप्तिप्रसङ्गादिति ।। कृष्यादेस्तद्विधि-विषयपुरुषानुष्ठितस्येव तद्विध्यविषयपुरुषानुष्ठितस्यापि धान्यादिफलकत्वदर्शनादिति भावः । इष्टापत्तिपरिहाराय गतादिपदार्थमाह– तथा चेति ।। तत्रत्य ‘आदि’ पदस्यार्थान्तरमाह– आद्य इति ।। अनेन भाष्ये मुक्तस्येत्यनेनोक्तमुक्तत्वहेतुरपि समर्थितो भवति । अत्र सूत्रे ‘हानौ’ इत्यस्य संसारहानिरूपमोक्षार्थत्वं तदनन्तरमुपासनादिविशेष इत्यभिप्रेत्य सौत्रप्रतिज्ञाभागव्याख्यानरूपं मोक्ष उपासनादीति भाष्यं व्याचष्टे– अस्त्येवेति ।। अत्र उपासनादीत्यादिपदं कर्मपरं तच्च कैमुत्येन मुक्तावुपासनासाधनार्थम् । अत एव ‘कृष्णो मुक्तैः’ इत्युदाहृतं प्रमाणं तथैवावतारयिष्यतीति ज्ञातव्यम् ।। स्वेच्छयेति ।। अनेन भाष्ये स्वेच्छयेत्येतदुपासनादीत्यनेनाऽपि सम्बध्यत इत्युक्तं भवति । अत एव समस्तमपि पृथक्कृत्य व्याख्यातम् । विध्यभावे नियमेनोपसनाकरणानुपपत्तिः । कारणाभावादित्याशङ्कापरिहारः संस्काराख्यकारणसत्त्वादिति न्यायविवरण एवोक्तो ज्ञातव्यः ।
ननु कुशाग्रहणस्यापि नियतस्वाध्याये विहितत्वेनैव कारणात् कथं दृष्टान्तत्वमित्यतो भाष्ये नियतस्वाध्यायानन्तरमित्युक्तमित्याशयेन तद्व्याचष्टे– नियतब्रह्मयज्ञेति ।। कुशैरिति ।। कुशग्रहणनेत्यर्थः । अनेन यथाश्रुतसूत्रे विग्रहो दर्शिनः । भाष्ये तु स्वेच्छया कुशग्रहणस्तुत्युप-गानवदिति, आच्छन्दकुशस्तुत्युपगानवदिति सम्बन्धः प्रदर्शित इति ज्ञातव्यम् । स्वेच्छयेति भाष्यानुसारेण विग्रहं सूचयन् सौत्र‘च्छन्द’पदमुपादाय व्याचष्टे– आच्छन्देनेति ।। सौत्र‘स्तु’शब्दः ‘एवार्थः’ इत्यभिप्रेत्य भाष्ये स्तुत्युपगानवदेव चेति सम्बन्धः प्रदर्शितः । तेनापि विधि-व्यवच्छेदकत्वमेव ध्वनितमित्यभिप्रेत्याह– स्वेच्छयैवेति ।। स्तुत्युपगानेत्यस्यार्थो ंमन्त्रसामेति ।। तत्कुत इति ।। दृष्टान्तमात्रेण मुक्तोपासनस्य विधिनिबन्धनत्वाभावासिद्धेरिति भावः । अत्र उपायनशब्दस्य सामीप्यादिमोक्षार्थत्वं इतरेषामित्यध्याहार इत्याशयेन मोक्षवाक्यशेषत्वादितरेषामिति व्याख्यातं भाष्ये ।
ननूपासनायाः साक्षान्मोक्षजनकत्वाभावेन कथं तद्विधीनां मोक्षवाक्यशेषत्वमित्यतः तद्घटयितुं ‘ब्रह्मविदाप्नोति परम्’ इतिवाक्यं चोदाहृतमित्यभिप्रेत्य तद्भाष्यं व्याचष्टे– न मुक्तस्योपासन-मित्यादिना ।।
नन्वत्र मुक्तानामुपासनमेव साध्यते । न तु कर्मापि । असङ्गतत्वात् । तथा च ‘कृष्णो मुक्तैरिज्यते’ इति प्रमाणोदाहरणमसङ्गतमित्याशङ्कापरिहाराय तत्सङ्गतत्वेन व्याख्याति– किञ्चेति ।।
भावदीपः
समर्थनादिति ।। वैफल्यादिना भावशङ्कायां श्रुतिस्मृतिबलेन संस्काराख्यकारणसत्त्वयुक्त्या च समर्थनादित्यर्थः । तस्य कृत्यमाह ।। मुक्ताविति ।। एतेन पूर्वत्रोत्तमाधममध्यमानामुपास्यगुणा निर्णीताः । अधुना तूपासनं सर्वैरवश्यं कर्तव्यमिति कैमुत्यन्यायेनोपपाद्यत इत्यवान्तरसङ्गतिरप्यस्य सूचिता ।। प्रकृतेति ।। यदर्थं गुणोपसंहारो निर्णीतः । यस्याश्च समान इति सूत्रे स्वसदृशफल-कत्वमुक्तं सोपासनाविषय इत्यर्थः ।। क्रियान्तरेति ।। जक्षन् क्रीडन् इत्यादिक्रियान्तरश्रुतिरित्यर्थः । न चैवं मुक्तस्योपासनाऽस्ति न वेति वा, मुक्तेन क्रियते न वेति वा भाषणं स्यादित्यत आह ।। मुक्तस्येत्यनेनैवेति ।। इत्यादिवाक्येनैवेत्यर्थः । भाष्यं चात्यर्थविस्तरमित्युक्तेरिति भावः । भाष्यसूचितप्रतिज्ञामाह ।। न मुक्तेनेति ।। कुत इत्यतो हेतुं वक्तुं भाष्यं प्रश्नपरतया व्याचष्टे ।। किं मुक्तस्येति ।। विधिबलात्क्रियते विध्यभावेऽपि वा क्रियत इति कोट्योरर्थः । भाष्ये शेषमाह ।। नोभावपीति ।। तथा च कोटिद्वयासम्भवान्न मुक्तेनोपासनं क्रियत इत्यर्थः । कुतः कोटिद्वयासम्भवो येन मुक्तस्योपासनं स स्यादित्यतः मुक्तावुपासनाभावे फलादिकमपि स्यादित्यतिप्रसङ्ग इत्यन्यत्रोक्तं हेतुमाह ।। फलप्राप्तीति ।। आद्ये विहितस्य फलव्याप्तत्वान्नित्यकर्मणोऽप्यफलत्वाभावात् । द्वितीये प्रयोजनमनुद्दिश्येति न्यायादिति भावः । एतेन विध्युपाधिना वा तदभावेन वा मुक्तस्योपासनाभावे फलं स्यादिति न्यायविवरणवाक्यार्थो दर्शितः । इष्टापत्तिनिरासाय फलादिकमित्यत्रादिपदार्थं व्यनक्ति ।। तथा चेति ।। ब्रह्म वेद ब्रह्मैव भवतीत्यादिनोक्तपूर्णत्वव्याघात इत्यर्थः । ‘इत्यतिप्रसङ्गः’ इत्यन्यत्रोक्तातिप्रसङ्गं सौत्रदृष्टान्तभागव्यावर्त्यं क्रमेण व्यनक्ति ।। आद्य इति ।। द्वितीय इति च ।। करणं च नोपपद्यत इति ।। कृतिरपि न युक्तेत्यर्थः । न केवलमपूर्णतापत्तिरिति चार्थः । तेन भोजनादिवदविहितस्यापि करणं युक्तमिति निरस्तम् । तत्र तृप्तिरूपफलवदिह फलभावेऽपूर्णतापत्तेरुक्तत्वादिति भावः । एवं भाष्यन्यायविवरणवाक्ये संयोज्य पूर्वपक्षयित्वा फलोक्त्योपसंहरति ।। अत इति ।। अविहितस्य निष्फलस्य च करणानुपपत्तेर्विधिफलोभयो-पाधिकमेवोपासनमिति भक्तिपादोक्तमाहात्म्यज्ञानपूर्वकस्नेहरूपा भगवद्भक्तिर्व्यर्था । विध्यादि-ज्ञानादेव विहितानुष्ठानसम्भवादित्यर्थः ।
केचित्तु सोपाधिकमित्यस्य फलोपाधिकमित्यर्थ इत्याहुः । अन्ये तु संसारोपाधिकमित्यर्थ इत्याहुः । मोक्ष उपासनादीति प्रतिज्ञांशं व्याचष्टे ।। अस्त्येवेति ।। छन्दत इत्याकर्षणाद्वा दृष्टान्तोक्तिलब्धं वा हेतुं व्यावर्त्यपूर्वमाह ।। न चेति ।। एतेन स्वेच्छयेत्यस्योपासनादीत्यत्राप्यन्वयः सूचितः । नियतेत्यादिभाष्यं व्यावर्त्यपूर्वं व्यनक्ति ।। न चैवमिति ।। स्तुत्युपगानशब्दार्थो मन्त्रसामाध्ययनेति । उपगानसाम्ना स्तुतिरन्यैरिति तत्वप्रदीपे । ब्रह्मविदित्यादिभाष्यं शङ्कानिर्वतक-तयोपयोगं वदन् व्याचष्टे ।। अस्ति चेदित्यादिना ।। साध्यमध्याहृत्याह ।। नेति ।। तादर्थ्येनेति ।। ‘आत्मा वा ओ द्रष्टव्यः’ इत्यादिदर्शनानुवादेन श्रोतव्य इत्यादिविधानादिति भावः ।। ब्रह्मतर्के चेतीति ।। तत्र कुशाद्यैरित्यादिशब्देन प्राङ्मुखत्वादिग्राह्यमित्युक्तं तत्वप्रदीपे । कृष्ण इत्यादेरसांगत्यं निराह ।। किं चेति ।। एतेनोपासनादीति भाष्यस्थादिपदार्थो विवृतः ।
अभिनवचन्द्रिका
हानौ मोक्षे, उप समीपे, अयनं गमनं मोक्ष इति यावत् । तस्य शब्दः ‘ब्रह्मविदाप्नोतिपरम्’ इति वाक्यम्, तच्छेषत्वादुपासनाविधीनाम् । कुशैः कुशग्रहणेन, आछन्देन स्वेच्छया, नियतब्रह्मयज्ञानन्तरं ब्राह्मणैः क्रियमाणस्तुत्त्युपगानवत्, मुक्तकर्तृकमुपासनं मन्तव्यम् । न च मोक्षे उपासनमेव नास्तीति वाच्यम् । यस्मात्, तत् उपासनम्, ‘एतत्सामगायन्नास्ते’ इति मोक्षे उक्तमिति सूत्रार्थः ।
अनुवृत्तिसमर्थनादिति ।। फलरूपत्वेनानुवृत्तिसमर्थनादित्यर्थः ।। प्रागतिशयेनेति ।। ज्ञानसाधनत्वमात्रेण कर्तव्यत्वसिद्धावपि तस्य फलरूपत्वानुसन्धानपूर्वकं अतिबहुमानेन कर्तव्यत्वाऽ- सिद्धेरित्यर्थः । एतेन उपासनस्य ज्ञानाभ्यर्हितसाधनत्वेनाऽतिशयेन कर्तव्यतासिद्धिसम्भवात् तदर्थं मुक्तावनुवृत्तिसाधनं व्यर्थम् । किञ्च मुक्तावनुवृत्तिरपि अतिशयेन कर्तव्यतासिद्धिं प्रति अप्रयोजकत्वात् असमर्थनीयेति परास्तम् । तत्समर्थनस्य बहुमानातिशयजननार्थत्वात् । अनपरोक्षिणामपरोक्ष-ज्ञानसाधनमप्युपासनम् अपरोक्षिणाऽनुष्ठितमानन्दातिशयहेतुर्भवति । मुक्तेनाऽनुष्ठीयमानं तु तस्याऽऽनन्दरूपमेव भवतीत्यादिरूपमहिमवर्णने बहुमानातिशयोत्पादात् । हेतुं वक्तुं पृच्छति किं मुक्तस्येति ।। विहिता न वेत्यर्थः ।। नोभावपीति ।। उभावपि कल्पौ न तवाऽनुकूलावित्यर्थः । कल्पद्वये बाधकमाह फलप्राप्तिप्रसङ्गादिति ।। प्राप्तव्यफलत्वप्रसङ्गादित्यर्थः । प्राप्तव्याभावे विध्यसम्भवात् आद्ये प्राप्तव्यफलत्वप्रसङ्गः । द्वितीयेऽपि प्रेक्षावतः प्राप्तव्याभावे प्रवृत्त्ययोगात् । प्राप्तव्यफलत्वप्रसङ्गो दुर्वार इति भावः । इष्टापत्तिवारणायाह तथा चेति ।। मुक्तस्य प्राप्तव्य-सद्भावेऽपूर्णत्वं स्यादिति भावः । आद्ये बाधकान्तरं चाऽस्तीत्याह आद्य इति ।। ‘नोभावपि’ इति पूर्वेण सम्बन्धः । कल्पद्वयेऽपि अपूर्णत्वलक्षणबाधकसद्भावात्, आद्ये मुक्तेः संसारत्वापत्ति-रूपबाधकान्तरसद्भावाच्च, नोभावपि कल्पौ तवानुकूलाविति भावः ।
ननु द्वितीयपक्षो ममाऽनुकूलः । न चापूर्णत्वप्रसङ्गः । प्राप्तव्यफलानङ्गीकारात् । न च प्रवृत्त्यनुपपत्तिः विष्टिगृहीतवत् कस्यचिद्भयादेव प्रवृत्त्युपपत्तेरित्यत आह द्वितीय इति ।। चशब्द एवार्थे । द्वितीयपक्षे केनचित्पुरुषेण विपक्षे दण्डप्रदर्शनपूर्वकम्, अविहितत्वादेव ‘उपासनं कर्तव्यम्’ इत्यनुक्तत्वादेव करणमेव नोपपद्यत इत्यर्थः । इदमुक्तं भवति । आद्ये कल्पे सिद्धान्तिनः मुक्ते-नोपासना क्रियत इति साधनाय प्रवृत्तिरुपपद्यते । परस्तु बाधकवशान्न सिध्यति । द्वितीये तु उपासनासाधनाय प्रवृत्तिरेव नोपपद्यते असम्भावितत्वात्, सम्भावितस्यैव साधनार्हत्वात् । ततश्च द्वितीयोऽपि न तवाऽनुकूल इति । एतेन अविहितस्यापि लोके फलाय करणदर्शनात् ‘अविहितत्वादेव करणं नोपपद्यत’ इत्ययुक्तमिति परास्तम् ।। भक्तिर्व्यर्थेति ।। आदरो व्यर्थ इत्यर्थः । मास्तु मुक्तस्येति । मास्तु मुक्तस्योपासनं विधिवाक्यकारितम् । तथापि स्वेच्छयैवो-पासनादौ प्रवृत्तिरिति नाऽभ्युपगन्तव्यम् । उपासनाऽनिष्टनिवृत्त्योः कार्यकारणभावग्राहकप्रत्यक्षेणैव प्रवृत्त्युपपत्तेः फलानुसन्धानमन्तरा इच्छामात्रस्य प्रवर्तकत्वादर्शनात् । अथवा पुनरस्तु विधिवाक्येनैव प्रवृत्तिः । न च मोक्षवाक्यशेषस्योपासनाविधेः उपासनाया मोक्षसाधनत्व एव तात्पर्यात् । न फलान्तराय प्रवर्तकत्वमुपपन्नमिति वाच्यम् । उभयत्रापि तात्पर्यसम्भवादित्याशङ्कां परिहरत्सूत्रं व्याचष्ट इत्यर्थः ।
पूर्वपक्षस्तु– न मुक्तेनोपासना क्रियते । तथा हि इदं तावदयं प्रष्टव्यः । मुक्तस्योपासनं विधीयते उत नेति । न तावदाद्यकल्पाश्रयणेनोपासनं मुक्तस्य वक्तुं शक्यम् । फलप्राप्तिप्रसङ्गात्, मुक्तत्वाभावप्रसङ्गाच्च । नापि द्वितीयकल्पाऽऽश्रयेण उपासनं शक्यमभ्युपगन्तुं प्राप्तव्यफलप्रसङ्गात् । प्राप्तव्यमन्तरा प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, ततश्च सोपाधिकमेवोपासनमिति मुक्तिसाधनत्वादेवोपासनं कार्यम् । न तूपासने आदरातिशय इति ।
सिद्धान्तस्तु– अनुष्ठीयत एव मुक्तैरुपासनम्, ‘एतत्सामगायन्नास्ते’ इति वचनात् । न च विधिबद्धत्वेन संसारसमानधर्मत्वं मुक्तेः । विनाऽपि विधिं स्वेच्छयैवोपासनमित्यङ्गीकारात् । दृश्यते च नियतब्रह्मयज्ञस्वाध्यायानन्तरमपि स्वेच्छयैव कुशैराच्छन्दनेन द्विजन्मनामध्ययनादि । न च अनिष्टपरिहारार्थत्वमेव तस्य किं नाभ्युपगम्यत इति वाच्यम् । साम्पराये तर्तव्याऽभावात् । तदुक्तम् ‘तीर्णो हि सर्वान् शोकान् हृदयस्य भवति’ इति । किञ्च मुक्तैर्यागाद्यपि अनुष्ठीयते । किमुत उपासनम् । तदुक्तं ‘कृष्णो मुक्तैरिज्यते वीतमोहैः’ इति । अतो मुक्तावपि उपासनाऽनुवृत्तेः निरुपाधिकं तत् संसारे कर्तव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
मुक्तावुपासनासिद्धाविति ।। वेधाद्यर्थभेदादिति योग्यफलकमेवोपासनं कार्यम् । नायोग्य-फलकमित्युक्त्यार्थादुपासनस्य फलोपाधिकत्वप्राप्तौ फलप्राप्त्यनन्तरं मुक्तावुपासनासिद्धौ तस्य प्रागतिशयेन कर्तव्यतासिद्धेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । ननु मुक्तावुपासनासिद्धावपि ज्ञानात्पूर्वं ज्ञानानन्तरमानन्दातिशयार्थमादरनैरन्तर्याभ्यामवश्यानुष्ठेयत्वात् कथमतिशयेनाकर्तव्यत्व-मिति चेदतिशयेनाकर्तव्यत्वं नाम निरुपाधिकतयाकर्तव्यत्वस्य विवक्षितत्वात् । न तु निरुपाधिकतयाकर्तव्यत्वमिष्टमेव । एकान्तानां तत्करणस्य फलोपाधिकत्वादिति चेन्न निरुपाधिकतयाकर्तव्यत्वं मुक्तावप्यनुवर्त्यतया केवलं परोपाधिकमेव न भवतीति बुद्ध्याऽननुष्ठेयत्वं विवक्षितम् । तथा मुक्तावुपासनासिद्धौ एवंविधबुद्धेर्भ्रमत्वप्रसङ्गेन तादृशबुद्धिपूर्वमकर्तव्यत्व-प्रसङ्गादिति पर्यवस्यति । वक्ष्यति चातो मुक्तावप्यनुवृत्तेर्निरुपाधिकं तत्संसारे कर्तव्यमेवेति सिद्धमिति । कर्तव्या न वेत्यस्य क्रियमाणा न वेत्यर्थं मनसि निधायाह ।। मुक्तेनेति ।। उपासना मुक्तेन क्रियत उत न क्रियत इति चिन्ता । तदर्थं मुक्तस्योपासना विहिता न वेति । अन्यतरनिर्णयो न सम्भवत्युत सम्भवतीति ।। क्रियान्तरश्रुतिरिति ।। फलानुभवातिरिक्तसामगानादिशास्त्राभ्यास-लक्षणक्रियान्तरश्रुतिरित्यर्थः ।। मुक्तस्येत्यनेनैवेति ।। मुक्तस्योपासना कर्तव्या न वेत्यनेनैव वाक्येनेत्यर्थः । मुक्तस्येत्यनेनातिप्रसङ्गलक्षणपूर्वपक्षन्यायस्य विपर्यये पर्यवसाने युक्तिमात्रोक्त्या न्यायस्य साक्षादनुक्तत्वात् सूच्यत इत्युक्तम् । मुक्तस्योपासना न कर्तव्येत्यंशं साध्यप्रदर्शकतया व्याचष्टे ।। न मुक्तेनेति ।। कुतो नेत्यतो भाष्यं विकल्पपरतया योजयति ।। तथा हीति ।। कर्तव्या न वेति ।। विहिता न वेत्यर्थः । तत्र नेत्यंशं पक्षद्वयप्रतिक्षेपकतया योजयति ।। नोभावपीति ।। कुतो नेत्यतो मुक्तस्येति विपर्यये पर्यवसानेन सूचितं ‘अतिप्रसङ्ग’ इत्युक्तन्यायं व्यनक्ति ।। फलप्राप्तिप्रसङ्गादिति ।। विहितानुष्ठाने सफलस्याविहितकरणे दुष्फलस्य प्राप्तिप्रसङ्गादित्यर्थः । इष्टापत्तिमाशङ्क्यातिप्रसङ्गन्यायं प्रकारान्तरेण विवृणोति । तथा चेति । फलप्राप्त्यङ्गीकार इत्यर्थः । न चापूर्णत्वं युक्तम् । मुक्तत्वादिति विपर्यये पर्यवसानं च द्रष्टव्यमिति भावः । अतिप्रसङ्गं च प्रकारान्तरेण विवृणोति ।। आद्य इति ।। अस्मिन्पक्षे यदि विधिबद्धः स्यात् तदा मुक्तत्व-व्याघातः । अस्ति च मुक्तत्वमिति मुक्तत्वस्य साक्षाद्विपर्यये पर्यवसानमिति द्रष्टव्यम् ।। द्वितीय इति ।। अस्मिन्पक्षे मुक्तस्याविधिबद्धस्योपासनाकरणं च नैव सम्भवतीति साक्षाद्भाष्योक्तमुक्तत्वस्य हेतुत्वमुक्तं भवति । तदेतत्सर्वमभिप्रेत्योक्तं न्यायविवरणे । मुक्तावुपासनाभावेऽफलादिकमपि स्यादित्यतिप्रसङ्ग इति ।। सोपाधिकमेवेति ।। मुक्तानामभावात् केवलं फलोपाधिकत्वेन स्वाभाविकमित्यर्थः ।
सूत्रे तुशब्दोऽवधारणे ।। अस्तीत्यध्याहृतेनान्वेति ।। विधिबन्धं विना स्वेच्छयेति संसारा-द्विशेषद्योतकश्च । अत एव हानाविति विधिबन्धहानाविति संसारसमानधर्मत्वव्यावृत्तये मुक्तिस्वरूपं निरूपितम् । तदुक्तं च तत्त्वप्रदीपे । आसंसारहानेर्विहितत्वात् प्रयोजनाय क्रियते । तद्धानौ तूपासना स्वेच्छया क्रियत इति । तुशब्दश्चशब्दार्थे । तदित्यनेन सम्बद्ध्यते तदुपासनं च शब्दात् कर्म चेत्यर्थः । अत एव भाष्ये उपासनादीत्युक्तम् । तथा च हानौ तु संसाराद्विशेषेण स्वेच्छयात्रोपासनाद्यस्त्येवेति । आद्यपक्षोक्तदोषपरिहारकतया हानौ तदित्यंशं व्याकुर्वन्मोक्षे उपासनादीति भाष्यं व्याचष्टे ।। अस्त्येवेति ।। तर्हि द्वितीयपक्षोक्तदोष इत्याशङ्क्य निषेधति ।। न चैवमिति ।। अविधिबद्धत्व इत्यर्थः । कुत इत्यतस्तत्परिहाराय कुशाच्छन्द इत्ययं सूत्रखण्डः प्रवृत्तः । अत्राप्यवधारणार्थतुशब्दो बुद्ध्या विवेकेन च्छन्देत्यनेनान्वेति । स्तुत्युपगानवदेवेत्यन्वेति । तद्वदेवोपासनादिकार्यं न तस्मात् कश्चिद्विशेषः । अन्यथा तत्कारणमपि न स्यादिति भावेन प्रवृत्तं नियतस्वाध्याय इत्यादिभाष्यं व्याचष्टे ।। नियतब्रह्मयज्ञेति ।। स्तुतिर्मन्त्रः । उपगानं साम तदध्ययनमत्र लक्ष्यत इति भावः । स्वकाले विधिनियतस्वाध्यायानन्तरं संस्काराख्यकारणवशेन कुशग्रहणपूर्वमध्ययनवत् मुक्तानामपि संस्कारवशेनोपासनाकरणमुपपद्यत इति भावः । एतेन कारणमित्युक्तन्यायोऽपि सूत्रारूढो भवति । अङ्गभूतकुशग्रहणमपि स्वेच्छयेति भावेन भाष्ये बुद्ध्या विवेकेनाच्छन्देत्यस्य पूर्वं टीकायां सूत्रानुसारेणाङ्गाङ्गिभावस्फोरणाय कुशैराच्छन्देनेति सहयोगो व्याख्यातः । इतरेषामित्यध्याहृतस्यार्थः सर्वोपासनाविधीनामिति । मोक्षशब्दशेषत्वादिति वाच्ये उपायनेत्युक्तिस्तु अयनेन ज्ञानेन उप समीपेऽयनं गमनं मोक्षवाक्यार्थस्फोरणायोक्तम् । तदप्युपासनाविधीनां मोक्षवाक्यशेषत्वस्फोरणायेति भावेनाह ।। ब्रह्मज्ञानेनेति ।। तदुक्तमित्यत्रापि वार्थस्तुशब्दोऽन्वेति । तथा च तदुपासनश्रुतावुक्तम् । चशब्दात् तत्स्वेच्छायत्तत्वं च ब्रह्मतर्के उक्तमिति सूत्रार्थपरं भाष्यमवतार्य व्याचष्टे । भवेदियमित्यादिना । किमुतोपासनमिति भावेनेति । किमुतोपासनमिति भावेनोपासनादिकार्यमित्यादिशब्देन मुक्तौ कर्मापि क्रियत इत्युक्तेऽर्थे स्मृतिमाहेत्यर्थः । एतेन तच्चोक्तमित्यत्र चशब्दात् मुक्तौ कर्मास्तीत्येतदप्युक्तमित्यर्थ उक्तो भवति ।
तत्त्वसुबोधिनी
प्रागतिशयेनेति ।। वेदाद्यर्थभेदादियोग्यफलकत्वे उपासनं कर्तव्यं नायोग्यफलकमित्युक्तया उपासनस्य सोपाधिकत्वप्राप्तावतिशयेन कर्तव्यत्वाभावाक्षेपोदयेऽत्र तन्निरास इत्यनन्तरसङ्गतिरिति भावः ।। विषयसंशयाविति ।। कर्तव्या न वेत्यस्य क्रियमाणा न वेत्यर्थ इति भावः । मुक्त-स्योपासना कर्तव्या विहिता न वा विहिता नोभावपि कल्पौ मुक्तत्वादेवेति मुक्तस्येति भाष्यस्यार्थन्तरमाह ।। मुक्तस्येत्यनेनैवेति ।। सूचितं पूर्वपक्षं प्रपञ्चयति ।। तथा हीति ।। कर्तव्या न वेति विहिता वा क्रियते न वा विहिता क्रियत इत्यर्थः ।। फलप्राप्तिप्रसङ्गादिति ।। कृष्णादेः तद्विधिविषयपुरुषानुष्ठितस्यैैव तद्विध्यविषयपुरुषानुष्ठितस्यापि धान्यादिफलकत्वदर्शनादिति भावः । इष्टापत्तिमाशङ्क्याह ।। तथा चेति ।। अत्र सूत्रे हानावित्यस्य संहारहानिरूपमोक्षार्थत्वे तदनन्तरं उपासनादिति शेष इत्यभिप्रेत्य सौत्रप्रतिज्ञाभागव्याख्यानरूपं मोक्षोपासनादीति भाष्यं व्याचष्टे ।। अस्त्वेवेति ।। अत्र भाष्ये उपासनादिरित्यादिपदं कर्मपरं तच्च कैमुत्येन मुक्तोपासनार्थम् ।। स्वेच्छयेति ।। एवं च भाष्ये स्वेच्छयेत्येतदुपासनादि इत्यनेनापि सम्बध्यते ।
ननु न कुशाहरणस्यापि नियत स्वाध्यायो विहितत्वेनैवकरणात् कथं दृष्टान्तत्वमित्यभिप्रेत्य प्रवृत्तं नियते भाष्यं व्याचष्टे । नियत ब्रह्म यज्ञेति । कुशैरिति कुशाग्रहणेनेत्यर्थः । आच्छेदपदं व्याचष्टे ।। आच्छन्देनेति ।। सौत्रस्तुशब्दः एवार्थ इत्यभिप्रेत्य भाष्ये स्तुत्युपगानवदेवेति सम्बन्धः । प्रतशितस्त्वेनापि विधिव्यवच्छेदकत्वमेव ध्वनितमित्यभिप्रेत्याह ।। स्वेच्छयैवेति ।। स्तुत्युप-गानेत्यस्यार्थो मन्त्रसामेति तत्कुतः इति । दृष्टान्तमात्रेण मुक्तोपासनस्य विधिनिबन्धत्वाभावा-सिद्धेरिति भावः । अत्रोपासनाशब्दस्य सामीप्यादिमोक्षार्थत्वे इतरेषामित्यध्याहार इत्याशयेन मोक्षवाक्यशेषत्वादितरेषामिति व्याख्यातं भाष्ये । ननूपासनायाः साक्षान्मोक्षजनकत्वाभावेन कथं तद्विधीनां मोक्षवाक्यशेषत्वं इत्यतः तद्घटयितुं ‘ब्रह्मविदाप्नोति परं’ इति वाक्यं उदाहृतमित्यभिप्रेत्य तद्भाष्यं व्याचष्टे ।। न मुक्तोपासनमिति ।। मोक्षवाक्यशेषत्वमुपासनाविधीनामुक्तं प्रकटयति ।। ब्रह्मज्ञानेनेति ।। नन्वत्र मुक्तानामुपासनमिति मोक्षवाक्यशेषत्वं उपासनमेव साध्यते न तु कर्मापि, असङ्गतत्वात् । तथा च ‘कृष्णो मुक्तैः’ इति प्रमाणोदाहरणं असङ्गतमित्याशङ्क्य तत्सङ्गतत्वेन व्याख्याति ।। किं चेति ।।
वाक्यार्थविवरणम्
तस्य प्रागतिशयेनेति ।। यदि मोक्षे उपासना भवेत् तर्हि मोक्षेऽपि निरुपाधिकतया उपासनायाः क्रियमाणत्वात् प्रागपि संसारावस्थायां निरुपाधिकतयैव कर्माद्यपेक्षया अतिशयेन कर्तव्यत्वं स्यात् । मोक्ष उपासनाया असिद्धौ प्रागवस्थायां क्रियमाणोपासनस्य सोपाधिकत्वप्राप्त्या नातिशयेन कर्तव्यत्वसिद्धिरिति भावः । प्राप्तफलत्वं निषेधकोटिप्रापकम् । यज्ञादिक्रियाश्रवणेन तद्वदुपासनापि कर्तव्येति विधिकोटिप्रापकम् ।। कर्तव्येति ।। कर्तव्यतया विहितैव क्रियते न वा अविहितैव क्रियत इत्यर्थः ।। फलप्राप्तीति ।। कृष्यादिकर्तव्यतया तदकर्तव्यतया च विहितानां शूद्राणां ब्राह्मणानां च तत्करणे फलदर्शनादित्यर्थः । समुदायेन दूषयित्वा प्रत्येकं च दूषणमाह ।। आद्य इति ।। आद्ये विहितत्वात् कर्तव्येत्याद्यपक्षे, द्वितीये अविहितैव क्रियत इति द्वितीयपक्षे अविहितस्य करणे अनर्थाख्यफलप्रसङ्ग उक्तः । इदानीमविहितत्वात् करणमेव नोपपद्यत इत्युच्यत इति भेदः ।। सोपाधिकमेवेति ।। फलप्राप्त्यपेक्षया तत्प्राप्तिपर्यन्तमेव कर्तव्यं, न तु तदनन्तर-मपीत्यर्थः ।। भक्तिर्व्यर्थेति ।। भक्तिपूर्विकोपासना व्यर्थेत्यर्थः । न हि वेतनाद्युपाधिना क्रियमाण-राजसेवायां भृत्यादेर्भक्तिर्दृष्टेत्यर्थः । अनुपपत्तिः अविहितत्वादेवेति शेषः ।। मन्त्रसामेति ।। तथा च मन्त्रेण स्तुतः । साम्ना उपगानमिति ध्येयम् ।। विधितः ।। विधिबद्धत्वेन । मोक्षेत्युपगान-शब्दार्थः ।। तादर्थ्येन ब्रह्मज्ञानार्थत्वेन ।। मुक्तविषयाः ।। मुक्तस्य स्वबद्धत्वापादकाः ।। तच्चेतीति ।। तथा च तच्चोपासनं मुक्तानां श्रुतावुक्तमित्यर्थः । भाष्ये एतत्साम सर्वत्र समत्वात् साम तत् । गायन् तद्विषयकोपासनं कुर्वन्नास्त इत्यपि श्रुत्यर्थोऽभिप्रेत इति ध्येयम् । स्मृतौ कुशाग्रैः । कुशग्रहणेनेत्यर्थः ।। कृष्ण इति ।। कृष्णशब्दो मूलरूपभगवद्वाचीति प्रागेवोक्तमिति हृदयम् । भाष्ये हानावित्यस्य व्याख्यानं मोक्ष इति सर्वदुःखहानिरूपत्वादित्याशयः ।
वाक्यार्थमञ्जरी
अतिशयेनेति ।। तथात्वे तस्य मोक्षार्थमेवानुष्ठितव्यत्वेन सोपाधिकत्वप्राप्तेरित्यर्थः ।। क्रियान्तरेति ।। यज्ञादिक्रियाश्रवणमित्यर्थः ।। कर्तव्या न वेति ।। विहिता वा क्रियते उताविहिता वा क्रियत इत्यर्थः ।। फलाप्राप्तिप्रसङ्गादिति ।। कृष्यादेस्तद्विधिविषयपुरुषानुष्ठितस्येव तद्विध्य-विषयपुरुषानुष्ठितस्यापि धान्यादिफलकत्वदर्शनादिति भावः । इष्टापत्तिं परिहरति ।। तथा चेति ।।
ॐ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॐ ।। हानौ संसारहानि-रूपमुक्तौ उपासनमस्त्येव कुतः यतस्तदुक्तं तत् मुक्तोपासनं, एतत्सामगायन्निति श्रुत्युक्तं तदपि स्वेच्छया न विधितः उपासनाविधीनामुपायनशब्दशेषत्वात् । उपायनं मोक्षः तस्य शब्दः ब्रह्मविदाप्नोतीति वाक्यं तच्छेषत्वात् तदर्थोपयुक्तार्थपरत्वात् विध्यभावे स्वेच्छामात्रेण कथं तत् कुशाच्छन्दस्तुत्युपगानवत् कुशैः कुशग्रहणेनाच्छन्देन स्वेच्छया स्तुतिर्मन्त्रः उपगानं साम तदुभयाध्ययनवदित्यर्थः ।। तत्कुत इति ।। दृष्टान्तमात्रस्यासाधकत्वादिति भावः । शेषोक्तिं व्यनक्ति ।। ब्रह्मज्ञानेनेति ।। अप्रयोजकत्वं परिहरति ।। मोक्षसिद्ध्यर्थं चेति ।। विधेः फला-वसानत्वादिति भावः । एवं मुक्तोपासनस्य विधिनिबन्धनत्वाभावमङ्गीकृत्य स्वेच्छयैवोपासन-मित्येतन्न युक्तमित्युक्तम् । इदानीं तस्य विधिनिबन्धनत्वेऽपि न दोष इत्यत आह ।। किं चोपासनेति ।। उपायनशब्दशेषत्वादित्यनेन मुक्तोपासनस्य मोक्षफलकत्वाभावसिद्धावपि फलान्तरार्थत्वाभावासिद्धेरिति भावः ।