ॐ आसीनस्सम्भवात् ॐ
६. आसनाधिकरणम्
सूत्रभाष्यम्
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ।। ७ ।।
तत्त्वप्रदीपिका
सर्वदोपास्तिः कार्येत्युक्तम् । अनुव्याख्यायां च–
‘श्रवणादि विना नैव क्षणं तिष्टेदपि क्वचित् ।
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत्’ इति ।।
अतः स्थितिगत्यासनादिष्वविशेष इत्यत आह– आसीनस्सम्भवात् ।। आसनानामपि पद्मस्वस्तिकादीनां यथासम्भवं ग्रहणम् । यत्रैकाग्रतेत्युच्यमानन्यायस्यात्राप्यनुसर्तव्यत्वात् ।।
तत्त्वप्रकाशिका
अत्र भगवद्दर्शनसाधनध्याने आसनादिनियमसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा तदुपदेशा-नर्थक्यप्रसङ्गात्समर्थनीयमेतत् । प्रकृतभगवदुपासनार्थमासनाद्युच्यते ‘उपविश्यासने युञ्ज्याद्योग-मात्मविशुद्धये’ इत्यादौ । तदासनमत्र विषयः । सर्वथापेक्षितं न वेति सन्देहः । द्विविधसाधनदर्शनं सन्देहबीजम् । नासनं सर्वथाऽपेक्षितमिति पूर्वः पक्षः । तत्कृत्याभावात् । भगवत्संदर्शनार्थं हि सर्वमुपासनाद्यन्वेष्टव्यं प्रयोजनान्तराभावात् । तस्य च ज्ञानस्य मनसो भगवद्विषयत्वमात्रेण सम्भवात्किमस्त्यासनादिना कृत्यम् । न च वाच्यं मनसः सम्यग्भगवद्विषयत्वस्यैव ज्ञानसाधनत्वेऽपि तदर्थमेवासनमिति । आसनं विना मनसो भगवति निवेशनासम्भवे ‘स्मर्तव्यः सततं विष्णुः’ इत्यादिविधीनामनुपपत्तिप्रसङ्गात् । तस्मादासनादेरावश्यकत्वाभावात्तदुपदेशाप्रामाण्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। आसीन इति ।। जिज्ञासुरासीन एवोपासनं विशेषतः सर्वथा कुर्यात् । उपासनस्यैव ज्ञानसाधनत्वेऽपि तस्यासने सत्येव सम्भवादन्यथाऽसम्भवात् । आसीनस्य चित्तविक्षेपासम्भवादन्यस्य तन्नियमात् । नन्वासीनस्योपासने सर्वदोपासनाभावः । मैवम् । सदोपासनं कार्यम् । आसनं चापेक्षितमेवेति भावः ।।
भावबोधः
आसनादिनियमसमर्थनादिति ।। पूर्वाधिकरणेषु प्रधानस्य ध्यानस्यावश्यकत्वमुक्त्वा इदानीं तदङ्गरूपासनादिनियमसमर्थनादनन्तरसङ्गतिरिति भावः । यद्यपि ‘आ प्रायणात्’ इत्येतदनन्तर-मेतद्भवेत्; तथापि यथा जिज्ञासूनामासनादिनियमस्य चित्तविक्षेपनिवारकत्वेन ध्यानस्य ज्ञान-जनकत्वापादकत्वं न तथा ज्ञानिनां तेषां चित्तविक्षेपाभावादिति विशेषप्रदर्शनाय ततः पूर्व-मेतत्करणमिति भावः । अत एव वक्ष्यते जिज्ञासुरासीन एवेति । आसनादिनियमेत्यादौ ‘स्मरन्ति च’ इत्यादिसूत्रानुरोधेन ‘आदि’पदप्रयोग इत्यवधेयम् । अत एव न्यायविवरणे आसनादि-नेत्यादिपदप्रयोग इति ज्ञेयम् ।। आत्मविशुद्धय इत्यादाविति ।। ‘अत्रादि’पदेन ‘कायशिरोग्रीवम्’ इत्युदाहरिष्यमाणवाक्यसङ्ग्रहः । तदासनमत्र विषय इत्यादौ आसनपदमन्यविषयोपलक्षणमिति बोद्धव्यम् ।। सर्वथेति ।।
अत्रासनादिसर्वथापेक्षितं न भवत्युत भवतीति चिन्ता । तदर्थमासनं विना मनसः सम्यग्भगव-द्विषयत्वं सम्भवत्युत न सम्भवतीति । तदर्थमासनस्य सर्वापेक्षितत्वे ‘स्मर्तव्यः सततं विष्णुः’ इत्यादिविधयो विरुध्यन्ते उत न विरुध्यन्त इति । तदर्थमासनादिनियमग्राहकप्रमाणस्य सर्व-दोपासनविधीनां किमेकविषयत्वमुत भिन्नविषयत्वमिति । भिन्नविषयत्वेऽपि प्रत्याहारादिनैवासन-नियमसाध्यत्वेनाभिमतश्चित्तविक्षेपपरिहारो भवत्युत न भवतीति । तदर्थमासनादीनामावश्यकत्वे प्रमाणं नास्त्युतास्तीति । तदर्थमासनादिनियमप्रतिपादकप्रमाणस्य देशकालादिनियमप्रतिपादक-प्रमाणसमानयोगक्षेमत्वमस्त्युत नास्तीति ।
ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति न्यायविवरणोक्तपूर्वपक्षयुक्तिमाह– तत्कृत्याभावादित्यादिना ।। ‘ज्ञानस्य’ इत्यनन्तरम् ‘मनसः’ इति पदमध्याहृत्योदाहृतं न्यायविवरणं योजयति– तस्य च ज्ञानस्येति ।। अध्याहाराभावे ज्ञानस्य सम्यग्भगवद्विषयत्वं ज्ञानपूर्तिहेतुत्वेन प्रतीयते । तच्चानुपपन्नमिति भावः । सर्वदोपासनं कुर्वन्नपीत्यादिभाष्याद्यनुरोधेनाह– आसनं विनेति ।
‘असीनस्य भवेत्तत्तु न शयानस्य निद्रया ।
स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवात् ।।’
इति स्मृत्यनुसारेण तदा विक्षेपाल्पत्वेनेति भाष्यं व्याचष्टे– आसीनस्य चित्तविक्षेपा-भावादन्यस्य तन्नियमादिति ।। ध्यानविरोधिबहुचित्तविक्षेपाभावादित्यर्थः । आसनादिना निश्चलत्वादिविशेषकार्योपपत्तेरिति न्यायविवरणं यदि निश्चलत्वं मनसो विवक्षितं तदासीनस्य चित्तविक्षेपाभावादित्यनेन व्याख्यातमिति द्रष्टव्यम् । तत्र निश्चलत्वादीत्यादिपदेनासनादिपदोक्त-स्वनासिकाग्रावलोकनादिनिबन्धनान्यदर्शनाभावादिग्रहणम् । यदि निश्चलत्वपदेन शरीराचलत्वं विवक्षितं तदा तच्चासने सत्येवेति तदावश्यकमित्यनेन व्याख्यातं भवति । अस्मिन् पक्षे न्याय-विवरणगतं द्वितीयादिपदेन मनसो निश्चलत्वमपि ग्राह्यम् । सर्वदोपासनं कुर्वन्निति भाष्याभि-प्रायमाह– सर्वदोपासनं कार्यमिति ।।
भावदीपः
ध्यान इति ।। स्मरणोपासनं चेति स्मृत्योपासनस्य द्वैविध्यात्तत्र स्मरणरूपोपासने आसना-नियमेऽपि ध्यानरूपोपासने आसनादिनियमसमर्थनादित्यर्थः । सूत्रे आसनमात्रोक्तिरुपलक्षणम् । स्मरन्ति चेत्यत्र तथोक्तेरिति भावः । एतेनातीतनयैरुक्तमविवेचितनित्योपासनमुपजीव्येहासनादि-नियमाक्षेपेण शङ्कोदयाद्वा प्राङ्नित्यशः कार्यत्वेनोक्तोपासनस्येह ध्यानस्मरणभेदेन विवेकपूर्व-मितिकर्तव्यताकथनाद्वा पूर्वसङ्गतिरिति सूचितम् । समर्थनफलमाह ।। तदुपदेशेति ।। नन्वेतावता प्रागुक्तप्रमेयाविरोधाद् व्यर्थेयं चिन्तेति चेत् । न । ‘उपविश्यासने युञ्ज्यात्’ इत्याद्युपदेशानर्थक्ये प्रागुक्तेतिकर्तव्यतोपदेशेऽप्यनाश्वासप्रसङ्गादिति तात्पर्यात् । षष्ठगीतावाक्यमाह ।। उपविश्येति ।। द्विविधेति ।। आत्मत्वाद्युपासनं सर्वथापेक्षितम् । गुणान्तरोपासनं तु न तथा दृष्टमिति भावः । ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमित्यन्यत्रोक्तप्रतिज्ञामुक्त्वा तत्र हेतु-मध्याहृत्य तदुपपादकत्वेन तत्रोक्तहेतुं योजयति ।। नासनमित्यादिना ।। भगवत्सन्दर्शनार्थं हीति ।। प्रकाशश्च कर्मण्यभ्यासात् तन्निर्धारणार्थनियम इत्यादौ तथोक्तेरिति भावः ।। तस्येति ।। दर्शनस्येत्यर्थः । तस्य सम्भवादिति पूर्तेरित्यस्यार्थः ।। मनस इति ।। एतेन ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानपदेन मनसो ग्रह इति सूचितम् । सौत्रहेतुव्यावर्त्यमन्यत्रोक्तमुक्त्वा ध्यानाच्चेति सूत्रव्यावर्त्यं शङ्कापूर्वं व्यनक्ति ।। न च वाच्यमित्यादिना ।। ‘स्मर्तव्यः सततं विष्णुः’ इत्यादिसदाचार-स्मृत्युक्तवचनम् ।। तस्मादिति ।। कृत्याभावादित्यर्थः । उपासनं कुर्वन्नित्यस्यार्थं वदन् भाष्यं व्याचष्टे ।। जिज्ञासुरिति ।। अपिपदार्थं वदन्नेव भाष्यशेषं व्याचष्टे ।। उपासनस्यैवेत्यादिना ।। सर्वदेति पदतात्पर्यं शङ्कापूर्वं व्यनक्ति ।। आसीनस्येति ।।
अभिनवचन्द्रिका
सर्वथाऽपेक्षितं न वेति ।। सर्वथापेक्षितमेव वा, उत कृताकृतमितिसंदेह इत्यर्थः ।। द्विविधेति ।। द्विविधानि लोके साधनानि दृश्यन्ते । कानिचिदवश्यंभावीनि । तद्यथा पाककर्तुर्धान्यादीनि कानिचित्कृताकृतानि । तद्यथा तस्यैव दर्विपिठरादीनि, तदुभयदर्शनं सन्देहबीजमित्यर्थः । नासनमिति ।। नासनं सर्वथाऽपेक्षितम् । अपि तु कृताकृतमित्यर्थः ।। तत्कृत्याभावादिति ।। तदावश्यकत्वापादकानन्यसाध्यकृत्याभावादित्यर्थः ।। तदुपदेशाप्रामाण्यमिति ।। पाक्षिक-मनुपादानलक्षणमप्रामाण्यं स्यादित्यर्थः । स्थातव्यमित्युपलक्षणमिति ।। यस्मिन्काले यस्मिन्नासने मनः प्रसादः स एव कालादिराश्रयणीय इत्यपि ग्राह्यमिति भावः ।।
वाक्यार्थमुक्तावली
आदित्यादिमतानां सर्वदा कर्तव्यत्वे ध्यानार्थं शास्त्रोक्तासननियम इत्याक्षिप्य तदविरोधे-नासननियमसाधनादनन्तरसङ्गतिः ।। आसनादीति ।। अत्रासनादीत्यादिपदेन दृष्टेरचलत्वादि ग्रहणम् । उक्तं च तत्त्वप्रदीपे । ‘सम्प्रेक्ष्य नासिकाग्रं स्वम्’ इत्यादेर्दृष्टेरचलत्वमप्यपेक्षितमिति ।। सर्वथेति ।। आसनादिर्नावश्यकं उत आवश्यक इति चिन्ता । तदर्थमासनं विनापि भगवति मनोनिवेशः सम्भवत्युत न सम्भवतीति । तदर्थमासनस्य सर्वथा अपेक्षितत्वे स्मर्तव्यः सतत-मित्यादिस्मृतयो विरुध्यन्त उत नेति । सिद्धान्ते आसनस्य सार्थक्योक्तेस्तद्व्यवच्छेद्यं तद्वैय्यर्थ्यं पूर्वपक्षे हेतुमाह ।। तत्कृत्याभावादिति । तत्कथमित्यतः किमासनस्य ज्ञानातिरिक्तं फलमुत ज्ञानम् । द्वितीयेऽपि किं साक्षादासनस्य न हेतुत्वमुतोपासनाङ्गतया । उपासनाङ्गतयेत्यत्रापि वक्तव्यम् । आसनस्य तदङ्गत्वमुपासनेन ज्ञाने जनयितव्ये प्रयाजादिवत्फलोपकारितया । उत मनसस्सम्यक् तद्विषयत्वरूपोपासनोत्पत्तावेव व्रीहिप्रोक्षणादिवत्साधनोपकार्यङ्गत्वमिति विकल्पान् हृदि निधायाद्यं दूषयति ।। भगवद्दर्शनार्थमिति ।। साङ्गस्योपासनादिकलापस्यैव भगवद्दर्शनार्थमेव द्रष्टव्य इति दर्शनानुवादेन ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति विहितत्वेन प्रयोजनान्तरा-भावात् सुतरामासनस्येति भावः । एतेन द्वितीय आद्येऽपि निरस्तः । आसनस्य साक्षात्कार-जनकत्वायोगात् । प्रथमायाः प्रमाणत्वात् । उपासनाङ्गतयेत्यत्राप्याद्यं पराचष्टे ।। तस्य चेति ।। भगवद्विषयत्वमात्रेणेति । न त्वासनेनेत्यर्थः । एतेन सम्भवादिति सूत्रखण्डेनासनस्य सार्थक्योक्त्या व्यवच्छेद्यः संज्ञेत्युक्तन्यायो ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना कार्यमिति न्याय-विवरणानुसारेण स्पष्टितो भवति । तत्र ज्ञानस्य करणव्युत्पत्या मनसस्सम्यक् तद्विषयत्वमात्रेण ज्ञानस्यापरोक्षस्य पूर्तेर्लाभादावृत्य योज्यम् ।
द्वितीयमाशङ्क्य निराकरोति ।। न चेति ।। कुतो न वाच्यमित्यतस्सर्वदोपासनं कुर्वन्नप्यासीनो विशेष्यत इति भाष्येण ध्यानाच्चेति सूत्रेण निरस्यं हेतुमाह ।। आसनमिति ।। उपासनं कुर्वन्नित्यस्य ज्ञानाय विचारं कुर्वन्नित्यर्थमभिप्रेत्याह ।। जिज्ञासुरिति ।। एतेन जिज्ञासुत्वान्नासनस्य ज्ञानातिरिक्तं फलमित्युक्तं भवति । आसनस्य नियमार्थमुक्तमासीन एवेति । भाष्ये कुर्यादित्यत्राप्युपासन-मित्यन्वेतीति भावेनोपासनं विशेषतः कुर्यादित्युक्तम् । नन्वासनस्य ज्ञानसाधनत्वं न साक्षात् किं तु उपासनाङ्गतया अङ्गत्वमिति नोपासनापूर्तिमतः फलोपकारितयोपासनापरिपाकवत आसनव्यतिरेकेण फलव्यभिचाराभावादित्यतः फलोपकारित्वाभावेऽप्युपासनोत्पत्तावेवोपयोगित्वमिति भावेन प्रवृत्तमपि तदसम्भाव्यम् । अत्र अपीत्यस्योपासनस्यैव ज्ञानसाधनत्वेऽपीत्यर्थः । तस्येति शेषः । तदे-त्यस्यासने सत्येवेत्यर्थ इत्यभिप्रेत्य व्याचष्टे उपासनस्येति ।। एवकारव्यावर्त्यमाह ।। अन्यथेति ।। आसने सत्येव ध्यानसम्भवः कथमित्यतो भाष्ये तदा चित्तविक्षेपाल्पत्वेनेत्युक्तं तद्व्याचष्टे ।। आसीनस्य चित्तविक्षेपासम्भवात् ।। ध्यानविरोधिबहुचित्तविक्षेपाभावादित्यर्थः । स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवादिति स्मृत्यनुसारेणाह ।। अन्यथेति ।। एतेन विशेषकार्यमित्युक्तन्यायोऽपि सूत्रभाष्यारूढो दर्शितो भवति । सर्वदोपासनं कुर्वन्नप्यासीन इति भाष्यं सर्वदोपासनस्योपासनार्थ-मासनस्य सर्वथापेक्षितत्त्वस्याविरोधप्रतिज्ञारूपमिति भावेन तद्व्यावृत्त्य शङ्काप्रदर्शनपूर्वं व्याचष्टे ।। आसीनस्येति ।।
वाक्यार्थविवरणम्
तदुपदेशेति ।। आसनादिनियमप्रतिपादकयोगशास्त्रेत्यर्थः ।। द्विविधेति ।। ब्राह्मणानां पञ्चमहायज्ञरूपं साधनमपेक्षितम् । कृष्यादिरूपसाधनमनपेक्षितमित्यर्थः ।। तदर्थमेवेति ।। मनसो भगवद्विषयत्वार्थमेवेत्यर्थः ।। आसीन एवेति ।। आसने उपविष्ट एवेत्यर्थः । शङ्कते ।। आसीनस्येति ।। एतदित्यस्य विवरणं सर्वदेत्यादि ।।
वाक्यार्थमञ्जरी
तदुपदेशेनेति ।। आसनप्रतिपादकागमवैय्यर्थ्यप्रसङ्गादित्यर्थः ।। उपविश्येति ।। आसने उपविश्यात्मविशुद्धये योगं युञ्ज्यादित्यन्वयः ।। अनुपपत्तीति ।। सर्वदा आसनस्थत्वासम्भवेन मनसो भगवति निवेशनासम्भवादिति भावः ।। ॐ आसीनः सम्भवात् ॐ ।। आसीनः आसने उपविष्ट एवोपासनं कुर्यात् कुतः सम्भवात् तस्यैवोपासनासम्भवादित्यर्थः ।। चित्तविक्षेपा-सम्भवादिति ।। ध्यानविरोधिबहुचित्तविक्षेपाभावादित्यर्थः ।। शङ्कते ।। आसीनस्येति ।।