ॐ न चाऽधिकारिकमपि पतनानुमानात्तदयोगात् ॐ
६. अधिकारिकाधिकरणम्
सूत्रभाष्यम्
।। ॐ न चाऽधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ।। ४१ ।।
न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम् । ब्रह्मादीनामपि नाऽऽकाङ्क्ष्यं, किमु परस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थिनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोग्यस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते ।
‘न देवपदमन्विच्छेत्कुत एव हरेर्गुणान् ।
इच्छन्पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’ इति ब्रह्माण्डे ।
‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि ।
एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’ इत्याद्यनुमानरूपवाक्याच्च ।
‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः । अव दस्यूरधूनुथा’ (ऋ.सं.८-१४-१४) इति श्रुतिश्च ।।
तत्त्वप्रदीपिका
अयोग्यानां महोत्साहेऽपि न ज्ञानं स्यात्, स्याच्च महान्दोष इत्युक्तम् । न च योग्यतोत्साहेन व्यत्यसितुं शक्येति च । अथापि ज्ञानयोग्यानामेवान्योन्याधिकारप्राप्तिः स्यात् । योग्यतायां सत्यां साधनाधिक्ये फलाधिक्यनियमोक्तेरवरेषामुत्तमपदप्राप्तिर्न विरुध्यते । बीजानामिव साधनसम्पदा सस्यसम्पत्तिरित्याशङ्कायां तेषामुत्तमपदाकाङ्क्षायामेव गरीयान्दोष इत्याहातिदवीयांस्तदधिगम इति किमु कथनीयमित्यभिप्रायेण न चाऽधिकारिकमपि पतनानुमानात्तदयोगात् । उत्तमाधिकारिणां देवानां यस्य यस्मिन्नधिकारः श्रुतिस्मृतिप्रसिद्धस्तत्पदमाधिकारिकम् । चशब्दस्तु ज्ञानार्थिनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयमर्थः । ज्ञानार्थिनां ब्रह्मचर्यगुरुशुश्रूषाभक्तिश्रवणादयो हि विहिताः । तेषामेवेत्थम्भावान्तरं चशब्देन सूचितम् । ज्ञानार्थिना मुक्तेभ्योऽन्योऽपीत्थम्भावोऽपेक्षितः परब्रह्मणो देवानां चैश्वर्याद्याकाङ्क्षा नैव कार्येति । तदकाङ्क्षायां न ज्ञानमुत्पद्यते । पूर्वस्मादधः पतनं च भवति । अतोऽधःपातभीरूणामपि नैवाऽकाङ्क्षयं ब्रह्मादिपदम् । अधिकोत्तराकाङ्क्षायां चाधिकोऽधःपातो भवति । अत आह ब्रह्मादीनामपि नाऽकाङ्क्षयं किमु परस्येति । रुद्रादि-पदयोग्यैरित्यभिप्रायेण ब्रह्मादीनामित्युक्तम् । ते नैवाऽकाङ्क्षन्ति । अतस्तेषामधःपाताशङ्का दूरा-द्दवीयसी । य एत उत्पन्नज्ञानाः स्वेच्छानुवृत्या प्रायस्सुखाद्युत्कर्षवन्तो भवन्ति ये तूत्पन्नज्ञानत्वेऽपि विधिनियतास्तेषामेव ज्ञानात्प्राक् पूर्वस्मात्पतनं तत्र वैशेषिको विधिः । ये पुनः श्रुतिस्मृतिभि-र्बहुभिर्निवारिता अप्ययोग्यं पदमारुरुक्षन्ति ते नैव ज्ञानयोग्यास्तानुद्दिश्याऽह– ‘मायाभिरुत्सिसृप्सत’ इत्यादि । एवमयोग्यस्येति वचनात्तत्पदयोग्यानां तत्तदाकाङ्क्षायां नैव दोषः ।।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनज्ञानस्य देवादिपदाकाङ्क्षाशून्यैरेव प्राप्यत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा यागाद्यतिशयासिद्धेरेतत्साध्यम् । देवादिषु नियतं ज्ञानं तदन्यैर्न प्राप्यमित्युक्तम् । तत्सङ्गतं देवतापदं विषयः । किमन्यैः प्राप्यं न वेति सन्देहः । लोकदृष्टिरतीताधिकरणन्यायश्च सन्देहबीजम् । देवतापदमन्यप्राप्यमिति पूर्वः पक्षः । ‘स्वधर्मनिष्टः शतजन्मभिः पुमान्विरिञ्चतामेति’ इत्यादेः । देवत्वस्य स्वाभाविकत्वान्नान्यैस्तत्प्राप्यमिति चेन्न । प्रयत्नसाध्यत्वश्रवणात्तस्य स्वभावत्वानुपपत्तेः । यद्धि चेतनेषु चेतनत्वं तदेव स्वाभाविकं तच्च सर्वेषां सममेवेति न कश्चिद्देवत्वादिः स्वभावः । किं बहुना प्रयत्नेन भगवदैश्वर्यमपि प्राप्तुं शक्यते किमु देवपदमित्यतो ज्ञानमप्ययोग्यप्राप्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। न चेति ।। यदुक्तं देवतापदं भगवदैश्वर्यं चान्यैः प्राप्यमिति न तद्युक्तम् । तदाकाङ्क्षाया एवायोगेन तत्प्राप्तेर्दूरोत्सारितत्वादिति भावः । सूत्रे ब्रह्मादिपदानाकाङ्क्षैवोच्यतेऽतः कथं न परमात्मैश्वर्यादिकमाकायमिति भाष्यत इत्यत आह ।। ब्रह्मादीनामिति ।।
ननु भगवदैश्वर्याद्याकाङ्क्षायोगः कुत इति तत्राह ।। अयोग्यमिति ।। अत्रायं प्रयोगः । ब्रह्मादिपदाकाङ्क्षावान् पतति । अयोग्यारोहप्रयत्नवत्त्वात् । अयोग्यवृक्षारोहप्रयत्नयुक्तवदिति । इच्छाया अपि प्रयत्नविशेषत्वाङ्गीकारान्नासिद्धिः । न च जीवानां चैतन्यमेव निजस्वभाव इत्ययोग्यत्वविशेषणासिद्धिः । ‘देवासुरनरत्वाद्या जीवानां तु निसर्गतः’ इति वचनात् । प्रयत्नस्य स्वभावाभिव्यक्तिहेतुत्वान्निर्मूलानुमानं न मानमिति तत्राह ।। नेति ।। यत्र पतितस्य । नन्वयोग्यारोहप्रयत्नस्य पतनकारणत्वेऽपीच्छामात्ररूपस्य तद्दर्शनान्न तावन्मात्रं बाधकमित्यत इच्छाया अपि पातकारणत्वं स्मार्तानुमानेन दर्शयति ।। स्वकीयमिति ।। अयमत्र प्रयोगः । विमतो देवादिभिः पात्यते । अशक्यतत्पदेच्छुत्वात् । राजपदेच्छुवदिति । अत्र मूलभूतां श्रुतिं चाह ।। मायाभिरिति ।। हे परमेश्वर त्वं कुविद्याभिरुत्तमत्वं प्राप्तुमिच्छतः स्वर्गमारोढुं चेच्छतो दस्यूनन्धे तमस्यवाक्षिप इत्यर्थः ।
गुर्वर्थदीपिका
देवादिपदाकाङ्क्षाशून्यैरित्यस्य स्वायोग्यपदाकाङ्क्षाशून्यैरित्यर्थः । अन्यथा यागाद्यतिशया-सिद्धेरित्यत्र यागादिभ्योऽतिशयासिद्धेरित्यर्थः । अहं ब्रह्मेति वदतो मिथ्याज्ञानिनोऽपि यागा-त्फलसिद्धेरिति भावः । किं बहुना । भगवदैश्वर्यमपीत्यत्र भगवदैश्वर्यं नामाणिमाद्यैश्वर्यमुच्यते । औतवादिनां चेयं शङ्का । नन्वयोग्यवृक्षारोहप्रयत्नस्य पतनहेतुत्वेऽपि तदाकाङ्क्षामात्रस्य पतनहेतु-ताया अदर्शनादप्रयोजको हेतुरिति चेन्न । अयोग्यराजसिंहासनारोहाकाङ्क्षामात्रेणापि कारागृहादौ पतनस्यापि वक्ष्यमाणत्वात् । आरुरुक्षत इत्यनेन पौनरुक्त्यपरिहाराय उत् उत्कृष्टत्वं सर्पितुमिच्छन्तः उत्सिसर्पन्तः इति भावेनार्थमाह उत्तमत्वमिति ।।
भावबोधः
चशब्दस्तु पूर्वोक्तादित्थंभावान्तरसूचक इति भाष्यं मनसि निधायाधिकरणप्रतिपाद्यमाह– देवादिपदाकाङ्क्षाशून्यैरिति ।। तथा च एवं पूर्वाधिकरणे ज्ञानस्याधिकारिमात्रप्राप्यत्वमुक्त्वा अत्र ज्ञानस्य देवादिपदाकाङ्क्षाशून्यतालक्षणेत्थंभाववद्भिरधिकारिभिः प्राप्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः । पूर्वाधिकरणोपक्षिप्तदेवतादिपदविचाराच्चानन्तरसङ्गतिरिति दर्शयन् विषयमाह– देवादि-ष्वित्यादिना ।। यद्वा ‘स्वधर्मनिष्ठः’ इत्यादिना देवत्वस्य प्रयत्नसाध्यत्वश्रवणादयुक्तं पूर्वाधि-करणोक्तं देवत्वस्य स्वाभाविकत्वमित्याक्षेपादनन्तरसङ्गतिरिति ज्ञातव्यम् ।। किमित्यादि ।। अत्र देवतापदं किमन्यैः प्राप्यं भवत्युत न भवतीति चिन्ता । तदर्थं विरिञ्चादिदेवतापदं प्रयत्नमात्रसाध्यं भवत्युत न भवतीति । तदर्थं देवादिपदाकाङ्क्षा प्रयत्नाधिकारिण अनर्थप्राप्तिर्नास्त्युतास्तीति । तदर्थं देवतापदं ज्ञानादिशुभसाधारणं भवत्युत नेति । तदर्थं देवादिचेतनानां यच्चैतन्यं तदेव स्वाभाविकमुत देवत्वादिकमपीति । ‘न चाऽधिकारिकं’ इति सूत्रनिवर्तनीयपूर्वपक्षमाह देवतापदमिति ।। इत्यादेरित्यादिपदेन ‘शतक्रतुरिन्द्रो भवति’ इत्यादेर्ग्रहणम् । सर्वजीवानामेकप्रकार एव निज-स्वभावश्चैतन्यमिति फलेऽप्यविशेष इति न्यायविवरणं संयोजयति– यद्धीति ।। न च परमात्मैश्वर्यादिकमिति भाष्यानुरोधेनाह– किं बहुनेति ।। अतो ज्ञानमपीति ।। अपरोक्षज्ञानस्य देवतापदहेतुत्वात् तदप्राप्तौ तदप्राप्तेरेवायोगादिति भावः । तदाकाङ्क्षाया एवेति ।। अनेन सूत्रे ‘नाधिकारिकमपि तदयोगात्’ इति सम्बन्ध उक्तो भवति ।। ब्रह्मादिपदानाकाङ्क्षेति ।। ब्रह्मादीना-मेवाधिकारिकत्वादिति भावः । आकाङ्क्षायोगः कुत इतीति । अनेन पतनानुमानं तदयोगे हेतुरित्युक्तं भवति । एवमयोगस्येत्यादिभाष्यानुसारेण प्रतिज्ञामाह– ब्रह्मादीति ।। ‘अयोग्यमारोढुं’ इत्युदाहरणसामर्थ्यलब्धं हेतुमाह– अयोग्यारोहेति ।।
ननु ब्रह्मादिपदाकाङ्क्षावति तद्विषयकप्रयत्नाभावादसिद्धिरित्यत आह– इच्छाया अपीति ।। अत्र प्रयत्नशब्देन प्रवृत्तिर्विवक्षिता । प्रवृत्तिविशेषत्वाङ्गीकारादित्यर्थः । यथोक्तं सुधायाम् तत्र साधनगोचरेच्छाप्रयत्ने प्रवृत्तिरित्युच्येते इति । देवतापदस्य ज्ञानवदवान्तरफलत्वेऽपि सायुज्यादि-मोक्षविशेषहेतुत्वेन साधनत्वमप्यस्तीति ज्ञातव्यम् । तथा चायोग्यारोहप्रवृत्तिमत्त्वादिति हेत्वर्थ इति । अयोग्यारोहप्रयत्नस्य पतनकारणत्वेऽपीच्छामात्ररूपस्येत्येतदप्येवमेव व्याख्येयम् । स्वधर्मनिष्ठ इत्यादिवाक्यस्य गतिमाह– प्रयत्नस्येति ।। तत्राहेति ।। भाष्ये ‘न देवपदमन्विच्छेत्’ इति पुराणोदाहरणमुपलक्षणम् । ‘नादेवो देवपदमन्विच्छेत्’ इत्यादिन्यायविवरणोदाहृतश्रुतिरप्यनुमान-मूलभूतेति द्रष्टव्यम् । इच्छामात्रस्वरपस्येति ।। प्रवृत्तिशब्दवाच्यस्येत्यर्थः ।। स्मार्तानुमानेनेति ।। अनेन ‘पतनानुमानात्’ इति सूत्रांशो भाष्ये प्रकारान्तरेण व्याख्यातो भवति । ‘मायाभिः’ इत्यस्यार्थः– कुविद्याभिरिति ।। ‘उत’शब्दस्यार्थ उत्तमत्वमिति । ‘सिसृप्यते’ इत्यस्यार्थः प्राप्युमिच्छत इति, ‘सृ गतौ’ इति धातोरिति भावः । ‘अव’ इत्यस्यार्थोऽन्धेतमसीति । सूत्रे उपशब्दः समीपवर्तिवाचकः । पूर्वसूत्राद्देवतावाचकाधिकारिकपदस्यार्थवशेन षष्ठ्यन्तस्यानुवृत्तिः ।
भावदीपः
सूत्रे देवपदानामयोग्याप्राप्यत्वोक्तावपि पादान्तार्भावलाभाय सूत्रतात्पर्यार्थमाह ।। देवादीति ।। अयोग्यानामपि देवादित्वसम्पादनसम्भवेनायोग्यैरपि प्राप्यत्वशङ्कायामिति भावः । तेनानभिभवं चेत्यादिना यद्देवादित्वस्य स्वभावत्वोपगमेन ज्ञानस्यायोग्याप्राप्यत्वमुक्तं तद्युक्तम् । देवत्वादेर-स्वाभाविकत्वेन प्रयत्नेन देवत्वसम्पादनद्वाराऽयोग्यानां ज्ञानप्राप्तिसम्भवादिति पूर्वाक्षेपेण शङ्को-त्थानात्पूर्वसङ्गतिरपि सूचिता ।। यागादीति ।। देवतापदाद्याकाङ्क्षावद्भिरपि ज्योतिष्टोमादिना स्वर्गादिफलप्राप्तिर्भवतीति भावः । यद्यपि पूर्वोक्तप्रमेयासिद्धिरेव फलं सुवचं तथापि स्वर्गाद्यर्थिनां नेयमितिकर्तव्यता ज्ञानार्थिनामेवेति सूचनायैवमुक्तिः । देवपदस्य प्रागप्रकृतत्वादाह ।। देवादिष्विति ।। अन्यैरिति ।। तदयोग्यैरित्यर्थः । भाष्यदिशाकाङ्क्षयं न वेत्येव वाच्ये प्राप्यं न वेत्युक्तिः फलेऽप्यविशेष इत्यन्यत्रोक्तानुरोधात् ।। लोकेति ।। लोके राजादिपदं प्रयत्नेन तदन्यैः प्राप्य-मप्युपलभ्यते । पूर्वत्र च देवासुरत्वादिः स्वाभाविको न केनापि निवर्त्य इत्यप्युक्तमिति भवति संदेह इति भावः ।
सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फलेऽप्यविशेष इत्यन्यत्रोक्त प्रतिज्ञांशार्थ-माह ।। देवतेति ।। कुत इत्यतः प्रयतन् पतन् हि दृश्यते इति भाष्ये प्रयत्न स्यानर्थहेतुत्वोक्ते-स्तद्व्यावर्त्यहेतुं प्रयत्नसाध्यत्वं असिद्धिनिरासाय स्मृत्यैवाह ।। स्वधर्मेति ।। स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिंचतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथार्हं विबुधैः कलात्यये इति चतुर्थस्कन्धत्रयोविंशेऽध्याये रुद्रवाक्यम् । तस्य चेदं तात्पर्यम् । मां श्रियम् । ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु । त एव शतजन्मानि विशेषोपासका हरेः । प्राप्य ब्रह्मपदं पश्चाच्छ्रियं प्राप्यानुमोदिताः । तया ततो हरिं यान्ति वसंति हरिसन्निधौ ।। अनादिकालभक्ताश्च ज्ञानिनस्ते न संशयः । विशिष्टा ज्ञानभक्त्यादौ सर्वजीवनिकायतः ।। सर्वदापि विशेषेण शतजन्मप्रयत्नतः । स्वपदप्राप्तिरुद्दिष्टा ततो मुक्तिरवाप्यते । तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः । विंशद्भिरैन्द्रं दशभिरन्येषामप्युदीरितमिति षाड्गुण्ये इति । तथापि तदन-भिज्ञस्यापातार्थाभिज्ञस्य पूर्वपक्षिण इदं चोद्यमिति ज्ञेयम् । आदिपदेन वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वमित्यादिग्रहः । पूर्वोक्तविरोधमाशङ्क्य निराह ।। देवत्व-स्येति ।। श्रवणात् पूर्वोक्तस्मृत्यादावुक्तेरित्यर्थः । देवत्वादेरस्वभावत्त्वादेव ततोऽन्यस्वभावाभावात् निःस्वभावो जीवः स्यादित्यतः सर्वजीवानामित्याद्यन्यत्रोक्तवाक्यांशार्थं योजयति ।। यद्धीति ।। एवकारव्यावर्त्योक्तिर्नेत्यादि । सौत्रापिपदव्यावर्त्यं न चेत्यादिभाष्योक्तमाह ।। किं बहुनेति ।। अत इति ।। देवादित्वस्य प्रयत्नसाध्यत्वादित्यर्थः ।। अनाकाङ्क्षोक्तिरसङ्गतेत्यतः पूर्वपक्षनिरास-कहेतुपरतया भाष्यं व्याचष्टे ।। यदुक्तमित्यादिना ।। सर्वजीवानामित्यादिन्यायविवरणवाक्येन यदुक्तमित्यर्थः । सूत्रादावनुमानादित्युक्तेर्भाष्योक्तहेतुदृष्टान्तौ विवृण्वन्प्रयोगमाह ।। अत्रायमिति ।। नन्विच्छारूपाकाङ्क्षावत्त्वमेव न तु प्रयत्नवत्त्वमित्यत आह ।। इच्छाया इति ।। अत्र साध्ये आकाङ्क्षाशब्दोपात्ताया इच्छायाः केवलेच्छामात्रत्वं नोपेयते । किं तु प्रयत्नविशेषरूपत्वमित्यर्थः । इच्छायाः साधनेच्छायाः प्रयत्नविशेषत्वादित्यर्थ इत्येके । पूर्वोक्तदिशा विशेषणासिद्धिमाशङ्क्य षोडशगीतातात्पर्योक्तस्मृत्या निराह ।। न चेति ।। देवत्वादेः स्वभावत्त्वे स्वधर्मनिष्ठ इत्यादिनोक्त-प्रयत्नसाध्यत्वहेतुकानुमानविरोध इत्यत आह ।। प्रयत्नस्येति ।। यत्रेत्यनुवादः पतितस्येति शेषोक्तिः ।। अशक्येति ।। प्राप्तुमशक्येत्यर्थः । श्रुतिं व्याचष्टे ।। हे परमेश्वरेति ।। त्वमिति शेषः । मायाभिः कुविद्याभिः । उत्सिसृप्सतः उत्तमत्वं प्राप्तुमिच्छतः । द्यां स्वर्गं आरुरुक्षतः आरोढुमिच्छतः अवधूनुथः अन्धे तमस्यवाक्षिप इति ।
अभिनवचन्द्रिका
अत्र भगवत्प्राप्तिसाधनज्ञानस्येति ।। अस्मिन्नधिकरणे देवादिस्वायोग्यपदाकाङ्क्षावैधुर्यलक्षण-गुणसम्पत्त्यनन्तरमेव ज्ञानमाप्यत इति प्रमेयस्यार्थात्सिद्धेरस्ति पादसङ्गतिरित्यर्थः । एतेन अत्राधि-करणे अयोग्यानां देवादिपदप्राप्त्यभावस्यैव वर्णितत्वात् ज्ञानमहिम्नो वर्णनादित्ययुक्तमिति परास्तम् ।। लोकदृष्टिरिति ।। यज्ञदत्तपदस्य देवदत्तप्राप्यत्वदर्शनम् । ‘सर्वथाऽपि तु त एवोभयलिङ्गात्’ इति न्यायदर्शनं च सन्देहबीजमित्यर्थः ।। किं बहुनेति ।। ‘सायुज्यं समवाप्नोति’ इति वचनात् भगवदैश्वर्यमाप्तुं शक्यत इति भावः ।। अयोग्यारोहेति ।। अरोहोऽत्र प्राप्तिः, न तु प्रसिद्धमूर्ध्व-प्रदेशगमनमिति बोध्यम् । एतेन अयोग्यवृक्षारोहप्रयत्नवतोऽपि प्राप्त्यभावदर्शनात् व्यभिचार इति परास्तम् ।। अयोग्यवृक्षारोहेति ।। राजान्तःपुरगतत्वादिनायोग्यस्य वृक्षस्य प्राप्तये प्रयतमानव-दित्यर्थः । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा पक्षदृष्टान्तयोरारोहस्य पातस्य च विलक्षणत्वात् दृष्टान्तोऽनुपपन्नः स्यात् । तथा हि । पक्षे हि अयोग्यारोहप्रयत्नः तत्प्राप्तिप्रयत्नः । दृष्टान्ते हि ऊर्ध्वप्रदेशगमनम् । एवं पक्षे पातो नाम दुःखावाप्तिः । दृष्टान्ते तु अधःपतनमिति भेदात् । ब्रह्मादिपदकाङ्क्षावत्सु सर्वेषु तद्विषयकप्रयत्नाभावात् भागासिद्धिरित्यत आह– इच्छाया अपीति ।। अत्र प्रयत्नशब्देन प्रवृत्तिर्विवक्षिता । इच्छापि प्रवृत्तिविशेषः ‘साधनगोचरेच्छाप्रयत्नौ प्रवृत्ति-रित्युच्येते’ इति सुधोक्तेः । ततश्च प्रवृत्तित्वेन रूपेण सापि हेतुतया विवक्षितेति न भागासिद्धिरिति भावः । एवं तर्हि प्रयत्नवैयर्थ्यमित्यत आह– प्रयत्नस्येति ।। न वैयर्थ्यमिति शेषः ।। अयमत्र प्रयोग इति ।।
ननु सम्भवति अशक्यराजपदेच्छुं राजा पातयतीति अविवेकित्वात् । इदं तु न सम्भवति देवा देवपदेच्छुं पातयन्तीति विवेकित्वात् । न हि विवेकिनः येन स्वस्योपद्रवशङ्कास्ति । तादृशं विघातं करिष्यामीति वदन्तमपि बालं, उन्मादाद्याक्रान्तं वा, घातयन्ति; प्रत्युत उपकुर्वन्ति । एवं च सति कथमेतद्विजानीमः दयालवोऽपि देवा अशक्यस्वपदेच्छुमज्ञतरं घातयन्तीति । ततश्च बाधित-विषयमनुमानमिति चेत्, न ब्रूमो वयं देवाः स्वानिष्टशङ्कया स्वपदेच्छुं घातयन्तीति । येनोक्तदोषः स्यात् । न चैवं, किं नाम । धर्माऽधर्मफलदाने भगवता नियुक्तत्वात् निषिद्धं कामयमानमधर्म-कारित्वात् घातयन्तीति । ननु अन्धत्वादिदोषवन्तं राजपदायोग्यं राजपदं कामयमानं पुत्रं, राजानो न घातयन्तीति व्यभिचार इति चेत्, सत्यं न घातयन्ति किं नाम स्नेहौत्कण्ट्यस्य प्रतिबन्धकत्वान्न घातयन्ति । न हि विषसंपृक्तत्वादन्नमिष्टसाधनं नेति । अन्नत्वस्य हेतोस्तत्र व्यभिचारो भवति । येनेह प्रतिबन्धवशात् साध्याभावे व्यभिचारं प्रतीमः ।
वाक्यार्थमुक्तावली
चशब्दस्तु ज्ञानार्थिनां पूर्वोक्तादित्थंभावान्तरसूचक इति भाष्यानुसारेणाधिकरणतात्पर्यमाह ।। देवादीति ।। अत्राधिकरणे देवादिपदस्य ज्ञानादिश्रेयस्कामेनानाकाङ्क्षत्वाभिधानादिति भावः ।। अन्यथेति ।। देवादिपदाकाङ्क्षाविरागस्यापि ज्ञानाधिकारित्वाद्देवादिपदाकाङ्क्षावता योग्येनापि ज्ञानस्य प्राप्यत्वेन यागाद्यतिशयो न स्यात् । तथा च यागवदयोग्यप्राप्यत्वेन त एवोभयलिङ्गादित्यत्र ज्ञानयोग्या एव ज्ञानमाप्नुवन्तीत्युक्तमयुक्तम् स्यादिति पूर्वाक्षेपेणोत्थानादनन्तरसङ्गतिरिति भावः ।। तत्सङ्गतमिति ।। देवादिषु नियतं ज्ञानं तदन्यैर्न प्राप्यमित्युक्तं देवादिपदस्यैव तदन्यप्राप्यत्वे तन्नियतं ज्ञानमन्यप्राप्यं प्रसज्येतेति तदाक्षेपवत्तया सङ्गतं देवादिपदं संशयविषयो विचार्यत इत्यर्थः । एतेन प्रकारान्तरेणाप्याक्षेपिकी सङ्गतिरित्युक्ता भवति ।। किमिति ।। देवादिपदं किमन्यप्राप्यमुत नेति चिन्ता । तदर्थं तत्किमस्वाभाविकमुत स्वाभाविकमिति । तदर्थं तत्पुरुषप्रयत्नसाध्यं न वेति ।। लोकेति ।। लोके यस्य कस्यापि राजादिपददृष्टिरित्यर्थः ।। गताधिकरणेति ।। योग्यानामेव ज्ञानप्राप्तिर्योग्यता च स्वाभाविकी । स्वभावस्य चानभिभव इति पूर्वोक्तं न्यायमेव पदस्यान्याप्राप्यत्वे न्याय इति पूर्वोक्तन्यायः संशयबीजमिति भावः । तथा च पूर्वन्यायेन संशयोत्थानाच्चानन्तर-सङ्गतिरिति ज्ञेयम् । आधिकारिकपदनिरस्यं प्रमाणमाह ।। स्वधर्मेति ।। पुमानिति सामान्योक्त्या तत्प्राप्त्यर्थं नाधिकारिविशेषक्लृप्तिरित्यर्थः । पूर्वाधिकरणन्यायेन देवत्वस्य चान्यैरप्राप्यत्वमाशङ्क्य निषेधति ।। देवत्वस्येति ।। कुतो नेत्यतः पततानुमानादित्येतन्निवर्त्ययुक्तिमाह ।। प्रयत्नेति ।। न तु प्रयत्नस्य योग्यताव्यंजकत्वसम्भवादप्रयोजको हेतुरित्यतः स्यादिदं यदि पदस्य निजस्वभावत्वं स्यात्तदेवासिद्धमित्याह ।। यदीति ।। यत् प्रयत्नसंस्पर्शशून्यं चेतनत्वं तदेव न तु पदमित्यर्थः । देवासुरनरस्वभावत्वे युक्त्यन्तरमाह ।। तच्चेति ।। निजस्वभावभूतं चेतनत्वं सर्वेषामेकप्रकारमिति तदायत्तं देवत्वादिकं कथं स्वभाव इति भावः । एतेन तदयोगात् देवत्त्वादावन्येषां योग्यता-भावादिति । सूत्रे अयोग्यमारोढुं सुराद्याश्च हरिश्च स्वपदेच्छुकमिति भाष्ये च देवत्त्वादेर्नैज-स्वभावत्वोक्त्या निरस्यो निजस्वभाव इत्युक्तन्याय उक्तो भवति । आधिकारिकमपीत्यपि-शब्दनिरस्यं कैमुत्यमाह ।। किं बहुनेति ।। अत इति देवत्वस्य वा न्यायप्राप्यत्वात्तन्नियतं ज्ञानमपीत्यर्थः । देवादिपदाकाङ्क्षायाः कर्तुं शक्यत्वाद्यागादिदं ज्ञानमप्ययोग्यप्राप्यमिति न तस्य यागाद्यतिशय इति वा । न चाधिकारिकमपीत्येतद्विवरणपरं न च परमैश्वर्यादिकमपीति भाष्यांश-मन्यैः प्राप्यमित्यध्याहारेण व्याचष्टे ।। तदाशङ्काया एवेति ।। भाष्य आदिपदेन देवतापदं गृह्यते इति भावः । तत्र हेतुतया तदयोगात् तदाकाङ्क्षाया एवायोगादिति सूत्रखण्डं तात्पर्यतो व्याकुर्वन् न च परमैश्वर्यादिकमाकाङ्क्षयमिति भाष्यं व्याचष्टे ।। तदाकाङ्क्षाया एवेति ।।
ननु सूत्र इति तदयोगादिति सूत्रखण्डे तच्छब्देन पूर्वप्रकृताधिकारिकपदानाकाङ्क्षैवोच्यते कथमैश्वर्यब्रह्मादिपदयोरुभयोरनाकाङ्क्षयत्वं भाष्यत इत्यर्थः । यद्वा न च परमैश्वर्यादिकमपीत्य-स्यैवाधिकारिकमिदमीशैश्वर्यं च प्राप्यम् । कुतस्तदुभयं नाकाङ्क्षयम् । कुतस्तदुभयविषयाकाङ्क्षैव न कार्येति यावत् । तदपि कुतः तदयोगात् । तदाकाङ्क्षायाः कर्तुमयुक्तत्वादित्यर्थमभिप्रेत्य भाव इत्यन्तेन व्याख्यातम् । तथा च सूत्रे ब्रह्मादिपदानाकाङ्क्षेत्यादेः न चाधिकारिकमिति सूत्रखण्डे ब्रह्मादिपदानाकाङ्क्षैवोच्यत इत्यर्थः ज्ञेयः । इत्थंभावान्तरसूचक इति भाष्यस्य ऊर्ध्वरेतस्सु चेत्याद्युक्तब्रह्मचर्यगुरुशिष्यादीत्थंभावमपेक्ष्य ज्ञानार्थिनां देवादिपदाकाङ्क्षाशून्यत्वरूपेत्थंभावांतरसूचक इत्यर्थः । यद्वा योग्यतेत्थंभाव इत्यव्यवहिताधिकरणे निरूपितं योग्यानामप्युत्तमपदवीरागोऽपीत्थं-भाव उच्यत इत्यर्थद्वयं तत्त्वप्रदीपे व्यक्तम् । भगवदैश्वर्याद्याकाङ्क्षायोगः कुतः प्रमाणादवसीयत इत्यतः प्रवृत्तं तदयोगात् तत् तत्र भगवदैश्वर्यादौ अयोगात् अयोग्यत्वात् तद्विशेषणकप्रयत्न-वत्त्वहेतुना पतनानुमानात् पदाकाङ्क्षायोग इति सूत्रांशं व्याचष्टे इत्यर्थः । ब्रह्मादिपदाकाङ्क्षावति सर्वत्र प्रयत्नवत्वं विशेष्यमसिद्धमित्यत आह ।। इच्छाया अपि प्रयत्नविशेषत्वादिति ।। प्रवृत्तिविशेषत्वादित्यर्थः । तदुक्तं सुधायां तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरित्युच्येत इति । अत्र दृष्टान्तदार्ष्टांतिकयोरारोहो नामोत्तमस्थानप्राप्तिः । उत्तमस्थानं च दार्ष्टान्तिके पदरूपं दृष्टान्ते उर्ध्वभागरूपमिति न दोषः । पातोऽप्येवमवस्थानप्राप्तिरूप उभयानुगतो बोध्यः ।
ननु प्रयत्नासाध्यं चैतन्यमेव निजस्वभावः । न तु देवत्वादिः प्रयत्ननिष्ठ इति प्रयत्न-साध्यत्वश्रवणादित्याशङ्क््य निषेधति ।। न चेति ।। कुतो नेत्यतो यस्य यस्मिन्नधिकारः श्रुतिस्मृतिसिद्धस्तत्पदमाधिकारिकमिति तत्त्वप्रदीपरीत्या आधिकारिकपदग्रहणसूचितगीता-तात्पर्योदाहृतवचनमुदाहरति ।। देवेति ।। देवत्वादेः स्वाभाविकत्वे स्वधर्मनिष्ट इति प्रयत्नवैय्यर्थ्य-मित्यतः प्रयत्नस्यान्यथासिद्धिमाह ।। प्रयत्नस्येति ।। निर्मूलेति ।। वैदिकेऽर्थे केवलानुमानात् प्रवृत्तेरिति भावः । एतेनानुकूलमानादनुमानादिति वर्णकान्तरमुक्तं भवति ।। इच्छामात्ररूपस्येति ।। प्रवृत्तिविशेषस्येत्यर्थः ।। दर्शयतीति ।। दर्शयत् पतनानुमानादित्येतत् प्रकारान्तरेण व्याचष्ट इत्यर्थः । एतेन निषेधसामान्यविधिक्रियाणां विभक्ततेति न्यायो लेशतो दर्शितो भवति । न देवपदमन्विछेत् । सुराद्याश्च हरिश्च स्वपदेच्छुकमित्युक्त्या देवादिपदेच्छाया अन्येषां निषेधस्य योग्यानां तस्य स्वत्त्वोक्त्याऽनिषेधस्य चोक्त्या निषेधविभागन्यायस्य व्यक्तत्वात् । मायाभि-र्मोहिकाभिरित्यस्य तात्पर्यं कुविद्याभिरिति । तत् उत्तमत्त्वम् । सृ गतौ । सर्तुमिच्छा सिसृक्षा एषां ते उत्सृजन्त तानित्यभिप्रेत्याह ।। उत्तमत्त्वमिति ।। दस्यून् ब्रह्मस्तेनान् । अव अवमे तमसीति यावत् ।
तत्त्वसुबोधिनी
चशब्दस्तु पूर्वोक्तादित्थम्भावान्तरसूचकः इति भाष्यं मनसि निधायाधिकरणप्रतिपाद्यमाह देवादिपदेति ।। तथा चैवं पूर्वाधिकरणे ज्ञानस्याधिकारिमात्रप्राप्यत्वमुक्त्वा ज्ञानस्य देवादि-पदाकाङ्क्षशून्यत्वलक्षण इत्थम्भाववद्भिरधिकारिभिः प्राप्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः । पूर्वाधिकरणोपक्षिप्तदेवतादिपदविचाराच्चानन्तरसङ्गतिं दर्शयन् विषयमाह । देवादिष्वित्यादिना ।। यद्वा स्वधर्मनिष्ठ इत्यादिना देवत्वस्य प्रयत्नसाध्यत्वश्रवणादयुक्तं पूर्वाधिकरणोक्तदेवत्वस्य स्वाभाविकं वेत्याक्षेपादनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। देवादिपदाकाङ्क्षाशून्येनैव प्राप्यत्व-समर्थनाभावे योगाद्यपेक्षया विशेषो न स्यात्तस्याप्युत्तमपदाकाङ्क्षावद्भिः प्राप्यत्वादित्यर्थः । पूर्वन्यायश्चेति । देवादिपदमेव देवादिभिः प्राप्यं नान्यैरिति पूर्वन्याय इत्यर्थः । न चाधिकारिकमिति
सूत्रनिवर्तनीयपूर्वपक्षमाह ।। देवतापदमिति ।। इत्यादेरित्यादिपदेन शतक्रतुरिन्द्रो नवतीत्यादेर्ग्रहणम् ।
देवत्वं चेदस्वाभाविकं किं तर्हि चेतनेषु स्वाभाविकमित्यत आह ।। यद्धीति ।। तर्हि देवान्या-प्राप्यमस्तु इत्यत आह ।। तच्चेति ।। अतो ज्ञानमपीति ।। अपरोक्षज्ञानस्य देवतापदहेतुत्वात्तदप्राप्तौ पदप्राप्तेरेवायोगादिति भावः । इत्थम्भावान्तरसूचक इत्यस्यायमर्थः । ज्ञानिनां ब्रह्मचर्यगुरुशुश्रूषा भक्तिश्रवणादयो विहिताः । तेषामेव इत्थम्भावान्तरं चशब्देन सूचितम् । ज्ञानार्थिनामुक्तन्यायोऽ-पीत्थम्भावोऽपेक्षितः परब्रह्मणो देवानां ऐश्वर्यादिकाङ्क्षा नैव कार्येति इत्येतच्चशब्दसूचितमित्थम्भा-वान्तरं देवादिपदाकाङ्क्षाशून्यैरेवाप्तत्वमहिम्नो वर्णनादित्यनेनैव टीकाकारैरधिकरणारम्भे सूचितमिति नेह तद्वर्णनमिति नात्र तदनुक्तिर्दोषः इति ध्येयम् ।। आकाङ्क्षायोग इतीति ।। अनेन पतनानुमानं तदयोगे हेतुरित्युक्तं भवति । अयोग्यमारोढुमित्युदाहरणसामर्थ्यलब्धमर्थमाह ।। अयोग्यारोहेति ।। ननु ब्रह्मादिपदाकाङ्क्षा भवति तद्विषयकप्रयत्नाभावादसिद्धिरिति अत आह ।। इच्छाया अपीति ।। अत्र प्रयत्नशब्देन प्रवृत्तिर्विवक्षिता प्रवृत्तिविशेषाङ्गीकारादित्यर्थः । अत एव सुधायां तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरित्युच्येत इत्युक्तमिति भावः । अयोग्यारोहप्रयत्नस्य पतन-कारणत्वेऽपीच्छामात्ररूपस्येत्येतदप्येवं व्याख्येयम् । स्वधर्मनिष्ठ इत्यादिवाक्यगतिमाह- प्रयत्नस्येति स्मार्तानुमानेनेति ।। अनेन पतनानुमानादिति सूत्रांशो भाष्ये प्रकारान्तरेण व्याख्यातो भवति । मायाभिरित्यस्यार्थः कुविद्याभिः इति । उच्छब्दस्यार्थ उत्तमत्वमिति । सिसृक्षतीत्यस्यार्थः प्राप्तुमिच्छतीति । सृगताविति धातोरिति भावः । अवेत्यर्थश्चान्धेतमसीति ।
वाक्यार्थविवरणम्
यागाद्यतिशयेति ।। अयोग्यकामनावता कृतेनापि यागेन स्वर्गादिफलसिद्धेरित्यर्थः ।। लोक-दृष्टिरिति ।। लोके अन्यपदस्य अन्यैः प्राप्यत्वदर्शनादित्यर्थः ।। अतीतेति ।। देवजातेरेव देवत्वाद्युक्त्या तत्पदमपि तन्मात्रप्राप्यं नान्यैरित्यर्थः ।। स्वधर्मनिष्ठ इति ।। अत्र यः कश्चित्पुमान् स्वधर्मनिष्ठो विरञ्चितामेतीति पूर्वपक्षाभिमतोऽर्थ इति द्रष्टव्यम् । शङ्कते ।। देवत्वस्येति ।। प्रयत्नेति ।। स्वधर्माचरणरूपप्रयत्नेत्यर्थः । तर्हि किं तत्स्वरूपत्वमित्यत आह ।। यद्धीति ।। तदाकाङ्क्षाया एवेति ।। देवतापदाकाङ्क्षाया एवेत्यर्थः ।
ननु ब्रह्मादिपदाकाङ्क्षावति तद्विषयकप्रयत्नाभावादसिद्धिरित्यत आह ।। इच्छाया अपीति ।। प्रयत्नः प्रवृत्तिः । साधनेच्छाप्रयत्नौ अत्र प्रवृत्तिरित्युच्येत इति सुधोक्तेरिति ज्ञातव्यम् ।। चैतन्यमेवेति ।। न तु देवत्वादिकमित्यर्थः । ननु देवत्वादेः स्वाभाविकत्वे स्वधर्मनिष्ठ इति प्रयत्नसाध्यत्वप्रतिपादकोदाहृतवाक्यविरोध इत्यत आह ।। प्रयत्नस्येति ।। भाष्ये पूर्वस्मात् स्वयं पूर्वं यस्मिन् स्थाने स्थितस्तस्मात् स्थानादधस्तात् पतति ।। यत्र ।। अधस्तनस्थाने पतितस्य नोत्थानमित्यर्थः । शक्ये तत्पदयोग्ये तत्पदेच्छुत्वसद्भावेऽपि देवैः पात्यमानत्वाभावाद्व्यभिचार-वारणाय अशक्तत्वे सतीत्युक्तम् । अयोग्यत्वे सतीत्यर्थः । अशक्ते तत्पदानिच्छौ पुरुषे व्यभिचारवारणाय तत्पदेच्छुत्वादित्युक्तम् ।
वाक्यार्थमञ्जरी
अतीताधिकरणेति ।। ज्ञानस्य योग्यैरेव प्राप्यत्वमित्यत्र साधकत्वेनोक्तश्रुति स्मृत्यादीत्यर्थः । ननु निःस्वभावस्य वस्तुनोऽभावाद्यत्स्वभावत्वेनाऽऽयास्यति तदेव देवत्वादिति ब्रूम इत्यत आह ।। यद्धीति ।। अतो ज्ञानमपीति ।। अपरोक्षज्ञानस्य देवतापदहेतुत्वात्तदप्राप्तौ तत्प्राप्तेरेवायोगादिति भावः ।
आधिकारिकं ब्रह्मादिपदमपि ज्ञानिभिर्नाकाङ्क्षयं किम्वीश्वरपदम् । कुतः तदयोगात् तदाकाङ्क्षाया अयोगात् । कुतः पतनानुमानात् अयोग्यवृक्षारोहप्रयत्नयुक्तदृष्टान्तेन तत्पदारोह-प्रयत्नवतामपि पतनानुमानादित्यर्थः । ननु ब्रह्मादिपदाकाङ्क्षावति तद्विषयकप्रयत्नाभावादसिद्धिरित्यत आह ।। इच्छाया अपीति ।। अत्र प्रयत्नशब्देन प्रवृत्तिर्विवक्षिता प्रवृत्तिविशेषत्वाङ्गीकारादित्यर्थः । यथोक्तं सुधायाम् । तत्र साधनगोचरेच्छाप्रयत्नौ प्रवृत्तिरित्युच्यत इति देवतापदमपि सायुज्यादि-मोक्षविशेषसाधनमिति न क्षुद्रोपद्रवः । तथा च योग्यारोहप्रवृत्तिमत्त्वादिति हेत्वर्थो ध्येयः । स्वधर्मनिष्ठ इत्यादिवाक्यगतिमाह ।। प्रयत्नस्येति ।। उत्थितेः पुरुषधर्मत्वादाह ।। यत्र पतितस्येति ।। इच्छामात्ररूपस्येति ।। उक्तप्रवृत्तिद्वये इच्छारूपप्रवृत्तिरित्यर्थः । मायाभिरित्यस्यार्थः कुविद्याभिरिति । उच्छब्दार्थः उत्तमत्वमिति । सिसृप्सत इत्यस्यार्थः प्राप्तुमिच्छत इति । सृगताविति धातोरिति भावः । अवेत्यस्यार्थोऽन्धेतमसीति ।