ॐ नाविशेषात् ॐ
३. अविशेषाधिकरणम्
सूत्रभाष्यम्
।। ॐ नाविशेषात् ॐ ।। १३ ।।
न सामान्येनाधिकारो देवादीनाम् ।
‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।
तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम् ’ इति कौण्डिन्यश्रुतिः ।।
।। इति अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्) ।। ३ ।।
तत्त्वप्रदीपिका
अधिकारितारतम्यस्पष्टीकारि सूत्रमवतारयति– नाविशेषात् ।। न सामान्येनाधिकारो देवाना-मृषिगन्धर्वाणां मनुष्याणां च, न च देवानामपि सामान्येनाधिकारः, नाप्यृष्यादीनां नापि मनुष्याणाम् । अर्थो धर्मो ज्ञानमित्युत्तरोत्तरत पुमर्थानां कामस्वर्गापवर्गाणां साधनानि । साधनं चोत्तरोत्तरमविकमित्यर्थः । तेषु त्रिष्वप्यधिकारिणो मनुष्यऋष्यादिदेवा उत्तरोत्तरं प्रत्येकं प्रत्येकं चेत्यर्थः ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनज्ञानाधिकारस्य संपूर्णस्य दौर्लभ्यलक्षणज्ञानमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । सौलभ्येऽतिशयाभावप्रसङ्गादेतत्समर्थनीयम् । प्रकृतो ज्ञानाधिकारो विषयः । किं सर्वेषां देवादीनामेकप्रकारेणाथ नानाप्रकारेणेति सन्देहः । लौकिकसाधनेषूभयथा दर्शनं सन्देह-बीजम् । सर्वेषामविशेषेण ज्ञानाधिकार इति पूर्वः पक्षः । अधिकारतारतम्यकल्पनस्य व्यर्थत्वात् । न च वाच्यं प्रज्ञान्तरपृथक्त्ववद्दृष्टिरिति ज्ञाने तारतम्यस्योक्तत्वात्तदधिकारेऽपि तारतम्यमिति । अधिकारे विशेषाभावेऽपि ज्ञानतारतम्यस्याधिकारिणामुच्चावचशक्त्यैव सम्भवात् । अतः सर्वेषां ज्ञानाधिकारसाम्येन सर्वसौलभ्यात्पूर्णाधिकारस्य न ज्ञानमतिशयितमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। नेति ।। न देवाद्यधिकारिणां साम्येन ज्ञानाधिकारः । तथात्वे ज्ञानेऽपि साम्यप्रसङ्गात् । तस्याधिकारानुसारित्वात् । न चाधिकारसाम्येऽपि शक्तितारतम्येन ज्ञानतारतम्यमिति युक्तम् । अधिकारसाम्ये शक्तितारतम्यस्यैवायोगात् । अधिकारतारतम्यमन्तरेण तत्कारणाभावादिति भावः । ज्ञानाधिकारतारतम्ये श्रुतिं चाह ।। अथेति ।। पुमर्थो मोक्षः । अर्थस्य धर्मज्ञानद्वारा मोक्षसाधनत्वं धर्मस्य ज्ञानद्वारा ज्ञानस्य साक्षादिति । अतः संपूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावात्सातिशयं ज्ञानमिति सिद्धम् ।।
भावबोधः
सम्पूर्णस्येति ।। उत्तमस्येत्यर्थः । पूर्वं सामान्यतोऽधिकारस्वरूपं विचार्येदानीं तद्विशेष-विचारादनन्तरसङ्गतिरिति भावः ।। किं सर्वेषामिति ।। अत्र ब्रह्मज्ञाने देवादीनां सर्वेषामेक-प्रकारेणाधिकार उतानेकप्रकारेणेति चिन्ता । तदर्थं ‘प्रज्ञान्तरपृथक्त्ववद्दृष्टिः’ इत्युक्तापरोक्षज्ञान-तारतम्यमधिकारतारतम्यं विना सम्भवत्युत न सम्भवतीति । तदर्थं साधकानामुच्चावचशक्ति-रधिकारानुसारिणी न भवत्युत भवतीति । तदर्थमधिकारतारतम्ये प्रमाणं नास्त्युतास्तीति । न सामान्येनाधिकारो देवादीनामिति भाष्यानुरोधेन पूर्वपक्षमाह– सर्वेषामविशेषेणेति ।। अधिकारे समेऽपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेः अधिकारिविशेषकल्पनं व्यर्थमिति न्यायविवरणं संयोजयति– अधिकारतारतम्येति ।। भक्त्याद्यधिकारतारतम्यानुसारेण शास्त्रात् फलप्राप्तेः सर्वेषामविशेषादिति न्यायविवरणं तात्पर्यतो व्याचष्टे– तथात्व इति ।। उच्चावचशक्तेरपि तन्निबन्धनत्वादिति न्यायविवरणं पूर्वपक्षहेत्वसिद्धिप्रतिपादकत्वेन व्याचष्टे– अधिकारसाम्य इति ।। श्रुतिं चाहेति ।। अनेन दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्येति न्याविवरणमप्युक्तार्थं भवति । श्रौतस्य ‘ज्ञानमित्युत्तरोत्तरं’ इत्यस्याभिप्रायमाह– अर्थस्येति ।। ‘यावदधिकारमवस्थिति-राधिकारिकाणां’ इत्यत्र ‘वृद्धिह्रासं’ इत्यत्रोक्तस्य मोक्षगततारतम्यस्य प्रयत्नादिनान्यथासिद्धि-शङ्कानिरासाय उपासनायां अधिकारतारतम्यसमर्थनम् । अत्र पुनः ‘प्रज्ञान्तरपृथक्त्ववद्दृष्टिः’ इत्युक्तापरोक्षज्ञानरूपफलतारतम्यस्य प्रयत्नादिनान्यथासिद्धिशङ्कानिरासाय ज्ञानाधिकारतारतम्य-समर्थनमिति महान् भेदः ।
भावदीपः
सम्पूर्णस्येति ।। पुष्कलस्येत्यर्थः । अधिकारो हि पुष्कलाध्ययनभक्तिशमादिसम्पत्तिरूपा योग्यता सा दुर्लभेत्येवंरूपमहिम्न इत्यर्थः । एतेन पूर्वोक्तसामान्यस्यात्र विशेषचिन्तनाद्वा यथाशक्त्यखिलवेदाध्ययनवतोऽधिकारित्वोक्तौ तर्हि तत्तदीयोच्चावचशक्त्यैव फलभेदसिद्धौ किमधिकारभेदकल्पनयेति शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता । सामान्येनाधिकारो देवादीनामिति भाष्योक्तमाह ।। सर्वेषामिति ।। अधिकारिणामित्यर्थः । सामान्येनेत्यस्य व्याख्येयसौत्रपदानु-कारोऽविशेषेणेति । अधिकारविशेषकल्पनं व्यर्थमित्यन्यत्रोक्तं हेतुत्वेन योजयति ।। अधिकारेति ।। अधिकारे समेऽपि तेषामेवोच्चावचशक्तियोगात्फलभेदोपपत्तेरिति न्यायविवरणांशं गतार्थताशङ्का-निवर्तकतया योजयति ।। न चेति ।। प्रज्ञान्तरपृथक्त्ववदुपासनातारतम्यवत् दृष्टिश्च पृथङ्-नानाप्रकारेत्युपासनापादीयद्वात्रिंशन्नये उक्तत्वादित्यर्थः । यद्यपि तत्र साधनतारतम्येनैव दृष्टि-तारतम्यमुक्तं तथापि तस्याप्यधिकारतारतम्यमूलकत्वात्तदधिकारेऽपि तारतम्यमित्युक्तम् । ज्ञानेत्युप-लक्षणम् । मुक्तितारतम्यस्येत्यपि ध्येयम् । तेन यावदधिकारमवस्थितिरित्यत्र मुक्तितारतम्या-न्यथानुपपत्त्या प्राचीनाधिकारतारतम्यं सिद्धमिति तदप्याक्षिप्तं ध्येयम् । अत एव न्यायविवरणे फलभेदानुपपत्तेरिति सामान्योक्तिः ।। उच्चावचेति ।। महदल्पेत्यर्थः ।। अत इति ।। शक्तिभेदेनैव फलभेदोपपत्त्या अधिकारिविशेषकल्पनस्य व्यर्थत्वादित्यर्थः । सर्वेषामध्ययनवतामित्यर्थः । भाष्यं व्याचष्टे ।। न देवेति ।। सौत्राविशेषपदार्थः साम्येनेति । अविशेषप्रसङ्गादित्यर्थांतरं चोपेत्याह ।। साम्यप्रसङ्गादिति ।। तस्येति ।। ज्ञानेऽपि साम्यस्येत्यर्थः । तच्च नेत्युक्तम् । प्रज्ञान्तरेत्यत्रेति भावः । प्रागुक्तशङ्कामनूद्योच्चावचशक्तेरपि तन्निबन्धनत्वादित्यन्यत्रोक्तयुक्तिविवरणेन निराह ।। न चेति ।। न केवलं ज्ञानेऽप्यविशेषप्रसङ्गरूपयुक्तिरिति चार्थः । उत्तरोत्तरमित्यस्यार्थोऽर्थस्येत्यादि ।। अत इति ।। अधिकारिभेदस्य युक्तिश्रुतिसिद्धत्वादित्यर्थः ।
अभिनवचन्द्रिका
पूर्वपक्षस्तु– सर्वेषामेकप्रकारेणैव ज्ञानाधिकारः । अधिकारतारतम्यकल्पकाभावात् । न च ज्ञानतारतम्यान्यथानुपपत्त्या तत्सिद्धिः । अधिकारसाम्येऽपि प्रयत्नतारतम्यादेव तत्सिद्धेः । अतो न ज्ञानं कर्मणः सकाशादतिशयवदिति ।
सिद्धान्तस्तु– न देवादीनां साम्येन ज्ञानाधिकारः । ज्ञानसाम्यप्रसङ्गात् । न च शक्ति-तारतम्येन ज्ञानतारतम्यमुपपन्नमिति वाच्यम् । अधिकारतारतम्याभावे शक्तितारतम्यस्यैवायोगात् । अतः संपूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावात् सातिशयं ज्ञानमिति सिद्धम् ।
वाक्यार्थमुक्तावली
सम्पूर्णस्येति ।। पूर्वं ब्रह्मज्ञानाधिकारो न सर्वेषां किन्तु वैष्णवानामेवेत्युक्तमधुना वैष्णवेष्वपि सम्पूर्णज्ञानाधिकारस्य सार्वत्रिकत्वनिरासादनन्तरसङ्गतिरिति भावः । किं सर्वेषामिति । अत्र ब्रह्मज्ञाने देवादीनां सर्वेषामेकप्रकाराधिकार उतानेकप्रकार इति चिन्ता । तदर्थमधिकारतारतम्यं निष्प्रयोजनमुत सफलमिति । तदर्थं फलत्वेनाभिमतं ज्ञानतारतम्यं शक्तितारतम्येनैवान्यथासिद्धमुत नेति । न देवादीनामविशेषादधिकार इति साक्षात्सूत्रनिरस्यं पूर्वपक्षमाह ।। न सर्वेषामविशेषेनेति ।। सिद्धान्तेऽधिकारतारतम्याभावेऽविशेषात् तत्फले ज्ञाने विशेषाभावप्रसङ्गादित्युक्त्या निरस्यां युक्तिमाह ।। अधिकारितारतम्यकल्पनस्येति ।। कुतो न वाच्यमित्यत उच्चावचशक्तिरित्युक्तन्यायो नोपपादयति ।। अधिकारेति ।। सूत्रे देवादीनां ज्ञानाधिकार इत्यध्याहारः । तथा चाविशेषाद-विशेषेण साम्येनैकप्रकारतया देवादीनां न ज्ञानाधिकार इत्यर्थपरं न साम्येनेति भाष्यं व्याचष्टे ।। न देवादीनामिति ।। कुतो नेत्यतः अविशेषादित्युक्तसिद्धान्तन्यायप्रदर्शकस्याविशेषादित्यस्य ज्ञानेऽविशेषप्रसङ्गादित्यर्थान्तरं भाष्येऽपि साम्येनेत्यस्य साम्यप्रसङ्गेनेत्यर्थं मत्वा व्याचष्टे ।। तथात्व इति ।। अधिकारज्ञानयोरविशेषेण साम्येनैकप्रकारत्वेनेत्यर्थं मत्वा व्याचष्टे ।। तस्याधिकारानु-सारित्वादिति ।। अधिकारसाम्ये शक्तितारतम्यस्यैवायोगादिति । एतेनाधिकारशक्त्योरविशेषेण साम्येनैकप्रकारत्वेनेत्यर्थान्तरमुक्तं भवति । अर्थो धर्मो ज्ञानमित्येतान्युत्तरोत्तरं द्वारद्वारिभावेन पुमर्थसाधनानि । तत्र तेषु मनुष्या ऋषयो देवा उत्तमोत्तमाधिकारिण इति श्रुत्यर्थमभिप्रेत्याह ।। पुमर्थो मोक्ष इत्यादिना ।।
ननु भक्तिवैराग्यादिरूपस्य ज्ञानाधिकारस्य तारतम्यसमर्थनं गतार्थम् । भक्तिपादे वृद्धिह्रास-भाक्त्वमित्यत्र फलतारतम्येन भक्त्याद्यधिकारतारतम्यस्य समर्थितत्वात् । उपासनापादे याव-दधिकारमित्यत्र च वृद्धिह्रासभाक्त्वमित्यत्रोक्तस्य फलतारतम्यस्याधिकारतारतम्यं विहाय प्रयत्नतारतम्येनान्यथासिद्धेर्निरस्तत्वाच्चेति चेन्न । तत्र मुक्त्याख्यफलतारतम्यस्योपासनादिप्रयत्न-तारतम्येनान्यथासिद्धिशङ्कानिरासायोपासनायामधिकारतार तम्यसमर्थनम् । इह तु प्रज्ञान्तरपृथक्त्व-मित्युक्तापरोक्षज्ञानरूपफलतारतम्यस्य प्रयत्नादिनान्यथासिद्धिशङ्कानिरासाय ज्ञानाधिकारतारतम्य-समर्थनमिति भेदात् । तदुक्तं न्यायविवरणे । भक्त्याद्यधिकारानुसारेण शास्त्रफलप्राप्तेरिति ।
तत्त्वसुबोधिनी
सम्पूर्णस्येति ।। उत्तमस्येत्यर्थः । पूर्वं सामान्यतोऽधिकारस्वरूपं विचार्य इदानीं तद्विशेष-विचारादनन्तरसङ्गतिरिति भावः । ज्ञानतारतम्यस्यान्यथासिद्धत्वान्नाधिकारतारतम्यकल्पकत्व-मित्याह ।। अधिकारेति ।। श्रौतस्य प्रथमस्योत्तरोत्तरमित्यस्याभिप्रायमाह ।। अर्थस्येति ।। तत्राधिकारिण इत्यादेरयमर्थः । तत्र मोक्षसाधनज्ञाने मनुष्याः, ऋषयः, देवाः, अधिकारिणः ते च पूर्वपूर्वापेक्षया उत्तरोत्तरं विशिष्टा एव न तु समाना इति । एतच्च ज्ञानाधिकारतारतम्ये श्रुतिं चाहेत्यवतारिकाग्रथेनैव व्याख्यातप्रायत्वान्न तत्र टीकाकृता पृथक्व्याख्यातम् । तत्वप्रदीपे तु साम्येनाधिकारो देवानां ऋषिगन्धर्वाणां मनुष्याणां च न च देवानामपि सामान्येनाधिकारः नापि ऋष्यादीनां नापि मनुष्याणां अर्थो धर्मो ज्ञानमित्युत्तरोत्तरतः पुमर्थानां कामस्वर्गापवर्गाणां साधनानां साधनत्वं चोत्तरोत्तरमधिकम् । एतेषु अधिकारिणो मनुष्यादिदेवाः उत्तरोत्तरं प्रत्येकं प्रत्येकं चेत्यर्थः इति प्रकारान्तरेण व्याख्यातमिति ज्ञातव्यम् । यावदधिकारमित्यत्र वृद्धिह्रास-मित्यत्रोक्तस्य मोक्षगततारतम्यस्य प्रयत्नादिनाऽन्यथासिद्धिशङ्कापरिहाराय उपासनायामधिकारतम्य-समर्थनमिति महान् भेदः ।
वाक्यार्थविवरणम्
लौकिकसाधनेष्विति ।। कृषीवलानां धान्यसाधनीभूतकर्षणादिसाधनानामेकप्रकारत्वं दृष्टम् । धनप्राप्तिसाधनानां कुसीदराजसेवादीनामनेकप्रकारत्वं दृष्टमित्यर्थः ।
वाक्यार्थमञ्जरी
उच्चेति ।। उत्तमम् । अवचेति ।। नीचेत्यर्थः ।। ॐ नाविशेषात् ॐ ।। अविशेषा-द्विशेषतारतम्यं विना ज्ञानाधिकारिता न कुतः अविशेषात् मानस्याप्यविशेषप्रसङ्गादित्यर्थः ।
।। इति अविशेषाधिकरणम् ।। ३ ।।