ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ

१३. अथ व्यतिरेकाधिकरणम्

सूत्रभाष्यम्

स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न दशधा न शतधा’ इति गौपवनश्रुतावेकस्याबहुत्वं प्रतीयते । ‘स पञ्चधा स सप्तधा स दशधा भवति स शतधा च सहस्रधा स गच्छति स मुच्यते’ इति पाराशर्यायण-श्रुतौ बहुरूपत्वं प्रतीयते । अतो विरोधं परिहरति–

।। ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ।। २७ ।।

यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति । ‘अथैक एव सन् गन्धवद्व्यतिरिच्यते । अथैकीभवति । अथ बह्वीभवति । तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति सोऽचिन्त्यः परमो गरीयान्’ इति शाण्डिल्यश्रुतिः ।

अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः ।

 आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’ ।। इति च पाद्मे ।

।। इति व्यतिरेकाधिकरणम्् ।।

तत्त्वप्रदीपिका

यथा पुष्पाद्गन्धः पृथग्गच्छतीति दृष्टान्तान्न विरोध आशङ्कनीयः । तं हि परिहरति अथैक एव सन् गन्धवद्व्यतिरिच्यत इति श्रुत्युपादानेन । न च दृष्टान्तदार्ष्टान्तिकयोः सर्वसाम्यम् । बहुभावमात्रविषयो दृष्टान्तः । स च विशेषमात्रप्रापकोऽत्र न भेदप्रापकः । अथैकीभवतीति विशेष-णात् । न हि कदाचिद्भिन्नयोरभेदसम्भवः । एकस्यैव सतो बहुभावः सुखज्ञानाद्यनुसन्धानाच्चा-वसीयते । तद्धि चेतनैक्ये प्रमाणम् । ‘एक आत्मनः शरीरे भावात्’ इति चांशांशिनोरभेदः प्रदर्शयिष्यते । ‘आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’ इति वचनाच्च । न च सर्वेषां बहुभावः । तस्मादबहुभावश्रुतिर्न विरुध्यते । न च परमयोगः पूर्वं प्रत्युक्तः तस्य । श्रुतिस्मृतिपरिगृहीतत्वेना-प्रत्याख्येयत्वात् । अन्यस्मिन्नप्यविरुद्धं स्वीकार्यमस्तीति द्योतितम् ‘इतरेषां च’ इति च शब्दयोजनाबलात् । तं च शब्देन भागोपलब्धिरङ्गीकृतेति हि व्याचख्यौ । ‘भाग’ एकदेशः । तत्र तेभ्यस्तु विशेषशङ्कास्पदत्वेनायमतिदेश्योऽभूत् । तेभ्योऽधिकं प्रमाणोपपन्नत्वं विशेषशङ्काबीजम् । परिहारे विशेषः प्रमाणोपलब्धभागस्वीकार इति भवति कथञ्चित् । एतेनैतदप्यपास्तं, यद्योगिनो बहुदेहेषु युगपद्भोगयोगार्थं सर्वगतत्वं जीवानां कल्पयन्ति । अंशबहुत्वेनैव तदुपपत्तेरुक्तत्वात् । अन्तःकरणस्य चाव्याप्तस्य देहे देहे पृथग्गतिमिच्छन्ति चेद्योगिभोगाय भोक्तुस्तथा किमिति नेच्छेयुः । नेच्छन्ति चेद्देहान्तरेषु भोगाभावप्रसङ्ग इति ।

तत्त्वप्रकाशिका

अत्रेश्वरे श्रुतिसमन्वयसिध्द्यर्थं जीवविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे हरौ श्रुतीनां समन्वयः प्रागुक्तः । स च श्रुतीनां विरोधेनाप्रामाण्ये न युक्तः स्यादिति सर्वथा निराकार्यः । प्रकृतो जीव एव विषयः । किमेकरूपः किं वाऽनेकरूप इति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयति ।। स इति ।। जीवत्वज्ञापनायादिवाक्योद्धारः । एकरूप एवेति पूर्वः पक्षः । ‘स एकधा’ इति श्रुतेः । न चान्यत्राप्यस्ति श्रुतिरिति वाच्यम् । ऐकरूप्यश्रुतेः सयुक्तिकत्वात् । युज्यते खलु विभावात्मनि योगप्रभावेन शरीरबहुतया बाहुरूप्यम् । तच्च निषिद्धम् । न च वक्तव्य-मणोरप्यात्मनोंऽशबाहुल्याद् बहुरूपत्वमिति ।। निरवयवत्वात् । ‘स नित्यो निरवयवः’ इति श्रुतेः । न च मन्तव्यं योगिनोऽघटितघटकसामर्थ्यवत्त्वेनोपपन्नं बहुरूपत्वम् । दृश्यते हि समाधि-सामर्थ्यादेव तेषां समुद्रपानादीति । तथा सति जीवस्येश्वरेण गुणसाम्यापातात् । एतदेवैश्वर्यं यत्कर्तुमकर्तुमन्यथाकर्तुं सामर्थ्यम् । अतः सयुक्तिकैतत् श्रुतिविरोधेन बहुरूपश्रुतिरप्रमाणमेव । न च श्रुतेरीश्वरविषयता । स विमुच्यत इति जीवलिङ्गात् । ततश्च न हरौ श्रुतिसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतारयति ।। अत इति ।। अतो विरोधः सन्देहबीजमस्ति तं परिहरतीत्यर्थः । सूत्रं व्याचष्टे ।। यथेति ।। अस्त्येव जीवस्य बहुरूपत्वम् । अणुत्वेऽप्यंशव्यतिरेकेण बहुत्वोपपत्तेः । न चांशिनं विहायान्यत्रांशस्य गमनमनुपपन्नम् । गन्धादौ दृष्टत्वात् । न च श्रुतिविरोधः । तस्याः स्वरूपैक्यविषयत्वात् । न च भिन्नांशशून्यत्वादनुपपत्तिः । योगसम्पदा तदुपपत्तेः । न चेश्चरेण साम्यापातः । योगिनामपि बहुरूपत्वशक्तेर्योगाराधितेश्वरप्रसादायत्तत्वात् । न चेश्वरस्याप्येतद-शक्यम् । तस्याचिन्त्यशक्तित्वात् । कुत एतत्सर्वमिति चेदथेतिश्रुतेरेवेति भावः । अत्र चशब्दसूचितां स्मृतिं च दर्शयति ।। अचिन्त्ययेति ।। तदेवं श्रुत्यविरोधेन जीवस्य बहुरूपत्वोपपत्तेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

आदिवाक्योद्धार इत्यत्र ‘स नित्यो निरवयवः पुण्ययुक्पापयुक्च’ इति वाक्यस्याऽऽदिभागोद्धार इत्यर्थः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ।। पूर्वाधिकरणेऽणुत्वेन सांशत्वेन च प्रकृत इत्यर्थः । तथा च यदि जीवोऽणुस्तर्हि योगिनो बहुरूपत्वायोग इति पूर्वपक्षोत्थानाद्वा तस्य च ‘अविरोधश्चन्दनवत्’ इत्युक्तार्थोपपादकतया सङ्गतौ स्थितायामिति सुधोक्तरीत्या अविरोधश्चन्दनव-दित्युक्तं, सांशत्वमयुक्तं निरवयवत्वेन श्रुतत्वादित्याक्षेपाद्वाऽनन्तरसङ्गतिरिति भावः ।। किमिति ।। अत्र जीवः किमेकरूपः किं वाऽनेकरूप इति चिन्ता । तदर्थं जीवस्य बहुरूपत्वश्रुतिः किं निरवयत्वश्रुत्यनुगृहीतया एकरूपत्वश्रुत्या बाधिता न वेति । तदर्थमेकरूपत्वश्रुतिः जीवस्यांश-राहित्यपरत्वेन निरवकाशोत स्वरूपैक्यमात्रपरत्वेन सावकाशेति । तदर्थं भिन्नांशरहितस्य बहुरूपत्वं न घटत उत योगसामर्थ्यात् घटत इति । तदर्थं योगिनोऽघटितघटनाशक्तिमत्वे ईशेन गुणसाम्यमापद्यते न वेति । तदर्थं सा शक्तिः किं योगिनो स्वातन्त्र्येणोतेश्वरप्रसादेनेति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति ।। निरवयव इति श्रुतेरिति ।। अनेन पूर्वांशोदाहरणस्य युक्तिसूचकत्वेनापि प्रयोजनमुक्तं भवति । जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यमिति न्यायविवरणं व्याचष्टे ।। तथा सतीति ।। ‘एक एव सन्’ इति, श्रुत्यनुसारेणाह– तस्याः स्वरूपैक्यविषयत्वादिति ।। योगि-नामपि बहुरूपत्वशक्तेरिति ।। ‘तं यथा यथेश्वरः प्रकुरुते’ इति श्रुत्यंशव्याख्यानपरेणानेनेश-शक्त्यैव बहुरूपत्वादेरिति न्यायविवरणमपि व्याख्यातं भवति ।

भावदीपः

जीवविषयेति ।। जीवस्य बहुरूपत्वैकरूपत्वविषयेत्यर्थः । भाष्ये स एकधेत्यादौ वाच्ये पुण्ययुगित्याद्युक्तिर्व्यर्थेत्यत आह ।। जीवत्वेति ।। स नित्यो निरवयव इत्यंशोक्तिस्तु निरवयवत्व-रूपपूर्वपक्षयुक्तिसूचनायेति भावः । अन्यत्रापि बाहुरूप्येऽपीत्यर्थः । अणुत्वादेकरूप एवेति युक्तिमभिप्रेत्य तस्याप्रयोजकत्वनिरासाय विपक्षे हेतूच्छित्तिर्बाधिकेति भावेनाह ।। युज्यत इति ।। अविरोधश्चन्दनवदित्यनेन गतत्वमाशङ्क्य तन्निरासाय भाष्यसूचितयुक्तिमाह ।। न चेति ।। निरवयवत्वाद्भिन्नावयवशून्यत्वादित्यर्थः । निरवयवत्वोपपादनाय नित्य इत्यंशस्याप्युक्तिरन्यथा प्रागुक्तदिशाऽनित्यत्वं स्यादिति भावः । तेषाम् अगस्त्यसौभरिकर्दमादीनाम् । उक्तशङ्कानिरासाय जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यमित्यन्यत्रोक्तयुक्तिमाह ।। तथा सतीति ।। विष्टिगृहीतो नाकर्तुं शक्नोतीत्यकर्तुमित्युक्तम् ।। अत इति ।। यतोऽणुत्वं यतश्च निरवयवत्वं यतश्च योगाद्वाहुरूप्ये गुणसाम्यापातोऽत इत्यर्थः । साध्यमध्याहृत्य तत्र हेतुत्वेन एवमित्यादिभाष्यदिशा सूत्रार्थमाह ।। अस्त्येवेति ।। व्यतिरेकेण विभागेन अंश्यपेक्षयांशस्य पार्थक्येनेत्यर्थः । भाष्ये यथेत्यादिदृष्टान्तोक्तेरुपयोगमाह ।। न चेति ।। दर्शयतीत्युक्तश्रुतावेकीभवतीत्युक्तेरुपयोगमाह ।। न चेति ।। स एकधेति श्रुतीत्यर्थः । स्मृत्यनुरोधाच्छ्रुतावपि यथेत्यतः पूर्वं योगसम्पदेति शेषं मत्त्वा तदुपयोगमाह ।। न च भिन्नांशेति ।। यथा यथेत्यादेरुपयोगमाह ।। न चेश्वरेणेति ।। ईशशक्त्यैव बहुरूपत्वादेरित्यन्यत्रोक्त्यनुरोधेन यथा यथेत्यादिश्रौतपदतात्पर्यमाह ।। योगिनामपीति ।। अचिन्त्यपदकृत्यमाह ।। न चेश्वरस्यापीति ।। कृतं व्याख्यानं श्रुतिनिष्ठं करोति ।। अथेति श्रुतेरेवेतीति ।। स्मृतिमिति ।। श्रुतौ योगसम्पदेत्यस्याभावात्स्मृत्युक्तिरिति भावः । तत् तस्मात् ऐकविध्यश्रुतेः स्वरूपैक्यपरत्वात् एवम् ईश्वरप्रसादोपचितयोगसामर्थ्यायत्तं बहुरूपत्वमित्युक्त-प्रकारेणेत्यर्थः ।

अभिनवचन्द्रिका

किमेकरूप इति ।। किमेकदा एकदेहावच्छिन्नः, अथवा तदैवाऽनेकदेहावच्छिन्न इति सन्देह इत्यर्थः ।। पूर्वपक्ष इति ।। यद्यपि भाष्यकृता सन्देहनिरासमात्रेण अधिकरणस्याऽर्थवत्त्वात् सन्देह एव प्रदर्शितो न पूर्वपक्षः, तथापिऽसन्देहनिरासवत् पूर्वपक्षनिरासोऽपि अधिकरणप्रयोजनमिति भाष्यकृदभिमतत्वात्पूर्वपक्षः प्रदर्शितः ।। तथा सतीति ।।  समुद्रपानादिकर्तारो न योगिनः, रामकृष्णादिवत् परमेश्वररूपाण्येवेति भावः । एतेन अघटितघटनासामर्थ्यं न परमेश्वरेण गुणसाम्या-पादकं तादृशसामर्थ्यवत्स्वपि कुम्भोद्भवादिषु परमेश्वरसाम्याभावादिति परास्तम् । ‘अत’ इत्यस्य परिहरति’ इत्यनेनाऽन्वयाऽयोगात् शेषं पूरयित्वा व्याचष्टे – अतो विरोध इति ।। गन्धादौ दृष्टत्वादिति । यद्यपि गन्धो गुणो नांशः, तथापि गुणोऽपि यदा व्यतिरिच्यते किमु तदा अंशस्य अंशिव्यतिरेके वक्तव्यमिति भावेन गुणो दृष्टान्तत्वेनोपात्त इति ।

पूर्वपक्षस्तु – जीवो नैकदाऽनेकशरीरावच्छिन्नः किन्तु एकेनैव । ‘स एकधा न सप्तधा’ इति श्रुतेः । न च अन्यत्राप्यस्ति श्रुतिरिति वाच्यम् । तस्या युक्तिविरुद्धत्वेनाऽप्रामाण्यात् । तथा हि अनेकशरीरावच्छिन्नत्वं हि द्वेधा भवेत् । जीवस्य विभुत्वेन वा, सांशत्वेन वा । नोभावपि पक्षौ सम्भवतः, अणुत्वे निरवयवत्वे च श्रुतिसद्भावात् । न च उभयाभावेऽपि योगिनामघटितघटकसामार्थ्यवत्त्वेन उपपन्नमनेकशरीरत्वम् । दृश्यते हि तेषां समुद्रपानादिकमिति वाच्यम् । तथात्वे जीवस्य ईश्वरेण गुणसाम्यप्रसङ्गात् । अतः सयुक्तिकैतच्छ्रुतिविरोधेन बहुरूपश्रुतेरप्रामाण्यात् न हरौ श्रुतिसमन्वयो युक्त इति ।

सिद्धान्तस्तु – न जीवस्यैकरूपत्वमेवेति नियमः, किं तर्हि योगाद्यापादितेश्वरानुग्रहेण केषांचित् युगपदनेकरूपत्वमपि । न च अंशिनं विहायांशस्य गमनानुपपत्तिः । दृश्यते खलु गुणस्यापि गन्धस्य धर्मिणं विहायान्यत्र गतिः, सति चैवं काऽनुपपत्तिः । द्रव्यस्यांऽशस्य अंशिनं विहाय अन्यत्र गमने । न च ‘एकधेति श्रुतिविरोधः – तस्य स्वरूपैक््यविषयत्वात् । कुत एतत्सर्वमिति चेत्, अथैक एव सन् गन्धवत् व्यतिरिच्यते, ‘अथैकीभवति’ इति श्रुतेः । अत एव श्रुत्यविरोधेन जीवस्य बहुरूपत्वोपपत्तेः युक्तो हरौ श्रुतिसमन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिं सूचयन् विषयमाह प्रकृत इति ।। अणुत्वेन, सांशत्वेन च प्रकृत इत्यर्थः ।। तथा च यदि जीवोऽणुस्तर्हि योगिनो बहुरूपत्वायोग इति प्रधानसूत्रेण वा सांशत्वेऽपि निरवयवत्वश्रुतिविरोध इत्यविरोधश्चन्दनवदिति गुणसूत्रेण वा अनन्तरसङ्गतिरिति भावः ।। किमेकरूप इति ।। जीवः किमेकरूपः किं वाऽनेकरूप इति चिन्ता । तदर्थं जीवस्य बहुरूपत्वश्रुतिः किं निरवयत्वश्रुत्यनुगृहीतया एकरूपत्वश्रुत्या बाधिता न वेति ।। तदर्थमेक-रूपत्वश्रुतिर्जीवस्यांशराहित्यपरत्वेन सावकाशा उत स्वरूपैक्यमात्रपरत्वेन सावकाशेति ।। तदर्थं भिन्नांशरहितस्य बहुरूपत्वं न घटते ।। उत योगसामर्थ्याद्घटत इति ।। तदर्थं योगिनोऽघटित-घटनाशक्तिमत्वे किमीशेन गुणसाम्यमापद्यते न वेति ।। आदिवाक्येति ।। स एकधेत्यतःपूर्ववाक्य-स्येत्यर्थः ।। उपलक्षणमेतत् ।। द्वितीये श्रुतौ स विमुच्यत इत्यन्तस्य चेति ग्राह्यम् ।। सयुक्ति-कत्वादिति ।। अणुत्वसाधकोत्क्रान्त्यादियुक्तियुक्तत्वादित्यर्थः । अत एव इमं लोकममुं चावर्तत इत्यंशोदाहरणमिति भावः । नन्वनया श्रुत्याऽणुत्वलाभेऽपि कुतः श्रुत्यन्तरविरोधिताऽनेक-रूपत्वाभाव इत्यत आह । युज्यत इति ।। अविरोधश्चन्दनवत्’ इत्यणोरप्यंशबाहुल्यस्योक्तत्वात् बहुरूपत्वं सम्भवतीत्याशंक्य तत्प्रतिक्षिपति ।। न च वक्तव्यमिति ।। निरवयव इति श्रुतेरिति ।। अनेन पूर्वांशोदाहरणस्यैतद्युक्तिसूचकत्वेनाप्युपयोग इत्युक्तं भवति । योगसम्पदा इत्येतद्व्यावर्त्यमाह ।। न चैवमिति ।। अचिन्त्ययेशशक्त्येत्यत्र वक्ष्यमाणेशशक्तिरित्युक्तसिद्धान्तन्यायव्यावर्त्यं गुणसाम्यमित्युक्तपूर्वपक्षन्यायमाह ।। तथा सतीति ।। कृत्स्नप्रसक्तिसूत्रे ईश्वरशक्त्या जीवस्य कार्येषु सामर्थ्यैकदेशेन प्रवृत्तेरुक्तत्वादिहेश्वरशक्त्या द्रव्यतो निरंशस्यांशव्यतिरेकोक्तेर्न गतार्थता । सूत्रे अणोरपि, ज्ञस्य, स्वात्मनेति, पदत्रयमनुवर्तते । ततश्चाणोरपि ज्ञस्येश्वरशक्त्या गन्धवत्पुष्प-गतादंशिनो गन्धांशानामिव व्यतिरेको विश्लेषोभवति । कुतः तथा दर्शयति श्रुतिः स्मृतिश्च तथा वक्तीति सूत्रार्थः । स्वात्मनेत्यस्याननुवृत्तौ प्रतिज्ञाप्रमाणयोरेकार्थत्वाभावप्रसङ्गः । उक्तं च सुधायां सूत्रोपात्ताभ्यां श्रुतिस्मृतिभ्यां यस्मादेवमभिधीयते । प्रतिज्ञाप्रमाणयोरप्येकार्थताया आवश्यकत्वादिति ।। गन्धादाविति ।। पुष्पस्थादंशिगन्धादंशानां पृथक्त्वनिदर्शनादित्यर्थः ।। न च श्रुतीति ।। ‘स एकधा’ इत्यादि श्रुतिरित्यर्थः । एक एव सन्निति श्रुत्यनुसारेणाह ।। स्वरूपैक्येति ।। गन्धवैषम्यं शङ्कते ।। न च भिन्नेति ।। गन्धेंशांशिनोर्भेदाभेदात् । भेदस्य सत्वाद्व्यतिरेको युज्यते । चेतनस्य त्वत्यन्ताभेदाद्व्यतिरेको न युज्यत इति भावः । सूत्रे दृष्टान्तोपादानन्तु भेदहीनस्यापि व्यतिरेक-सम्भावकतया भेदमात्रेणेति ध्येयम् ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ।। प्रकृत इति ।। पूर्वाधिकरणेऽणुत्वेन सांशत्वेन च प्रकृत इत्यर्थः । तथा च यदि जीवोऽणुस्तर्हि बहुरूपत्वायोग इति पूर्वपक्षोत्थानाद्वा, अविरोधश्चन्दनवत् इत्युक्तं सांशत्वस्मृत्युक्तं निरवयवत्वेन श्रुतत्वाद्वानन्तरसङ्गतिरिति भावः । ननु स नित्यो निरवयव इत्येवोदाहर्तव्यम् । प्रकृतोपयोगात् । ‘पुण्ययुक्’ इत्यादि तु कथमुदाहृतमित्यत आह ।। सयुक्ति-कत्वादिति ।। बाहुरूप्यासम्भवरूपयुक्तियुक्तत्वात् इत्यर्थः । नन्वात्मनो विभुत्वेन योगप्रभावेन शरीरबहुतया बाहुरूप्यं भविष्यतीत्यत आह ।। युज्यते खल्विति ।। तच्च निषिद्धमिति ।। अतीताधिकरण इत्यर्थः । अणुत्वेऽप्यंशबाहुल्यात् बाहुरूप्यं इत्याशङ्क्य निषेधति ।। न च वक्तव्यमिति ।। निरवयवत्वं प्रसिद्धमित्यत आह ।। स नित्त्य इति ।। अघटितघटकशक्तिमत्वं प्रत्यक्षसिद्धमित्याह ।। दृश्यते हीति ।। ननु जीवस्यैश्वर्याभावात्तेन कथं गुणसाम्यमित्यत आह ।। एतदेवेति ।। एक एव सन्निति श्रुत्यनुसारेणाह ।। तस्या इति ।। अनुपपत्तिरिति ।। अंशिनं विहायान्यत्रागमनानुपपत्तिरित्यर्थः । अत्र सूत्रे गन्धवच्छब्देनात्यन्तभेदहीनस्यापि व्यतिरेकं सम्भावको दृष्टान्त उक्तः । दर्शयति च शब्दाभ्यां अत्यन्तभिन्नस्यापि व्यतिरेके श्रुतिस्मृती प्रमाणीकृते । तत्सम्भावक योगसामर्थ्यंयोगिनस्तादृशसामर्थ्यदातृत्वरूपमीश्वरसामर्थ्यं च ताभ्या-मेवोक्तमिति न सूत्रे पृथगुक्तम् । प्रमिते चानन्यगतिके चाविरोध ईश्वरशक्त्येति नातिप्रसङ्गः ।

वाक्यार्थविवरणम्

स एकधा’ इत्यादेरेव प्रकृतोपयोगात् ‘स नित्य’ इत्यादिभागोदाहरणं व्यर्थमत आह ।। जीवत्वेति ।। ‘स एकधा’ इत्यस्य जीवपरत्वज्ञापनायेत्यर्थः । तत्र पुण्यपापयुक्तत्वरूपजीव-लिङ्गोक्तेरिति भावः ।। सयुक्तिकत्वादिति ।। युक्तिश्चेशेन गुणसाम्यरूपा वक्ष्यमाणा द्रष्टव्या । नन्वेकरूप एवेति न युक्तम् । ऐकरूप्यश्रुतेर्जीवस्यैकरूपत्वमस्तु । अनेकरूपत्वमप्यस्तु बहुरूपत्व-श्रुतेः । न चासम्भवः । योगिनां योगप्रभावेण गृहीतशरीराणां बहुरूपतया बहुरूपत्वोपपत्तेरतो न विरोध इति चेत्तत्राह ।। युज्यत इति ।। यद्यात्मा विभुः स्यात् तदैव तस्य योगप्रभावेण गृहीतानां शरीराणां बहुत्वेन युगपत्तेषु प्रवेशसम्भवेन बाहुरूप्यं युज्येत । एवं चानेकरूपत्वप्रतिपादिका श्रुतिस्तद्विषयिणी स्यात् । न चैवं, विभुत्वस्य निषिद्धत्वात् । अणुत्वस्यैव समर्थितत्वात् । अणोश्चात्मनो योगप्रभावेण युगपच्छरीरबाहुल्यं सम्भवेऽपि युगपत्तत्र प्रवेशासम्भवादित्यर्थः ।। उपपन्नमिति ।। अणुत्वेऽपीति शेषः । अघटितघटकसामर्थ्यवत्त्वमेव कुत इत्यत आह ।। दृश्यते हीति ।। तेषाम् ।। अगस्त्यादीनाम् । आदिपदेन पुनर्विसर्जनं ग्राह्यम् । नन्वेतादृशसामर्थ्य-वत्त्वमात्रेण कुत ईश्वरेण गुणसाम्यमित्यत आह ।। एतदेवेति ।। श्रुतेः ।। स एकधेति श्रुतेः ।

ननु विभुत्व एव योगप्रभावेण तत्सम्भवो नाणुत्व इत्युक्तमिति चेत्तत्राह । अणुत्व इति अंशव्यतिरेकेण । अंशिनः सकाशात् पृथग्गमनेनेत्यर्थः ।। श्रुतिः ।। ऐकरूप्यश्रुतिः ।। अनुपपत्ति-रिति ।। भिन्नांशवत्त्वे हि तेषामंशानामंशिनं विहायान्यत्र गमनमनुपपन्नं स्यात् न ह्येवम् । तस्य भिन्नांशरूपशून्यत्वेनांशानामंशिनाऽत्यन्ताभिन्नतयांऽशिनं विहायान्यत्र गमनमनुपपन्नमित्यर्थः ।। योगेति ।। स्वीययोगसामर्थ्येनेत्यर्थः । योगो नाम ‘ईश्वरे मनःप्रणिधानम्’ ।। साम्यापात इति ।। जीवरूपबहुरूपत्व इति शेषः । बहुरूपत्वस्य स्वेच्छाधीनत्वे हि ईशेन गुणसाम्यापातः । न चैवं, किन्त्वित्यत आह ।। योगिनामपीति ।। एतदिति ।। योगिनां बहुरूपत्वशक्तिनियामकत्वम् । भाष्ये अवयववर्जित इत्यस्य भिन्नांशेनाभिन्नांशेन च वर्जितो योगीश्वर इत्यर्थः ।। आत्मानम् ।। स्वात्मानम् ।। जीवस्येति ।। योगिजीवस्येत्यर्थः ।। बहुरूपत्वेति ।। ईशसामर्थ्येन स्वरूपणैव बहुरूपत्वोपपत्तेरित्यर्थः । यथोक्तं ‘अच्छेद्यस्यापि जीवस्य’ इत्यादि अनुव्याख्यानं । उक्तं च सुधायां ‘अत्र योगिनां स्वरूपेणैवानेकरूपत्वं प्रतिपाद्यत’ इति ।

वाक्यार्थमञ्जरी

जीवत्वेति ।। एकधेत्युक्तस्येति शेषः । तत् विभुत्वं तेषाम् अगस्त्यादीनां कथमित्यतोऽ-घटितघटनमेवैश्वर्यशब्दार्थमित्याह ।। एतदेवेति ।। अशक्यं कर्तुम् अनिष्टमकर्तुम् एकप्रकारोपेतस्य प्रकारान्तरोपेततया कर्तुं सामर्थ्यमित्यर्थः । अत इत्यस्य परिहरतीत्यनेनान्वयायोगादाह ।। अतो विरोध इति ।। ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ।। अणोरपि जीवस्यांशैर्व्यतिरेकः विभागोऽस्ति कथं गन्धवत् । यथा पुष्पाद्गन्धस्य विभागस्तद्वत् कुतः तथा तेन रूपेण अथैक एवेति श्रुतिर्दर्शयति यत इत्यर्थः । स्वरूपैक्यविषयत्वादिति ।। ‘एक एव सन्’ इत्युक्तेरिति भावः ।

।। इति व्यतिरेकाधिकरणम्् ।।