ॐ न वा विशेषात् ॐ
१३. विशेषाधिकरणम्
सूत्रभाष्यम्
।। ॐ न वा विशेषात् ॐ ।। २२ ।।
न वाऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ।
तत्त्वप्रदीपिका
अधिकारिविशेषात्सर्वोपसंहारश्चानुपसंहारश्चोक्तः । इदानीमात्मशब्दोऽप्यधिकारिविशेषापेक्षया गुणविशेषसमर्पक इत्याह– न वाऽऽत्मशब्देन सर्वगुणगृहीतिः सर्वान्प्रति ।। अधिकारिविशेषात् ।
तत्त्वप्रकाशिका
अत्रेश्वरदर्शनसाधनात्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तमयुक्तं स्यादतः समर्थनीया । प्रकृतात्मशब्दोक्तगुणा एव विषयः । सर्वोपास्या न वेति सन्देहः । गुणद्वैविध्यमेव सन्देहबीजम् । नात्मशब्दोक्तगुणाः सर्वोपास्या इति पूर्वः पक्षः । आत्मशब्दस्य सर्वगुणाभिधायकत्वात् । उक्तमत्रोत्तमाधिकारिणः प्रत्येव सर्वगुणाभिधायको न सर्वान् प्रतीति । सत्यम् । तथाप्यस्यैतावन्त एवोच्यन्त इति प्रातिस्विकनियमाभावेनोपासनाऽसम्भवात् । न च सम्भवति हि कदाचिद्बहुगुणान् कदाचिदल्पानपि बोधयतीति । अत आत्मशब्दोक्तगुणानां सर्वोपास्यत्वाभावादनुपसंहारप्रमाणत्वोक्तिरयुक्तेति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। न वेति ।। युक्तमेव सर्वेषामात्मशब्दोक्तगुणोपासनम् । तस्य सर्वान्प्रति सर्वगुणाभिधायकत्वाभावात् । कुतः । तस्य सर्वगुणाभिधानशक्तावप्यधिकारिसामर्थ्यविशेषात्तत्तद्योग्याभिधायकत्वात् । न्यूनाधिकोक्ति-सम्भवेन प्रातिस्विकनियमाभावादुपासनानुपपत्तिरिति न वाच्यम् । यस्य यावन्तो गुणा आत्मशब्देन युगपत्प्रतीयन्ते तेन तावन्तो ध्यातव्या इति व्यवस्थोपपत्तेः । आत्मशब्देन गुणप्रतीतिरियमेवाभि-संहित्ययोग्यप्रतीतिर्न प्रतीतिरिति भावः ।
भावबोधः
ननु इदम् ‘अन्वयादिति चेत्, स्यादवधारणात्’ इत्यनन्तरमेव कर्तव्यम् । आत्मशब्दस्य गुणाभियकत्वविचारपरत्वादिति चेत्, न, तथा सति ‘न वा प्रकरणभेदात्’ इत्यस्य ‘उपसंहारोऽर्था- भेदात्’ इत्येतच्छेषपरत्ववदस्यापि ‘अन्वयात्’ इत्यधिकरणशेषत्वविज्ञानप्रसङ्गात् । ततश्च तन्मा विज्ञायीत्यधिकरणभेदज्ञापनाय ‘कार्याख्यानात्’ इत्यनेन व्यवधाने कर्तव्ये उक्तरीत्या तत्सङ्गतस्य ‘समानं एवं चेत्’ इत्यस्य तदानन्तर्ये स्थिते तदधिकरणद्वयेन व्यवधानस्यादोषत्वात् ।
नन्वस्यापि ‘अन्वयात्’ इत्येतच्छेषतया अधिकरणैक्यं भवतु को दोषः? इति चेत्, न; ‘अन्वयात्’ इति चेदित्यनेनाभिप्रेतस्य विभ्रमकरत्वस्य उत्तरत्वनिर्वाहाय ‘स्यादवधारणात्’ इत्यस्य ब्रह्मादीन् प्रत्येव आत्मशब्दः सर्वगुणाभिधायको नान्यान् प्रतीत्यभिप्रायकत्वे वक्तव्ये तावतैवा-कङ्क्षापूर्तेः ‘न वा विशेषः’ इत्यस्य वैयर्थ्यप्रसङ्गात् । ननु ‘स्यादवधारणात्’ इत्यनेन प्रामाणिक-त्वात् परोक्तमात्मशब्दस्य सर्वगुणाभिधायकत्वं स्वीकृत्य ‘न वा विशेषात्’ इत्यनेन विभ्रमकरत्वं निरस्यत इत्यधिकरणैक्यमयुक्तमिति चेत्, न, तथा सति अनेन सूत्रद्वयेन आत्मशब्दस्य महदल्प-गुणाभिधायकत्वप्रतिपादनेन विभ्रमकरत्वनिरासोऽप्यात्मशब्देनास्यैतावन्त एव चोच्यत इति प्रातिस्विकव्यवस्थित्यभावेन पुनरात्मशब्दोक्तगुणोपासनं न सर्वेषामुपपन्नमिति शङ्कापरिहारार्थं ‘प्राप्तेश्चासमञ्जसम्’ इतिवदधिकरणान्तरकरणप्रसङ्गात् । न चैवम् ‘ओषु यथाश्रयभावः’ ‘न वा तत्सहभावश्रुतेः’ इत्यनयोः विरोधपरिहाराय अधिकारिभेदेन व्यवस्थाप्रतिपादकमधिकरणान्तरमपि करणीयमिति वाच्यम्, ‘समाहारात्’ इति सूत्रेण अङ्गाश्रितत्वेन देवतोपासनस्य देवाधिकारिक-त्वोक्त्या ‘न वा तत्सहभावश्रुतेः’ इत्युक्ततदुपासनाभावस्य देवव्यतिरिक्तविषयत्वस्य सुज्ञानत्वात् ।
ननु विभ्रमकरत्वनिरासाय आत्मशब्दस्य अल्पगुणाभिधायकत्वं प्रतिपादयदिदमेव सूत्रं योग्यताविशेषात् आत्मशब्दः अस्यैतावन्त एव गुणान् प्रतिपादयतीति आत्मशब्दस्य व्यवस्थयैव गुणप्रतिपादकत्वं प्रतिपादयतीति शङ्काद्वयं युगपदेव परिह्रियत इति चेत्, न; विभ्रमकरत्वनिरासाय आत्मशब्दस्य महदल्पगुणाभिधायकत्वोक्तिव्यतिरेकेण अनवस्थिति लक्षणयुक्त्यनुदयेन प्रागेव तन्निरासस्यासङ्गतत्वात् ।
ननु ‘स्यादवधारणात्’ ‘न वा विशेषात्’ इति सूत्राभ्यामात्मशब्दस्य महदल्पगुणाभि-धायकत्वप्रतिपादनेन विभ्रमकरत्वं निरस्य ‘दर्शयति चेत्’ इत्यनेन प्रातिस्विकव्यवस्थिति-प्रतिपादनेनाव्यवस्था निराकर्तुं शक्यत इति चेत्, न; ‘दर्शनाच्च’ इति सूत्रस्य ‘न वा तत्सहभावश्रुतेः’ इत्युक्तार्थे प्रमाणमात्रप्रदर्शनपरत्ववदस्यापि श्रुतिरूपप्रमाणमात्रपरत्वेन चारितार्थ्यात् । अत एवोक्तं तत्त्वप्रकाशिकायां युक्तिसिद्धार्थं श्रुत्यापि समर्थयत्सूत्रमिति । अनेनैवाभिप्रायेण ‘स्यादवधारणात्’ इत्यस्यैवात्मशब्दस्य महदल्पगुणाभिधायकत्वप्रतिपादकत्व-मङ्गीकृत्य तथापि व्यवस्थाभावादुक्तमयुक्तमिति अभ्यधिकाशङ्काहेतुत्वेन अनवस्थितिरूप-पूर्वपक्षन्यायो योग्यताविशेषाद्व्यवस्थयैव आत्मशब्दस्य महदल्पगुणाभिधायकत्वं प्रागुक्तमभिसंहित-मित्यभ्यधिकाशङ्कानिरासकत्वेन सन्धिरूपसिद्धान्तन्यायश्च अनुव्याख्यानेऽभिहितौ विवृतौ च न्यायविवरणे इति मनसि निधाय एतदधिकरणसम्बन्धित्वेन तन्न्यायविवरणवाक्यं टीकाकारै-र्योजितम् ।। सर्वोपास्या इति ।। अत्र आत्मशब्दोक्ता गुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थमात्मशब्दस्य प्रागुक्तं महदल्पगुणाभिधायकत्वं कदाचिदल्पगुणान् कदाचिद्बहुगुणान् प्रतिपादयतीत्यव्यवस्थितं वोतास्यैतावन्त एव प्रतिपादयतीति व्यवस्थितं वेति । तदर्थं व्यवस्थापक-प्रमाणं नास्त्युत अस्तीति । आत्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्ते, इति न्यायविवरणं योजयति–तथापीति ।।
ननु शब्दस्य पुरुषव्युत्पत्त्यनुसारेण गुणाभिधायकत्वमिति प्रातिस्विकनियमोपपत्तिरित्यत आह– कदाचिदिति ।। कालभेदेन व्युत्पत्तेः वैशद्यावैशद्यसम्भवेन बहुगुणध्यानायोग्यानां कदाचि-द्बहुगुणान् तद्योग्यानां तु कदाचिदल्पान् गुणान् बोधयतीति । अस्यैतावन्त एवेत्यादिनियमो न सम्भवतीत्यर्थः । यस्य यावन्तोऽर्था युगपत्प्रतीयन्ते तस्य तावन्त इति सन्धेरिति न्यायविवरणं योजयति– यस्य यावन्त इति ।। अभिसंहितेत्यनेन ‘सन्धिः’ इति ‘अभिसन्धिः’ इति व्याख्यातम् । अयोग्यप्रतीतिः व्युत्पत्तिवशेन जाता, न प्रतीतिः । ध्यानोपयोगित्वेन विवक्षिता प्रतीतिर्न भवतीत्यर्थः । अत्र प्रथमसूत्रेण आत्मशब्दस्य व्यवस्थया गुणाभिधायकत्वे युक्तिमभिधाय, द्वितीये तदुपोद्बलकश्रुतिप्रमाणोक्तिरिति सूत्रक्रमः ।।
भावदीपः
सर्वैः कर्तव्यता समर्थनादिति ।। आत्मशब्दात्तत्तदधिकार्यभिमतगुणमात्रप्रतीत्यनियमेन सर्वैर-कर्तव्यत्वशङ्काप्राप्ताविति योज्यम् । तेनात्मेत्येवोपासीतेत्यवधारणेनाऽऽत्मपदोक्तगुणानामवश्यो-पास्यत्वादात्मपदेन च ब्रह्माण्यभिमतगुणेभ्यो न्यूनाधिकगुणोक्तेरपि सम्भवेन सर्वगुणानां क्रिया-सामान्यमात्रस्य चोक्तिनियमाभावाद् ब्रह्माण्याः प्रागुक्तसर्वगुणोपसंहारः क्रियासामान्योपसंहार-श्चायुक्त इति शङ्कनात्पूर्वसङ्गतिरन्वयादित्यनेनापुनरुक्तता च ज्ञेया ।। उक्तमयुक्तमिति ।। आत्मशब्दाच्चेत्यत्रोक्तमनुपसंहारमानत्वमात्मशब्दस्यायुक्तमित्यर्थः । ब्रह्माण्युपसंहारस्यापि क्रियासु संकोचेनानुपसंहाररूपत्वादिति भावः ।। गुणद्वैविध्यमिति ।। द्वैविध्यदर्शनमित्यर्थः । पूर्ववद् व्याख्येयम् । अन्वयादिति चेदित्यत्रोक्तावेव प्रतिज्ञाहेतू आह ।। नात्मेति ।। सर्वगुणेति ।। आप्तव्याप्तेरित्यादेरिति भावः । तत्रोक्तमेव सिद्धान्तीयपरिहारमाशङ्कते ।। उक्तमिति ।। आत्म-शब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभाव इत्यन्यत्रोक्ताभ्यधिकाशङ्कां व्यनक्ति ।। सत्यमित्यादिना ।। उपासनेति ।। उपासनस्यासम्भवादित्यर्थः । प्रातिस्विकनियमाभावं व्यनक्ति ।। न च सम्भवति हीति ।। फलोक्त्योपसंहरति ।। अत इति ।। आत्मपदेन तत्तदधिकारिणः प्रति तत्तदभिमतगुणमात्राभिधाननियमाभावादित्यर्थः । प्रमाणत्वोक्तिरात्म-शब्दस्येति भावः । येन ब्रह्माण्याः प्रागुक्तक्रियाविशेषानुपसंहारो युक्तः । स्यादिति भावः । प्रतिज्ञां बहिरेवोक्त्वा हेतूक्तिपरत्वेन न वेति भाष्यार्थं योजयति ।। युक्तिमिति ।। कुत इति ।। सर्वाभिधानशक्तत्वा-त्तदभिधायकत्वाभावः कुत इत्यर्थः । हेतूपपादकत्वेनाधिकारिविशेषादित्येतद् व्याचष्टे ।। तस्येत्यादिना ।। यस्य यावन्तो अर्था युगपद्ध्यातुं शक्यन्ते तस्य तावन्त इति सिद्धेरिति न्यायविवरणोक्तं प्रागुक्तशङ्कानिवर्तकत्वेन योजयति ।। न्यूनाधिकेति ।। प्रतीयते ध्यानकाल इत्यर्थः । नन्वात्मशब्दाच्चेत्यत्राऽऽत्मेत्येवोपासीतेत्यात्मशब्दात्प्रतीतानेव गुणा-नुपासीतेत्यर्थस्योक्तिः कथमित्यत आह ।। आत्मशब्देनेति ।। इयमेवेति ।। ध्यानकाले युगपद्यावतां प्रतीतिः इयमेव न तु व्युत्पत्तिबलाद्यदा कदाचिज्जायमानाऽयोग्यगुणप्रतीतिरित्यर्थः । एवं चाऽऽत्मशब्दो बह्वर्थकोऽपि ध्यानकाले तत्तद्योग्यानेव गुणान् ब्रह्मब्राह्माण्यादीन्प्रति प्रकाशयतीति न कोऽपि दोष इति भावः ।
अभिनवचन्द्रिका
आत्मशब्दोक्तगुणोपासनस्येति ।। सर्वोपास्यानां गुणानां सङ्ख्यानिर्देशपरिच्छेदेन आत्म-शब्दोक्तत्वसमर्थनादित्यर्थः । प्रकृतात्मशब्देति ।। सर्वोपास्या गुणा विषयः । सङ्ख्यानिर्देशाभ्यां आत्मशब्दोक्ताः सन्त उपास्या न वेति सन्देह इत्यर्थः । एतेन आत्मशब्दोक्ता गुणाः सङ्ख्या-निर्देशाभ्यां क्लृप्ता न वा ? न द्वितीयः । विषयनिर्णयाभावेन विचारानुदयप्रसङ्गात् । आद्येऽपि किं चत्वार एवेति निर्णयः, उत सर्वेऽप्यात्मशब्दोक्ता इति ? नाद्यः ‘सर्वगुणाभिधायकत्वात्’ इत्युत्तरग्रन्थविरोधात् । न द्वितीयः । सर्वेषां सर्वगुणोपासनानधिकारस्य निश्चितत्वेन सन्देहानुदय-प्रसङ्गादिति परास्तम् । योग्यताभेदेन सङ्ख्यानिर्देशाभ्यां क्लृप्तगुणेषु एतद्विधिबोध्यत्वाबोध्यत्व-सन्देहाङ्गीकारात् ।। गुणद्वैविध्यमेवेति ।। आनन्दादिगुणेषु केनचिच्छब्देनानुक्तत्वं, केनचिदुक्तत्वं च दृश्यते । तत्सन्देहबीजमित्यर्थः । एतेन सर्वगुणेषु आत्मशब्दोक्तत्वाङ्गीकारात् गुणद्वैविध्यमेव नास्तीति गुणद्वैविध्याभिधानमयुक्तमिति परास्तम् । नात्मशब्दोक्तगुणा इति । सर्वोपास्या गुणाः सङ्ख्यानिर्देशाभ्यां नैतद्विधिबोध्या इति पूर्वपक्ष इत्यर्थः ।। आत्मशब्दस्येति ।। एतद्विधेः निर्देशेन गुणानन्त्याभिधायकत्वेन, परिच्छेदेन दशपञ्चादिसङ्ख्याऽनभिधायकत्वादित्यर्थः । उत्तरं शङ्कते उक्तमत्रेति ।। उत्तमातिरिक्तान् प्रति आनन्त्यानभिधायकत्वात् परिच्छेदेन सङ्ख्याभिधायकत्व-मुपपद्यत इति भावः । अभ्युपगमेन समाधत्ते सत्यमिति ।। वस्तुतस्तु तदुक्तमसम्भावितमेवेत्याह न चेति ।। स्वभावानपायादिति भावः । ‘सम्भवति हि’ इति पाठे तु चतुर्गुणोपासकं प्रति कदाचित्तद्योग्यान्, अल्पान् गुणान् अवबोधयति । कदाचित्तु अधिकव्युत्पत्तिवशेन अयोग्यानपि बहून् गुणान् बोधयतीति, हि यस्मात्सम्भवति अतः प्रातिस्विकनियमोऽयुक्त इत्यर्थो बोध्यः ।। युक्तमेवेति ।। सङ्ख्यापरिच्छेदेन सर्वोपास्यगुणानाम् आत्मेति विधिबोध्यत्वं युक्तमेवेत्यर्थः । ननु आत्मशब्दस्य आनन्त्याभिधायकत्वात् कथं परिच्छेदेन गुणाभिधायकत्वमित्यत आह– तस्येति ।। किं सर्वगुणाभिधानसामर्थ्याभावात्, सर्वान् प्रति गुणाभिधायकत्वाभाव इति पृच्छति– कुत इति ।। तस्य सर्वगुणेति ।। अस्त्येव सर्वगुणाभिधाने आत्मशब्दस्य शक्तिः, तथापि न सर्वान् प्रति सर्वगुणानभिधत्ते । ‘तत्त्वमस्यादिवाक्यस्य तत्तद्योग्यतावशेन प्रमाऽप्रमाजनकत्ववत्, आत्मशब्द-स्यापि तत्तदधिकाररूप सहकारिविशेषसमवधानेन तत्तद्योग्यगुणाभिधायकत्वादिति भावः । ननु आत्मशब्देन प्रतीता गुणा ध्यातव्या इति सूत्रकृतोऽभिप्रेतं, तत्कथं आत्मशब्देन कालान्तर-प्रतीतानां सूत्रकारविरुद्धमध्यातव्यत्ववचनमित्यत आह– आत्मशब्देनेति ।। आत्मशब्देन कालान्तरे जातापि अयोग्यगुणप्रतीतिः उपसंहारोपयोगिनी प्रतीतिरिति नाऽभिसंहितेत्यर्थः ।।
पूर्वपक्षस्तु– न ‘आत्मेत्येवोपासीत’ इति विधिः सर्वाधिकारिसाधारणः । अनन्तगुणाभि-धायकाऽऽत्मशब्दघटितत्वात् । न चाऽऽत्मशब्दस्य उत्तमान् प्रति सर्वगुणाभिधायकत्वेऽपि तदितरान् प्रति तदभावात्, तत्तद्योग्यगुणमात्राभिधायकत्वात् सर्वसाधारण्यमुपपन्नमिति वाच्यम् असम्भवात् । न हि शब्दो बुद्धिमान्, येनोत्तमत्त्वादधिकारिविशेषं प्रति सर्वगुणान् बोधयित्वा, अनुत्तमत्वादपरं प्रति अल्पानेव बोधयतीति स्यात् । ततश्च अनुपसंहारप्रमाणत्वोक्तिरयुक्तेति ।
सिद्धान्तस्तु– विधिरयं सर्वाधिकारिसाधारणः । तांस्तान् प्रति तत्तद्योग्यगुणाभिधायकत्वात् । न चाऽसम्भवः । अधिकारमपेक्ष्य ‘तत्त्वमस्यादिवाक्यस्य प्रमाऽप्रमाजनकत्ववत्, सर्वगुणाभि-धायकस्याप्यात्मशब्दस्य तत्तद्योग्यतामपेक्ष्यैव गुणबोधकत्वसम्भवात् । चतुर्गुणोपासकस्य आत्म-शब्दात् पञ्चमगुणस्याप्यवबोधसम्भवेन, प्रातिस्विकानियमाऽयोगात् उपासनाऽनुपपत्तिरिति न वाच्यम् । यस्य ‘युगपत्स्वभुजाविव आत्मशब्देन यावन्तो गुणाः प्रतीयन्ते तावन्त एवोपास्या इति नियमसम्भवात् । ‘सर्वान् गुणान् आत्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैवम्’ इति श्रुतेश्च । तस्मादात्मशब्दोक्तगुणानां सर्वोपास्यत्वात् उक्तं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
त्रिविक्रमत्वादीनां ब्रह्माण्याः पृथगनुपासनवदात्मशब्दोक्तगुणानामपि सर्वैः पृथगुपासितु-मशक्यत्वान्न तेषां सर्वैरुपास्यत्वमित्याक्षेपोत्थानात् अनन्तरसङ्गतिः ।। अन्यथोक्तमिति ।। अन्वयादित्यत्रोक्तमित्यर्थः ।। सर्वोपास्या इति ।। आत्मशब्दोक्तगुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थमात्मशब्दः सर्वान् प्रति सर्वगुणाभिधायक उतोत्तमान् प्रत्येवेति । तदर्थमात्मशब्देनास्यैतावन्त एवोच्यत इति प्रातिस्विकगुणोक्तिनियामकं नास्त्युतास्तीति ।। सर्वगुणाभिधायकत्वादिति ।। तथा च श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमकरत्वादुपासनानिश्चय इति भावः । स्यादवधारणादित्यत्र ब्रह्मादीन् गुणाधिकान् प्रत्येव सर्वगुणाभिधायकत्वं स्यान्नान्यान् प्रतीति गुणाधिक्यन्यायावष्टम्भेन विभ्रमकरत्वस्य निरस्तत्वात् गतार्थतेत्याशङ्क्य व्यवस्थितिलक्षण-न्यायावष्टम्भेनाभ्यधिकशङ्कामाह ।। उक्तमत्रेत्यादिना ।। अस्यैतावन्त इति ।। आत्मशब्देनास्य मनुष्योत्तमस्यैतावन्तश्चत्वार इत्यादिप्रातिस्विकनियमाभावेनेत्यर्थः ।। प्रातिस्विकनियमाभाव-मुपपादयति ।। न सम्भवतीति ।। कांश्चित्प्रति कदाचिद्बहुगुणान् तदन्यान् प्रति तु कदाचिदल्प-गुणानित्यर्थः । व्याकरणादिपरिश्रमादात्मशब्दनिर्वचनरूपप्रमाणपरिचयभावाभावरूपदशाविशेष-मादायैकं प्रत्येव बहुगुणाल्पगुणप्रकाशनस्यात्मशब्देन सम्भवात् कांश्चिदल्पगुणानेवेत्यादि व्यवस्थानुपपन्ना । तथा च यस्य यत्प्रतीयते तदेव तेनोपास्यमित्ययोगव्यवच्छेदासम्भवात् आत्म-शब्दोक्तस्य न सर्वोपास्यत्वमिति पूर्वपक्ष्यभिप्रायः ।
नन्वभ्यधिकशङ्कयास्य प्रवृत्तत्वेऽन्वयादित्येतदानन्तर्यं युक्तमिति चेन्न, गुणानामलौकिकत्वे व्युत्पत्त्यनुपपत्त्यात्मशब्देन गुणोक्तिरयुक्ता । आत्मशब्दोक्तत्वे लौकिकत्वायोग इत्यात्मशब्देन गुणप्रतिपादनमित्याक्षिप्य कार्याख्यानादित्यत्र समाधानात् । गुणोक्तौ तारतम्याक्षेपात् गुणोक्तिरेव नेत्यस्य प्रथमप्राप्तत्वेन कार्याधिकरणस्यैतदपेक्षया प्राथम्यं समान एवं चेत्यस्यैवं चापूर्वत्वेऽपीति परामर्शाय तदानन्तर्यम् । यथाशक्तिक्रियेत्युक्ततत्सिद्धान्तन्यायावष्टम्भेन सर्वैरात्मशब्दोक्तगुणा-नामुपासितुमशक्यत्वमाशङ्क्य समाधानादस्य तदानन्तर्यमिति न्यायप्राप्तत्वात् । न वा प्रकरण-भेदादित्यस्योपसंहारनयशेषत्ववदस्यापि अन्वयादित्यधिकरणशेषत्वेनैकाधिकरणत्वं युक्तमिति चेन्न गायत्र्यधिकरणस्य ज्योतिरधिकरणशेषत्वे वक्तुं शक्यत्वेऽपि पृथङ्न्यायसूचकत्वात्पृथगधि-करणत्ववत् प्रकृतेऽप्युपपत्तेरिति दिक् । विस्तरस्तु भावबोधे । सूत्रे बहिरेव परमसाध्यं दर्शयति ।। युक्तमेवेति ।।
ननु सर्वेषामात्मशब्दोक्तगुणोपासनमयुक्तम् । आत्मशब्दस्य सर्वान्प्रति सर्वगुणाभिधायकत्वेन विभ्रमकरत्वादित्यतः सर्वान्प्रति सर्वगुणाभिधायकत्वं असिद्धमिति न वेति सूत्रखण्डेनोच्यते । तच्चात्मगृहीतिरित्यपि सर्वेषां सर्वगुणानामिति लभ्यते । वाशब्दो व्यवस्थितविकल्पे । तथा च न वा सर्वेषां सर्वगुणानामात्मपदेन गृहीतिरिति तदर्थं मनसि कृत्वा व्याचष्टे । तस्य सर्वान् प्रतीति ।। नन्वभिधायकत्वं हि शब्दशक्तिः । सा च स्वरूपभूता । पुरुषशक्तिं नापेक्षते । तथा च कुतः सर्वान् प्रति सर्वगुणाभिधायकत्वाभाव इत्याक्षिपति ।। कुत इति ।। तत्परिहारकत्वेन विशेषा-दित्यस्याधिकारिविशेषादिति भाष्यं व्याचष्टे ।। तस्येति ।। अधिकारिसामर्थ्यतारतम्येन तत्तदुपासनायोग्यगुणाभिधायकत्वादित्यर्थः । शब्दस्वाभाव्यान्न सर्वगुणाभिधानशक्तावप्यधिकारि-सामर्थ्यतारतम्येन तस्मादेव शब्दात् स्वयोग्यमात्रप्रतीतिरिति भावः ।
ननु शब्दाद्गुणप्रतीतावयं प्रातिस्विकनियमो युक्तः । मनुष्योत्तमान् प्रति चतुर्गुणानेव तदुपासनायोग्यानेव वक्ति । गन्धर्वादीन् प्रति तत्सिद्धान् प्रियशिरस्त्वादीन् वक्ति । देवादीन् प्रति सम्भृत्यादींश्च वक्तीति न्यूनाधिकोक्तेरयोगात् आत्मशब्दनिरुक्तिः व्याकरणादिना मानुषादीनामपि अधिकगुणप्रतीतेः आनुभाविकत्वादित्याशङ्क्य निषेधति ।। न्यूनाधिकेति ।। कुतो वाच्यमित्यतः सन्धिरित्युक्तन्यायप्रदर्शकमधिकारिविशेषादित्येतदेव भावबोधेन विवृणोति ।। यस्य यावन्त इति ।। आत्मशब्देन युगपद्यस्य यावन्तः प्रतीयन्ते तावन्तस्तेन ध्यातव्या इत्यधिकारिविशेषात् सन्धिः समाधानं व्यवस्थेति न्यायार्थ इति भावः ।
नन्वात्मशब्देन ध्यानकाले यावन्तो युगपत्प्रतीयन्ते तावतामुपास्यत्वेन विवक्षितत्वे व्युत्पत्ति-वशेनात्मशब्दस्य यावद्गुणप्रत्यायकत्वं तावतामुपास्यत्वमिति प्रागुक्तमयुक्तं स्यादित्यतः तस्याय-मभिसन्धिरिति भावेनाह ।। आत्मशब्देनेति ।। इयमेवेति ।। ध्यानकाले आत्मशब्दार्थानुभव-जनितसंस्कारवशेन युगपत्प्रतीतिरेव, न त्वनुभवकाले व्युत्पत्त्यतिशयजन्या गुणप्रतीतिरित्यर्थः । नन्वात्मशब्देन व्युत्पत्तिदशायां सर्वेषां स्वयोग्यगुणप्रतीतिवत् सर्वेषां गुणानां ध्यानकाले युगपत्प्रतीतौ पुनरव्यवस्थेत्यत आह ।। अयोग्यं प्रति न प्रतीतिरिति भाव इति ।। अयोग्यं प्रति गुणानां न युगपत्प्रतीतिरित्यर्थः । अयोग्यप्रतीतिर्न प्रतीतिरिति भावबोधोपात्तपाठे तु अयोग्य-प्रतीतिर्व्युत्पत्तिवशेन जाता । न प्रतीतिर्ध्यानोपयोगित्वेन विवक्षिता प्रतीतिर्न भवतीति भावः ।
तत्त्वसुबोधिनी
न चेदमधिकरणमन्वयादित्यनन्तरमेव कर्तव्यं आत्मशब्दस्य गुणाभिधायकत्वविचारपरत्वादिति वाच्यम् । तथा सति अन्वयादित्यधिकरणशेषत्वपीडनस्य समान एवेत्यस्य तदानन्तर्यस्थिते अधिकरणद्वयेन व्यवधानस्यादोषत्वात् । न च भवत्वस्य तच्छेषत्वमिति वाच्यम् । अन्वयादिति चेदित्यनेनाभिप्रेतविभ्रमकरत्वपरिहाराय सत्स्यादित्यनेनैव पूर्तेः न चेत्यस्य वैयर्थ्यप्रसङ्गात् । न च स्यादित्यनेन परोक्तात्मशब्दस्य सर्वगुणाभिधायकत्वं स्वीकृत्य न वेत्यनेन विभ्रमकरत्वं निरस्यत इत्यधिकरणैक्यमिति वाच्यम् । तथा सति अनेन सूत्रद्वयेन विभ्रमकरत्वनिरासेऽपि आत्मशब्देनास्य एतावन्त एवोच्यन्त इति प्रातिस्विकव्यवस्थित्यभावेन पुनरात्मशब्दोक्तगुणोपासनं न सर्वेषां उपपन्नमिति शङ्कापरिहारार्थं अधिकरणान्तरकरणप्रसङ्गादिति । अन्यथोक्तमयुक्तं स्यादिति । कर्तव्यताऽसमर्थने आत्मशब्दोक्तमुपास्यं स्यादित्यर्थः ।। शङ्कते उक्तमिति ।।
ननु शब्दस्य पुरुषव्युत्पत्यनुसारेण गुणाभिधायकत्वमिति प्रातिस्विकनियमोपपत्तेरित्यतः आह ।। सम्भवति हीति ।। कालभेदेन वैशद्यावैशद्यसम्भवेन बहुगुणाध्यानायोग्यानां कदाचिद्वेधा गुणान् तद्योग्यानां तु कदाचिदल्पान् बोधयतीति । अस्यैतावन्त एव इति नियमो न सम्भवतीत्यर्थः । आत्मशब्देनापि योग्यप्रतीतिरेव विवक्षितेत्याह ।। आत्मशब्देनेति ।। अयोग्यप्रतीतिरिति ।। अयोग्यतत्प्रतीतिव्युत्पत्तिवशेन जाताऽपि न प्रतीतिः ध्यानोपयोगित्वेन विवक्षितार्थप्रतीतिर्न भवतीत्यर्थः ।
अत्राद्यसूत्रेणात्मशब्दस्य व्यवस्थया गुणाभिधायकत्वकथनम् । द्वितीये तदुपोद्बलित-श्रुतिरूपप्रमाणोक्तिरिति सूत्रक्रमः ।
वाक्यार्थविवरणम्
ननु सर्वगुणाभिधायकत्वेऽपि सर्वेषां सर्वगुणोपास्तिप्रसङ्गो नास्तीत्याशङ्कते ।। उक्तमत्रेति ।। स्यादवधारणादित्यनेनैवेत्यर्थः ।। उपासनेति ।। आत्मशब्दोक्तगुणोपासनेत्यर्थः । उपासना-सम्भवमेवोपपादयति ।। सम्भवति हीति ।। बहुगुणान् अल्पाधिकारिणः प्रत्यपि बुद्धि-वैशद्यवशादिति शेषः । अल्पान् गुणान् उत्तमाधिकारिणः प्रत्यपि बुद्ध्यवैशद्यवशेनेति शेषः ।। अनुपसंहारेति ।। गुणान्तरव्यावृत्तिकथनपूर्वकमात्मत्वस्य सर्वोपासनविधानादनुपसंहार प्रमाणत्व-मात्मशब्दाच्चेत्युक्तमयुक्तमित्यर्थः ।। तत्तद्योग्येति ।। तत्तदुपासनायोग्यगुणेत्यर्थः ।। न्यूनाधिकेति ।। सम्भवतीत्युक्तरीत्येत्यर्थः ।। प्रातिस्विकनियमेनेति ।। अस्यतावन्त इति प्रातिस्विकनियमेनेत्यर्थः । व्युत्पत्तिवशादधिकगुणप्रतीतौ कथमित्यत आह ।। आत्मशब्देनेति ।। इयमेवेति युगपत्प्रतीति-रेवेत्यर्थः ।। अयोग्येति ।। अयोग्यगुणेत्यर्थः ।।
वाक्यार्थमञ्जरी
उक्तं अनुपसंहारप्रमाणत्वम् ।। उक्तमत्रेति ।। अन्वयादित्यत्रेत्यर्थः ।। प्रातिस्विकेति ।। प्रतिव्यक्तिगतेत्यर्थः । ननु शब्दस्य पुरुषव्युत्पत्त्यनुसारेण गुणाभिधायकत्वमिति प्रातिस्विक-नियमोपपत्तिरित्यत आह ।। न च सम्भवतीति ।। कालभेदेन व्युत्पत्तेर्वैशद्यावैशद्यसम्भवेन बहुगुणध्यानयोग्यानां कदाचिद्बहुगुणान् तद्योग्यानां तु कदाचिदल्पगुणान्बोधयतीत्यतोऽस्यैतावन्त एवेत्यादिनियमो न सम्भवतीत्यर्थः ।
ॐ न वा विशेषात् ॐ ।। आत्मशब्देन सर्वगुणगृहीतिर्न वास्तु कुतः विशेषात् योग्यताविशेषादित्यर्थः ।। अयोग्येति ।। अयोग्यप्रतीतिर्व्युत्पत्तिवशेन जाताऽपि गुणप्रतीतिर्न प्रतीतिः, ध्यानोपयोगित्वेन विवक्षितप्रतीतिर्न भवतीत्यर्थः ।