ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ

अथ द्वितीय पाद

१. सर्वगतत्वाधिकरणम्

सूत्रभाष्यम्

॥ ॐ ॥ लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन्पादे प्राधान्येन । "ब्रह्म ततममि’ति सर्वगतत्वमुक्तं विष्णो । तच्च "तस्यैतस्यासावादित्यो रस’ (ऐ.आ. ३-२-३) इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।

॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १ ॥

"स यश्र्चायमशरीर प्रज्ञात्मा’ (ऐ.आ. ३-२-४) इत्यादिना सर्वत्रोच्यमानो नारायण एव । "तदेव ब्रह्म परमं कवीनाम्’ (म.ना.उ. १-६) । "परमं यो महद्ब्रह्म’ ।

"वासुदेवात्पर को नु ब्रह्मशब्दोदितो भवेत् ।

 स हि सर्वगुणै पूर्णस्तदन्ये तूपचारत’ ॥

इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ १ ॥

सत्तकदीपावली

॥ हरि ॐ ॥ अभिहितोऽर्थान्तरप्रसिद्धानां नाम्नां पूर्वं समन्वयो विष्णौ । अधुना लिङ्गवाचिनां बाहुल्येनार्थान्तररूढानामपि केषाञ्चिद्वैश्र्वानरादिशब्दानां सङ्गतिविशेषात्समन्वयोऽस्मिन्पाद इत्याह ॥ लिङ्गेति ॥ गताधिकरणेनास्याधिकरणस्य सङ्गतिं दर्शयन् पूर्वपक्षं दर्शयति ॥ ब्रह्मेति ॥ इदमाम्नायते । एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेमाकाश इति । पृथिव्यादिसर्वगतत्वेन मीमांस्यमान तस्यैतस्यासावादित्यो रस स यश्र्चायमशरीर प्रज्ञात्मेत्युपक्रमवशादादित्यो भवेत् । अतश्र्च ब्रह्म ततममिति यत्ततमत्वं विष्णोरुक्तं तदप्येकवाक्यव-शादादित्यस्यैव युक्तमित्येतं पक्षं प्रतिक्षेप्तुं सूत्रमुपन्यस्य व्याचष्टे सर्वत्रेत्यादिना । सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इति ब्रह्मशब्दाभिधेयत्वश्रवणादत्र सर्वगतत्वेनोच्यमानो विष्णुरेव नादित्य ॥ अशरीर प्रज्ञात्मेत्युपक्रमाच्च । न चादित्ये ब्रह्मशब्द शङ्कनीय । "तदेव ब्रह्म परमं’ "यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नर सदा । परमं यो महद्ब्रह्म’ इत्यादिवाक्येषु विष्णोरेव प्रसिद्धत्वात् नादित्यस्य मुख्यतो ब्रह्मत्वं युज्यते ।

तत्त्वप्रदीपिका

सर्वगतत्वादिधर्मवाचिनां शब्दानां समन्वय सम्प्रति समभिधीयते । महारूढ्या महायोगेन च वृत्ति "प्रवृत्तिरि’त्युच्यते । अन्यत्राज्ञरूढित्वादल्परूढि । विद्वद्रूढित्वाद्विष्णौ महारूढि । लौकिकप्रयोगाद्वैदिक-प्रयोगबाहुल्याच्च । योगश्र्चान्यत्र वृत्तिहेतुसामस्त्यस्वातन्त्र्याभावादल्प । उभयसम्भवाद्विष्णौ महायोग । वैश्र्वानराधिकरणे नामशब्दविचारात्प्राधान्येनेत्युक्तम् ॥

ब्रह्म ततममित्यादेरयमर्थ । ब्रह्म ततममित्यादिना यत् सर्वगतत्वमुक्तं विष्णोस्तत् ""तस्यैतस्या-सावादित्यो रस’’ ""तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति’’ ""सूर्य आत्मा जगतस्तस्थुषश्र्च’’ ""एतं सर्वेषु भूतेषु’’ इत्यादिना शाखाशेषेणाऽदित्यस्य प्रतीयते । अत प्राणशब्दोऽपि कथञ्चिद-स्मिन्योज्येतेत्यत आह । सर्वत्र प्रसिद्धोपदेशात् ॥ ""स यश्र्चायमशरीर प्रज्ञात्मा यश्र्चासावादित्ये एकमेतदिति विद्यात्, तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति’’ इत्यादिना सर्वत्रोच्यमानो विष्णुरेव । तस्मिन्नेव प्रसिद्धस्य ब्रह्मशब्दस्य ""एतमेव ब्रह्मेत्याचक्षत’’ इत्युपदेशात् ॥

तत्त्वप्रकाशिका

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नम ॥ ॐ ॥ एतत्पादप्रतिपाद्यं दर्शयति ॥ लिङ्गेति ॥ लिङ्गात्मकानामिति धर्मविशिष्टधर्मिवाचिनामित्यर्थ । अन्यत्र प्रसिद्धानामिति संयोज्यम् । वैश्वानराधिकरणे नामसमन्वयसिद्धे प्राधान्येनेत्युक्तम् । अत्र लोकतोऽन्यत्र प्रसिद्धाऽऽदित्य-श्रुतिसहपठितसर्वगतत्विलङ्गात्मकशब्दस्य परब्रह्मणि समन्वयप्रतिपादनादुस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयसंशयौ च सूचयति ॥ ब्रह्मेति ॥ ब्रह्म ततममिति विष्णो सर्वगतत्वमुक्तम् । तदेवैतरेयके "एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते । एतमग्नावध्वर्यव । एतं महाव्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाशे एतमप्स्वेतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्याम्नायते । तद्यदि विष्णोरन्यस्य स्यात्तर्हि प्राचीनप्राणोऽप्यन्य एव स्यादेकप्रकरणत्वात् । अतोऽवश्यं विचार्यं भवति । तत्सर्वगतत्वं विषय । विष्णोरन्यस्य वेति सन्देह । ब्रह्म ततममित्युक्तिरादित्यश्रुतिश्च सन्देहबीजमिति भाव । तत्र सयुक्तिकं पूर्वपक्षयति ॥ तच्चेति ॥ तत्सर्वगतत्वमादित्यस्यैव भवेत् । "तस्यैतस्यासावादित्यो रस यश्चासावादित्यस्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवती’त्यादिबह्वादित्यश्रुते । "सूर्य आत्मा जगत’ इति सौरमन्त्रोदाहरणाच्च । एतमस्यामिति क्षित्यादिषूक्त्वाऽऽदित्येऽऽस्यानुक्तत्व-लिङ्गाच्च । अन्यथैतमादित्य इत्युक्ति स्यात् । सजातीयचन्द्रादावुदितत्वात् । अत एव न श्रुतेरन्तर्यामि-विषयत्वं युज्यते । सर्वजीवानां वा एतत्सर्वगतत्वमुच्यते । "चक्षुर्मय श्रोत्रमयश्र्छन्दोमयो मनोमयो वाङ्मय आत्मे’ति तल्लिङ्गश्रवणात् । न च तल्लिङ्गमन्तर्यामिविषयम् । तस्यापरिच्छिन्नत्वेन सर्वेषु भूतेष्वि-त्युक्ताल्पौकस्त्वायोगाच्चक्षुर्मयत्वाद्ययोगाच्च । अतो विष्ण्वन्यस्यैव सर्वगतत्वादन्यस्यैव प्राणत्वमानन्दमयत्वं चेति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ स यश्चायमित्यादिना वाक्येन सर्वत्र पृथिव्यादिषूच्यमानो नारायण एव । "एतमेव ब्रह्मेत्याचक्षत’ इति सर्वगते ब्रह्मशब्दोपदेशात् । ब्रह्मशब्दस्य च श्रुत्यादौ नारायण एव प्रसिद्धत्वादित्यर्थ । तथा च श्रुति । तच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण स्थित ।’ इति । अत्र स यश्चायमिति वाक्योदाहरणं पूर्वं विषयवाक्यस्यानुदाहृतत्वात् कृतमशरीरत्वयुक्तिसूचनार्थं च । न हि नारायणेतरचेतनानां स्वतोऽशरीरता सम्भवति ॥ १ ॥

गुर्वर्थदीपिका

ॐ ॥ सर्वगतत्वस्य भगवतोऽन्यत्र लोकतोऽपि प्रसिद्ध्यभावात्पादासङ्गतिरिति शङ्काऽपनोदाय लोकतोऽन्यत्र प्रसिद्धादित्यश्रुतिसहपठितेत्युक्तम् । एवमुत्तराधिकरणेऽपि लोकतोऽन्यत्र प्रसिद्धादितिनाम्ना सहपाठादत्तृत्विलङ्गस्यान्यत्र प्रसिद्धिं वक्ष्यति ॥ सर्वजीवानां वैतत्सर्वगतत्वमुच्यत इत्यत्र मिलित्वा सर्वजीवानां वा प्रत्येकं सर्वजीवानां वेत्यर्थ । चक्षुर्विकारित्वादिरूपचक्षुर्मयत्वादिकं शतायुष्ट्वादिलिङ्ग-वन्नान्तर्यामिणि योजयितुं शक्यत इति भावेनोक्तं चक्षुर्मयत्वाद्ययोगादिति । ""एतं ह्येव बह्वृचा’’ इति वाक्यमध्ये यद्यपि ""स यश्र्चायमशरीर प्रज्ञात्मे’’ति वाक्यं नास्ति तथाऽप्यस्यैव वाक्यस्याऽऽदिभागेऽ-स्तीत्यतस्तदपि विषयवाक्यान्तर्गमेवेति भावेनाऽऽह भाष्यकार ""स यश्र्चायमशरीर प्रज्ञात्मेत्यादिने’’ति । तर्हि व्यवहितवाक्योदाहरणे को हेतुरित्यत उक्तं टीकाकृता अशरीरत्वयुक्तिसूचनार्थं चेति ।

भावबोध

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ अर्थस्य शब्दात्मकत्वाभावाच्छब्दस्य कथं लिङ्गात्मकत्वम् ? प्रतिपादकत्वविवक्षायामपि सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे धर्मविशिष्टधर्मिवाचिनामिति । श्रुत्यादिसङ्गतिमिति । इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तसूत्रांशेन च सङ्गतिमित्यर्थ । तदेवैतरेयक इति ॥

ननु ब्रह्म ततममित्यनेन निरवधिकसर्वगतत्वमभिप्रेतम् । तादृशसर्वगतत्वोक्तेरेवोपासनोपयोगात् । एतमस्यामित्यत्र त्वर्भकौकस्त्वादित्युत्तरसूत्रानुसारेण भूतपदप्रयोगबलेन च भूतवृत्तित्वमात्रमुच्यते । अन्यथा सर्वेष्वित्युक्तत्वाद्भूतशब्दवैयर्थ्यं स्यात् । तथा च तयोरेकरूपत्वाभावात् कथं तदेवेत्युक्तमिति चेत्, ; तदेवेत्यस्य तदेकदेशरूपमित्यर्थात् । एवमपि पूर्वाक्षेप सम्भवति । तथा हि अत्रोक्तभूतगतत्वस्यैत-मेवेत्यवधारणबलेनान्यमात्रनिष्ठत्वे विष्णोर्भूतगतत्वापगमने निरवधिकसर्वगतत्वं न स्यात् । निरवधिक-सर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति ब्रह्म ततममित्युक्तसर्वगतत्वमपि एतद्वाक्यप्रतिपादितभूतस्यैव स्यादित्युपपादनसम्भवादिति भाव । विष्णोरन्यस्य वेति । अत्रैतमस्यामित्युक्तं सर्वगतत्वं किमादित्यादेरुत विष्णोरिति चिन्ता । तदर्थमादित्यादिप्रापकम् आदित्यादिश्रुतय आदित्यानुक्ति-चक्षुर्मयत्वादीनि लिङ्गानि, अर्भकौकस्त्वसम्भोगप्राप्तिरूपपरपक्षानुपपत्तिश्र्चेत्येतत्, ब्रह्मशब्दश्रुतत्वादिलिङ्ग-सर्वशरीरस्थत्वकर्मकर्तृव्यपदेशानुपपत्तिरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति । तदर्थमादित्यश्रुत्यादिकं निरवकाशं ब्रह्मशब्दादिकं सावकाशमुत ब्रह्मशब्दादिकं निरवकाशम्, आदित्यश्रुत्यादिकं सावकाशमिति । तदर्थं ब्रह्मशब्दादेर्निरवकाशत्वे आदित्यश्रुत्यादे सावकाशत्वे च प्रमाणं नास्त्युत आस्तीति । बह्वादित्यश्रुतेरिति ॥

ननु लोकतोऽन्यत्र प्रसिद्धस्याप्यादित्यशब्दस्यान्तराधिकरणन्यायेन विष्णुवाचित्वात् कथं तेन तदन्यस्य प्राप्तिरिति चेत्, ; संवत्सर एव प्रध्वंसयन् तस्यैतस्यासावादित्यो रस इति संवत्सराधिपतित्वरूपसंवत्सर-सारत्विलङ्गाद्यभावश्र्चासावादित्य इति प्रसिद्धार्थयच्छब्दोपबन्धात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति सर्वपुरुषाभिमुख्यिलङ्गाच्चाऽऽदित्यशब्दस्य प्रसिद्धादित्यपरत्वात् । अत एव भाष्ये तस्यैतस्यासावादित्यो रस इत्यादिनेति उक्तिलङ्गप्रतिपादकवाक्यमुदाहृतमित्यभिप्रेत्य तद्गतादिपदार्थत्वेन तल्लिङ्गप्रतिपादकं यश्र्चासावादित्यस्तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति वाक्यमेव टीकायामुदाहृत्य बह्वादित्यश्रुते-रित्युक्तम् । अनेन बहवो ह्यत्रादित्यादिशब्दा इति न्यायविवरणमप्युक्तार्थं भवति । न्यायविवरणगतादि-शब्दार्थमाह सूर्य आत्मा जगत इतीति । अयमपि भाष्यगतस्याप्यादिशब्दस्यार्थ इति ज्ञेयम् । क्षित्यादिषूक्त्वा आदित्येऽनुक्तिरित्यादिलिङ्गेनेति । आदित्येऽनुक्तत्विलङ्गादेवेत्यर्थ । अनेन लिङ्गेनादित्यशब्दस्यादित्यसंस्थितपरत्वादन्तर्यामिपरत्वे तद्विरुद्धमिति भाव । आदित्यादिलिङ्गं चेति न्यायविवरणगतादिपदार्थमाह । चक्षुर्मय इति ॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम् । इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह । चक्षुर्मयत्वाद्ययोगाच्चेति । नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थ । स यश्र्चायमशरीर प्रज्ञात्मेत्यादिनेत्ये-तदादित्यो रस इत्यादिनेतिवद्युक्तिप्रदर्शकमात्रमिति भ्रमं वारयितुमाह । स यश्र्चायमित्यादिना वाक्येनेति । अत एव वक्ष्यति स यश्र्चायमिति वाक्योदाहरणमिति सूचनार्थं चेति । तथा च श्रुतिरिति । अनेन भाष्ये नारायणशब्दप्रयोगाभिप्राय उक्तो भवति । अशरीरत्वयुक्तिसूचनार्थं चेति । विषयवाक्य-प्रदर्शनमात्रार्थत्वे तु ""एवं ह्येवं बह्वृचा’’ इत्यादिना इत्यवक्ष्यत् । इयं युक्ति ""अनुपपत्तेस्तु न शारीर’’ इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽप्यभिप्रेता । अन्यथा जीव इत्येव ब्रूयादिति भाव । अशरीरत्वस्यादित्यादौ निरवकाशत्वमाह न हि नारायणेतरेति । अनेन श्रीतत्त्वादौ व्यभिचारोऽपि परास्त ।

भावदीप

॥ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ द्वित्रनयमात्रेण प्रवृत्तिं दर्शयतीत्यपि भाष्यार्थोपपत्त्या पादार्थत्वा-प्रतीतेराह ॥ एतत्पादेति ॥ शब्दादेवेत्यत्र वक्ष्यमाणदिशा असाधारणधर्मस्य लिङ्गत्वात्कथं तदात्मकत्वं शब्दानामित्यतो लिङ्गं धर्म स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मका । स्वरूपार्थो वा आत्मशब्दो निमित्तनिमित्तिनोरभेदोपचारादिति सुधोक्तदिशा समासं मत्त्वाऽर्थमाह ॥ धर्मविशिष्टेति ॥ यौगिकानामित्यर्थ । प्राचीनानामपि प्रागुक्तदिशा यच्छब्दा योगवृत्तय इत्यणुभाष्योक्त्या च यौगिकत्वात् तद्य्वावृत्त्यर्थम् आपाततोऽपीति योज्यम् । भाष्ये प्रवृत्तिमित्यस्य महायोगविद्वद्रूढिभ्यां प्रकृष्टवृत्तित्वमिति तत्वप्रदीपोक्तेरत्रानुक्ति । तृतीयादिसाङ्कर्यप्रसङ्गादाह ॥ अन्यत्रेति ॥ नामसमन्वयेति ॥ विश्व-जीवान्तरत्वाद्यैर्लिङ्गै इत्यणुभाष्ये सिद्धान्त्यभिमतयौगिकत्वाभिप्रायेण वैश्वानरशब्दस्य लिङ्गत्वोक्तावपि श्रुतिर्लिङ्गाधिका परेति विषययुक्तिमालायां लोकरूढ्या नामत्वोक्तेरिति भाव ॥ सर्वगतत्विलङ्गेति ॥ सर्वप्राणिहृदयगुहास्थत्वरूपसर्वगतत्विलङ्गेत्यर्थ । तस्य च स्वत सूर्ये अप्रसिद्धेराह ॥ लोकतोऽन्यत्र प्रसिद्धेत्यादि ॥ अर्भकौकस्त्वादितत्प्रसिद्धोपदेशादिपूर्वोत्तरपक्षयुक्तिसाहित्याल्लिङ्गमेव समन्वीयते न त्वादित्यनामेति भाव । एवमग्रेऽपि ॥ शास्त्रादीति ॥ पूर्वत्रेव सङ्गतित्रयोपपादकत्वं लोकत इत्यादि-पदानां ध्येयम् । एवमग्रेऽपि । इत्यन्तभाष्यं सङ्गतिसूचनपरत्वेनाकाङ्क्षितपूर्त्या व्याचष्टे ॥ ब्रह्मेति ॥ तच्चेत्यस्यार्थ तदेवेति । ततमत्वान्तपात्येवेत्यर्थ । सर्वहृदयगुहास्थत्वरूपसर्वगतत्वस्य ततमत्वैकदेशत्वात् । यद्वा पूर्वपक्षे ततमत्वस्य सङ्कोचात्तदेवेत्युक्ति । तदेवेत्यस्य इत्याम्नायत इत्यन्वय । तच्चेत्यादेस्तात्पर्यम् ॥ तद्यदीति ॥ अन्यस्येति ॥ आदित्यश्रुत्यादिना आदित्यादे स्यादित्यर्थ । उक्तमित्यन्तवाक्यस्य तात्पर्यम् ॥ तर्हि प्राचीनेति ॥ नन्वत्रत्यसर्वहृदयस्थत्वरूपं सर्वगतत्वमन्यस्य चेत्ततमत्वेनोक्तप्राणोऽपि कुतोऽन्य इत्यत आह ॥ एकेति ॥ ननु सर्वगतत्वाख्यसर्वहृदयस्थत्वरूपार्भकौकस्त्वं प्रागुक्तततमत्वरूप-व्याप्तत्वं चैकस्य विरुद्धमिति न शङ्क्यम् । ततमत्वस्यादित्यादौ सङ्कोचसम्भवादिति ॥ अतोऽवश्यमिति ॥ एतेनेत्यत इति भाष्यस्य इति सङ्गतिसम्भवादित्यर्थ सूचित । एवमग्रेऽपि । तदेव भाष्यं पूर्वपक्षपरतयापि व्याचष्टे ॥ तत्र संशयादौ सतीति ॥ आदित्यस्यैवेति ॥ तच्चेति चकारोऽवधारणार्थ सन्नादित्य-स्येत्यत्रान्वेतीति भाव । तस्य चैतस्य संवत्सरस्य रस सारोऽधिपति । अन्तर्नयन्यायेन श्रुते सावकाशत्वनिवृत्त्यर्थं निरवकाशसंवत्सरसारत्वरूपादित्यिलङ्गद्योतनाय रस इत्यन्तानुवाद । बहवो ह्यत्रादित्यशब्दा क्षित्यादिषूक्त्वा आदित्येऽनुक्तिरित्यादिलिङ्गं चेति न्यायविवरणदिशा भाष्यस्थादिपदार्थमाह ॥ यश्चासाविति ॥ अस्येति ॥ एतमिति प्रकृतस्येत्यर्थ ॥ अन्यथेति ॥ आदित्यादन्यस्य सर्वगतत्व इत्यर्थ ॥ अत एवेति ॥ विशिष्टादित्येऽनुक्तत्वरूपनिरकाशिलङ्गादेवेत्यर्थ । अत्र भाष्ये आदित्यस्येत्युक्तावप्यग्रे चक्षुर्मयत्वादेश्च जीव इत्युक्तेराह ॥ सर्वजीवानां वेति ॥ न चेति ॥ आनन्दमयनयरीत्या मय प्राचुर्यार्थ । सम्पूर्णदर्शनादिशक्त्यादिमानिति तदर्थ इति भाव । तस्य सावकाशत्वमभ्युपेत्यार्भकौकस्त्वादिति सूत्रोक्तनिरवकाशिलङ्गेन जीवपक्षमुज्जीवयति ॥ तस्यापरिच्छिन्नत्वेनेति ॥ एष म आत्मा अन्तर्हृदये ज्यायानिति श्रुतेरिति भाव । भूतेष्वित्युक्त्या प्रतीतमेकदेशस्थत्वरूपमल्पौकस्त्वं सर्वगतसर्षपान्तस्स्थत्वं ब्रह्माण्ड इव न युक्तमित्यर्थ । नन्वेवं प्रागुक्तं ततमत्वमपि जीवानामेव वाच्यम् एकप्रकरणत्वात् । तथा च ततमेषु जीवेषु अल्पौकस्त्वायोगस्तुल्य इति चेन्मैवम् । जीवेषु ततमत्वस्य सङ्कोचसम्भवात् । न चान्तर्यामिणि तथा । ब्रह्मत्वव्याघातादिति भाव । कथं तर्हि भाष्ये तद्य्वपदेशाच्चेति सूत्रे च चक्षुर्मयत्वादिलिङ्गोक्तिरित्यतो हेत्वन्तरेण पूर्वपक्षे सति अभ्युच्चयत्वेन तदुक्तिरिति सुधोक्तदिशाऽर्भकौकस्त्वरूपानवकाशिलङ्गे सति प्रसिद्धचक्षुकरणकत्वमेव चक्षुर्मयत्वादि स्यात् । तच्च नित्यज्ञानेऽन्तर्यामिणि न युक्तमिति भावेनाऽऽह ॥ चक्षुर्मयत्वेति ॥ अत एव सूत्रेऽर्भकौकस्त्वादित्युक्त्वैव तद्य्वपदेशादित्युक्तमिति भाव । भाष्यस्थेतिशब्दं हेत्वर्थं मत्त्वा ततममिति वाक्यस्य पूर्वाक्षेपरूपसङ्गतिपरत्वेन व्याख्यातस्यापि पूर्वपक्षफलपरतयापि तात्पर्यमाह ॥ अत इति ॥ निरवकाशश्रुतिलिङ्गसत्त्वादित्यर्थ । आदित्यजीवयोरन्यतरानिश्चयेऽपि अन्यत्वेन तन्निश्चयस्स्यादतो न पूर्वपक्षस्य सन्देहादविशेष इति भावेनोक्तम् । विष्ण्वन्यस्यैवेति ॥ सर्वगत-त्वादिति ॥ सर्वहृत्स्थत्वरूपसर्वगतत्वादित्यर्थ ॥ प्राणत्वमिति ॥ एकप्रकरणत्वादिति भाव । असङ्कुचितसर्वगतत्ववति विष्णावल्पौकस्त्वायोगेऽपि अल्पौकस्त्ववत्यादित्यादौ ततमत्वेनोक्तप्राणत्वं युक्तम् । ततमत्वस्य यथायोगं सङ्कोचसम्भवादिति भाव । महाभोगत्वेनोक्तप्राणत्वं च प्राणत्वमित्यनेन गृह्यते । ततमत्वेन महाभोगत्वेन चोक्तयोर्द्वयोरपि लाभाय प्राणत्वमित्येव सामान्योक्ति । एवं चानन्दमयत्वं चेत्याक्षेप शिष्टो भवति । यत्त्वस्य पूर्वाक्षेपेण सङ्गतिमत्त्वे पादविभागभङ्गप्रसङ्ग इति । तन्न । प्रमेयभेदेन तदुपपत्तेरिति । भाष्ये स यश्चायमिति प्रतीकोपादानेन एतमस्यामित्यादि-वाक्यमेवाभिप्रेतमिति भावेनाह ॥ इत्यादिना वाक्येन सर्वत्र पृथिव्यादिषूच्यमान इति ॥ यद्वा आदित्यो रस यश्चासावादित्य इति पूर्वोत्तरवाक्ययोरादित्यपदेनैवादित्यस्थस्य सर्वेन्द्रियमय इति वक्ष्यमाणस्मृत्या ग्रहणादुदाहरणमेवेदम् । सर्वत्रेति भाष्यपदानुवाद । उक्थादिष्विति वाच्ये पृथिव्यादिष्वित्युक्ति सर्वभूताशयस्थित इति वक्ष्यमाणस्मृत्याद्यनुरोधेन । अत एव आदित्यादि-ष्वित्यप्यनुक्ति स यश्चायमिति वाक्ये स्पष्टम् आदित्ये एष इत्यप्रतीतेश्चेति भाव । विशिष्टस्य हेतुत्वे प्रसिद्धपदव्यावर्त्याभावात्केवलब्रह्मशब्दस्यैव हेतुत्वे दोषाभावाच्च विभज्य भाष्यं हेतो पक्षधर्मतां दर्शयन् व्याचष्टे ॥ एतमेवेति ॥ सर्वगत इति ॥ एतमित्यनेन पृथिव्यादिषु सर्वत्रोक्तस्य परामर्श इति भाव ॥ प्रसिद्धत्वादिति ॥ तथा चान्यस्योक्तौ प्रसिद्धिबाध इति भाव । स्मृतेश्चेति सूत्रे सर्वभूतेति स्मृतिसमाख्यानोक्त्या श्रुतौ भूतेष्वित्युक्त्या च भूतादन्यत्र नेति प्राप्तशङ्कानिरासाय भाष्ये नारायण एवेत्युक्ति श्रुतिसमाख्यासूचनायेति मत्त्वाऽऽह ॥ तथा च श्रुतिरिति ॥ तैत्तिरीयोपनिष-दीत्यर्थ । तथा चेह नारायणस्यैव बहिरपि विद्यमानस्यैव च सर्वान्तस्थत्वरूपसर्वगतत्वमिति भाव ॥ कृतमिति ॥ तर्हि एतं ह्येवेत्याद्येवोच्येतेत्यतो वा पूर्वमादित्यो रस इति विषयवाक्यस्योक्त-त्वादेतदुक्तिर्व्यर्थेत्यतो वाऽऽह ॥ अशरीरत्वेति ॥ तां निरवकाशतोक्त्या व्यनक्ति ॥ न हीति ॥ स्वत इति ॥ मुक्तानामपि सा तत्प्रसादादागतेति भाव । नारायणेतरेत्युक्त्या यस्य प्रसादादित्यादिश्रुति सूचिता । अत एवोत्तरसूत्रे शारीरपदेनैव जीवादित्ययोरुक्तिरिति भाव ॥ १ ॥

अभिनवचन्द्रिका

एतत्पादप्रतिपाद्यमिति ॥ "अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धन इत्यतः समन्वयेऽप्यवान्तर-भेदेनेति भावेने’ति वर्तते । तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः । प्राधान्येनेत्युक्तमिति ॥ यावदुक्तं भवति प्रायेणेत्यनेन, तावदुक्तं भवति प्राधान्येनेति । ततश्च प्रायःशब्देनेव प्राधान्यशब्देनापि कतिपयाधिकरणव्यावृत्तिर्भवतीति भावः । लोकतोऽन्यत्र प्रसिद्धेति ॥ एतदधिकरणस्य पादान्तर्भावसिद्धये सर्वगतत्वप्रतिपादकशब्दस्याऽन्यत्र प्रसिद्धत्वव्युत्पादनार्थम्, "आदित्यश्रुतिसहपठिते’ति विशेषणम् । सर्वगतत्वप्रतिपादकशब्दस्य स्वतोऽन्यत्रप्रसिद्धत्वाभावेऽपि आदित्यश्रुतिबलेनाऽन्यत्र प्रसिद्धत्वं सम्पाद्यत इति अस्याधिकरणस्य पादान्तर्भाव इति भावः । आदित्यश्रुतेः कथमन्यत्रप्रसिद्धिसम्पादकत्वमित्यतोऽन्यत्र प्रसिद्धेति आदित्यश्रुतिविशेषणम् । आदित्यश्रुतेरपि केनान्यत्रप्रसिद्धिसम्पत्तिरित्यत उक्तम्  लोकत इति ॥ एतेन पादान्तर्भावसिद्धये समन्वेतव्यशब्दस्याऽन्यत्र प्रसिद्धत्वं वक्तव्यम् । आदित्यश्रुतेः लोकतोऽन्यत्र प्रसिद्धिकथनं तु व्यर्थमिति परास्तम् । सर्वगतत्विलङ्गात्मकशब्दस्येति ॥ नन्वत्र विषयवाक्ये सर्वगतत्वरूपिलङ्गात्मकशब्दो न श्रूयते । न च  "सर्वेषु भूतेष्वेत’मिति लिङ्गात्मकशब्द इति वाच्यम् तस्य वाक्यत्वेन धर्मविशिष्टधर्मिवाचकत्वरूपिलङ्गात्मकशब्दत्वायोगात् । न च तेन उन्नीतं सर्वगतमिति पदं लिङ्गात्मकमिति वाच्यम् । तस्य प्रागुक्ताऽऽदित्यश्रुतिसहपठितत्वायोगादिति चेत्, न ब्रूमो वयमत्र लिङ्गात्मकपदस्य समन्वयः प्रतिपाद्यत इति । येनोक्तदोषः स्यात् । किंनाम लिङ्गात्मकस्य शब्दस्येति । शब्दत्वं च वाक्यपदसाधारणम् । एवं च  "एतं ह्येव बह्वृचामहत्युक्थ’ इति लिङ्गात्मकस्य वाक्यस्य इहोच्यते । अस्य चाऽऽदित्यश्रुतिसहपाठश्चोपपद्यते । कथमस्य धर्मविशिष्ट-धर्मिवाचकत्वरूपं लिङ्गात्मकत्वं, वाचकत्वस्य पदधर्मत्वादिति चेत्, धर्मविशिष्टधर्मिवाचकत्वमित्यनेन वाक्यपदसाधारणस्य प्रतिपादकत्वस्यैव विवक्षितत्वात् । अत एव सत्तकदीपावल्याम्, "एतं ह्येव बहृचा महत्युक्थे मीमांसन्त, एतमग्न्ावध्वर्यव, एतं महाव्रते छन्दोगा; एतमस्यामेतं दिवि, एतं वायावेत’मित्यादिपृथिव्यादिगतत्वेन मीमांस्यमान’ (ऐ.आ०) इति वाक्यप्रतिपाद्यस्यैव विषयत्वमुक्तम् ।

सुधायां च  "एतमस्यामेतं दिवि’ इत्यादिवाक्योक्तं सर्वगतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते’ इत्युक्तम् ।

टीकायां च  "स यश्चाय’मित्यादिना वाक्येन "सर्वत्र पृथिव्यादिषूच्यमानो नारायण एवे’ति वक्ष्यते ।

नन्वन्तस्थत्विलङ्गसमन्वयेनाऽऽदित्यनाम्नः समन्वयः सिद्धो न वा । आद्ये  पूर्वपक्षप्रापकाभावे-नाधिकरणवैयर्थ्यम् । द्वितीये आदित्यनामसमन्वय एवोच्यतां किं लिङ्गसमन्वयेन । नामसमन्वयेनैव लिङ्गसमन्वयसिद्धेरिति चेत्,   अन्तस्थत्विलङ्गसमन्वयेन तत्प्रकरणपठितानामिन्द्रादिनाम्नां समन्वय-सिद्धावपि अतत्प्रकरणपठितत्वेनाऽस्याऽऽदित्यनाम्नः समन्वयसिद्ध्यभावात् । नन्वेवं तर्हि आदित्यनाम्न एव समन्वय उच्यतां किं सर्वगतत्विलङ्गसमन्वयेनेति वाच्यम् । अत्र हेतूक्रियमाणस्य ब्रह्मशब्दस्याऽऽदित्य निष्ठतयाऽप्रतीतेः एतद्वाक्यगतसर्वगतनिष्ठतया च स्पष्टं प्रतीतेः, सर्वगतत्विलङ्गस्यैवाऽत्र समन्वय उक्तः । न चाऽऽनन्दमयाधिकरणेन गतार्थता, तत्रेवाऽत्रापि ब्रह्मशब्देनैव विष्णुपरत्वसाधनादिति वाच्यम् ब्रह्माऽऽदित्यश्रुतीनां सौरमन्त्रोदाहरणस्य चाऽभ्यधिकाशङ्काप्रापकस्य भावात् ।

श्रुत्यादिसङ्गतिमिति ॥ प्राणाधिकरणप्रतिपाद्यस्य, एतदधिकरणप्रतिपाद्यस्य च सर्वगतत्वेन प्रतीयमानत्वं सङ्गतिरिति सूचितमिति ज्ञेयम् । प्राचीनप्राणोऽप्यन्य एव स्यादिति ॥ इतः परं टीकायां श्रूयमाणं "एकप्रकरणत्वा’दिति वाक्यं प्रक्षिप्तम् । "एतं ह्येव बह्वृचा’ इति वाक्यप्रतिपाद्यस्य सर्वगतस्य प्राचीनप्राणस्य च विभिन्नारण्यकप्रतिपाद्यत्वेनैतत्प्रतिपादकयोरेकप्रकरणत्वाभावात् । अधिकरणान्तरेषु अन्य एव स्यादिति प्राचीनाधिकरणाक्षेपरूपपूर्वपक्षफलप्रदर्शनाऽन्तरं हेतोरनभिधानेन इह तदभिधाने विशेषकारणाभावाच्चेति द्रष्टव्यम् । अन्यथेति ॥ सर्वगतस्याऽऽदित्यरूपत्वाभाव इत्यर्थः । सजातीयेति ॥ "चन्द्रमस्येत’मित्युक्त्वा "एतमादित्य’ इत्यनुक्तौ विशेषकारणाभावादिति भावः । अत एवेति ॥ सौरमन्त्रोदाहरणस्य सूर्यपरत्वज्ञापकसद्भावादेवेत्यर्थः । सर्वजीवानां वेति ॥ ननु  सर्वजीवानां वेति पूर्वपक्षान्तरकथनमयुक्तम् । तत्प्रापकस्य चक्षुर्मयत्वादिलिङ्गस्याऽऽदित्येऽपि सम्भवेनैक-पूर्वपक्षेणैवोपपत्तौ पूर्वपक्षान्तरकल्पनाऽयोगात् । अस्मिन् पक्षे आदित्यश्रुत्ययोगाच्च । किं चैवमाप्ततमो भाष्यकारो मन्यते  न चाऽऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्य’मित्यभिधानात् । अन्यथा आदित्यशब्दस्यैकपूर्वपक्षहेतुत्वेन चक्षुर्मयत्वादेश्च पूर्वपक्षान्तरहेतुत्वेन समुच्चयार्थकचशब्दो न स्यात् । जीवग्रहणवत् आदित्यग्रहणप्रसङ्गश्च । किं चैवमाप्ततमः पद्मनाभतीर्थो मन्यते  आदित्याख्यजीवविशेषो न विष्णुरिति चेदित्यभिधानात्’ इति चेत्  सत्यम्  एकैनैव पूर्वपक्षेणोपपत्तिः । उक्तं च भाष्यकारेण एक एव पूर्वपक्ष इति । तथापि सूत्रभाष्याभ्यां सूचितोऽयमपरः पूर्वपक्षः टीकाकृता दर्शितः । तथा हि  यद्याऽऽदित्य एवायं सर्वगत इत्येक एव पूर्वपक्षः सूत्रकृतोऽभिमतः स्यात् तर्हि "अनुपपत्तेस्तु नाऽऽदित्य’ इत्येव सूत्रं विदध्यात् लघु चैवं सूत्रं भवति श्रुत्यनुसारि च । तथा भाष्यकारोऽपि "न चाऽऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्य’मिति न ब्रूयात् । सूत्रस्थ-शारीरपदव्याख्यानायाऽऽदित्य इत्येव ब्रूतात्, तत्साधनाय आदित्यशब्दादित्येव ब्रूयात्,न तु चक्षुर्मय-त्वादेरिति । तस्याऽतिप्रसक्तत्वात्’ न चैवं सूत्रकारभाष्यकारावाहतुः, किंनाम सूत्रकारः "शारीर’ इत्याह । भाष्यकारस्तु शारीरपदं जीव इति व्याचख्यौ । तेन मन्यामहे अनुपपत्तेरित्यनेन आदित्यः सर्वगत इति पक्षो यथा निरस्तः, तथा सर्वे जीवाः सर्वगता इति पक्षो निरस्त इति तयोरभिप्रेतमिति ।

नन्वथापि जीवेष्वादित्यशब्दाभावात् कथमस्य पूर्वपक्षस्योदय इति चेत्, न । जीवसमुदाये कस्यचित् आदित्यशब्दवाच्यत्वेन छत्रिन्यायेन सर्वत्राप्यादित्यशब्दोपपत्तेः । सत्तकदीपावलीकृता तु भाष्यकृता कण्ठोक्तपूर्वपक्षो दर्शित इति न तद्विरोधोऽपीति ध्येयम् ।

वाक्यार्थमुक्तावली

श्रीहरये नम । श्रीवेदव्यासाय नम । लिङ्गात्मकानामित्यत्र लिङ्गं धर्म प्रवृत्तिनिमित्तं स आत्मेवात्मा शरीरमिव उपकारकत्वात् येषां ते लिङ्गात्मका । स्वरूपार्थो वात्मशब्द । निमित्त-निमित्तिनोरभेदोपचारादिति सुधोक्तदिशा विग्रहं मत्वाऽर्थमाह ॥ धर्मेति ॥ अवयवार्थविशिष्टधर्मिवाचिनां यौगिकानामित्यर्थ । आपाततोऽपीति ग्राह्यम् । प्राचीनानामपि यौगिकत्वात् । अत्र यौगिकानामित्यनुक्त्वा धर्मविशिष्टेत्याद्युक्तिस्तु वाक्यरूपधर्मसङ्ग्रहाय । अन्यथा यस्मिन् द्यौरित्यादे लिङ्गात्मकशब्दत्वं न स्यादिति बोध्यम् । एतत्पादीयिलङ्गानां प्राय साक्षादन्यत्र प्रसिद्ध्यभावात् । अन्यत्र प्रसिद्ध-श्रुत्यादिसाहित्येनैवान्यत्र प्रसिद्धिरिति भावेनाह ॥ लोकत इति ॥ तदेवैतरेयक इति ॥ ब्रह्म ततममित्यत्र ततमपदेन व्यापकत्वं तत्र तत्र स्थिततया तत्तच्छक्तिप्रबोधकत्वं च विवक्षितम् । तथोक्तं तद्भाष्ये ।

स एष भगवान् विष्णु प्रादुर्भावात्मना पुन ।

जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत् ।

तथा जीवेषु सर्वेषु प्रविष्ट प्रेरणेच्छया ।

स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् ।

एतदेव स्वरूपं स त्वपश्यदवतारगम्

इति । ततमं परिपूर्णं ब्रह्म अपश्यदिति च । उभयस्याप्युत्तमाधिकारिभिरुपास्यत्वेन उपासात्रै-विध्यादित्यत्र सर्वगतत्वेनेति वदता भाष्यकृता व्यापकत्वपरतयाऽस्योदाहृतत्वात् उभयविवक्षाया अवर्जनीयत्वाच्च । एतदुभयविधमेव सर्वगतत्वम् एतमस्यामित्यादावुच्यते । तत्तच्छक्तिनियामकतया सर्वान्तर्गतत्वस्य स्पष्टमप्रतिभासात् । आकाशवदन्तर्बहिर्व्यापकत्वस्य "एतमेवाखिलजगद्य्वाप्तं पूर्णगुणात्मकम्’ इति तद्भाष्यपर्यालोचनयावगमात् । अत एव टीकायामन्तर्बहिश्र्चेति श्रुतेरुदाहरिष्य-माणत्वात् । विवक्षितगुणोपपत्तेरित्यत्र स योऽत इत्युक्त्वा तत्त्वस्य विषयभूतसर्वगतत्वानतिरेकस्य टीकायां वक्ष्यमाणत्वाच्च । देशत कालतश्र्चैव गुणतश्र्चातिपूर्तित । अत इत्युच्यत इति तद्भाष्ये अतपदेन निश्र्छिद्रतया व्यापकत्वस्योक्तत्वाच्च तदेवैतरेयके इति सुष्ठूक्तम् ।

ननु ब्रह्म ततममित्यत्र निरवधिकानन्तपदार्थान्तर्गतत्वमुक्तम् । एतमस्यामित्यादौ पृथिव्यादि-कतिपयान्तर्गतत्वम् । अन्यत्रार्भकौकस्त्वसूत्रे कतिपयगतत्वेनाल्पस्थानगतत्वाशङ्कानुपपत्ते । सर्वेषु भूतेष्वित्यत्र सर्वेष्वित्यनेन पूर्तौ भूतेष्विति भूतसर्ववृत्तित्वाभिप्रायेण सर्वभूतपदप्रयोगानुपपत्तेश्र्च । तथा च कथं तदेवेत्यधारणमिति चेन्न । एतमस्यामित्यादौ चेतनाचेतनसर्वगतत्वस्योक्ते । सर्वेषु भूतेष्विति भूतपदस्य जीवपरत्वात् एतमेव ब्रह्मेत्यन्तस्य एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकमिति व्याख्यातत्वात् । स एष संवत्सरसंमान इत्युत्तरवाक्ये

"संवसद्रतिदातृत्वात् ब्रह्मा संवत्सराभिध ।

 नियामक स जीवानां सर्वेषां प्रभुरीश्र्वर ।

 अनन्तमूर्तिर्ब्रह्मासावनन्तजगदास्थित ।

 नियामकस्तस्य विष्णु तावद्रूपेषु संस्थित’ ।

इति भाष्यदिशाऽनन्तपदार्थान्तर्गतत्वस्य स्पष्टप्रतिभासाच्च । स्मृतेश्र्चेत्युक्तगीतासमाख्यानाच्च । गीतायां गामाविश्येत्याद्युक्त्वा अहं वैश्र्वानरो भूत्वा प्राणिनां देहमास्थित इत्युक्त्या चेतनाचेतनसर्वगतत्वप्रतीते तदेवेत्येतदविरुद्धम् । अर्भकौकस्त्वशङ्का तु स्थूलसूक्ष्मतत्तत्पदार्थान्तर्गतत्वेन तत्तत्परिमाणत्वप्रसक्त्या विभूत्याक्षेपपरेत्यदोष ।

भावबोधे तु यद्यप्येतमस्यामित्यादौ कतिपयगतत्वमेवोक्तम् । तथापि तदेवैतरेयक इत्यत्र तदेकदेश-मेवेत्यर्थ । न च पृथिव्यादिकतिपयगतत्वस्यान्यनिष्ठत्वे ब्रह्म ततममित्युक्तसर्वगतत्वस्य अन्यनिष्ठत्वं कुत इति वाच्यम् । पृथिव्यादिभूतगतत्वस्यान्यनिष्ठत्वे विष्णो सर्वगतत्वानुपपत्या वाक्यस्य निर्विषयत्वापातेन भूतगतस्यैव तदितरसर्वगतत्वावश्यम्भावेन सर्वगतोऽन्य एव स्यादिति वर्णितम् ।

॥ तद्यदीति ॥ एतमस्यामित्युक्तस्य सर्वगतस्य विष्णोरन्यत्वे ब्रह्म ततममित्युक्तस्यापि विष्णोरन्यत्वं स्यात् । ततमस्य विष्णोरन्यत्वे प्राचीनप्राणोऽप्यन्य एव स्यादित्यर्थ । ननु ततमस्य विष्णोरन्यत्वे प्राचीनप्राणस्य विष्ण्वन्यत्वं कुत? ततमत्वस्य प्राचीनप्राणेऽश्रवणात् । प्राणस्य चतुर्थखण्डे श्रवणात् । ततमत्वस्य चतुर्थेऽध्याये त्रयोविंशतिखण्डे श्रवणादित्यत आह ॥ एकप्रकरणत्वादिति ॥ प्रपदखण्डे हि प्राक्सृष्टदेवानां वासार्थं प्रपदप्रवेशद्वारा विष्णुवाय्वो सर्वदेवपरिवृत्तयो शरीरेऽवस्थानमुक्त्वा शिरसि दक्षिणाक्षिहृदयकण्ठेषु विशेषसन्निधानस्योक्तत्वात् । तथा चोपनिषत्स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वा । तदेतन्नान्दनम् । तस्य त्रय आवसथास्त्रय स्वप्ना । अयमावसथोऽयमावसथोऽयमावसथ इति । तथा च भाष्ये

तस्मात्तेषां प्रवृत्यर्थं प्रवेक्ष्ये सह वायुना ।

इति मत्वा विरिञ्चस्य शरीरं प्रविवेश स ।

मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वित ।

अग्न्यादयस्तु तत्पश्र्चात् प्रविष्टास्संनियोजिता ।

प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश ह ॥

बिभर्ति देहं तेनैव मूर्धानं च विचेष्टयन् ।

नारायणो वासुदेव इति द्वेधा व्यवस्थित ।

मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रय ।

अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामका ॥

इति । तथा च खण्डद्वयस्यैकप्रकरणत्वात् मूर्धाविष्टस्य ततमस्यान्यत्वे प्रपदाविष्ट प्राचीनप्राणोऽप्यन्य इत्युपपद्यत एव ।

ननु तृतीयानुवाके द्वितीयाध्याये प्रथमखण्डे प्राणो वंश स्थविर शाकल्य इत्युपक्रम्य तृतीये चत्वार पुरुषा इत्यत्र एतमस्यामित्याद्याम्नायते । यद्ययं सर्वगतो विष्ण्वितर स्यात् तदा उपक्रमस्थप्राणो विष्ण्वितर स्यात् । तथा च जीवमुख्यप्राणिलङ्गादिति सूत्रे वंशप्राणस्य विष्णुत्वनिर्धारोऽयुक्त स्यादिति साक्षादाक्षेपो युज्यत एव । किमर्थं ब्रह्म ततममिति वाक्यं मध्ये निधाय सङ्गतिप्रतिपादनमिति चेन्न । ब्रह्म ततममित्यस्यैकप्रकरणत्वेन ता वा एता शीर्षन्नित्यनेन विषयवाक्येनैव साक्षात्सङ्गति । एतमस्या-मित्यस्य वंशप्राणपरामर्शकस्य ता वा एता इति विषयवाक्योक्तप्राणस्य विष्णुत्वे बाधकत्वेनोदाहृतेन प्राणो वंश इति वाक्येन गुणसूत्रेण च सङ्गतिरिति साक्षाद्विषयाक्षेपलाभाय ब्रह्म ततममिति वाक्यद्वारा सङ्गत्युक्ति । किं च तत्रानुगमपदेन हेतुतयोक्तो ब्रह्मशब्द सर्वगते ततमेऽवश्रूयते । ब्रह्मश्रुत्युक्तोऽप्ययं यद्यन्य स्यात् तदा प्राचीनप्राणोऽप्यन्य इति हेतुमुखेनाक्षेपाय चैवं सङ्गत्युक्ति । न च वंशप्राणे ब्रह्मशब्द श्रूयत इत्यलं विस्तरेण ॥

॥ विष्णोरन्यस्य वेति ॥ एतमस्यामित्युक्तं सर्वगतत्वं किमादित्यादेरुत विष्णोरिति चिन्ता । तदर्थमादित्यादिप्रापकम् आदित्यादिश्रुति आदित्यादिष्वनुक्ति चक्षुर्मयत्वादिलिङ्गानि अर्भकौकस्त्वसम्भोगप्राप्तिरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति । तदर्थमादित्यश्रुत्यादिकं निरवकाशं ब्रह्मशब्दादिकं सावकाशमुत विपरीतमिति ॥ बह्वादित्यश्रुतेरिति ॥ नन्वादित्यशब्दस्यान्तराधिकरणन्यायेन विष्णुवाचित्वात् कथं तेन तदन्यस्य प्राप्तिरिति चेन्न । संवत्सर एव प्रध्वंसयन् । तस्यैतस्यासावादित्यो रस इति संवत्सराधिपतित्वरूपसंवत्सरसारत्विलङ्गात् । यश्र्चासावादित्य इति प्रसिद्धिद्योतकेन यच्छब्देनादश्शब्देनोपसम्बन्धात् । तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति सर्वपुरुषाभिमुख्यिलङ्गा-च्चादित्यशब्दस्य प्रसिद्धादित्यपरत्वात् । अत एव भाष्येतस्यैतस्यासावादित्यो रस इत्यादिना इति लिङ्गघटितवाक्यमुदाहृतमित्यभिप्रेत्य टीकायामादिशब्दार्थत्वेन लिङ्गघटिते वाक्ये उदाहृत्य बह्वादित्यश्रुतेरित्युक्तम् । आदिशब्दस्यार्थान्तरमाह ॥ सूर्य इति ॥ अर्थान्तरमाह ॥ एतमस्यामिति ॥ अन्यथेति ॥ आदित्य सर्वगतो न चेदित्यर्थ ॥ अत एवेति ॥ आदित्येऽनुक्तत्विलङ्गादेवेत्यर्थ । यद्यत्रादित्यश्रुतिलिङ्गानां तदन्तर्यामिनिष्ठत्वविवक्षा तर्हि अन्तर्गतत्वोक्तिप्रस्तावे सजातीयचन्द्रादावुक्त्वा आदित्य इत्युक्त्ययोगादिति भाव । अग्रे चक्षुर्मयत्वादेश्र्च जीव इत्युक्तेस्तदनुसारेणादित्यस्येत्येतदुपलक्षणं मत्वाऽऽह ॥ सर्वजीवानामिति ॥ तच्चैतल्लिङ्गमिति ॥ आनन्दमयाधिकरणे मनोमयप्राणमयादिशब्दानां तत्तत्कोशगततत्तन्नियामकब्रह्मचैतन्ये प्राचुर्यविवक्षया सावकशत्वस्योक्तत्वात् तन्न्यायेनेति वा । अन्तिम-प्रकरणे उपासात्रैविध्यादित्युक्तन्यायेन चक्षुरादिप्रधानत्वेन एतल्लिङ्गमन्तर्यामिविषयमभ्युपेत्य विष्णुपक्षे प्रबलबाधकमाह ॥ तस्येति ॥ सर्वेषु भूतेष्वित्युक्तेति ॥ सर्वेषु भूतेषु इत्यन्तोक्तेत्यर्थ । एवं निरवकाशचक्षुर्मयत्वादिलिङ्गेन विष्णुत्वव्यावृत्तौ जीवत्वसिद्धौ च चक्षुर्मयत्वादिकमपि मयटो विकारार्थ-कत्वमादाय चक्षुरादिजन्यज्ञानत्वरूपमेव भवेत् । तच्च न विष्णौ युज्यत इत्यभ्युच्चययुक्तिमाह ॥ चक्षुर्मयत्वादीति ॥ तदुक्तं सुधायां ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकानि? उच्यते हेत्वन्तरेण पूर्वपक्षे सति अभ्युच्चयमात्रत्वेन तेषामुपन्यास इति । सूत्रे तत्तु इत्यनुवर्तते । सर्व-त्रेत्यावर्तते । आद्यस्य क्षित्यादिष्वित्यर्थ । द्वितीयस्य श्रुत्यादावित्यर्थ । तथा च सर्वत्र पृथिव्यादौ उच्यमानो नारायण एव । सर्वत्र श्रुत्यादौ तस्मिन्नेव प्रसिद्धब्रह्मशब्दस्यात्रोपदेशादिति सूत्रार्थमभिप्रेत्याह ॥ सर्वत्र पृथिव्यादिष्वित्यादिना । प्रत्यधिकरणमनुवृत्तस्य तदित्यस्य जिज्ञासासूत्रस्थब्रह्मपरामर्शकत्वात् ब्रह्मपदस्य च "स विष्णुराह हि’ "तं ब्रह्मेत्याचक्षते’ इति निरन्तरदेवमीमांसोक्तविष्ण्वर्थकत्वात् भाष्ये च सर्वत्र विष्णुरेवेत्यर्थोक्तावपि इह नारायणपदप्रयोगसूचितं प्रमाणमाह ॥ तथा च श्रुतिरिति ॥ भाष्ये नारायणपदोपादानन्तु भूतेष्वित्युक्त्या बहिर्व्याप्तिरत्र नोच्यत इति भ्रमनिरासायेति ज्ञातव्यम् । विषयवाक्यं पूर्वमेवोदाहर्तव्यम्, इहोदाहरणे किं कारणम् ? तथात्वे वा एतमस्यामित्यारभ्योदाहर्तव्यम्, न तु स यश्र्चायमित्यारभ्य इत्यत आह ॥ अशरीत्वेति ॥

तत्त्वसुबोधिनी

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ अर्थस्य शब्दात्मकत्वाभावात् शब्दस्य कथं लिङ्गात्मकत्वं ? प्रतिपादकत्वविवक्षायामपि सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे । धर्मविशिष्टधर्मिवाचिनामिति । लिङ्गात्मकानामित्येवोक्ते उभयत्र प्रसिद्धानां लिङ्गात्मकानामिति प्रतीति स्यात् । तथा चासङ्गतिरित्यत आह । अन्यत्रेति । अत्रेति । केवलिलङ्गस्यान्यत्र प्रसिद्ध्यभावादित्यत श्रुतिसहपठितेत्युक्तम् । श्रुत्यादिसङ्गतिमिति । इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तश्रुत्या तत्सूत्रांशेन च सङ्गतिमित्यर्थ । तदैवैतरेयक इति । ननु ब्रह्म ततममित्यत्र ततममित्यनेन निरवधिकसर्वगतत्वमभि-प्रेतम् । तस्यैवापोसनोपयोगात् । एतमस्यामित्यत्र तु अर्भकौकस्त्वरूपं भूतवृत्तित्वमात्रमुच्यते । अन्यथा सर्वेष्वित्युक्तत्वेन भूतशब्दवैयर्थ्यं स्यात् । तथा च तयोरेकरूपत्वाभावात् कथं तदेवेत्युक्तम्, इति चेत् न । तदेवेत्यत्र तदेकदेशरूपमित्यर्थ । एवमपि पूर्वाक्षेप सम्भवति । तथाहि अत्रोक्तभूतगतत्वस्य एतमेवेत्यवधारणबलेनान्यमात्रनिष्ठत्वे विष्णो भूतगतत्वापगमने निरवधिकसर्वगतत्वं न स्यात् । निरवधिक-सर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति ब्रह्म ततममित्याद्युक्तसर्वगतत्वम् एतद्वाक्यप्रतिपादितभूतगतस्यैव स्यादित्युपपादनसम्भवादिति भाव । एतं ह्येव एतमेव बह्वृचा ऋग्वेदिन । महत्युक्थे महत्युक्थनामक-बृहतीसहस्रे मीमांसन्ते जानन्ति । अध्वर्यव यजुर्वेदिन छन्दोगा सामवेदिन महाव्रताख्यकर्माङ्गभूत-स्तोत्रे । अस्यां पृथिव्याम् इति विषयवाक्यार्थ । बह्वादित्यश्रुतेरिति । न चान्तराधिकरणन्यायेन आदित्यश्रुते विष्णुपरत्वात् कथं पूर्वपक्षावतार इति वाच्यम् । संवत्सराधिपतित्वरूपसंवत्सरसारत्वादि-बह्वादित्यादिलिङ्गानाम् अत्र सत्वेन पूर्वपक्षसम्भवादिति भाव । भाष्यगतादिपदार्थमाह । सूर्य आत्मेति । क्षित्यादिषूक्त्वा । सर्वगतस्थितिमिति शेष । अस्य सर्वगतस्य । अन्यथेति । आदित्यस्य सर्वगतत्वाभावे इत्यर्थ । ननु सर्वेषु भूतेषु इत्यनेनैव आदित्ये सर्वगतस्य स्थिते उक्तत्वात् पुन नादित्ये एतमित्युक्ति-रित्यत आह । सजातीयेति । अन्यथा चन्द्रमस्येतं इत्युक्तिरपि न स्यादिति भाव । अत एवेति । आदित्ये अनुक्तत्विलङ्गादेवेत्यर्थ । अनेन लिङ्गेन आदित्यशब्दस्य आदित्यस्थितपरत्वावगमात् । अन्तर्यामिपरत्वे तद्विरुद्धमिति भाव । पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्त-मित्युक्तम् । इदानीं जीवधर्मत्वात् तस्य तदपि न युक्तमित्याह ॥ चक्षुर्मयत्वाद्ययोगाच्चेति ॥ नित्यज्ञान-वदन्तर्यामिणो ज्ञानकारणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थ । स यश्र्चायमित्येतद्युक्तिमात्रप्रदर्शकमिति भ्रमं वारयितुमाह । स यश्र्चायमित्यादिनेति । अस्तु सर्वगते ब्रह्मशब्दोपदेश तत किमित्यत आह । ब्रह्मेति । ननु भाष्ये नारायणशब्द किमर्थं प्रयुक्त इत्यत तैत्तिरीयश्रुतौ स्पष्टं नारायणे सर्वगतत्वस्य उक्तत्वात् तत्प्रयोग इति भावेन तैत्तिरीयश्रुतिमुदाहरति । तथा च श्रुतिरिति । अशरीरत्वयुक्तिसूचनार्थं चेति । विषयवाक्यप्रदर्शनमात्रार्थत्वे एतमस्यामित्यादिनेत्यवक्ष्यत् । इयं युक्तिरनुपपत्तेस्तु न शारीर इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽप्यभिप्रेता । अन्यथा जीव इत्येव ब्रूयादिति भाव । अशरीरत्वस्य आदित्यादावेवावकाशाभावमाह । न हि नारायणेतरेति । अनेन श्रीतत्वादौ व्यभिचारोऽपि परास्त ।

वाक्यार्थमञ्जरी

॥ श्रीगुरुभ्यो नम ॥ शब्दानां लिङ्गात्मकत्वं नाम तत्स्वरूपत्वं वा तद्वाचकत्वं वा । नाद्य । शब्दस्यार्थस्वरूपत्वापत्ते । न द्वितीय । लिङ्गवाचिनां सर्वगतत्वमित्यादीनां भगवति समन्वया-नभिधानादित्यत आह ॥ धर्मविशिष्टेति ॥ सहपठितेति ॥ स्वतप्रसिद्ध्यभावादियमुक्ति । अत्र लिङ्गात्मकेति पादसङ्गति । शेषं पूर्ववत् ॥ तदेवेति ॥ तदेकदेशभूतमेवेत्यर्थ । एतमेवेत्यवधारणेन विष्णोरन्यस्यैव सर्वभूतगतत्वावगमात् विष्णौ भूतान्वयसत्वेऽपि न पूर्वोक्तनिरुपचरितसर्वगतत्वमिति भाव ॥ एतं ह्येवेति ॥ ऋग्वेदिन एतमेव परमात्मानं महदुक्थनामकबृहतीसहस्रे यजुर्वेदिनोऽग्नौ सामवेदिनो महाव्रताख्यकर्माङ्गभूतस्तोत्रे मीमांसन्ते विचारयन्ति । अस्यां पृथिव्याम् । वनस्पतिषु वृक्षेषु । भूतेषु प्राणेषु । ब्रह्म पूर्णम् । आचक्षते वदन्ति ॥ आम्नायते अभ्यस्यते अभिधीयत इति यावत् ॥ एकप्रकरणत्वादिति ॥ ब्रह्म ततमम् एतं ह्येवेत्यनयोरेकप्रकरणस्थत्वादित्यर्थ । ब्रह्म ततममपश्यदित्युक्ति प्राणाख्यहरौ तेन वाक्येन सर्वगतत्वोक्ति आदित्यश्रुतिरुपलक्षणम् । चक्षुर्मयत्वादि-जीविलङ्गं चेत्यपि ग्राह्यम् । तस्यैतस्यासावादित्यो रस स यश्र्चायमशरीर प्रज्ञात्मा यश्र्चासावादित्य एकमेतदिति विद्यात् । तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवतीत्यस्यायमर्थ । तस्यैतस्य संवत्सरस्य सर्वस्यादित्वात्सर्वस्मिंस्ततत्वात्सर्वजीवनियामकत्वादादित्यनामाऽत्र प्रद्युम्नो रस श्रेष्ठ । स यश्र्चायमशरीर प्राकृतदेहरहित । प्रज्ञात्मा ज्ञानात्मकोऽनिरुद्ध । यश्र्चासावादित्ये गत प्रद्युम्न एतत्स्थानद्वयगतं भगवद्रूपमेकमिति जानीयात् । तस्मात्पुरुषगतानिरुद्धस्यादित्यगतप्रद्युम्नस्य चैक्यादादित्य पुरुषं पुरुषं प्रतिपुरुषमभिमुखो भवतीति ॥ सूर्य इति ॥ सूरिभि प्राप्यत्वात्सूर्यो हरि जगत जङ्गमस्य तस्थुष स्थावरस्यात्मान्तर्नियामक इत्यर्थ । अत एव विशिष्यादित्येऽनुक्तत्विलङ्गेनादित्यशब्दस्यादित्या-नन्तर्गतपरत्वावगमेन तदन्तर्गतान्तर्यामिपरत्वकथनमयुक्तमिति भाव । छन्दोमय वेदप्रचुर ॥ अल्पौक-स्त्वेति ॥ अल्पम् ओक स्थानं यस्य तस्य भाव अल्पौकस्त्वं तच्च सर्वगतस्यान्तर्यामिणो ब्रह्माण्डस्य सर्षपस्थत्वमिवायुक्तमित्यर्थ । चक्षुर्मयत्वाद्ययोगाच्चेति ॥ नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादि-प्राचुर्यायोगाच्चेत्यर्थ ॥

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ सर्वत्र पृथिव्यादिषूच्यमानं ब्रह्मैव । श्रुत्यादौ ब्रह्मण्येव प्रसिद्ध-ब्रह्मशब्दस्य एतमेव ब्रह्मेत्याचक्षत इत्यादिना तत्रोपदेशादित्यर्थ । नारायणपदोपादानसूचितां श्रुतिमाह ॥ तथा चेति ॥ यत् किञ्चिदल्पं यच्च सर्वं महज्जगत् प्रत्यक्षेण दृश्यते शब्देन ज्ञायतेऽपि च नारायणस्त-त्सर्वमन्तर्बहिश्र्चाभिव्याप्य स्थित इत्यर्थ । स्वत इत्यनेन श्रीतत्त्वादौ व्यभिचारपरिहार ॥

विवृति

अर्थस्य शब्दात्मकत्वाभावाच्छब्दस्य कथं लिङ्गात्मकत्वं? प्रतिपादकत्वविवक्षायामपि, सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे ॥ धर्मविशिष्टधर्मिवाचिनामिति ॥ लिङ्गात्मकानामित्येवोक्ते उभय प्रसिद्धानां लिङ्गात्मकानामिति प्रतीति स्यात् । तथा च असङ्गतिरित्यत आह ॥ अन्यत्रेति ॥ अत्रेति ॥ केवलिलङ्गस्यान्यत्र प्रसिद्ध्यभावादित्यत श्रुतिसहपठितेत्युक्तम् ॥ श्रुत्यादिसङ्गतिमिति ॥ इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तश्रुत्या तत्सूत्रांशेन च सङ्गतिमित्यर्थ ॥ तदेवैतरेयक इति ॥ ननु ब्रह्म ततममित्यत्र ततममित्यनेन निरवधिकसर्वगतत्वमभिप्रेतं तस्यैवो-पासनोपयोगात् ॥ एतमस्यामित्यत्र तु अर्भकौकस्त्वरूपं भूतवृत्तित्वमात्रमुच्यते । अन्यथा सर्वेष्वित्युक्तत्वेन भूतशब्दस्य वैयर्थ्यं स्यात् ॥ तथा च तयोरेकरूपत्वाभावात्कथं तदेवेत्युक्तमिति चेन्न ॥ तदेवेत्यत्र तदेकदेशरूपमित्यर्थ ॥ एवमपि पूर्वाक्षेप सम्भवति । तथाहि अत्रोक्तभूतगतत्वस्यैतमेवेत्यवधारण-बलेनान्यमात्रनिष्ठत्वे विष्णोर्भूतगतत्वापगमेन निरवधिकसर्वगतत्वं न स्यात् । निरवधिकसर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति । ब्रह्म ततममित्युक्तसर्वगतत्वमपि एतद्वाक्यप्रतिपादितभूतगतस्यैव स्यादि-त्युपपादनसम्भवादिति भाव ॥ एतं ह्येव, एतमेव बह्वृचा ऋग्वेदिन महत्युक्थे महत्युक्थनामक-बृहतीसहस्रे मीमांसन्ते जानन्ति ॥ अध्वर्यव यजुर्वेदिन, छन्दोगा सामवेदिनो, महाव्रते महाव्रताख्य-कर्माङ्गभूतस्तोत्रे । अस्यां पृथिव्यामिति विषयवाक्यार्थ । बह्वादित्यश्रुतेरिति ॥ न चान्तराधिकरण-न्यायेनादित्यश्रुतेर्विष्णुपरत्वात् कथं पूर्वपक्षावतार इति वाच्यम् ॥ संवत्सराधिपतित्वरूपसंवत्सर-सारत्वादिबह्वादित्यिलङ्गानामत्र सत्वेन पूर्वपक्षसम्भवादिति भाव ॥ भाष्यगतादिपदार्थमाह ॥ सूर्य आत्मेति ॥ क्षित्यादिषूक्त्वा सर्वगतस्थितिमिति शेष ॥ अस्य सर्वगतस्य ॥ अन्यथेति ॥ आदित्यस्य सर्वगतत्वाभावे इत्यर्थ ॥ ननु सर्वेषु भूतेष्वित्यनेनैवादित्ये सर्वगतस्य स्थितेरुक्तत्वात्पुनर्नादित्ये एतमित्युक्तिरित्यत आह ॥ सजातीयेति ॥ अन्यथा चन्द्रमस्येतमित्युक्तिरपि न स्यादिति भाव ॥ अत एवेति ॥ आदित्ये अनुक्तत्विलङ्गादेवेत्यर्थ ॥ अनेन लिङ्गेनादित्यशब्दस्यादित्यसंस्थित-परत्वावगमादन्तर्यामिपरत्वे तद्विरुद्धमिति भाव ॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम् । इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह ॥ चक्षुर्मयत्वाद्ययोगाच्चेति ॥ नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थ ॥ स यश्र्चायमित्येतद्युक्तिमात्रप्रदर्शकमिति भ्रमं वारयितुमाह ॥ स यश्र्चायमित्यादिनेति ॥ अस्तु सर्वगते ब्रह्मशब्दोपदेश तत किमित्यत आह । ब्रह्मेति ॥ ननु भाष्ये नारायणशब्द किमर्थं प्रयुक्त इत्यत तैत्तिरीयकश्रुतौ स्पष्टं नारायणे सर्वगतत्वस्योक्तत्वात्तत्प्रयोग इति भावेन तैत्तिरीयश्रुतिमुदाहरति ॥ तथा च श्रुतिरिति ॥ अशरीरत्वयुक्तिसूचनार्थं चेति ॥ विषयवाक्यप्रदर्शनमात्रार्थत्वे एतमस्यामित्यादिनेत्यवक्षत् । इयं युक्तिरनुपपत्तेस्तु न शारीर इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽभिप्रेता ॥ अन्यथा जीव इत्येव ब्रूयादिति भाव ॥ अशरीरत्वस्य आदित्यादावेवावकाशाभावमाह ॥ न हि नारायणेतरेति ॥ अनेन श्रीतत्वादौ व्यभिचारोऽपि परास्त ।

Load More