ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ
६. अथ आरम्भणाधिकरणम्
सूत्रभाष्यम्
।। ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ।। १५ ।।
स्वतन्त्रबहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ‘किं स्विदासीदधिष्ठानमारम्भणं कतमस्त्वित्कथाऽऽसीत्’ (ऋ.सं.१०-८१-२) इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।
‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते ।
साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ।।
सत्तर्कदीपावली
साधननिरपेक्षमेव जगज्जन्मादिकर्तृत्वमभिप्रेतं यद्विष्णोस्तद्युक्तिविरुद्धमित्याक्षिप्य समर्थयति ।। तदनन्यत्वमित्यादिना ।। यदुक्तं कुलालादेः साधनसापेक्षं कर्तृत्वं असमर्थत्वाद्विष्णुस्त्वचिन्त्य-शक्तित्वात्साधननिरपेक्षोऽपि विश्वं सृजति इत्यत्र श्रुतिमुदाहरति ।। किंस्विदिति ।। आरभ्यते येन तदारम्भणं यतो येन कारणादिना भूमिं जनयन्विश्वकर्मा विश्वद्रष्टा द्यां च निर्मितवान् महिना माहात्म्येन तदधिष्ठानमारम्भणं च किमासीत् । पार्थिवतैजसावयव्यवयवानां प्रलयात्किमासीत्कत-मदासीत्कथमासीन्न किमपि न कतमदपि न कथमप्यासीदित्याक्षेपार्थः किंशब्दोऽत्र, न तु प्रश्नार्थः । वाक्यशेषे अधिष्ठानादेरुत्तरत्वेनाश्रवणात् । द्यावाभूमी जनयन् देव एक इति श्रवणाद्विश्वकर्ता विष्णुरेक एव आसीदित्यर्थः । सूत्रगतादिशब्दोपात्तास्तिस्रो युक्तीर्दर्शयति ।। परतन्त्र इति ।।
तत्त्वप्रदीपिका
स्वतन्त्राणि बहूनि च साधनानि पटादिसृष्टौ दृष्टानि । न हि तुरीतन्तुवेमादेः प्रातिस्विककार्यशक्तिः कुविन्दाद्यधीना । अतोऽन्यसामर्थ्यसहकृतः पटादिनिर्माता । ब्रह्मणस्त्वनन्यसामर्थ्यादेव जगत्सृष्टिः । तदनन्यत्वं स्वतन्त्रकारणस्य ब्रह्मणोऽन्यत्वेनाभावः । कुतः ? किं स्विदासीदित्यारम्भणशब्दादिभ्यः । आक्षेपस्वरूपो ह्ययं व्यपदेशः, न प्रश्नस्वरूपः । उत्तरत्राधिष्ठानारम्भणाद्यनुक्तेः ।
तत्त्वप्रकाशिका
अत्र हरेः स्वातन्त्र्येण जगत्कारणत्वे युक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णु-र्जगत्सृष्ट्यादिकर्तेत्युक्तम् । तस्य च स्वतन्त्रसाधनानपेक्षत्वे युक्तिविरोधप्राप्तौ न सर्वगुणत्वं तेन सिध्यतीत्यसौ निराकर्तव्य एव । तज्जगत्सृष्ट्यादिकं विषयः । किं स्वतन्त्रसाधनसापेक्षं न वेति संशयः । लोकदृष्टिरलौकिकत्वं च सन्देहबीजम् । स्वतन्त्रसाधनसापेक्षमिति पूर्वः पक्षः । विप्रतिपन्ना सृष्टिः कर्तृव्यतिरिक्तस्वतन्त्रसाधनसापेक्षा सृष्टित्वात् घटादिसृष्टिवदिति युक्तिसिद्धत्वात् । अन्यथा तद्विरोधात् । घटसृष्टौ मृदादीनि खलु स्वतन्त्रसाधनानि । तानि विना सृष्ट्यनुपपत्तेः । अतो ब्रह्म स्वतन्त्रसाधनसापेक्षमेव सृष्ट्यादिकर्त्रिति न तस्य जगज्जन्मादिकारणत्वेन सर्वगुणपूर्णत्वसिद्धिरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। तदनन्यत्वमिति ।। यद्यपि घटादिसृष्टिः स्वतन्त्रबहुसाधन-सापेक्षा दृष्टा तथापि नैतद्दृष्टान्तेन ब्रह्मणो जगत्सृष्टिस्तथा कल्प्या किन्तु स्वतन्त्रसाधनस्य तदनन्य-त्वम् । किमुक्तं भवति । स्वरूपसामर्थ्यादेव तस्य सृष्टिः । कुतः । यतः किं स्विदिति श्रुतावधि-ष्ठानादिसाधनाद्याक्षेपः क्रियते । आक्षेपस्य विपर्यये पर्यवसानात् । अनुमानं तु श्रुतिविरोधाद-प्रमाणमेवेति भावः । ईश्वरसृष्टेः स्वतन्त्रसाधनसापेक्षत्वमात्रसाधने सिद्धसाधनता स्यादिति बह्वित्युक्तम् । विश्वकर्मा हरिः यतो येनाधिष्ठानादिना भूमिं द्यां च जनयन् जनयिता विशेषेण बभूव । येन च महिम्ना विश्वतश्चक्षुरावृणोत्तदधिष्ठानं किमासीत् । आरभ्येतेऽनेनेत्यारम्भणं साधनं वा कतमदासीत् । कथं रूपं चासीत् । न किञ्चित्कथमपीत्यर्थः । किंशब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नोऽयं किं न स्यादित्यत आह ।। अधिष्ठानादिति ।। प्रश्नश्चेत्परिहारो वक्तव्यः । किं स्विद्धिमस्य भेषजमित्यादिवत् । अत्र परिहारायाधिष्ठानाद्यनुक्तेर्नायं प्रश्नः किं त्वाक्षेप एवेति भावः । युक्तिविरुद्धं चानुमानमिति भावेनाह ।। आदीति ।। अत्रापरतन्त्रत्वात्स्वतन्त्रत्वात्साधनसत्ता-प्रदत्वादिति व्यतिरेकिहेतुत्रयं सूचितं भवति ।
गुर्वर्थदीपिका
दण्डमृत्पिण्डादीनां जडत्वेन प्रवृत्तौ कुम्भकारापेक्षायामपि घटान्वयव्यतिरेकप्रयुक्तस्वकारण-त्वेन न तदपेक्षेति भावेनोक्तं घटसृष्टौ मृदादीनि खलु स्वतन्त्रसाधनानीति । स्वतन्त्रसाधनस्य तदनन्यत्वमित्यत्र नाध्याहारदोषः परेण शङ्कनीयः । जगत इत्यध्याहारस्य परेणापि कार्यत्वात् । इयांस्तु विशेषः । ‘सत्त्वाच्चावरस्य’ इत्युत्तरसूत्रे अस्वतन्त्रसाधनस्याङ्गीकृतत्वात् । प्रथमसूत्रे स्वतन्त्रकारणस्येत्यध्याहारस्य सूत्रसूचितत्वमित्यस्माकं गुणः । परस्य तु निर्मूलाध्याहाराख्य-दोषश्च । ‘अधिष्ठानं किंस्विदासीत्’ न किञ्चित् ‘आरम्भणं कतमस्त्विदासीत्’ न कतमदिति उभे आक्षिप्य कथाकथं केन प्रकारेण आसीदित्यनेन अण्डान्तःप्रकृत्यादीनां भूम्यादेः सृष्टत्वात् अण्डस्याधिष्ठानत्वं प्रकृत्यादेरारम्भणत्वं च केनचिदविवेकिना कल्प्यते चेदादिकूर्मेणाण्ड-धारणायाण्डादधस्तादपि विद्यमानस्य कथं तदण्डमधिष्ठानं, ‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम्’ इति वचनात् भगवत्प्रेरणां विना चलितुं महदाद्याकारेण परिणमितुं चासमर्था प्रकृतिः कथं तस्यैव स्वतन्त्रमारम्भणं, न हि मातुः स्कन्धमधिरूढः स्तनन्धयः शिशुः मातुरेवाधिष्ठानादिकमित्याक्षेपिकीं युक्तिं सूचयति । अत एव प्रकारस्यात्य-पशब्दत्वात् प्रयोगमपि कथेत्यपशब्दीचकार । न चायं प्रश्नः ‘कश्चिदेकाकी चरति’ इत्यस्य ‘सूर्य एकाकी चरति’ इति वदुत्तराभावात् । ईश्वरसृष्टेरित्यत्र ईश्वराख्यस्वतन्त्रसाधनस्यैव सिद्धत्वात् सिद्धसाधनतेत्यर्थः ।
भावबोधः
युक्तिविरोधपरिहारादिति ।। ‘बहुयुक्तयः’ इत्यनुव्याख्यानानुसारेण बाहुल्यलक्षणबलव-द्युक्तिविरोधपरिहारायेदमधिकरणमारभ्यत इति सुधायामेवाधिकरणोपाधेरुक्तत्वेनागतार्थता । यदि लोकानुसारेण श्रुत्युक्तजीवब्रह्मैक्यस्य स्थानैक्यादिरूपत्वं तर्हि लोकानुसारादेव ‘यतो वा’ इत्यादि श्रुत्युक्तेश्वरकर्तृकसृष्टेरपि स्वतन्त्रसाधनसापेक्षत्वं स्यादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति ज्ञातव्यम् । अत एव स्वतन्त्रबहुसाधना सृष्टिर्लोके दृष्टेत्युक्तम् ।। किमिति ।। अत्रेश्वर-कर्तृकमहदादिसृष्टिः किं कर्तृव्यतिरिक्तस्वतन्त्रसाधनसापेक्षोत तन्निरपेक्षेति चिन्ता । तदर्थं तन्निरपेक्षत्वे युक्तिविरोधः प्राप्नोति उत नेति । तदर्थं सृष्टित्वादिरूपा युक्तिः किं श्रुतियुक्ति-विरुद्धा न भवत्युत भवतीति । तदर्थं ‘किं स्विदासीत्’ इति श्रौतः ‘किं’ शब्दः किं प्रश्नार्थ उत आक्षेपार्थ इति । तदर्थं स्वतन्त्रसाधनपरोत परतन्त्रसाधनपरेति । तदर्थं परतन्त्रसाधन-परत्वेऽपि अबादीनां स्वरूपनिषेधपरोत स्वातन्त्र्यादितद्धर्मनिषेधपरेति । तदर्थं जगदुपादानादि-साधनान्तरसद्भावे तस्य परमात्मतन्त्रत्वे च प्रमाणं नास्त्युतास्तीति ।। विप्रतिपन्ना सृष्टिरिति ।। अनेन लौकिकसर्वकार्यानुसारेणाकर्तृत्वं सर्वानुसार इति न्यायविवरणं व्याख्यातं भवति । स्वतन्त्रसाधनस्येति सूत्रे शेषोक्तिरियम् । स्वतन्त्रसाधनमन्यदङ्गीकृत्य तस्य ब्रह्माभेद उच्यत इत्यन्यथाप्रतीतिनिरासाय भाष्यं सूत्रतात्पर्यकथनपरत्वेन योजयति किमुक्तं भवतीति; स्वरूप-सामर्थ्यादेव । न तु साधनान्तरापेक्षयेत्यर्थः । एवञ्च स्वतन्त्रकारणस्य तदनन्यत्वमित्युक्ते स्वतन्त्रं कारणं तदेव नान्यदिति लभ्यत इति सूत्रभाष्ययोरेकार्थत्वमिति भावः । अनेन तद्वैलक्षण्येन सर्वकर्तृविलक्षणशक्तित्वमेवेति न्यायविवरणांशस्यापि तात्पर्यमुक्तं भवति ।। यत इति ।। उप-लक्षणमेतत् । एष सर्वेश्वर इति न्यायविवरणोदाहृतश्रुतिरपि द्रष्टव्या । अनेन विलक्षणशक्ति-त्वमेव सर्वश्रुत्यनुसारीत्यंशोऽपि व्याख्यातः ।। अधिष्ठानादिसाधनाद्याक्षेपः क्रियत इति ।। न चैवम् आरम्भणाद्याक्षेपशब्दादिभ्य इति सूत्रे निर्देशः स्यादिति वाच्यम्; आरम्भणशब्देना-धिष्ठानादिसाधनजातमुपलक्ष्यते । तेन च तदाक्षेपो लक्ष्यत इति लक्षितलक्षणायास्यैवार्थस्य विवक्षितत्वादिति भावः । यद्यपि ‘साधकतमं करणम्’ इति स्मरणेन शब्दादप्यर्थप्राधान्यस्य बलवत्त्वादारम्भणशब्दः सूत्रे उपात्तः । तथापि श्रौतनिर्देशानुसारेणाधिष्ठानाद्याक्षेप इत्युक्तम् ।। विपर्यये पर्यवसानादिति ।। नन्वेवं सति किंस्विदिति श्रुतेरधिष्ठानादिकारणान्तराभावप्रतिपाद-कत्वात् कथं स्वतन्त्रकारणस्य ब्रह्मानन्यत्वे प्रमाणत्वेन तदुपन्यास इति चेत्, न; अभिप्राय-सद्भावात् । ‘सत्त्वाच्चावरस्य’ इत्यादिना ब्रह्मातिरिक्तकारणसद्भावो हि वक्ष्यते । अनया च श्रुत्या तदभावोऽवगम्यत इत्यर्थात् स्वतन्त्रकारणाभाव एव सिध्यतीति । अत एव वक्ष्यति साधनाद्याक्षेपस्तत्सद्भावोक्त्यन्यथानुपपत्तिश्चास्य समाधानमिति ।। बह्वित्युक्तमिति ।। न चैवमपि महदादिसृष्टेरीश्वरतज्ज्ञानेच्छादिस्वतन्त्रबहुसाधनसाध्यत्वे पुनः सिद्धसाधनतैवेति वाच्यं; कर्तृव्यतिरिक्तस्वतन्त्रसाधनजन्यत्वस्य विवक्षितत्वात् । अत एव प्रागेवं साध्यनिर्देशः कुतः । ईश्वरज्ञानेच्छादीनां तु तत्कर्तृत्वान्तर्गतत्वेन तदनतिरिक्तत्वेन न तदादाय दोषतादवस्थ्यमिति भावः । तदुक्तं कर्मनिर्णयटीकायाम् ‘कर्तृत्वञ्च कार्यकारणं क्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञः सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्वित एवोक्तो भवति’ इति । ‘वि’ इत्युपसर्गाद् बभूवेति शेषोक्तिः ।। कतमदासीदिति ।। किमासीदित्यर्थः । कथेत्यस्यार्थः कथं रूपमिति ।। इत्यादिवदिति ।। इत्यादेः प्रश्नस्य ‘अग्निर्हिमस्य भेषजम्’ इत्यादिपरिहारवदित्यर्थः ।। युक्तिविरुद्धं चेति ।। अनेन विलक्षणशक्तित्वमेवाशेषयुक्त्यनुसारीति न्यायविवरणमप्युक्ततात्पर्यकं भवति । अनुमानं तु श्रुतिविरोधादप्रमाणमिति पूर्ववाक्येनैतद्वाक्येन च युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवतीति न्यायविवरणमप्युक्ततात्पर्यकं भवति । भाष्ये युक्ति-भिश्चेति बहुवचनं प्रयुज्य तद्युक्तिप्रतिपादकतया ‘परतन्त्रो हीति’ प्रमाणोदाहरणादाह– अत्रेति ।। ईश्वरो महदादिसृष्टौ स्वव्यतिरिक्तस्वतन्त्रसाधननिरपेक्ष इति प्रतिज्ञायामित्यर्थः । अपर-तन्त्रत्वादिति ।।
ननु परानपेक्षत्वं स्वतन्त्रत्वमित्यन्यत्र व्याख्यातत्वेन हेत्वोरभेद इति चेत्, न; परसापेक्षत्वा- भावोऽपरतन्त्रत्वं स्वेच्छानुसारित्वं स्वतन्त्रत्वमिति विवक्षितत्वादिति भावः । यथोक्तमनुव्याख्याने–
‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः’ इति ।
हेतुत्रयं सूचितमिति ।। ‘परतन्त्रो ह्यपेक्षेत’ इत्यादिव्यतिरेकप्रदर्शनेनेत्यर्थः ।
भावदीपः
युक्तीति ।। साधनान्तराणां सत्ताशक्त्यादेः स्वातन्त्र्यसाधकबहुयुक्तिविरोधपरिहारादित्यर्थः । तेन जगत्सृष्ट्यादिकर्तृत्वेनेत्यर्थः । तादृशसाधनसापेक्षकर्तरि ब्रह्मादौ सर्वगुणत्वादृष्टेरिति भावः । अत्र जन्मादिसूत्रे विवक्षितं स्वतन्त्रसाधनान्तरानपेक्षकर्तृत्वं न सिद्ध्यतीत्येवोक्तया जन्मादि-सूत्रेणास्य सङ्गतत्वे वाच्ये तेन सर्वगुणत्वं न सिध्यतीति जिज्ञासासूत्रस्थब्रह्मपदोक्तगुणपूर्त्य-सिद्ध्युक्तिस्तु जन्मादिसूत्रे तादृशकर्तृत्वविवक्षाभावे गुणपूर्त्यसिद्ध्या जिज्ञासाया एवासिद्धिरिति बाधकोपदर्शनमुखेन तत्सूत्रेण तादृशकर्तृत्वस्य विवक्षितत्वं दर्शयितुम् ।। स्वतन्त्रेति ।। कर्त्रन्येति योज्यम् । स्वातन्त्र्यं च कर्त्रनधीनसत्तादिमत्त्वम् ।। अलौकिकत्वमिति ।। अन्यभावव्यावृत्ते-श्चेत्यत्रोक्तदिशा स्रष्टुरीशस्यालौकिकत्वाद्वा परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इत्यत्र वक्ष्य-माणदिशा सृष्ट्यादीशगुणजातस्यालौकिकत्वाद्वा ‘उत्ताना वै देवगवा वहन्ति’ इत्यादेरलौकिकानां
देवगवानामुत्तानानामेव वहनमिव स्वतन्त्रसाधनानपेक्षमपि सृष्ट्यादिकं सम्भाव्यत इति भावः । लौकिककार्याणामनुसारेणाकर्तृतन्त्रत्वमिति न्यायविवरणेऽकर्तृतन्त्रत्वमित्यस्य कर्तृव्यतिरिक्त-स्वतन्त्रसाधनाधीनत्वमित्यर्थमुपेत्य दृष्टान्तोक्तिपरस्वतन्त्रेत्यादिभाष्यसूचितां युक्तिमाह ।। विप्रति-पन्नेति ।। सिद्धसाधनतानिरासाय साध्यविशेषणम् । अत्र भाष्यदिशा स्वतन्त्रबहुसाधनसापेक्षेति साध्ये निर्देष्टव्ये न्यायविवरणरीत्या साध्यनिर्देशस्तु ज्ञानेच्छादिकमादाय सिद्धसाधनताव्युदा-साय । कर्मनिर्णयटीकायां कर्तृत्वं च कार्यकारणक्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्द इत्युक्तेः कर्तृव्यतिरिक्तेत्युक्त्यैव ज्ञानेच्छाद्यन्यस्वतन्त्रसाधनसापेक्षेत्यर्थलाभ इति भावः । अत्र साध्ये स्वतन्त्रेत्यनन्तरं सत्ताकेतिप्रवृत्तिकेत्यादिपदप्रक्षेपेण तथा पक्षे सृष्टिपदस्थाने स्थिति-संहृत्यादिपदप्रक्षेपेण च युक्तेर्बाहुल्यं बोध्यम् । वियत्पादे तु श्रुतिप्राप्तं साधनान्तरसत्तादेः स्वातन्त्र्यं निरसिष्यते । अत्र तु युक्तिप्राप्तमिति भावेनोक्तम् ।। युक्तिसिद्धत्वादिति ।। स्वतन्त्र-साधनसापेक्षत्वस्येति योज्यम् । अन्यथा तादृक्साधनानपेक्षत्वे । भाष्योक्तं दृष्टान्तांशं व्यनक्ति ।। घटेति ।। साधनतां तावद्व्यनक्ति ।। तानीति ।। मृदादिसत्ताशक्त्यादेः कुलालानधीनत्वस्य स्फुटत्वात्स्वातन्त्र्यांशो नोपपादितः ।। अत इति ।। युक्तिसिद्धत्वादित्यर्थः । विरोधनिरासाय भाष्यं व्याचष्टे ।। यद्यपीति ।। नैवमित्यादेरर्थो न तद्दृष्टान्तेनेत्यादि । शेषोक्त्या सूत्राक्षरार्थमाह ।। स्वतन्त्रसाधनस्य तदनन्यत्वमिति ।। भाष्यं तु पर्यवसितव्याख्यानमिति भावेनावतारयति ।। किमुक्तं भवतीति ।। न तु स्वतन्त्रमन्यदपेक्ष्येत्येवार्थः । हिर्हेताविति मत्वा भाष्यशेषमवतार्य व्याचष्टे ।। कुतो यत इति ।। सूत्रे आरम्भणशब्द आरभ्यते येनेति व्युत्पत्त्या साधनजातपर इति भावेनोक्तम् ।। अधिष्ठानादीति ।। कथमेतावता उक्तार्थः सिद्ध इत्यत आह ।। विपर्यय इति ।। नास्त्यधिष्ठानादिकं किमप्यतः स्वरूपसामर्थ्यादेव सृष्टिरिति पर्यवसानादित्यर्थः ।। अप्रमाण-मेवेति ।। ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इत्युक्तेरिति भावः ।। बह्वित्युक्तमिति ।। बहुसाधनेति भाष्ये साधनस्य बहुत्वं ज्ञानेच्छाद्यन्यद्दण्डादिस्थानीयसाधनबहुत्वं विवक्षितमिति भावः । सृष्टौ साधनाक्षेपपरत्वप्रतीत्यर्थं यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षा इत्युत्तरार्धं वदन् किंस्विदित्यस्यार्थमाह ।। विश्वकर्मा हरिरिति ।। विइत्यस्य विशेषेण बभूवेति और्णोदित्यस्यावृणोदित्यर्थः । विपर्यये पर्यवसानमाह ।। न किञ्चिदिति ।। अत्र साधनस्वरूपमात्रनिषेधप्रतीतावपि धर्मान्तरेण वाक्यशेषादिति न्यायेन साधकसत्त्वावेदक-वक्ष्यमाणानेकवचनबलात्स्वातन्त्र्येण न किञ्चिदित्यर्थो लभ्यत इति भावः ।। किंस्विदिति ।। तैत्तिरीये किंस्विद्धिमस्य भेषजमित्यस्याग्निर्हिमस्य भेषजमिति यथा परिहारस्तथेत्यर्थः ।। युक्ति-विरुद्धं चेति ।। यद्यपि श्रुतेर्युक्तीनां च स्वरूपसामर्थ्यादेव सृष्टिरिति भाष्योक्तसाध्येनैवान्वयो भाति । तथा सर्वकर्तृविलक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारीति न्यायविवरणोक्तेश्च । अत एव प्राकृतो यत इत्यादिना भाष्यशेषस्तथैव व्याख्यातः । तथा च सामर्थ्यादेव सृष्टिरित्ये-तद्युक्तिभिरपि साधयतीति वक्तव्यम् । तथापि तस्य स्फुटत्वात्तावता प्रागुक्तानुमानस्य दूषणा-प्राप्तेः । युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवतीति न्यायविवरणानुरोधेन युक्तिविरुद्धं चेति भावार्थोक्तिः । अत एव इति भावेनेत्युक्तिः श्रुतिविरोधादप्रमाणमेवेति भावः इत्युक्तिः ।। हेतुत्रयमिति ।। स्वतन्त्रसाधनान्तरनिरपेक्षत्वरूपसाध्य इति भावः ।
अभिनवचन्द्रिका
स्वतन्त्रसाधनानपेक्षत्व इति ।। अत्र साधनानां स्वातन्त्र्यं नाम अपरायत्तसाधनत्वोपेतत्वम् । एतेनाचेतनानां स्वातन्त्र्यायोगात् स्वतन्त्रसाधनानपेक्षत्वे युक्तिविरोधस्यैवाभावेन तत्परिहारप्रयासो व्यर्थ इति परास्तम् ।। तज्जगत्सृष्ट्यादिकं विषय इति ।। अत्र यद्यपि ईश्वरो विषयः स्वतन्त्रसाधनसापेक्षो न वेति सन्देहः । कर्तृत्वमलौकिकत्वं च सन्देहबीजमिति वक्तव्यम्, तथापि स्वतन्त्रसाधनसापेक्ष इति पूर्वपक्षयित्वा स्वतन्त्रसाधनसापेक्षो नेति सिद्धान्तकरणे अस्त्येव किञ्चित्स्वतन्त्रसाधनं परन्तु ईश्वरो न तदपेक्ष इति विज्ञायेत तन्माविज्ञायीति ‘जगत्सृष्ट्यादिकं विषय’ इत्युक्तम् । जगत्सृष्ट्यादेस्तु स्वतन्त्रसाधनानपेक्षत्वे साधिते स्वतन्त्रसाधनं नेत्येव सिध्यति, कार्यानाक्षिप्तस्य कारणत्वायोगात् ।। मृदादीनि खल्विति ।। यद्यपि मृदादीनामपि ईश्वराधीन-साधनत्वात् स्वतन्त्रसाधनत्वं प्रतिवादिनोऽसिद्धमिति साध्यविकलो दृष्टान्तः, तथापि कर्त्रनधीन-साधनसापेक्षत्वस्यैव साध्यत्वात् । मृत्पिण्डादौ च कर्त्रनधीनसाधनत्वसद्भावेन तस्य स्वतन्त्र-साधनत्वात् । तत्सापेक्षत्वात् घटसृष्टेः न साध्यविकलता । मृदादीनां कर्त्रनधीनसाधनत्वमेव कुत इत्यत आह– तानि विनेति ।। यदि मृदादीनां साधनत्वं कुलालाधीनं स्यात्तर्हि तदपहाय स्त्रष्टुं समर्थः स्यात् । न चासौ तथेति न तत्साधनत्वं तदधीनमिति भावः ।। न तद्दृष्टान्तेनेति ।। घटसृष्टिवत् महदादिसृष्टेः स्वतन्त्रसाधनसापेक्षत्वं न कल्प्यमित्यर्थः । तर्हि किं प्रकृत्यादीनां कारणत्वमेव नेति पृच्छति – किन्त्विति ।। उत्तरमाह स्वतन्त्रसाधनस्येति ।। स्वातन्त्रसाधनतया प्रतीयमानस्य प्रकृत्यादेः तव्द्यतिरेकेणासत्त्वं, तदधीनत्वमिति यावत् । प्रकृत्यादीनां स्वातन्त्र्यमेव नास्ति, कारणत्वं तु न विहन्यत इति भावः । आशयमविद्वान् पृच्छति – किमुक्तं भवतीति ।। आशयमुद्धाटयति ।। स्वरूपसामर्थ्यादेवेति ।। सत्यमुपादानादिसापेक्षा भगवत्सृष्टिः, तथापि न स्वतन्त्रसाधनसापेक्षा, कुतः तच्छक्तेरपि स्वाधीनत्वादिति भावः ।। किं स्विदिति श्रुताविति ।। अनेन ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इति सूत्रं, ‘तदनन्यत्वं स्वतन्त्रसाधनतया प्रतीयमानस्य प्रकृत्यादेस्तद्व्यतिरेकेणासत्त्वं, तदधीनत्वमिति यावत् । तन्नियामकस्य तु तदभिन्नत्वं, आरम्भण-शब्दादिभ्यः आरम्भणशब्दोपेत ‘किं स्विदासि’ इत्यादि श्रुत्यादिभ्य इति व्याख्यातं भवति । नन्वस्त्वनन्यशब्दस्याभेदोऽर्थः अधीनत्वं तु कथमर्थ इति चेत्, न अभिन्न एव स्वाधीनेऽपि ‘अनन्योऽयं मत्तः’ इति प्रयोगदर्शनात् ।। आक्षेपस्येति ।। आक्षेपो निन्दा । निन्दा च न व्यसनितया क्रियते किन्तु तदभावप्रतिपादानाशयेनेति आक्षेपस्य विपर्यये पर्यवसानम् तदभाव-परत्वमित्यर्थः । सिंहावलोकनन्यायेन बहुपदकृत्यमाह– ईश्वरसृष्टेरिति ।। ‘स्वतन्त्रसाधना सृष्टिर्लोके दृष्टा’ इत्येतावन्मात्रोक्तौ ईश्वरसृष्टेरपि स्वतन्त्रसाधनसापेक्षत्वमात्रं साधितं स्यात् । तथा च सिद्धसाधनतेति भावः । ‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित् कथासीत् । यतो भूमिं जनयत् विश्वकर्मा विद्यामौर्णोन्महिनाविश्वचक्षा’ इति ऋचं व्याचष्टे– विश्वकर्मा हरिरिति ।। विश्वकर्मा येनाधिष्ठानादिना जनयिता बभूव, येन च राजादिमहिम्ना आवृणोत् तदधिष्ठानादिकं किमासीत् । नासीदित्यर्थः ।ननु विश्वकर्मा हरिरिति व्याख्यानमयुक्तम् । ‘य इमा विश्वाभुवनानि जुह्वत् ऋषिर्होता न्यसीदत् पिता न’ इति ऋषेर्जगत्कर्तृत्वाभिधानादित्यत उक्तम् – ऋषिरिति ।। अयमेव प्रागुक्त ऋषिः नातोऽन्य इति भावः । अत्रापरतन्त्रत्वादिति ।। ईश्वरः स्वतन्त्रसाधनविधुरः साधनमपहाय स्त्रष्टुं शक्यत्वात्, यः स्वतन्त्रसाधनवान् नासौ तदभावे कर्तुं शक्तः । इदमेव हि साधानानां स्वातन्त्र्यं, यत्, तदभावे कर्तुमशक्यत्वम् । तथेश्वरः स्वतन्त्रसाधनशून्यः स्वेच्छयोपात्तसाधनत्वात्, यः स्वतन्त्रसाधनः नासौ स्वेच्छयोपात्तसाधनः, किन्तु विपक्षे कार्यानुपपत्तिभयोपात्तसाधनः, यथा कुलालः । तथेश्वरः स्वतन्त्रसाधनरहितः, साधनसत्ताप्रदत्वात्, व्यतिरेकेण कुलालवदिति व्यतिरेकिहेतुत्रयं ‘परतन्त्रो ह्यपेक्षते’ इत्यनेन भाष्यकृता सूचितमित्यर्थः । एतेन ‘आदिशब्दा-द्युक्तिभिश्च’ इति भाष्यं ‘स्वरूपसामर्थ्यादेव तस्य सृष्टिरित्यनेनान्वितमित्युक्तं भवति । ततश्च ‘स्वरूपसामर्थ्यादेव तस्य सृष्टिः’ इत्यादि, आदिशब्दाद्युक्तिभिश्चेत्यन्तभाष्यस्य, एवं योजना ‘हिशब्दो हेतौ । हि यस्मात् ‘किं स्विदासीत्’ इति साधनान्तराक्षेपः, तस्मात् स्वरूपसामर्थ्यादेव तस्य सृष्टिः, न तु स्वतन्त्रसाधनाधीना । न केवलमाक्षेपात् स्वरूपसामर्थ्यादेव सृष्टिः किन्तु आदिशब्दोक्तयुक्तिभिश्च’ इति ।
वाक्यार्थमुक्तावली
अत्रेति ।। पूर्वं जगत्कर्तृत्वमेव नेति शङ्का परास्ता । अत्र श्रुतिसिद्धं तदुपेत्य लोकानुसारेण श्रुत्यैक्यस्य स्थानैक्यादिरूपेण मुख्यत्वे श्रुत्युक्तसर्वजगत्कर्तृत्वस्यापि लोकानुसारादेव स्वतन्त्र-साधनसापेक्षतया मुख्यत्वं स्यादित्याक्षिप्य हरेः स्वातन्त्र्येण जगत्कारणत्वे बहुत्वेन प्रबलयुक्ति-विरोधोऽत्र परिह्रियत इत्यर्थः । अत एव स्वतन्त्रबहुसाधनासृष्टिर्लोके दृष्टेति भाष्ये वक्ष्यति । सुधायां च बहुयुक्तय इत्यनुव्याख्यानानुसारेण बाहुल्यत्वलक्षणबलवद्युक्तिविरोधपरिहारायेद-मधिकरणमारभ्यत इत्युक्तम् । अत एव पूर्वाधिकरण सिद्धान्तन्यायेनाक्षेपादव्यवहितसङ्गतिर-गतार्थता च ।। स्वतन्त्रेति ।। साधनानां स्वातन्त्र्यं नाम कर्तृनधीनसत्तावत्वं बोध्यम् । न सर्व-गुणत्वमिति स्वतन्त्रसाधनसापेक्षत्वपारतन्त्र्यप्रसङ्गेन स्वातन्त्र्यहेतुकगुणपूर्तिर्न स्यादिति भावः ।
जगत्सृष्ट्यादिकमिति ।। ईश्वरकर्तृकं जगत्सृष्ट्यादिकमित्यर्थः । अत्र विप्रतिपन्ना ईश्वर-कर्तृका महदादिसृष्टिः सृष्टित्वात् पटसृष्टिवदिति युक्त्या कर्त्तन्यस्वतन्त्रसाधनसापेक्षा उत श्रुति-युक्तितर्कबाधाद्युक्तेराभासतया स्वतन्त्रसाधनापेक्षा वेति चिन्ता । तदर्थमद्भ्यः सम्भूत इति श्रुतौ स्वतन्त्रसाधनप्रतीतेः तर्कस्येष्टापादनत्वात् विपर्ययापर्यवसानाच्च तर्कस्याभासत्वम् । युक्तेर्बाधश्रुतेः सत्प्रतिपक्षत्वम् । उत अद्भ्य इति श्रुतौ परतन्त्रसाधनस्यैवोपलम्भात्तर्कादेरनाभासत्वमिति । सति चैवं तदर्थसंशये फलफलिभावे च अद्भ्य इति श्रुतेः परतन्त्रसाधनपरत्वनिर्वाहाय चिन्तान्तरं साधनस्वरूपमेवास्ति न वेति । तदर्थमसद्व्यपदेशः सर्वथा सत्वपर उतास्वातन्त्र्येणासत्वपर इति । तदर्थं साधनसत्वे भगवदैश्वर्यं विरुध्यते उत नेति । तदर्थं साधनसत्वे पारतन्त्र्ये च प्रमाणं नास्त्युतास्तीति । स्वतन्त्रसाधनेति भाष्यानुसारेण पूर्वपक्षमाह विप्रतिपन्नेति ।। सिद्धसाधनता-वारणाय कर्तृव्यतिरिक्तेति । ईश्वरस्य कर्तृत्वात् ज्ञानेच्छाप्रयत्नानां कर्तृत्वान्तर्गतत्वान्न तानादाय सिद्धसाधनतेत्यर्थः । यथोक्तं कर्मनिर्णयटीकायाम् । कर्तृत्वं च कार्यकारणक्रियाफलाभिज्ञान-तदिच्छाप्रयत्नपूर्वकः स्पन्द इति ।
अत्र साधनपदेनाधिष्ठानोपादानादिकं सत्वं विवक्षितं तस्य स्वातन्त्र्यं च सत्ताशक्तिप्रवृत्तिषु विवक्षितम् । सृष्टिपदं च स्थित्याद्युपलक्षणम् । एवं च विमता सृष्टिः कर्तृधीनशक्तिकाधिष्ठान-सापेक्षा । तथोक्तरूपोपादानसापेक्षा । एवं स्थित्यादिरपीति प्रमेयभेदाद्युक्तिबाहुल्यमनेनोक्तं भवति । शेषोक्त्या सूत्रं व्याचष्टे स्वतन्त्रसाधनस्येति ।। स्वतन्त्रसाधनमन्यदङ्गीकृत्य तस्य ब्रह्मा-भेद उच्यत इति भ्रान्तिं वारयितुमभिप्रायकथनपरं भाष्यमुत्थापयति किमुक्तं भवतीति । न तु स्वाधीनसत्ताकसाधनापेक्षयेत्येवार्थः । आरम्भणशब्द उपादाने साधनपरः । तेन च प्रधान-कारणवाचिनाधिष्ठानादिकारणान्तरं लक्ष्यते । लक्षितलक्षणया तदाक्षेपो लभ्यत इति भावेना-रम्भण शब्देत्येतद्व्याख्यापरमिति ह्याक्षेप इत्यन्तभाष्यं व्याचष्टे यत इति ।। एतेन भाष्ये हिशब्दो यत इत्यर्थ इत्युक्तं भवति । अतः स्वरूपसामर्थ्यादेव तस्य सृष्टिर्न तु स्वतन्त्रसाधना-पेक्षयेत्यर्थः । न तु सूत्रे मुखत आरम्भणशब्दस्योपात्तत्वाट्टीकायां साधनाधिष्ठानादिति प्रयोक्तव्यम् । श्रौतनिर्देशानुसारेण टीकायां निर्देशश्चेत्सूत्रे तदुक्तं घनं किमर्थमिति चेन्न । शब्दा-दप्यर्थप्राधान्यस्य बलवत्वात् । कारणवाचिन आरम्भणशब्दस्य सूत्र उपादानोपपत्तेः । स्पष्ट-मेतत्सुधायाम् ।। विपर्यये पर्यवसानादिति ।। अधिष्ठानादिकमासीत्किं नासीदेवेति विपर्यय-पर्यवसानादित्यर्थः ।
ननु साधनान्तराक्षेपे तदभावोऽवगम्यते । तस्य स्वातन्त्र्याभावः कथं लभ्यत इति चेन्न । वक्ष्यति हि ब्रह्मातिरिक्तकारणसद्भावं आरम्भणशब्दादिभिश्च तदभावोऽवगम्यते । ततोऽर्था-त्स्वतन्त्रकारणाभाव एव सिध्यतीति सुधायामेव समाहितत्वात् । वक्ष्यति च साधनाद्याक्षेपः । तद्भावोक्त्यन्यथानुपपत्तिश्चास्य समाधानमिति ।। सिद्धसाधनता स्यादिति ।। ईश्वरतज्ज्ञाने-च्छादिकमादाय सिद्धसाधनतावारणाय बह्वित्युक्तम् । ईश्वरतज्ज्ञानादेः कर्तृत्वान्तर्गतानेक-साधनत्वाद्बहुत्वाभावादिति भावः । यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिविश्वचक्षा इत्युत्तरार्धव्याख्यानपूर्वं किं स्विदासीदधिष्टानमारम्भणं कतमस्वित्कथासीदिति पूर्वार्धं व्याचष्टे विश्वकर्मेत्यादिना ।। वीत्युपसर्गस्य क्रियाक्षेपत्वाद्बभूवेति शेषोक्तिः । और्णोत् आवृणोत् । कथा कथं रुपम् । इत्यादिवत् इत्यादिप्रश्नस्य ‘अग्निर्हिमस्य भेषजम्’ इत्यादिपरिहारवत् ।। युक्तिविरुद्धं चेति ।। एतेन हि यस्मादाक्षेपस्तस्मात्पूजादिशब्दाद्युक्तिभिश्च स्वरूपसामर्थ्यादेव तस्य सृष्टिः न तु स्वतन्त्रसाधनसापेक्षेति भाष्ययोजनोक्ता भवति ।। अपरतन्त्रत्वादिति ।। परसापेक्षत्वादिति भावः ।। स्वतन्त्रत्वादिति ।। स्वेच्छानुसारित्वादित्यर्थः । सूचितमिति स्मृतौ व्यतिरेकव्याप्ति-प्रदर्शनम् । ईश्वरः सृष्टौ साधनं नापेक्षते परतन्त्रत्वाभावात् स्वेच्छानुसारिप्रवृत्तिमत्वात् साधन-सत्ताप्रदत्वात् । व्यतिरेकेण कुलालादिवदिति व्यतिरेकित्रयं सूचितमित्यर्थः । स्वतन्त्रसाधनस्य तदनन्यत्वमीश्वरसम्बन्धिन्यां महदादिसृष्टौ स एव स्वतन्त्रसाधनं नातोऽन्यत्स्वतन्त्रसाधन-मपेक्षितमिति यावत् । स्वतन्त्रसाधनत्वाक्षेपकश्रुतेर्युक्तिभिश्चेति सूत्रार्थः ।
तत्त्वसुबोधिनी
युक्तिविरोधपरिहारादिति ।। तथा च बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहारस्यात्र क्रिय-माणत्वात् न पूर्वेणास्य गतार्थता इति भावः । अत्र यदि लोकानुसारेण श्रुत्युक्तब्रह्मैक्यस्य स्थानैक्यादिरूपत्वं तर्हि लोकानुसारादेव यतो वेत्यादिश्रुत्युक्तेश्वरकर्तृकसृष्टेरपि स्वतन्त्रसाधन-सापेक्षत्वं स्यादित्याक्षेपणोत्थानादनन्तरसङ्गतिः । ननु स्वतन्त्रसाधनसापेक्षत्वे प्रमाणा-भावान्नेदमुपपद्यते इत्याशङ्क्य तत्र प्रमाणं आह ।। विप्रतिपन्ना इति ।। सिद्धसाधनतापरिहाराय कर्तृव्यतिरिक्तेति साध्ये विशेषणम् ।। अन्यथेति ।। कर्तृव्यतिरिक्तस्वतन्त्रसाधनानपेक्षत्वे इत्यर्थः । दृष्टान्ते साध्यसत्त्वमुपपादयति ।। घटसृष्टाविति ।। स्वतन्त्रसाधनस्येति सूत्रे शेषेक्तिरियं स्वतन्त्रसाधनमन्यदङ्गीकृत्य तस्य ब्रह्माभेदः उच्यते इति । अन्यथा प्रतीतिनिरासाय प्रवृत्तं भाष्यं सूत्रतात्पर्यकथनपरत्वेन योजयति ।। किमुक्तं भवतीति ।। स्वरूपसामर्थ्यादेव न तु साधनान्तरा-पेक्षयेत्यर्थः । एवं च साधनस्य तदनन्यत्वमित्युक्ते स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते इति सूत्रभाष्ययोरेकार्थत्वमिति भावः ।। यतः इति ।। उपलक्षणमेतत् । एषः सर्वेश्वर इति श्रुतिरपि दृष्टव्या ।। अधिष्ठानादीति ।। न चैवं आरम्भणाद्याक्षेपशब्दादिभ्य इति सूत्रनिर्देशः स्यादिति वाच्यम् । आरम्भणशब्देन, अधिष्ठानादिसाधनजातमुपलक्ष्यते । तेन चाक्षेपो लक्ष्यते इति लक्षितलक्षणयास्यैवार्थस्य विवक्षितत्वादिति भावः ।
यद्यपि किंस्विदिति श्रुतौ अधिष्ठानं प्रथममुक्तं तथापि आरम्भणशब्दार्थस्य कारणस्य साधनेष्वतिशयितत्वात् सूत्रे आरम्भणशब्दः । न च तर्हि टीकायामधिष्ठानादिशब्दप्रयोगः कथ-मिति वाच्यम् । श्रौतनिर्देशानुसारेण तथोक्तत्वात् इति भावः । अस्त्वाक्षेपे ततः किमित्यत आह ।। आक्षेपस्येति ।। अधिष्ठानादिकं आसीत् किं नासीदिति विपर्ययपर्यवसानादित्यर्थः । न च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वे किंस्विदिति श्रुत्युदाहरणमयुक्तं, तस्याधिष्ठानादिकारणान्तरा-भावप्रतिपादकत्वादिति वाच्यम् । अभिप्रायसद्भावात् । ‘सत्वाच्चावरस्य’ इत्यादिना ब्रह्मातिरिक्तकारणसद्भावो हि वक्ष्यते । अनया च श्रुत्या तदभावोऽवगम्यते इति । अर्थात् स्वतन्त्रकारणाभाव एव सिध्यतीति । अतः एव वक्ष्यति साधनाद्याक्षेपस्तु ऋग्भाष्योक्त्य-न्यथानुपपत्तिश्च अस्य समाधानमिति भावः ।
ननु तर्ह्यनुमानस्य का गतिरित्यतः आह ।। अनुमानं त्विति ।। स्वतन्त्रबहुसाधनेति भाष्य बहुपदं किमर्थं प्रयुक्तमित्यत आह ।। ईश्वरसृष्टेरिति ।। बह्वित्युक्तमिति ।। न चैवमपि महदादि-सृष्टेरीश्वरज्ञानेच्छादिस्वरूपतन्त्रबहुसाधनसाध्यत्वेन पुनः सिद्धसाधनतैवेति वाच्यम् । कर्तृ-व्यतिरिक्तस्वतन्त्रसाधनजन्यत्वस्य विवक्षितत्वात् । ईश्वरज्ञानेच्छादीनां कर्तृत्वान्तर्गतत्व तदति(नति)रिक्तत्वेन न तद्दोषतादवस्थ्यं इति भावः । अप्रतीतार्थत्वाच्छ्रुतिं व्याचष्टे ।। विश्व-कर्मेति ।। वीत्युपसर्गात् बभूवेति शेषोक्तिः और्णोदित्यस्य आवृणोदित्यर्थः । कतमदासी-दिति ।। किमासीदित्यर्थः । कथेत्यस्यार्थः कथं रूपमिति । प्रश्नश्चेत्परिहारो वक्तव्यः इत्यत्र दृष्टान्तमाह । किं स्विद्धर्मस्य भेषजम्’ इत्यादिवदित्यादेः प्रश्नस्य अग्निर्हिमस्य भेषजमित्यादि-परिहारवदित्यर्थः । भाष्ये मुक्तिभिश्चेति बहुवचनं प्रयुज्य तद्युक्तिप्रतिपादकतया ‘परतन्त्रो हि’ इति प्रमाणोदाहरणमाह ।। अत्रेति ।। ईश्वरो महदादिसृष्टौ स्वव्यतिरिक्तस्वतन्त्रसाधननिरपेक्षः इति प्रतिज्ञायां इत्यर्थः । अपरतन्त्रत्वात् स्वतन्त्रत्वादिति ।। ननु परानपेक्षत्वं स्वतन्त्रत्व-मित्यन्यत्रोक्तत्वेन हेत्वोरभेद इति चेत् परसापेक्षत्वाभावोऽपरतन्त्रत्वं, स्वेच्छानुसारित्वं स्वतन्त्रत्व- मिति विवक्षितत्वादिति भावः ।। हेतुत्रयमिति ।। परतन्त्रो ह्यपेक्षते’ इत्यादि व्यतिरेक-व्याप्तिप्रदर्शनेनेत्यर्थः ।
वाक्यार्थविवरणम्
विप्रतिपन्नमहदादिसृष्टेः स्वतन्त्रसाधनसापेक्षत्वमात्रसाधने ईश्वररूपस्वतन्त्रसाधनापेक्षत्वेन सिद्धसाधनतावारणाय कर्तृव्यतिरिक्तेत्युक्तम् । अस्वतन्त्रसापेक्षसिद्धार्थान्तरवारणाय स्वतन्त्र-पदम् । अन्यथा स्वतन्त्रसाधनानपेक्षत्वे तदिति ।। एतद्युक्तीत्यर्थः ।। दृष्टान्ते साध्यमुपपाद-यति । घटसृष्टावित्यादिना ।। ईश्वरसृष्टेः । महदादिसृष्टेः ।। सिद्धसाधनतेति ।। ईश्वररूप-स्वतन्त्रसाधनमादायेति शेषः । येन च महिम्ना विश्वतश्चक्षुर्भूमिं द्यां चावृणोत्तादृशमहिमोपेतो विश्वकर्मेत्येवं योज्यम् । एवं च द्वितीययच्छब्दस्य अन्वयाभाव इति शङ्कानवकाशः । येन च महिम्ना इत्यनयोर्न सामानाधिकरण्यं किन्तु येन चाधिष्ठानेन महिम्ना चेति वैय्यधिकरण्यमेवेत्यन्ये ।
वाक्यार्थमञ्जरी
तस्य जगत्कर्तृत्वस्य तेन युक्तिविरुद्धत्वलक्षणेन साध्यवैकल्यं परिहरति ।। घटसृष्टाविति ।। स्वतन्त्रसाधनस्य तदनन्यत्वं ब्रह्मानन्यत्वं तदतिरिक्तं स्वतन्त्रसाधनं नास्तीति यावत् । आरम्भण- मुपादानं तदभावप्रतिपादकश्रुतेरपरतन्त्रत्वादियुक्तिभिश्चेत्यर्थः । किमुक्तं भवतीति प्रश्नोत्तरमाह ।। स्वरूपसामर्थ्यादेवेति ।। न तु साधनान्तरापेक्षयेत्यर्थः । आक्षेपमात्रस्याभिमतसाधकत्वा-भावादाह ।। विपर्यये पर्यवसानादिति ।। न किञ्चिदित्यादिरूपेणेत्यर्थः ।। सिद्धसाधनतेति ।। ईश्वरस्य स्वाख्यस्वतन्त्रसाधनसापेक्षताङ्गीकारादिति भावः । ‘यतो भूमिं जनयन्विश्वकर्मा विद्या-मौर्णोन्महिना विश्वचक्षा’ इत्युत्तरार्धेन सह किंस्विदिति श्रुतिं व्याचष्टे ।। विश्वकर्मेति ।। वीत्युप-सर्गाद्बभूवेति शेषोक्तिः । येन चाधिष्ठानादिना और्णोदित्यस्यार्थः ।। आवृणोदिति ।। भूमिं द्यामिति वर्तते । कतमस्त्विदिति किमित्यर्थः । कथेत्यस्यार्थः कथं रूपमिति ।। समत्वा-दिति ।। ‘कुत्साप्रश्नवितर्केषु क्षेपे किं शब्द इष्यत’ इत्युक्तेरिति भावः । किंस्विद्धिमस्येति ।।
हिमस्य भेषजमौषधं निवारकं किं स्वित् किमित्यादिप्रश्नस्याग्निर्हिमस्य भेषजमित्यादिपरिहारवदित्यर्थः। युक्तिभिरिति बहुवचनघटनायाह ।। अत्रेति ।। ईश्वरः स्वतन्त्रसाधनं नापेक्षते इति प्रतिज्ञाया-मित्यर्थः । अपरतन्त्रत्वात्परसापेक्षत्वाभावात् । स्वतन्त्रत्वात् स्वेच्छानुसारित्वादतो नाभेदः ।