ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम्

३२. दर्शनभेदाधिकरणम्

सूत्रभाष्यम्

।। ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ।। ५२ ।।

उपासनाभेदव(त्त)द्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ —

अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवा वाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु (तु) यथोयोगं यथा ह्याचार्या आचक्षत’ इति । अध्यात्मे च—

दृष्ट्यैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।

दर्शनेनाऽन्तरेणान्ये देवास्सर्वत्र दर्शनात् ।।

तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गत’ इति ।।

तत्त्वप्रदीपिका

एवं भक्त्यादिमतामुपासकानां किमेकरूपं ब्रह्मदर्शनमुत तारतम्येन स्थितमिति संशये मनोवृत्तीनां भक्त्यादीनां नानारूपत्वेऽपि वस्तुन एकरूपत्वात्तद्दर्शनेनाप्येकरूपेण भवितव्यम् । अन्यथा भ्रमत्वप्रसङ्गादित्यत आह– प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ।। उपासनाभेदवद्भक्तिभेदवच्च दर्शनभेदः । युक्तेः श्रुतेश्च । न हि भक्तितारतम्यादुपास्तितारतम्याच्च जायमानं दर्शनं मुक्तौ सुखतारतम्यसाधनमेकरूपं भवितुमर्हति । एकरूपत्वेऽपि वस्तुनः पुरुषादिविशेषमपेक्ष्य दर्शनविशेषसम्भवादन्तरुपासका अन्तर्दृष्टय इत्यादि ।।

अन्यया विद्यया मुक्तिः सुराणामन्यया नृणाम् ।

तत्रापि योग्यताभेदात्प्रतिभेदा अवान्तराः ।।

यया यस्य विमुक्तिः स्यात्तद्दाता मुख्यतो गुरुः ।

एकदेशगुरुत्वं स्यादन्यविद्याप्रदस्य तु’ इति मानससंहितानाम् ।।

तत्त्वप्रकाशिका

अत्र यत्साधनं भगवदुपासनमुक्तं तस्मिन् ज्ञाने विशेषसमर्थनादस्ति शास्त्रादिसङ्गतिः । अविशेषे मोक्षविशेषाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतं भगवद्दर्शनमेव विषयः । किं सर्वेषामेकप्रकार-मुतानेकप्रकारमिति सन्देहः । धर्मद्वैविध्यदर्शनं सन्देहबीजम् । एकप्रकारमेवेति पूर्वः पक्षः । ‘दृष्ट्वैव तं मुच्यते नापरेण’ इति सर्वेषामविशेषितज्ञानेन मोक्षश्रवणात् । तथा ‘भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ इति सर्वेषां भक्त्यादिना पूर्णज्ञानोत्पत्तेः संपूर्णज्ञानेनैव मोक्षस्मरणात् । सामान्यवचनत्वादेव सर्वविषयत्वं ज्ञायते । अतः सर्वेषां दर्शनसाम्यादुक्तं मुक्ततारतम्यमयुक्तमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। प्रज्ञेति ।। अनेकप्रकारमेवाधिकारिणां भगवद्दर्शनम् । तत्साधनोपासनस्यानेकप्रकारत्वात्फलस्य च साधनानु-सारित्वादिति भावः । प्रज्ञान्तरं प्रज्ञाविशेषः । अविच्छिन्नपरोक्षज्ञानसंततिर्हि ध्यानम् । नन्वनेकविधसाधनवतामपि कदाचित्कर्षकाणामिव साध्यसाम्यं किं न स्यादित्यत आह ।। तच्चेति ।। सर्वदृष्टयो व्याप्तिदर्शिनः । अन्येष्ववतारादिदर्शिषु । योग्यतैव कथं ज्ञायते । यथा ह्याचार्या आचक्षते । यद्यस्ति दर्शनभेदस्तर्हि न सर्वेषां मोक्षः स्यात्संपूर्णज्ञानेनैव मोक्षस्य श्रुत्यादिसिद्धत्वादित्यत आह ।। अध्यात्मे चेति ।। एवं विशेषबलात् श्रुतिर्यथायोग्यं दृष्ट्वेत्युपपन्ना । ‘यावान्यश्चास्मीति’ हिरण्यगर्भविषयतयोपपन्नम् । सामान्यतः सर्वज्ञानमिति सर्वविषयं वा । अतो ज्ञाने विशेषसद्भावाद्युक्तं मोक्षतारतम्यमिति सिद्धम् ।

गुर्वर्थदीपिका

परोक्षज्ञानसन्ततिरित्यत्र लौकिकापरोक्षप्रत्यासत्त्यजन्यत्वात्परोक्षेत्युक्तम् । उपपन्नेत्यस्य व्याख्येयेत्यर्थः ।

भावबोधः

अधिकरणस्य पादान्तर्भावज्ञापनायाह– यत्साधनमिति ।। अत्र पूर्वं ज्ञानस्य भक्तिसाध्यत्वेऽभिहिते ‘वृद्धिह्रासभाक्त्वं’ इति भक्तेः वैचित्र्यस्योक्तेः कथं विचित्रभक्तिसाध्यत्व-मविचित्रज्ञानस्येत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । ‘वृद्धिह्रासभाक्त्वं’ इत्यत्र फलतारतम्येन भक्त्यादिसकलतारतम्यसाधनम् । अत्र तूपासनारूपसाधनवैचित्र्येणापरोक्षज्ञानलक्षणसाध्य-वैचित्र्यसाधनमिति महान् भेदः । किं सर्वेषामित्यादि । अत्र भगवद्दर्शनं किं सर्वेषामेकप्रकार-मुतानेकप्रकारमिति चिन्ता । तदर्थं ‘दृष्ट्वैव तं मुच्यते’ इति ‘यावान्’ इत्यादिवाक्यं सर्वेषाम-विशेषितज्ञानस्य मोक्षहेतुत्वप्रतिपादकं भवत्युत न भवतीति । तदर्थं ज्ञानवैचित्र्ये प्रमाणं नास्त्युतास्तीति ।

दृष्ट्वैव तं मुच्यते नापरेण’ ‘यावान् यश्चास्मि तत्वतः’ ‘ततो मां तत्त्वतो ज्ञात्वा’ इत्यादि-सामान्याभिलापमात्रेण दर्शनस्याविशेष इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– दृष्ट्वै-वेत्यादिना ।। सौत्रः ‘च’शब्दः पृथक्त्वस्यानुकर्षणार्थ इत्यभिप्रेत्य प्रवृत्तं दर्शनभेद इति भाष्यं व्याचष्टे– अनेकप्रकारमेवेति ।।

ननु अत्र ‘प्रज्ञान्तरं’ इत्यस्यान्या प्रज्ञा प्रज्ञान्तरमित्यर्थत्वे उपासनारूपज्ञानविशेषस्यालाभात् ज्ञानमात्रस्यापरोक्षज्ञानहेतुत्वाभावाच्च तद्वैचित्र्ये कारणवैचित्र्यरूपहेतुर्न प्रदर्शितः स्यात् । प्रज्ञाशब्दस्यैवोपासनापरत्वे प्रज्ञापृथक्त्ववदित्येतावता पूर्तेऽन्तरशब्दो व्यर्थः स्यादित्यतस्तद्व्याचष्टे– प्रज्ञान्तरं प्रज्ञाविशेष इति ।। अनेनोपासनाभेदवदिति भाष्येण प्रज्ञान्तरमित्यस्य प्रज्ञाविशेष-स्योपासनस्य ‘पृथक्त्वाद्भेदवत्’ इति सौत्रपदं व्याख्यातमित्युक्तं भवति ।

ननु भाष्ये उपासनं नाम ध्यानं विवक्षितम् । तस्यैवापरोक्षज्ञानसाधनत्वात् । ध्यानं च न ज्ञानं किं तु मानसीक्रिया । यथोक्तं क्रिया मानसवदिति । तथा च प्रज्ञान्तरपदस्य प्रज्ञाविशेषपरत्वेऽपि कथमुपासनापदेन तद्व्याख्यानम् । मानसक्रियारूपस्य ध्यानस्य कथं प्रज्ञाविशेषत्वमित्यत आह– अविच्छिन्नेति ।।

तथा च, न ध्यानं परिस्पन्दात्मकमानसी क्रिया । तथात्वेऽतीन्द्रियाश्रितक्रियाया अतीन्द्रिय-त्वेनापरोक्षावभासविरोधात् । क्रियाया रूपरहितत्वेन ध्याने रूपावभासविरोधाच्चेति भावः । ननु न ध्यानस्य परोक्षज्ञानरूपत्वं वक्तुं युक्तम् । लिङ्गशब्दाजन्यत्वात् ।

नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः’

इति स्मृतौ श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यङ्गी-कारादिति । सुधायां च ध्यानस्य मानसत्वोक्तेश्चेति चेत्, सत्यम् । अत्र ध्यानस्य परोक्षज्ञान-जन्यसंस्कारमयपदार्थविषयकत्वेन परोक्षत्वव्यवहारात् । अत एव सुधायां श्रवणदर्शनादिज-नितमानसवासनामयस्येति श्रवणरूपज्ञानस्यापि वासनाकारणत्वमुक्तम् । अत एव चापरोक्ष-ज्ञानजन्यसंस्कारमयमानोरथिकपदार्थविषयकज्ञानादौ न परोक्षत्वव्यवहारः । न चैवं क्रियामानस-वदिति सूत्रविरोधः तस्य धात्वर्थक्रियावाचित्वात् । यद्वा, ध्यानस्य वासनामयपदार्थविषयकत्वेनाऽ-परोक्षरूपत्वेऽपि तस्य परमात्मविषयकत्वाभावे नैष्फल्यप्रसङ्गात्तद्विषयकत्वमावश्यकम् । तथा च, ध्यानस्य परमात्मविषयकत्वे अपरोक्षरूपत्वायोगेन ‘ज्ञातः परमाणुः’ इत्यादिवत् उपनीत-भानत्वाभ्युपगमे उपनायकस्य परोक्षत्वव्यवहारः ।

अत्र तदुक्तमित्यनेन भाष्योदाहृतश्रुतिवत्

यथायोग्यमेवैष आत्मानं’

इत्यादि न्यायविवरणोदाहृतश्रुतिरपि गृहीतेति ज्ञातव्यम् ।। विशेषबलादिति ।। विशेष-वाक्यबलादित्यर्थः । ‘यावान्यश्चास्मीति’ ब्रह्मण एव ज्ञानोपपत्तेः । ‘यावान्’ इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्चेति न्यायविवरणं मनसि निधायाह– यावानिति ।।

भावदीपः

ज्ञानपादान्तर्भावमाशङ्क्योपासनासाध्यचिन्तारूपत्वेन निवेश इति भावेनाह ।। यत्साधनमिति ।। उक्तमिति ।। तन्निर्धारणार्थनियमस्तद्दृष्टेरित्यादावुक्तमित्यर्थः । न चैवं तदानन्तर्यमेवास्य शङ्क्यम् । साधनस्य प्रदानानुबन्धादितिकर्तव्यतानिरूपितेत्यपि तात्पर्यात् । तथा च साधने विशेषचिन्तानन्तरं अत्र तत्साध्ये ज्ञाने विशेषचिन्तनात्पूर्वानन्तर्यमस्येति भावः ।। मोक्षविशेषेति ।। तथा च यावदधिकारमित्यत्रोक्तमोक्षविशेषणाधिकारनियमो न युक्त इति भावः ।। प्रकृतमिति ।। दर्शनाच्चेत्यादिनेति भावः ।। धर्मद्वैविध्येति ।। लोके कश्चिन्मनुष्यत्वादिधर्म एकप्रकारो रूपादिधर्मो भिन्नप्रकारो दृष्ट इति भावः । सिद्धान्तभाष्ये भेद इत्युक्तेस्तद्व्यावर्त्यं ‘दृष्ट्वैव तं मुच्यते नापरेण’ । ‘यावान्यश्चास्मि तत्वतः’ । ‘ततो मां तत्वतो ज्ञात्वा’ इत्यादिसामान्यालापमात्रेण दर्शनस्याविशेष इत्यन्यत्राविशेषपदोक्तमाह ।। एकप्रकारमेवेति ।। कुत इत्यतो दृष्ट्वैवेति यावानिति च श्रुतिस्मृतिरूपं वाक्यद्वयमित्युपेत्य तत्रोक्तमेव हेतुमाह ।। दृष्ट्वैवेति ।। स्वस्वयोग्यतानुसारेण दृष्ट्वैवेति श्रुतेः सावकाशत्वं मन्वान आह ।। तथेति ।। स्मरणात् गीतायामन्तिमेऽध्याये । अधिकारिविशेषपराऽस्तु स्मृतिरित्यतो दृष्ट्वैवेति भाष्योक्तस्मृतिव्यावर्त्यमाह ।। सामान्येति ।। अत इति ।। श्रुतिस्मृतिबलादित्यर्थः ।। मुक्तेति ।। साधनस्यैकरूप्ये साध्यतारतम्यस्याऽयोगादिति भावः । एकस्यैव दृष्टिभेद इति भ्रमनिरासाय भाष्यं व्याचष्टे ।। अनेकेति ।। प्रकृतत्वाद्भगव-दित्युक्तिः । निर्बीजत्वशङ्कानिरासाय दृष्टान्तोक्तिलब्धं हेतुमाह ।। तत्साधनोपासनस्येति ।। ध्यानस्येत्यर्थः । अप्रयोजकत्वशङ्कानिरासाय वतिप्रत्ययलब्धानुकूलतर्कमाह ।। फलस्य चेति ।। अर्थसामान्यादित्युक्तेरिति भावः । उपासना कथं प्रज्ञान्तरपदलब्धेत्यत आह ।। प्रज्ञेति ।। वासनामयवस्तुविषयत्वात्परोक्षेत्युक्तम् ।। इत्यत आहेति ।। लोके तथात्वेऽपि नेह तथा श्रुतिप्रामाण्यादिति भावः ।। श्रुत्यादीति ।। स्मृतिरादिपदार्थः ।। इत्यत आहेति ।। अधिकारिभेदेन ज्ञानतारतम्यस्य अन्यया विद्यया मुक्तिः सुराणामन्यया नृणाम् । तत्रापि योग्यताभेदात्प्रतिभेदा अवान्तरा इत्यादिषष्ठबृहद्भाष्योक्तस्मृतिसिद्धत्वान्न सर्वेषां सम्पूर्णज्ञानेन मोक्ष इति भावः । तर्हि दृष्ट्वैवेति श्रुतेर्भक्त्या मामभिजानाति यावानिति स्मृतेश्च का गतिरित्यत आह ।। एवमिति ।। दृष्ट्वैव ह्यवताराणामित्याद्युक्तविशेषबलादित्यर्थः ।। यावान्यश्चास्मीति ।। ब्रह्मण एव ज्ञानो-पपत्तेर्यावानित्यत्राऽपि सामान्यविशेषज्ञानोपपत्तेश्चेत्यन्यत्रोक्तमाह ।। हिरण्यगर्भेति ।। सर्वविषयं सर्वाधिकारिविषयमित्यर्थः ।। अत इति ।। तत्साधनोपासनस्याऽनेकप्रकारत्वाद्धेतोरित्यर्थः ।

अभिनवचन्द्रिका

भक्त्यादिनेति ।। अनेन अहं तत्वतो यावानस्मि, यश्चास्मि यद्गुणकश्चास्मि, तं मां भक्त्या अभिजानाति अपरोक्षतो जानाति । भक्तिर्मज्ज्ञानसाधनं, ततः तस्मात् भक्त्या मां तत्वतो ज्ञात्वा ज्ञानं सम्पाद्य, अधिकारी तदनन्तरं ज्ञानानन्तरं साधनानन्तरम्, अनुष्ठायेति यावत्, मां विशते मत्सायुज्यं प्राप्नोति’ इति गीतावचनस्य योजनोक्ता भवति । ननु ‘भक्त्या मामभिजानाति’ इति वाक्यं हिरण्यगर्भपरम् । अतो न सर्वेषां सम्पूर्णज्ञानं साधयतीत्यत आह– सामान्यवचनत्वादे-वेति ।। ननु मानसक्रियारूपस्य ध्यानस्य प्रज्ञात्वोक्तिरयुक्तेत्यत आह– अविच्छिन्नेति ।। यद्यपि मानसवासनामयवस्तुविषये अपरोक्षमपि तदन्तर्गतभगवदंशे परोक्षमपि भवतीति भावेन परोक्षज्ञान-सन्ततिरित्युक्तम् । अविच्छिन्नपरोक्षज्ञानस्य श्रवणमननरूपज्ञानस्य सन्ततिः कार्यं ध्यानमित्यर्थ इत्यप्याहुः ।। एवं विशेषबलादिति ।। एवंविधविशेषप्रतिपादकवाक्यबलात् । ‘दृष्ट्वैव तं मुच्यत’ इति श्रुतिः यथायोग्यं दृष्ट्वैवेत्यर्थपरतयोपपन्नेत्यर्थः । ज्ञानतारतम्याङ्गीकारे ‘यावान्यश्चास्मि तत्वत’ इति वचनविरोध इत्यत आह– यावानिति ।। अनेन ‘यावान् यश्चास्मि’ इति वचनस्य योऽहं वेदोक्तगुणवत्तया यावानस्मि, तावन्तं तत्वतो ज्ञात्वा, मां विशत’ इति योजनोक्ता भवति । अनेन हिरण्यगर्भस्यापि ईश्वरविषये असर्वज्ञत्वात्, हिरण्यगर्भविषयतयोपपन्नमित्ययुक्तमिति परास्तम् । हिरण्यगर्भस्य वेदोक्तयावद्गुणदर्शित्वात् ।

पूर्वपक्षस्तु– एकप्रकारमेव सर्वेषामपरोक्षज्ञानम् । भक्त्या मामभिजानाति’ इत्यनेन सर्वेषां पूर्णज्ञानस्य, सम्पूर्णज्ञानेन मोक्षस्य चाऽभिधानात् । अतः सर्वेषां दर्शनसाम्यादुक्तं- मुक्ततारतम्य-मयुक्तमिति ।।

सिद्धान्तस्तु– अनेकप्रकारमेवाधिकारिणां भगवद्दर्शनम् । तत्साधनस्योपासनस्यानेक-प्रकारत्वात् । फलस्य च साधनानुसारित्वात् । न चैवं सम्पूर्णदर्शनाभावात् विरिञ्चेतरेषां मोक्षाभावः । यथायोग्यदृष्टेरेव मोक्षहेतुत्वेन स्वयोग्यदर्शनेन सर्वेषां मोक्षसम्भवात् । अतो ज्ञाने विशेषसद्भावात् युक्तं मोक्षतारतम्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

न भक्तेर्ज्ञानसाधनत्वं युक्तम् । तथात्वे ज्ञानस्यैकप्रकारत्वेन भक्तेरपि तथात्वापत्त्या वृद्धिह्रासभाक्त्वमित्युक्तभक्तितारतम्यायोगप्रसङ्गादित्याक्षेपोत्थानादनन्तरसङ्गतिः । ननु वृद्धिह्रास-भाक्त्वमित्यत्र तस्य च भक्तिज्ञानादेरिति ज्ञानतारतम्यस्याप्युक्तमिति गतार्थमिदमधिकरणमिति चेन्न । तत्र फले तारतम्येन भक्त्यादिसकलसाधनतारतम्यसाधनत्वम् । अत्र तूपासनारूपसाधन-वैचित्र्येणापरोक्षज्ञानरूपसाध्यवैचित्र्यसाधनमिति भेदात् । मोक्षविशेषेति । यावदधिकारमवस्थिति-रित्यत्रोक्तमोक्षविशेषाभावप्रसङ्गादित्यर्थः । किमिति । ज्ञानं किं सर्वेषामेकप्रकारमुतानेकप्रकारमिति चिन्ता । ‘तदर्थं दृष्ट्वैव तं मुच्यते नापरेण’ ‘यावान् यश्चास्मीत्यादिवाक्यं सर्वेषामविशेषितज्ञानस्य मोक्षहेतुत्वप्रतिपादकं न भवत्युत भवतीति । अध्यात्मवचने ‘दृष्ट्वैव तं मुच्यते’ इत्याद्यालापस्य यथायोग्यं दृष्ट्वेति सावकाशत्वकथनात्सूचितमालाप इत्युक्तन्यायं दर्शयन् पूर्वपक्षयति । दृष्ट्वैवेति । ब्रह्मैवं दृष्ट्वाऽदोष एवं दृष्ट्वा इत्यादिविशेषनिर्देशं विहाय दृष्ट्वा मुच्यते इति सामान्येना-विशेषितज्ञानेन मोक्षलाभादित्यर्थः । यो भक्त्या मामभिजानाति परोक्षेण सः ततः भक्त्यादि-साधनात् अहं तत्वतः यावत्परिमाणादिविशिष्टोऽस्मि यश्च यद्रूपविशिष्टोऽस्मि तावन्तं मामपरोक्षं ज्ञात्वा तदनन्तरं मामविलम्बेन विशत इति स्मृत्यर्थः । नन्विदं गीतावाक्यमधिकारिविशेष-नियतमित्यत आह ।। सामान्येनेति ।। सौत्रश्चशब्दः पृथगित्यस्यानुकर्षणार्थ इत्यभिप्रेत्य प्रवृत्तं दर्शनभेद इति भाष्यं व्याचष्टे । अनेकप्रकारमेवेति । अवधारणार्थश्चशब्दः पृथगित्येनन सम्बद्ध्यत इति भावेनानेकप्रकारमेवेत्युक्तम् । प्रज्ञान्तरपृथक्त्ववदिति न दृष्टान्तमात्रे तात्पर्यम् । तथात्वे घटपृथक्त्ववदित्यपि वक्तुं शक्यत्वेन प्रज्ञान्तरपृथक्त्वग्रहणे विशिष्यकारणाभावादतो यथा प्रज्ञान्तरपृथक्त्वं तथैव तदनुसारेणैवेति प्रतिपादने तात्पर्यमिति भावेन व्याचष्टे ।। तत्साधनेति ।। अन्या प्रज्ञा प्रज्ञान्तरमित्यत्र यद्यन्तरशब्दो भेदवचनस्तर्हि प्रज्ञान्तर इत्येव स्यात् पृथक्त्ववदिति व्यर्थमित्यत आह । प्रज्ञान्तरं प्रज्ञाविशेष इति । प्रज्ञान्यमानसक्रियारूपस्य ध्यानस्य कथं प्रज्ञाविशेषत्वोक्तिरित्यत आह ।। अविच्छिन्नेति ।। हिशब्देन ध्यानस्य प्रज्ञान्यत्वे ध्येयरूपादि-विषयत्वानुपपत्तेरिति युक्तिं सूचयति । ननु न ध्यानपरोक्षज्ञानरूपत्वं युक्तम् । लिङ्गशब्दाजन्य-त्वात् । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमिति सुधायामुक्ते-श्चेति चेन्न । अत्र ध्यानस्य परोक्षज्ञानजन्यवासनामयपदार्थविषयकत्वेन परोक्षत्वव्यवहारात् । अत

एव सुधायां श्रवणदर्शनादिजनितमानसवासनामयस्येति श्रवणजन्यज्ञानस्यापि वासनोपादानत्वमुक्तम् ।

यद्वा ध्यानस्य वासनामयपदार्थांशेऽपरोक्षत्वेऽपि तदन्तर्गतभगवद्विषयकत्वे परोक्षत्वात् परोक्ष-ज्ञानसन्ततिरित्युक्तमित्यविरोधः । एतेन ज्ञातःपरमाणुरितिवत् परमात्मन उपनीतत्वेन भानस्याङ्गी-कार्यत्वात् तदंशे परोक्षत्वं नास्तीति निरस्तम् । ज्ञातः परमाणुरित्यादावपि परमाण्वंशे परोक्ष-त्वाभ्युपगमादुपनायकस्य परोक्षत्वेन वा परोक्षत्वव्यवहारः । यद्वा गुणध्यानं चात्र विवक्षितम् । तदंशे परोक्षत्वमिति ।। कदाचिदिति ।। कदाचित्कर्षकाणामिव साध्यसाम्येन दृष्टितारतम्यस्य कदाचिदनियतत्वं किं न स्यादित्यतो दृष्टितारतम्ये नियमस्य सुस्थिरत्वं श्रुत्याहेत्यर्थः । एवं सुस्थिरत्वमिति न्यायोऽपि सूत्रारूढो भवति । न केवलं दर्शनपृथक्त्वं साधनपृथक्त्वहेतुसिद्धं किन्तु तदुक्तं चेति चशब्दस्य तदुक्तमित्यत्राप्यन्वयमभिप्रेत्य भाष्ये तच्चोक्तमित्युक्तं ज्ञेयम् । अन्तर्बहि-रवतारदृष्टयः सर्वदृष्टय इति भ्रमं वारयति । व्याप्तिदर्शिन इति । ‘देवा व सर्वदृष्टयः’ इति व्यक्तिविशेषनिर्धारणोक्ता । अवतारादिदर्शिनः क इत्यस्योत्तरमन्येषु तु यथायोगमिति ।। तद्व्याचष्टे ।। अन्येष्विति ।। अवतारदर्शिषु योग्यतानुसारेण व्यक्तिविशेषनिर्धारणमित्यर्थः । यद्वावतारादिदर्शिष्वपि यथायोगमुत्तरोत्तरमधिकारिणो ज्ञेया इत्यर्थः । तदुक्तमित्यस्यादृष्टि-पृथक्त्वेऽपि सर्वज्ञानिनामुक्तेरित्येतत् स्मृतौ चोक्तमित्यर्थं मत्वा प्रवृत्तमध्यात्म इत्येतदवतारयति ।। यद्यस्तीति ।। विशेषबलादिति ।। विशेषवाक्यबलादित्यर्थः । तेषु चोत्तरोत्तरमाब्रह्मण इति । व्याप्तदर्शिकाष्ठात्वेन ब्रह्मण उक्त्या सूचितं यावान् यश्चास्मीति सावकाशत्वं दर्शयति ।। यावानिति ।। सामान्यतः सर्वज्ञानमिति । सामान्यतः सर्वज्ञानमत्र विवक्षितमितीदं वाक्यं सर्वविषयं चेत्यर्थः ।

सूत्रे क्रियामानसवदित्येतत् विशदयितुं प्रज्ञान्तरमित्युक्तम् । दर्शनस्य पृथक्त्वेऽपि पुनर्दृष्टिग्रहणमन्तर्दृष्टय इति श्रुत्यनुसरणायेति ज्ञेयम् ।

वाक्यार्थविवरणम्

प्रज्ञाविशेषः ।। उपासनेत्यर्थः । सूत्रे दृष्टिः दृष्टिपृथक्त्वमित्यर्थो द्रष्टव्यः । ध्यानरूपो-पासनायाः मानसपरिस्पन्दक्रियारूपायाः कथं प्रज्ञान्तरपदेन ज्ञानरूपत्वमुच्यते इत्यतस्तदुपपादयति ।। अविच्छिन्नेति ।। ननु एवं वासनामयवस्तुनो मनसाऽवलोकनं ध्यानमिति मानसा परोक्षत्वोक्ति-विरोध इति चेदुच्यते । वासनामयवस्त्वंशेऽपरोक्षरूपं तदन्तस्स्थभगवद्रूपविषये च परोक्षरूपमिति नरसिंहाकारज्ञानाङ्गीकारादविरोध इति गुरुचरणाः ।। अनेकविधेति ।। भिन्नभिन्नोपासनारूपानेक-साधनेत्यर्थः ।। साध्यसाम्यम् ।। भगवद्दृष्टिरूपफलसाम्यम् । तत्र दृष्टान्तः ।। कर्षकाणामिवेति ।। तत्रानेकविधं साधनम् । लाङ्गलादिना भूम्याः कर्षणादिसाध्यं धान्यादि । भाष्ये ।। अन्तः ।। स्वरूपहृदयान्तः ।। बहिः ।। स्वरूपात् बाह्यहृदये । पूर्णज्ञानेन सर्वेषामिति शेषः ।। विशेषेति ।। विशेषवचनेत्यर्थः । अन्ये ऋषयः । आन्तरेण दर्शनेन केवलस्वबिम्बदर्शनेन । पूर्वप्रमाणे बहिर्दृष्ट-योऽवतारदृष्टयः’ इत्यत्र मध्यमाधिकारिव्यतिरिक्ताधर्माधिकारिप्रभेदग्रहणम् । ‘बहिर्दृष्टय’ इति चतुर्गुणोपासकाः । अवतारदृष्टय इत्यात्मत्वोपासकाः इति ध्येयम् ।

वाक्यार्थमञ्जरी

अविशेषितेति ।। दर्शने तारतम्यानुक्तेरिति भावः ।। भक्त्येति ।। अहं यावान् यश्चास्मि तावन्तं मां भक्त्या सम्यग्जानाति तदनन्तरं समृद्धेन ज्ञानेन मां प्रपद्यत इत्यर्थः । उक्तं यावदधि-कारमित्यत्र ।। ॐ प्रज्ञान्तरपृथक्त्ववद् दृष्टिश्च तदुक्तं ॐ ।। प्रज्ञान्तरस्य ध्यानस्य पृथक्त्ववत् नानात्ववत् दृष्टिर्ज्ञानं च पृथक् नाना तदुक्तं तज्ज्ञानतारतम्यमन्तर्दृष्टय इति श्रुतावुक्तमित्यर्थः । ननु भाष्ये उपासनानाम ध्यानं विवक्षितं तस्यैवापरोक्षज्ञानसाधनत्वात्ध्यानं न ज्ञानं किं तु मानसी-क्रिया । तथा च प्रज्ञान्तरशब्दस्य ज्ञानविशेषपरत्वे कथमुपासनापदेन तद्व्याख्यानमित्यत आह ।। अविच्छिन्नेति ।। तथा च न ध्यानं मानसीक्रिया तथात्वेऽतीन्द्रियमनोनिष्ठक्रियाया अप्यतीन्द्रियत्वेनापरोक्षावभासविरोधात् क्रियाया रूपरहितत्वेन ध्याने रूपावभासविरोधाच्चेति भावः । ननु न ध्यानस्य परोक्षज्ञानरूपत्वं वक्तुं युक्तं तस्य मानसत्वेनापरोक्षत्वात् । नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैरिति स्मृतेः । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यंगीकारादिति सुधोक्तेश्च । तस्य लिङ्गशब्दाजन्यत्वाच्चेति चेत् सत्यं, ध्यानस्य वासनामयमूर्तिविषयकत्वेनापरोक्षरूपत्वेऽपि परमात्मस्वरूपविषये अपरोक्षरूपत्वायोगेन ज्ञातः परमाणुरित्यादिवदुपनीतभानाभ्युपगमेनोपनायकागमजन्यज्ञानस्य परोक्षत्वेन ध्यानेऽपि परोक्षत्वव्यवहार इत्यदोषः । न च तस्य भगवद्विषयकत्वमेव नेति वाच्यम् । तथात्वे नैष्फल्य-प्रसङ्गात् ।। कर्षकाणामिति ।। विषमसाधनवतामपि कृषीवलानां समानफलवत्त्वदर्शनादिति भावः । विशेषबलात् विशेषवाक्यबलात् ।। हिरण्यगर्भेति ।। तस्यापि श्रुत्युक्तं यावत्त्वं बोध्यम् ।

।। इति  दर्शनभेदाधिकरणम् ।। ३२ ।।