ॐ अणवश्च ॐ
५. अथ अण्वधिकरणम्
सूत्रभाष्यम्
‘दिवीव चक्षुराततम्’ (ऋ.सं.१-२२-२०) इति व्याप्तिः प्रतीयते । दूरश्रवणदर्शनादि-युक्तिश्च । अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः । अतो वक्ति–
।। ॐ अणवश्च ॐ ।। ८ ।।
‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ति शाण्डिल्यश्रुतिः ।
तत्त्वप्रदीपिका
अणवश्च । अणवश्च वितताश्च प्राणाः । अणुत्वश्रुतेः स्वरूपतोऽणवः, विततत्वश्रुतेः प्रकाशतो वितताः । तदिदमाह तद्यथेत्यादिकामुभयश्रुत्योरविरोधप्रकाशिकां श्रुतिमुदाहरन्नभीष्टदृष्टान्तावष्टम्भाम् ।
तत्त्वप्रकाशिका
अत्र पुरुषोत्तमे जगज्जन्मादिकारणे श्रुतिसमन्वयसिद्ध्यर्थं प्राणपरिमाणविषय श्रुतिविरोध-परिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे ब्रह्मण्युक्तः श्रुतिसमन्वयः प्राणपरिमाणविषय श्रुतीनां विरोधेऽनुपपन्नः प्रसज्यतेऽतोऽसौ निराकर्तव्यः । प्रकृतप्राणा एवात्र विषयः । किं व्याप्ता उताणव इति सन्देहः । सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च सूचयति ।। दिवीति ।। व्याप्तिः प्राणानामिति शेषः । श्रुतिः प्राणानामणुत्वं वक्तीति शेषः । पश्यति जानाति । कुतोऽत्रोक्ता अणवः प्राणाः । ज्ञानकर्मकरणत्वलिङ्गादित्यर्थः । व्याप्ताः प्राणाः । तथा श्रुतेः । न चाणुत्वश्रुतिविरोधः । विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुर्व्याप्तेरुक्तत्वादेतच्छ्रुतेः प्राबल्यात् । अतिसुदृढं हि दृष्टान्तत्वेनोपा-दीयते । किं चास्ति तावद्दूरस्थवस्तुदर्शनश्रवणस्मरणादि तेन पश्यामोऽस्ति प्राणानां व्याप्तिरिति । इन्द्रियाणां प्राप्यकारित्वात् । अन्यथा करणत्वविरोधात् । न च स्वस्थानं विहाय विषयेणेन्द्रियं सन्निकृष्यत इति विशेषप्रमाणमस्ति । अतः प्रबलश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमेवेति न जगत्कारणे ब्रह्मणि श्रुतिसमन्वयो युक्त इति भावः । सिद्धान्तयत्सूत्रमवतारयति ।। अत इति ।। अणव एव प्राणाः । न चैतावता श्रुतियुक्तिविरोधः । यावता तेजसा व्याप्ताश्चेति । सूत्रार्थः स्फुटतया नोक्तः । अतिसुदृढार्थश्रुतिसिद्धे व्याप्तत्वे कुतोऽणुत्वं प्राणानां तेजसा व्याप्तिश्चेत्यत आह ।। तद्यथेति ।। चक्षसः चक्षुषः । न च व्याप्तिश्रुतेः सुदृढार्थतया बलवत्त्वम् । अत्राप्यात्मनोऽणुत्वादौ चक्षुषो दृष्टान्ततयोक्तत्वाद्विशेषश्रुतित्वाच्च बलवत्त्वमिति । यदीन्द्रियाणि स्वरूपतो वितत्यावस्थितानि तदा सर्वग्रहणं च प्रसज्येत सुप्त्याद्यभावश्च । स्यादेतत् । शब्दो हि वक्तृवक्त्रादुत्पन्नः शब्दान्तरमुत्पादयति सोऽप्येवम् । यत्र तु प्रतिघातकारणेन द्रव्येण हन्यते न तत्रोत्पादयति । तत्र यः कर्णशष्कुल्यवच्छिन्ने वियत्युत्पद्यते स श्रूयते इति कथं दूरस्थश्रवणमनुज्ञायत इति । मैवम् । श्रोत्रोत्पन्नशब्दग्रहणे मानाभावात् । अन्यथाऽप्राप्त्यग्रहणप्रसङ्ग इति चेन्न । चक्षुर्वच्छ्रोत्रस्यैव गमनोपपत्तेः । श्रोत्रस्याकाशतयाऽमूर्तत्वान्नेति चेन्न । किमाकाशपदेनोच्यते । अवकाश इति चेत्तत्कुतोऽवकाशत्वं श्रोत्रस्य । परिशेषादिति चेन्न । भूताकाशस्य द्रव्यान्तरस्य विद्यमानत्वेन परिशेषानुपपत्तेः । तदनभ्युपगमे श्रुत्यादिविरोधः । पृथिव्यादीनामप्युपपद्यते श्रोत्रत्वम् । अन्यत्रोपक्षीणानि तानीति चेत् । तच्छरीरानारम्भकत्वप्रसङ्गः । बधिराभावप्रसङ्ग इति चेत्सममवकाशेऽपि । अदृष्टकारणत्वं च समानम् । उपहतिश्च पृथिव्यादीनामेव सम्भवति नावकाशमात्रस्येति युक्त एवाभ्युपगमः । यद्वा चक्षुर्विषय एव तदभ्युपगमः । अत एव पूर्वोत्तरपक्षयोस्तद्विषयश्रुत्युदाहरणम् । अतः श्रुत्यविरोधेन प्राणानामणुत्वसिद्धेर्युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धम् ।
गुर्वर्थदीपिका
विशेषश्रुतित्वाच्चेत्यत्र ‘दिवीव चक्षुराततम्’ इति श्रुतिश्चक्षुषो व्याप्तिमात्रमाह । तच्च स्वरूप-व्याप्त्याऽपि घटते प्रकाशव्याप्त्या वा । अतः सा सामान्यश्रुतिः । ‘अणुनश्चक्षुष’ इति श्रुतिस्तु चक्षुषः अणुत्वं स्पष्टमुक्त्वा तत्प्रकाशस्य विशिष्य व्याप्ततामाह । एवं च विशेषश्रुतित्वेन प्रबलत्वादेतदनुसारेण सैव श्रुतिर्योजनीयेति भावः । सुप्तौ हि सर्वेन्द्रियोपरमः सकलविषयेभ्य इन्द्रियाणां व्यावृत्तिरूपो वाच्यः । न च ज्ञानाख्यकार्याभाव एवोपरम इति वाच्यम् । सत्यर्थ-सन्निकर्षे कार्योपरमस्यैवासम्भवाद्व्यावृत्तिरेवोपरमः । एवं चेन्द्रियाणां व्याप्तत्वे उपरमस्यैवा-भावात्सुप्तिश्च न स्यादित्याह सुप्त्यादीति ।। ‘अप्रतिषिद्धमनुमतं भवति’’ति वचनादप्रतिषेधेऽनुमतिः स्यादिति भावेनोक्तं अनुज्ञायत इति । अन्यत्रोपक्षीणानि तानीत्यत्र तानि पृथिव्यप्तेजो-वाय्वाकाशाख्यभूतानि अन्यत्र घ्राणारम्भणे रसनारम्भणे चक्षुरारम्भणे चोपक्षीणत्वान्न श्रोत्रा-रम्भकता चेत्तर्हि शरीरारम्भकताऽपि तेषां न स्यादित्यर्थः ।
भावबोधः
प्राणपरिमाणविषयेति ।। पूर्वत्र सर्वप्राणविषयकपूर्वपक्षसिद्धान्तविशेषश्रुतिविषयसङ्ख्या विचार्यात्र विशिष्य चक्षुरिन्द्रियविषयकपूर्वपक्षसिद्धान्तविशेषश्रुतिविषयपरिमाणं विचार्यत इत्यनन्तर-सङ्गतिरिति भावः ।। किमिति ।। अत्र प्राणाः किं व्याप्ता उताणव इति चिन्ता । तदर्थं प्राणाणुत्वं तद्व्याप्तिविरुद्धं न वेति । तदर्थं व्याप्तिश्रुतिः युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं प्राणानां व्याप्तिः किं स्वरूपेणोत प्रकाशगुणेनेति । तदर्थं प्राणानां स्वरूपाणुत्वे प्रकाशगुणेन व्याप्तत्वे विशेषप्रमाणं नास्त्युतास्तीति । कुतोऽत्रोक्ताणवः प्राणा इति । श्रुतौ अणव इत्यनूद्य तेषां प्राणत्वं विधीयत इत्युक्तं भवति । ‘प्राणैर्ह्येतद्भवति’ इति वाक्ये ‘हि’ शब्दो हेत्वर्थक इति एतच्छब्देन पश्यतीत्याद्युक्तधात्वर्थपरामर्श इत्यभिप्रेत्य तद्वाक्यं व्याचष्टे– ज्ञानकर्मकरणत्व-लिङ्गादिति ।। ज्ञानकर्मकरणत्वस्य प्राणासाधारणधर्मत्वादिति भावः । अनेनाणुभिः पश्यत्यणुभिः शृृणोतीत्येतत्सर्वेन्द्रियोपलक्षकमित्युक्तं भवति । तथा श्रुतेरिति भाष्यन्यायविवरणोदाहृताया ‘दिवीव चक्षुः’श्रुतेरित्यर्थः । व्याप्त्याख्यविशेषवाचकश्रुतिविरोध इति न्यायविवरणं मनसि निधायाह– विष्णोर्व्याप्तत्व इत्यादि ।। एतदृगर्थस्तु चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शितमिति ऋग्भाष्यटीकायां यथा हि चक्षुराकाशे व्याप्तमपि न दृश्यते । केवलं विषयोपलब्धिलक्षणेन फलेन अनुमीयते । तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यम्; किं त्वस्वतन्त्राणां पदार्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इत्युक्तम् । दूरश्रवणादिदर्शनादियुक्तिश्चेति भाष्योक्तयुक्तिमाह किं चास्तीत्यादिना । अन्यथा करणत्वविरोधादिति । व्यापारवत एव करणत्वाद्विषयप्राप्ति-रूपसन्निकर्षस्यैव व्यापारत्वात् । तदभावे करणत्वविरोधादित्यर्थः । हेतोरन्यथासिद्धिं निवारयति– न च स्थानमिति ।। तेजसा व्याप्तेति ।। अनेन पूर्वपक्षश्रुतियुक्त्योः सावकाशत्वप्रदर्शनार्थः सौत्र‘श्च’शब्द इत्युक्तं भवति । एवं तर्हि साम्येनानिर्णयः स्यादित्यतः ‘अणूनि ह वा इन्द्रियाणि तेषां प्रकाशो व्यातत’ इति ततोऽप्यणुत्ववाचकविशेषश्रुतिविरोधादिति न्यायविवरणं मनसि निधायाह– विशेषश्रुतित्वाच्चेति ।। चक्षुःप्रकाशो व्याततः तेषां प्रकाशो व्यातत इत्यनेन ‘दिवीव चक्षुराततम्’ इति व्याप्तिश्रुतेः सावकाशत्वप्रदर्शनात्ततोऽपि व्याप्तिवाचक श्रुतेरप्यणुत्ववाचकश्रुते-र्विशेषश्रुतित्वाच्चेत्यर्थः । पूर्वपक्षयुक्तेः प्रतिकूलतर्कपराहतिमाह– यदीन्द्रियाणीत्यादिना । न केवलं सर्वविषयैः सह समनस्केन्द्रियसन्निकर्षस्य सत्त्वात् सर्वग्रहणप्रसङ्गः । किं तु तादृशसन्निकर्षस्य सदा सत्त्वप्राप्त्या सर्वदा च ग्रहणं स्यादित्याह– सुप्त्याद्यभाव इति ।। आदिपदेन मरणमूर्छादिग्रहणम् । शब्दो हीत्यादावत्र शब्दपदेन वर्णात्मकशब्द उच्यत इति ज्ञेयम् ।। मानाभावादिति ।। स एवायं गकार इति प्रत्यक्ष ‘यावत् ब्रह्मविष्ठितं तावती वाक्’ इति श्रुतिरूपप्रमाणबाधाच्चेत्यपि ग्राह्यम् ।। श्रोत्रस्यैव गमनोपपत्तेरिति ।।
ननु श्रोत्रस्य चक्षुष इव गत्वाग्राहित्वे दिगादिशब्दे दिक्संशयो न स्यादिति चेत्; न । अगत्वाग्राहित्वे दिङ्निश्चयाभावप्रसङ्गात् । संशयादपि निश्चयो महीयान् । क्वचिच्छब्दे दिक्संशयस्तु रूपादाविव दोषबलाद्युक्तः । न च श्रोत्रस्य गत्वाग्राहित्वे सङ्कोचे कारणाभावेन देवादिभाषितमपि गृह्णीयादिति वाच्यम्; चक्षुषोऽपि देवादिग्रहणप्रसङ्गात् । कार्यबलात् सङ्कोचस्यो-भयत्रापि तुल्यत्वादिति भावः । अन्यत्रापीति, घ्राणाद्यारम्भ इत्यर्थः ।। अनभ्युपगम इति ।। दूरस्थश्रवणानभ्युपगम इत्यर्थः । दूरश्रवणादीत्युक्तयुक्तेरणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत इति सावकाशत्वोक्त्यनुरोधेनायमभ्युपगमो ज्ञातव्यः ।
भावदीपः
प्राणानामिति शेष इति ।। श्रुतौ चक्षुःपदे उपलक्षणमिति वा चक्षुष इवान्यस्यापि व्याप्तिश्रुतिरूह्येति वाऽभिप्रायः । चक्षुर्मात्रव्याप्तत्वाभिप्राये तु श्रुत्यनुग्राहकदूर श्रवणादियुक्ति-रयुक्ता । तथा प्राणा वा अणव इति सामान्यश्रुतेरचक्षुःपरत्वसम्भवेन श्रुत्योर्विरोधोक्तिश्चायुक्तेति भावः ।। जानातीति ।। पश्यार्थैश्चानालोचन इति पाणिनीयस्मृतौ ज्ञानमात्रेऽपि पश्यतिशब्द-प्रयोगात् । अत एव चापरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेदिति ब्रह्माण्डस्मृतावपरोक्षविशेषणं चेति भावः । अन्यथा अणुभिरिति बहुवचनास्वारस्यामिति ध्येयम् । प्राणा अणव इत्येवपूर्तौ श्रुतिशेषोक्तेः फलमाह ।। कृतोऽत्रेति ।। अणुत्वश्रुतावित्यर्थः ।। तथा श्रुतेरिति ।। यद्यपि दिवीवेति श्रुतौ चक्षुष एव व्याप्तत्वं न सर्वप्राणानाम् । तथापि तुल्यन्यायतया प्रमाणमात्रेऽपि तदभिमतमिति भावेन वा चक्षुष एव व्याप्तत्वं न सर्वप्राणानां तथापि तुल्यन्यायतया प्रमाणमात्रेऽपि तदभिमतमिति भावेन वा चक्षुष इव प्राणान्तरेष्वपि व्याप्तत्वे श्रुतिरनुमेयेति भावेन वा तथा श्रुतेरित्युक्तम् । व्याप्त्याख्यविशेषवाचकश्रुतिविरोध इत्यन्यत्रोक्त्यनुरोधेनाह ।। व्याप्तत्व इति ।। चक्षुर्दिवीवव्याप्तं यददृश्यं फलदर्शितमिति ऋग्भाष्ये तट्टीकायां च यथा चक्षुराकाशे व्याप्तमपि न दृश्यते केवलं विषयोपलब्धिलक्षणेन फलेनानुमीयते तथा परमेश्वरस्वरूपं सर्वगमपि न दृश्यं किं तु अस्वतन्त्राणां पदार्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इत्युपमानधर्माध्याहारेणार्थान्तरमुक्तम् । दूरश्रवणेत्यादिभाष्यं व्यनक्ति ।। किं चेति ।। करणत्वेति ।। व्यापारवतः करणत्वात्सन्निकर्षरूपव्यापारवत्त्वेनैवेह करणत्वनिर्वाहादिति भावः । अणुत्वेऽपि शरवद्विषयसम्बन्धोऽस्त्वित्याशङ्क्य निराह ।। न चेति ।। अत इति ।। सयुक्तिकत्वात्प्रबलेत्यर्थः । भाष्योक्तश्रुत्यनुरोधात्सूत्रार्थं प्राणपदमनुवर्त्याह ।। अणव एव प्राणा इति ।। स्वरूपेणेति भावः । अनेन चोऽवधारण इति समुच्चयार्थं च मत्वाह ।। तेजसा व्याप्ताश्चेति ।। भाष्योक्तश्रुतौ चक्षुःपदमणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत इत्यन्यत्रोक्तश्रुत्यनुरोधात्प्राणान्तरोपलक्षणं मत्त्वाऽवतारयति । कुतोऽणुत्वं प्राणानामिति ।। दृष्टान्तत्वोक्तेरुपयोगमाह ।। न चेत्यादिना ।। विशेषश्रुतिविरोधादित्यन्यत्रोक्त्यनुरोधेन प्रकाशो व्यातत इति विशिष्योक्तेरुपयोगमाह ।। विशेषश्रुतित्वाच्चेति ।। इतिशब्दः सूत्रभाष्यव्याख्या-समाप्तौ । स्वरूपव्याप्त्यैवोक्तदूरश्रवणाद्युपेयताम् । किं च प्राणानां कदम्बमुकुलन्यायादिना स्वदेश-मागतशब्दादिविषयग्रहणोपपत्तौ तेजसा व्याप्त्युपगमो निर्बीज इति हैतुक मन्यस्योक्तवचनमकिञ्चि-त्करमित्यतो युक्त्याऽप्युक्तमर्थं साधयितुमाह ।। यदीत्यादिना ।। युक्त एवाभ्युपगम इत्यन्तेन ।। सर्वग्रहणं चेति ।। न केवलम् उक्तश्रुतिविरोध इति चार्थः ।। सुप्तीति ।। समनस्केन्द्रियसन्निकर्षस्य विषयाणां सार्वकालिकत्वेन ज्ञानोपरमानवसरात् । सुषुप्तिमरणमूर्छा न स्युरित्यर्थः । अतिप्रसङ्गं निराह ।। यत्र त्विति ।। अनुज्ञायते अङ्गीक्रियते इत्यर्थः ।। श्रोत्रेति ।। श्रोत्रदेशे परम्परया कदम्बमुकुलन्यायेनोत्पन्नशब्दग्रहणे इत्यर्थः ।। मानाभावादिति ।। शङ्खभेर्यादिशब्द एव मया श्रुत इति प्रत्यभिज्ञाविरोधाच्चेत्युपलक्ष्यते । अन्यथा शङ्खादिशब्दजातीय एव श्रुत इति धीः स्यादिति भावः । प्रागुक्तदिशेन्द्रियाणां तैजसत्वमपि मत्वाऽऽह ।। चक्षुर्वच्छ्रोत्रस्यैवेति ।। क्वचिच्छब्दे सन्देहस्तु रूपादाविव दोषवशाद्युक्तः ब्रह्मभाषितादीनामग्रहणं ब्रह्मरूपादेरिव युक्तमिति भावः । अवकाशोऽव्याकृताकाश इत्यर्थः ।। परिशेषादिति ।। पृथिव्यादिभूतपञ्चकमध्ये पृथिव्यप्तेजोवायूनां घ्राणरसनचक्षुःस्पर्शनेषूपक्षीणत्वेन श्रोत्रस्यावकाशात्मकत्वमेव परिशिष्यत इति परिशेषप्रमाणा-त्सिद्धमित्यर्थः ।। श्रुत्यादीति ।। आकाशः सम्भूतः आकाशो नीलिमोदेति शब्दमात्रमभून्नभ इत्यादिविरोध इत्यर्थः । तेषां भूतैरुपचय इत्युक्तमनुरुध्याह ।। पृथिव्यादीनामिति ।। अन्यत्र घ्राणादौ ।। बधिरेति ।। पृथिव्यादीनामेव श्रोत्रत्व इत्यनुषङ्गः ।। अभ्युपगम इति ।। स्वरूपतो अणवः अतस्तेजसा व्याप्ता इत्यभ्युपगम इत्यर्थः ।। यद्वेति ।। अस्मिन्पक्षे सूत्रे बहुवचनं प्रतिशरीरापेक्षया तदभावो नाडीष्वित्यत्रेवेति भावः ।। अत इति ।। प्राणानां स्वकार्यबलेन स्वरूपाणुत्वप्रकाशव्याप्तत्वोपगमाद्विशेषवचनाभावाच्चेत्यर्थः ।
अभिनवचन्द्रिका
प्राणानामिति शेष इति ।। यद्यपि श्रुतौ ‘दिवीवचक्षुः’ इति श्रवणात् चक्षुष इति वक्तव्यम् । तथापि श्रुतिबलाच्चक्षुषो व्याप्तत्वे सिद्धे श्रोत्रादीनामपि दूरस्थार्थग्रहणसंभवात् चक्षुर्वदेव व्याप्तत्वं सिद्ध्यतीत्यभिप्रेत्य ‘प्राणानाम्’ इति शेष इत्युक्तम् । ‘प्राणैर्ह्येतद्भवति’ इति श्रुत्यंशमवतारयति कुतोऽत्रोक्ता इति ।। ‘प्राणाः’ इत्यतः परम् ‘इत्यत आह, प्राणैर्ह्येतद्भवतीति ग्राह्यम् । ततश्चाऽयं श्रुत्यर्थः अणुभिः पश्यति जानाति, अणुभिः कृणोति करोति । के तेऽणव इत्यत उक्तं – प्राणा वा अणव इति ।। कुत एतेऽणव इति प्राणाः प्रतिपत्तव्या इत्यत उक्तं प्राणैर्ह्येतद्भवतीति ।। हि यस्मात्, एतत् ज्ञानादिकार्यं, प्राणैर्भवति प्राणकार्यमिति यावत् । ततश्च प्राणकार्यकारित्वात् अणूनां प्राणत्वमिति गम्यत इति । पक्षैकदेशे साध्यसिद्धये हेतुमाह– तथा श्रुतेरिति ।। पक्षमात्रे साध्यसिद्धये हेतुमाह– किं चेति ।। चक्षुर्विषये प्रमाणान्तरत्वात् समुच्चायकश्चशब्दः प्रयुक्तः ।। स्मरणादिति ।। अत्र स्मरणशब्देनाऽनुसन्धानमुच्यते । आदिशब्देन घ्राणम् । एतेन अतीतपदार्थस्य संस्कारप्रत्यासत्त्या स्मरणवत् दूरस्थस्यापि स्मरणसंभवात् न तेन मनसो व्याप्तत्वसिद्धिरिति परास्तम् । हस्तपादादिप्रान्तभागावस्थितयुगपत्सुखदुःखानुसंधानेन मध्यमपरिमाणानाश्रयतया उभयवादिसंमतस्य मनसोऽणुत्वाभावसाधनस्य इहाभिमतत्वात् ।। प्राप्यकारित्वादिति ।।
ननु – इन्द्रियाणां प्राप्यकारित्वात् व्याप्तत्वसाधनमयुक्तम् । प्राप्यकारित्वस्याऽव्याप्तिकारित्वात् । प्राप्येतिल्यपा ‘स्नात्वा भुङ्क्ते’ इत्युक्तेः स्नानस्य भोजनपूर्वकालिकोत्पत्तिप्रतीतिवत् प्राप्तेर्ज्ञानोत्पत्तिपूर्वकालिकोत्पत्तिप्रतीतेरिति चेत्, न इन्द्रियाणां व्याप्तत्वेऽपि विषयजन्यकादाचित्क-प्राप्तेरङ्गीकारात् ।। अन्यथेति ।। प्राप्त्यनङ्गीकारे सन्निकर्षरूपव्यापारशून्यत्वात् ज्ञानकरणत्वं न स्यादित्यर्थः । सूत्रार्थं वदन् भाष्ये तदनुक्तौ कारणमाह– अणव एवेत्यादिना ।। ‘सर्वं वाक्यं सावधारण’मिति न्यायमनुसृत्य एवेत्युक्तम् । चशब्दसमुच्चेयं वक्तुमाह– नैतावतेति ।। यावता तेजसा व्याप्ताश्चेति ।। यावतेति विभक्तिप्रतिरूपकमव्ययं यस्मादित्यर्थे । यस्मात् प्राणा अणवोऽपि तेजसा व्याप्ताः, अतो न व्याप्त्यभिधायकबलवछ्रुतियुक्तिविरोध इति सूत्रार्थः स्पष्टत्वात् भाष्यकृतो नोक्त इत्यर्थः ।। विशेषश्रुतित्वादिति ।। ‘प्रकाशो व्यातत’ इति प्रकाशद्वारा व्याप्तिरिति विस्पष्टवादित्वादित्यर्थः । पूर्वपक्षिणा दूरस्थश्रवणदर्शनादियुक्तिश्चेत्युक्ते सिद्धान्तिना दूरस्थ-श्रवणस्याखण्डनात् तदनुमतमेवेति ज्ञायते । तच्चाऽयुक्तमिति शङ्कते स्यादेतदिति ।। श्रोत्रोत्पन्नेति ।। शब्दज्ञाने प्रतीतदूरस्थशब्दविषयकत्वपरित्यागेन श्रोत्रोत्पन्नशब्दमात्रविषयकत्वस्वीकारे मूलभूतबाधकमानाभावादित्यर्थः । यद्यपि ‘वक्तृप्रयत्नप्रेरितो वायुः उरःप्रभृतिभिःस्थानैः संयुक्तः स्थानसंयुक्ताकाशे ध्वनिलक्षणं शब्दमुत्पादयति । स च देशान्तरे प्रतिशब्दम् । यस्तु कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशे समुत्पन्नः तद्गुणो ध्वनिः तस्मिन् व्यज्यमानो वर्णः श्रोत्रेण गृह्यते । ध्वनेश्च आशुतरविनाशित्वेन व्यञ्जकाभावात् न सर्वदोपलब्धिः’ इति तत्त्व-निर्णयटीकायामुक्तम् । तथापि नायं सिद्धान्तः । पररीतिमवलम्ब्यैव तदभिधानात् । शब्दपरंपरोत्पादे प्रमाणाभावाच्चेति न तद्विरोध इति बोध्यम् । दूरस्थशब्दविषयकत्वपरित्यागमूलं बाधं शङ्कते– अन्यथेति ।। गमनोपपत्तेरिति ।। इदं समाधानं न सार्वत्रिकम्, किंतु वराहश्रोत्रविषयम्, तच्छ्रोत्रस्यैव रश्मिद्वारा गतिमत्त्वात् । तदन्यश्रोत्रस्य तु प्रभावच्छब्दागमनेनैव सन्निकर्षः । ‘यं वै स्वधिष्ण्योपगतं ह्यजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे’ इति शब्दागमनस्योक्तत्वादिति बोध्यम् ।। किमाकाशपदेनेति ।। अव्याकृताकाशं वा, भूताकाशं वेति प्रश्नः ।। पृथिव्यादीना-मिति ।। इन्द्रियाणां तैजसत्वेऽपि पञ्चीकरणात् त्रिवृत्करणाद्वा पृथिव्यादित्वमुपपद्यत इति भावः । युक्त एवाभ्युपगम इति ।। पूर्वपक्ष्युक्तस्य दूरस्थशब्दग्रहणस्याभ्युपगमो युक्त इत्यर्थः ।
पूर्वपक्षस्तु – व्याप्ताः प्राणाः ‘दिवीव चक्षुराततम्’ इति व्याप्तिश्रुतेः । दूरस्थवस्तुदर्शन-श्रवणानुसंधानादियुक्तेश्च । न च अणुत्वश्रुतिविरोध इति वाच्यम् । विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुर्व्याप्तेरुक्तत्वेन एतच्छ्रुतेः प्राबल्यात् । अतः प्रबलव्याप्तिश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमेवेति न जगत्कारणे ब्रह्मणि श्रुतिसमन्वयो युक्त इति ।
सिद्धान्तस्तु – अणव एव प्राणाः । तथाश्रुतेः । न च – ‘दिवीव चक्षुराततम्’ इति प्रबलश्रुतिविरोधादणुत्वाभावः । अणुत्वस्यापि ‘तद्यथा ह्यणुनश्चक्षसः’ इति प्रबलश्रुतिसिद्धत्वात् । न च एवं सत्यनिर्णयः ‘तद्यथा ह्यणुनश्चक्षसः’ इति श्रुतेर्विस्पष्टवादित्वेन व्याप्तिश्रुतितोऽपि बलवत्त्वात् । न च तदप्रामाण्यम् । ‘तद्यथाह्यणुन’ इति श्रुत्यनुसारेण व्याप्तिश्रुतेस्तेजसा व्याप्त्यर्थकत्वनिर्णयात् । अत एव युक्तिविरोधोऽपि परास्तः । अतः श्रुत्यनुरोधेन प्राणानामणुत्वसिद्धेर्युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धम् ।
वाक्यार्थमुक्तावली
प्राणा इयं त इति सङ्ख्यानिर्णये तदवच्छिन्नानां परिमाणविचारावसर इत्यनन्तरसङ्गतिः ।। किं व्याप्ता इति ।। अत्र प्राणाः किं व्याप्त उताणव इति चिन्ता तदर्थं व्याप्तिश्रुतिर्युक्तियुक्तत्वेन निरवकाशोत सावकाशेति ।। प्राणानामिति शेष इति ।। दिवीवचक्षुराततम्’ इत्यत्र चक्षुर्व्याप्तौ सिद्धायामिन्द्रियत्वेन तद्दृष्टान्तेनेतरेषामपि सिद्ध्यतीत्याशयः । अत एव भाष्ये प्रतीयत इत्युक्तं न तु श्रूयत इति । प्राणैर्ह्येतद्भवतीत्यंशमवतारयति ।। कुतोऽत्रोक्ता इति ।। प्राणा इत्यतः परमाहेति शेषः । श्रुतौ हिशब्दो यस्मादित्यर्थे । एतदिति पश्यति कृणोतीत्युक्तधात्वर्थपरामर्श इत्यभिप्रेत्य व्याचष्टे ।। ज्ञानकर्मेति ।। हि यस्मादेतज्ज्ञानं कर्म च प्राणैर्भवति । तस्मादत्रोक्त अणवः प्राणा इत्यर्थः ।। तथा श्रुतेरिति ।। यथा दिव्याततं चक्षुः प्रत्यक्षेणादृश्यमपि विषयोपलब्धिलिङ्गकानुमानेन पश्यति तथा सूरयस्तद्विष्णोः परमं पदं स्वरूपं व्याप्तमप्यतीन्द्रियत्वादस्वतन्त्राणां सत्ताप्रतीति-प्रवृत्तिलिङ्गकानुमानेन पश्यन्तीति श्रुतेरित्यर्थः । तदुक्तं ऋग्भाष्ये । चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शितमिति । यद्यपीदं चक्षुर्मात्रव्याप्तौ प्रमाणं तथापि न्यायसाम्येनेतरत्र प्रमाणत्वं बोध्यम् । इन्द्रियाणां व्याप्तत्वे सामान्यप्रमाणमनुदाहृत्य वाक्यविशेषग्रहणं विशेषश्रुतिरित्युक्तपूर्वपक्षन्यायं सूचयितुमितिभावेनाह ।। न चाणुत्वेति ।। चक्षुरतिरिक्तेन्द्रियविषयस्य विशेषश्रुतित्वाभावा-दनुदाहृतसर्वेन्द्रियविषयसामान्यश्रुतेर्विशेषश्रुतित्वाय दूरश्रवणेति भाष्योक्तयुक्तिमाह ।। किं चेति ।। स्मरणादीत्यादिपदेन घ्राणादिरुच्यते । अन्यथेति प्राप्त्यनङ्गीकारे सन्निकर्षरूपव्यापारशून्यत्वाज्ज्ञान-करणत्वं स्यादित्यर्थः ।
हेतोरन्यथासिद्धिं वारयति ।। न च स्वस्थानमिति ।। सूत्रे प्राणा इत्यस्ति । चोऽवधारणे । तेजसा व्याप्तिसमुच्चये चेति भावेन सूत्रार्थमाह ।। अणव एवेति ।। अनेन पूर्वपक्षीयश्रुतियुक्त्योः सावकाशत्वप्रदर्शनाय सूत्रे चशब्द इत्युक्तं भवति ।। अतिसुदृढेति ।। दिवीवचक्षुराततम्’ इति विस्पष्टं चक्षुष एव व्याप्त्युक्तेः । सुदृढत्वं भगवद्व्याप्तौ दृष्टान्तत्वादिति सुदृढोऽहि दृष्टान्ते रश्मिद्वारा दार्ष्टान्तिकेतूभयथेति वाच्यम् । विशेषप्रमाणाभावादिति भावः ।
आत्माणुत्वादाविति ।। जीवस्याणुत्वे प्रकाशव्याप्तौ चेत्यर्थः ।। विशेषश्रुतित्वाच्चेति ।। प्रकाशो व्यातत इति विस्पष्टं प्रकाशस्यैव व्याप्त्युक्तेरित्यर्थः । अनेन विशेषश्रुतिरित्युक्तसिद्धान्त-न्यायोऽपि भाष्यारूढो दर्शितः । उक्तं च न्यायविवरणे । अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत इति पूर्वपक्ष इत्युक्तेः प्रतिकूलतर्कपराहतिमप्याह ।। यदिन्द्रियाणीत्यादिना ।। न केवलं सर्वविषयैः सहमनस्केन्द्रियसन्निकर्षस्य सत्त्वात्सर्वग्रहणप्रसङ्गः किन्तु तादृशसन्निकर्षस्य सदा सत्त्वप्राप्त्या सर्वदा च ग्रहणं स्यादित्याह ।। सुप्त्याद्यभावश्चेति ।। न च सर्वदा सम्बन्धत्वेऽप्या-गन्तुकसहकारिलाभेन ज्ञानजननौन्मुख्यदशायामेव ग्रहणमिति वाच्यम् । तथात्वे व्याप्तेरकिञ्चित्कर-त्वेनाप्यणुत्वेऽप्युपपत्तेरिति न च प्रकाशव्याप्तिपक्षेऽपि दोषसाम्यम् ।
प्रकाशानां सङ्कोचविकाससद्भावादिति भावः । पूर्वपक्षिणा दूरश्रवणदर्शनादित्युक्तिश्चेत्युक्ते सिद्धान्तिना दूरस्थश्रवणस्याखण्डनेन तदनुमितमेवेति ज्ञायते तदयुक्तमिति शङ्कते ।। स्यादेतदिति ।। अत्र शब्दपदेन ध्वन्यात्मकशब्द उच्यते ।। मानाभावादिति ।। श्रोत्रोत्पन्नशब्दस्यैव ग्रहणमिति नियमे मानाभावादित्यर्थः । अन्यथा विष्णुतत्वनिर्णयटीकायां वक्तृप्रयत्नप्रेरितः कोष्ठ्योवायुरुरः प्रभृतीन्यष्टौ स्थानान् गत्वा श्रोत्रस्थानसंयुक्ताकाशे ध्वनिलक्षणं शब्दमुत्पादयति । स च देशान्तरे प्रति शब्दमित्यादिना । बृहद्भाष्ये शब्दो हि स्थानान्तरं गत्वा प्रतिश्रुतत्वमुपैतीति । भागवते च । ‘यं वै स्वधामोपगतं ह्यजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनि इति शब्दस्य गमनोक्त्या विरोधप्रसङ्गः ।। चक्षुर्वदिति ।। इन्द्रियाणां तैजसत्वादिति भावः ।
ननु श्रोत्रस्य चक्षुष इव गत्वा ग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेन्न । अगत्वा ग्राहित्वे दिङ्निर्णयाभावप्रसङ्गात् । संशयादपि निश्चयो महीयान् । क्वचिच्छब्दे दिक्संशयस्तु रूपादाविव विशेषबलाद्युक्तः । न च श्रोत्रस्य गत्वा ग्राहित्वे संकोचे कारणाभावेन देवादिभाषितमपि गृह्णीयादिति वाच्यम् । चक्षुषापि देवादिरूपग्रहणप्रसङ्गात्कार्यबलात् संकोचस्यायोग्यता तस्यो-भयत्रापि तुल्यत्वादिति भावः ।। भूताकाशस्येति ।। अवकाशशब्दिताव्याकृताकाशापेक्षया द्रव्यान्तरस्य भूताकाशस्येत्यर्थः ।। पृथिव्यादीनामिति ।। तैजसाहङ्कारोपचितानामपीन्द्रियाणां तेषां भूतैरुपचय इत्युक्तरीत्या भूतैरुपचय सम्भवात् । विशिष्य भूताकाशोपचितस्यापि श्रोत्रस्य पृथिव्यादिभिरभ्युपचयोऽस्तीति भावेनैवमुक्तमिति मन्तव्यम् ।
अन्यत्रेति ।। घ्राणादिजननोपक्षीणत्वेन श्रोत्रानारंभकत्वे देहानारंभकत्वप्रसङ्ग इत्यर्थः । अदृष्टकारणकत्वं चेति ।। बधिरस्येत्यर्थः ।। उपहतिरिति ।। स्तंभकवायूपहतिरित्यर्थः ।। युक्त एवेति ।। दूरश्रवणाभ्युपगमो युक्त एवेत्यर्थः । ननु दूरश्रवणदर्शनादियुक्तिश्चेति भाष्ये आदिपदेन देशकालव्यवहितपदार्थस्मरणं ग्राह्यम् । मनश्च स्मृतिजननेन स्वरश्मिभिर्गत्वा विषयसन्निकृष्टं भवति । किन्तु संस्कारमवान्तरव्यापारीकृत्य । तत्कथं स्मरणयुक्त्या मनसो गत्वा ग्रहणमुच्यत इति चेन्न । संस्कारमवान्तरव्यापारीकृत्य मनोविषयेण सन्निकृष्यते संस्कारस्य द्रव्यत्वेनावान्तर-व्यापारानुपपत्तेः । न च द्रव्यत्वमसिद्धं गजतुरगादिस्वाप्नद्रव्योपादानत्वात् । किं त्वनुभवविषय एव स्मरणविषय इति अनुभवदशायां मनसा विषयेण सन्निकर्षे जनयितव्ये यन्मनसो रश्मिद्वारा विषयदेशगमनं तदेवावान्तरव्यापाररूपम् । न चानुभवकालेऽपि न मनो गङ्गादिविषयदेशं गच्छति बाह्यार्थेऽप्रवृत्तेरिति वाच्यम् । बहिरस्वातन्त्र्येऽपि बाह्येन्द्रियानुबद्धतया गमनसद्भावात् । न चानुभवकालीना मानसीक्रिया चिरातीतत्वात्कथं स्मरणकारणमिति वाच्यम् । अनुभवकालीना मानसीक्रियानुभवं जनयत्यनुभवस्त्वर्थविषयसंस्कारं जनयति । संस्कारस्य च स्थायित्वात् । स्वयं सहकारिरूपमुद्बुद्धं पूर्वतनचेष्टां तज्जमर्थसन्निकर्षं चापेक्ष्य स्मरणं जनयतीति किमनुपपन्नम् । तदुक्तं भगवद्गीताभाष्ये । ध्यानादेरपि मानसी चेष्टाऽपि कारणं पूर्वतनचेष्टापि संस्कारकारणत्वेन भवतीति । प्रमेयदीपिकायां च आदिपदेन स्मरणं गृह्यते । ज्ञात एवार्थे ध्यानं भवति । ज्ञानं चात्मेन्द्रियसन्निकृष्टेनैव मनसा जायते सन्निकर्षश्च मनसश्चेष्टा नान्या अतो ध्यानादेरपि मनः सम्बन्धिनी चेष्टाकारणं भवतीत्यादिना स्पष्टमेतत् ।
वाक्यार्थविवरणम्
स्मरणं मनःकार्यम् । पश्यतेश्चाक्षुषज्ञानार्थत्वादणुभिः सर्वेन्द्रियैः पश्यतीति न युक्तम् । अतो व्याचष्टे ।। पश्यति ।। जानातीति ।। भाष्ये कृणोति करोतीत्यर्थः ।। पश्यामः ।। जानीमः ।। प्राप्तेति ।। तथा चेन्द्रियाणां दूरस्थवस्तुप्राप्ताववश्यं वाच्यायां व्याप्तत्वं प्राप्तमिति भावः । ननु प्राप्यकारित्वयुक्त्या व्याप्तिर्वाच्या । स्वस्थानं विहायाणूनामेवेन्द्रियाणां विषयं प्रति गत्वा सन्निकर्षाङ्गीकाराद्विषयसन्निकर्षरूपव्यापारत्वप्राप्त्या करणत्वसम्भवाच्चेत्यत आह ।। न चेति ।। स्वस्थानं गोलकम् । विहाय तस्माद्बहिर्निर्गत्य । यावतेति सौत्रचशब्दार्थः ।। आत्माणुत्वेति ।। जीवाणुत्वेत्यर्थः । एवमणुत्वे साधकमुक्त्वा व्याप्तत्वे बाधकमाह ।। यदीति ।। वितत्य ।। व्याप्य । यदीन्द्रियाणि तेजसा विना स्वरूपत एव व्याप्त एव स्थितानीत्युच्यन्ते तदाकाशस्थपदार्थज्ञानमपि स्यात् । तत्सन्निकर्षस्य सत्त्वादिति भावः ।। सुप्त्यादीति ।। इन्द्रियाणां व्याप्तत्वेन सर्वदा ........ ...... स्वरूपतोऽणुत्वेऽपि तेजसा व्याप्तिमङ्गीकृत्य पूर्वपक्ष्युक्तादूरश्रवणदर्शनादियुक्तिः सिद्धान्तेऽनुज्ञाता । तत्र चक्षुषो दूरदर्शनमस्तु गत्वा ग्राहित्वात् तस्य । दूरश्रवणं तु कथम् । श्रोत्रस्य तदयोगादिति शङ्कते ।। स्यादेतदिति ।। वक्त्रोत्पन्नः ।। तदवच्छिन्नाकाशे उत्पन्नः । उत्पादयति । वीचितरङ्गन्यायेनेति शेषः ।। द्रव्येण ।। कुड्यादिना ।। न तत्रेति ।। तेन प्रतिबद्धत्वादिति भावः ।। कथमिति ।। तेजसा व्याप्तिमङ्गीकृत्येति शेषः ।। श्रोत्रेति ।। शब्दो हीत्युक्तप्रणाड्येति शेषः । शङ्कते ।। अन्यथेति ।। शब्दो हीत्याद्युक्तप्रणाड्या कर्णशष्कुल्य-वच्छिन्नवियत्युत्पन्नः श्रोत्रसम्बन्धः शब्दो यदि श्रोत्रेण न गृह्यते किन्तु वक्तृवक्त्रोत्पन्नशब्द एव गृह्यते तर्हि श्रोत्रशब्दयोः सम्बन्धाभावात् श्रोत्रेणैव शब्दग्रहणस्यावश्यकत्वाच्छ्रोत्रं शब्दमप्राप्या-सम्बध्यैव गृह्णातीति प्राप्तम् । तथा चातिप्रसङ्ग इति भावः । यथा चक्षुषो गत्वाग्राहित्वं तव सम्मतं तद्वच्छ्रोत्रस्यापि गत्वाग्राहित्वमेवास्तु । तथा च नोक्तदोष इत्यत आह ।। चक्षुर्वदिति ।। आकाश-तया आकाशात्मकतया ।। अमूर्तत्वात् ।। व्याप्तत्वात् ।। नेति ।। निष्क्रियत्वेन गमनमयुक्तमित्यर्थः ।। अवकाशः ।। अव्याकृताकाशः ।। कुतः ।। प्रमाणात् ।। अवकाशत्वम् ।। अव्याकृताकाशात्म-कत्वम् ।। परिशेषादिति ।। श्रोत्रं ‘पृथिवी न’, ‘जलं न’, इत्यादिरूपेण प्रसक्तप्रतिषेधे परिशेषादव्याकृताकाशात्मकत्वं सिद्ध्यतीति भावः ।। द्रव्यान्तरस्येति ।। भूताकाशस्या-व्याकृताकाशभिन्नद्रव्यान्तरस्य सत्त्वेन भूताकाशं नेति परिशेषानुपपत्तेरित्यर्थः । तथा च भूताकाशात्मकमेवास्तु श्रोत्रमिति तस्य मूर्तत्वेन युक्तं गमनमिति भावः ।
ननु भूताकाशानङ्गीकारेण युक्तः परिशेष इति चेत्तत्राह ।। तदनभ्युपगम इति ।। श्रुत्यादीति ।। ‘आत्मन आकाशः सम्भूतः’ । ‘आकाशो नीलिमोदेति’ इति भूताकाशप्रतिपादक-श्रुत्यादीत्यर्थः । एवं भूताकाशमेव श्रोत्रमिति युक्तं तस्य गमनमिति स्वमतं समर्थ्य पृथिव्यादि-कार्यमेव श्रोत्रमस्तु । ...... ....... ...... घ्राणादिजननोपक्षीणत्वेनान्यथासिद्धतया श्रोत्रारम्भकत्वं न सम्भवतीत्युच्यते तर्हि पार्थिवशरीरारम्भकत्वमपि न स्यात् । घ्राणादिजननो-पक्षीणत्वेनान्यथासिद्धत्वादेवेति भावः । ननु पृथिवीरूपायाः कर्णशष्कुल्या एव श्रोत्रत्वाङ्गीकारे बधिराणामप्येतादृशश्रोत्रस्य सत्त्वेन तेषामपि शब्दग्रहणापत्त्या लोके बधिराभाव एव स्यादित्याशङ्कते ।। बधिरेति ।। अव्याकृताकाशमेव श्रोत्रमिति वदतस्तव मतेऽपि बधिराणामपि कर्णशष्कुल्यन्तरावकाशस्य सत्त्वेन श्रोत्रस्य सत्वात्तेषामपि शब्दग्रहणापत्त्या बधिराभावः स्यादिति दूषणस्य त्वन्मतेऽपि साम्यादित्याह ।। सममिति ।। अथैवमुच्यते ‘नावकाशमात्रं श्रोत्रं येनोक्त-दोषः, किन्त्वदृष्टविशेषसहकृतावकाशमेव बधिराणां चादृष्टविशेषसहकृतावकाशाभावेन न शब्दग्रह’ इति यदि तर्हि वयमपि वदामोऽदृष्टविशेषसहकृतपृथिव्यादिकमेव श्रोत्रमिति । बधिराणां चैतादृश-श्रोत्राभावान्न शब्दग्रह इत्याह ।। अदृष्टेति ।। कारणम् ।। सहकारि । नन्वप्रतिबद्धावकाशमेव श्रोत्रं बधिराणां चावकाशमात्रस्य सत्त्वेऽपि तस्य बलवता केनचिद्रृव्येणापहतत्वान्न शब्दग्रह इति चेत्तत्राह ।। उपहतिश्चेति ।। बलवता प्रतिबन्ध इत्यर्थः । उपहतिरित्येतद्वचः पृथिव्यादीनामेव श्रोत्रत्वे न सम्भवति । संस्पर्शद्रव्यत्वात् । तादृशा एव घटादावुपहतिदृष्टेः । नावकाशमात्रस्य श्रोत्रत्वे उपहतिकल्पना युक्ता । अव्याकृताकाशस्य निःस्पर्शत्वेनोपहतिकल्पनायोगादिति भावः ।। युक्त एवेति ।। पृथिव्यादीनामेव श्रोत्रत्वाभ्युपगमो गमनाभ्युपगमो वा दूरश्रवणाभ्युपगमो वा प्रौढिवादेन युक्त इत्यर्थः ।
वाक्यार्थमञ्जरी
श्रोत्राद्यनुगमायाह ।। जानातीति ।। कृणोतीत्यस्य करोतीत्यर्थः स्फुट एवेति भावः । प्राणैर्ह्येतद्भवतीत्येतदवतारयति ।। कुतोऽत्रोक्त इति ।। अत्राणुभिरिति श्रुतौ ज्ञानादिकारणत्वेनोक्ता इत्यर्थः । एतच्छब्देन पश्यतीत्याद्युक्तपरामर्शः हिशब्दो हेत्वर्थ इत्यभिप्रेत्य तद्वाक्यं व्याचष्टे ।। ज्ञानकर्मेति ।। ज्ञानकर्मकारणत्वस्य प्राणासाधारणधर्मत्वादिति भावः । विष्णोर्व्याप्तत्व इति ।। यथा हि चक्षुराकाशे व्याप्तमपि न दृश्यते केवलं विषयोपलब्धिलक्षणेन फलेनानुमीयते तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यते किं तु अस्वतन्त्राणां पदार्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इति तदर्थः । चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शनमिति ऋग्भाष्योक्तेरिति भावः ।। प्राप्य-कारित्वादिति ।। वस्तु सम्बध्य ज्ञानकरणत्वादित्यर्थः ।। अन्यथेति ।। व्यापारवत एव करणत्वा-द्विषयप्राप्तिरूपसन्निकर्षस्यैव व्यापारत्वात्तदभावे करणत्वविरोधादित्यर्थः । प्राणाः स्वरूपेणाणव एव तेजसा व्याप्ताश्चेत्यर्थः ।। अतिसुदृढेति ।। दृष्टान्तत्वान्यथानुपपत्या सुदृढेत्यर्थः । आत्मनः जीवस्य तर्हि । साम्येनानिर्णयः स्यादित्यत आह ।। विशेषश्रुतित्वाच्चेति ।। चक्षसः प्रकाशो व्यातत इत्यनेन दिवीवेति व्याप्तिश्रुतेः सावकाशत्वप्रदर्शनेनास्याः श्रुतेः तदपेक्षया विशेषश्रुतित्वान्निर्णय इत्यर्थः । स्वरूपेण व्याप्तत्वे बाधकं चाह ।। यदिन्द्रियाणीति ।। सुप्त्याद्यभावश्चेति ।। सर्वविषयैः सह समनस्केन्द्रिय सन्निकर्षस्य सदा सत्त्वप्राप्त्या सर्वदा तद्ग्रहणे सर्वेन्द्रियव्यापारोपरमरूपसुप्त्यभावः स्यादित्यर्थः । द्रव्येण कुड्यादिना अनुज्ञायते अभ्युपगम्यते पूर्वपक्ष्युक्तस्य दूरश्रवणस्या-निराकृतत्वेनाङ्गीकारो ज्ञायत इति भावः ।। अवकाश इति ।। अव्याकृताकाश इत्यर्थः ।। परिशेषादिति ।। घ्राणादिजनकानां पृथिव्यादीनामन्यथासिद्धत्वेन श्रोत्रोत्पादकत्वानुपपत्तौ तस्य परिशिष्टाकाशकार्यत्वस्यैवाङ्गीकार्यत्वादिति भावः ।। श्रुत्यादिविरोध इति ।। ‘आत्मन आकाशः सम्भूतः’ ‘आकाशो नीलिमोदेति’ शब्दमात्रमभून्नभ इत्यादिविरोध इत्यर्थः ।। पृथिव्यादीना-मिति ।। तेषां भूतैरुपचय इति सामान्योक्तेरिति भावः । अन्यत्र घ्राणाद्यारम्भे ।। तच्छरीरेति ।। अन्यत्रोपक्षीणत्वादेव पार्थिवादिशरीरानारम्भकत्वप्रसङ्ग इत्यर्थः । बधिराभाव इति ।। पृथिव्यादीनां तान्प्रत्यप्यविशिष्टत्वादिति भावः । सत्यपीन्द्रिये पापवशादश्रवणमित्यत आह ।। अदृष्टेति ।। तदिन्द्रियस्य बलवन्निबिडवायूपहतत्वेनाश्रवणोत्पत्तिरित्यत आह ।। उपहतिश्चेति ।। आकाशस्य निस्पर्शत्वेनाप्रतिघातद्रव्यत्वादिति भावः ।। अभ्युपगम इति ।। पूर्वपक्ष्युक्तदूरस्थश्रवणाभ्युपगम इत्यर्थः । अत्र सर्वत्र शब्दपदेन वर्णात्मक शब्दो ग्राह्यः न ध्वन्यात्मकः तेनात्राकाशगुणे शब्दे व्यज्यमाना वर्णादय इति तत्त्वनिर्णयतट्टीकाविरोधः तत्र ध्वन्यात्मकशब्दस्य स्यादेतदित्यादिनोक्त-प्रकाराभ्युपगगमादिति निरस्तम् । न च श्रोत्रस्य गत्वा ग्राहित्वे ध्वन्यात्मकस्यापि शब्द-स्तत्प्रकाराभ्युपगमो व्यर्थ इति वाच्यं शब्दस्य शब्दान्तरजनकत्वस्वाभाव्यादेव तथाङ्गीकारात् तत्कुतः सिद्धमिति चेत् बहुजनाकीर्णसभादौ जनेषु मन्दं मन्दं भाष्यमाणेषु तदीयशब्दैर्महाशब्दो-त्पादस्यापवरकादौ प्रतिध्वन्युत्पादस्य बहुलमुपलम्भात् तर्हि श्रोत्रस्य गत्वाग्राहित्वं कुत इति चेन्न प्राणा वा इन्द्रियाणि प्राणाहीदं द्रवन्तीतीन्द्रियाणामिदं विषयजातमुद्दिश्य द्रवणस्य श्रुतिसिद्धत्वात् श्रोत्रस्यागत्वाग्राहित्वे शब्देन दिङ्निश्चयाभावप्रसङ्गाच्च अस्ति तावच्छब्दश्राविणां पूर्वभागे दूरे शब्दो भवतीति निश्चयः न च श्रोत्रस्य गमनाभावे सम्भवति श्रोत्रेणागत्वैव स्वसमीपस्थशब्दग्रहणे तस्या दूरभावित्वेन दूरे शब्दो भवतीति निश्चयः न च श्रोत्रस्य गमनाभावे सम्भवति श्रोत्रेणागत्वैव स्वसमीपस्थशब्दग्रहणे तस्यादूरभावित्वेन दूरे शब्द इति ज्ञानानुपपत्तेश्च क्वचिच्छब्दे दिक् संशयस्तु रूपादाविव दोषबलाद्युक्त इति ध्येयम् ।
।। इति अण्वधिकरणम् ।।