ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ

१३. सुषुप्त्यधिकरणम्

सूत्रभाष्यम्

असङ्गत्वं परमात्मन उक्तम् । तच्च "स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष’ (बृ.उ. ६-३-१५) इति स्वप्नादिद्रष्टु प्रतीयते । स च जीव प्रसिद्धेरित्यतो  वक्ति

॥ ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ ४२ ॥

"प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽऽन्तरम्’ (बृ.उ. ६-३-२१) "प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जद्याति’ (बृ.उ. ६-३-३६) इति भेदव्यपदेशान्न जीव, पर एवासङ्ग । स्वप्नादिद्रष्टृत्वं च सर्वज्ञत्वात्तस्यैव युज्यते ॥

सत्तकदीपावली

नन्वसङ्गत्वेन श्रुताज्जीवादर्थान्तरत्वं परमात्मन कथमित्याशङ्क्य परिहरति ॥ प्राज्ञे-नेत्यादिना ॥ सुषुप्तीत्यादिना ॥ सन्ध्यं तृतीयं स्वप्नस्थानमित्यारभ्य स यत्तत्र किञ्चि-त्पश्यति। अनन्वागतस्तेन भवति असङ्गो ह्ययं पुरुष इत्येतत्परमात्मनि घटयति ॥ स्वप्ना-दीति॥ न हि कर्मबद्धस्य जीवस्यासङ्गत्वमुपपद्यते । अतोऽर्थान्तरभूत परमात्मा जीवात् । प्राज्ञेनात्मना सम्परिष्वक्त इत्यादिश्रुतेरित्यर्थ ॥

तत्त्वप्रदीपिका

असङ्गत्वं परमात्मन उक्तं "अतमोऽवाय्वनाकाशमसङ्गमरसम्’ इत्यक्षरब्राह्मणे । "ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ’ । असङ्गात्स्वाप्नादिद्रष्टुरीश्वराज्जीवस्य भेदव्यपेशान्न जीवोऽसङ्ग । अपि तु पर एवासङ्ग । अथ च पराज्जीवस्य भेदव्यपदेशान्न जीव पर एव सन् असङ्ग । अत्र हि "तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽन्तरमेवायं पुरुष प्राज्ञेन’ इत्यादिना "तद्यतां नस्सुसमाहितमुत्सर्जद्यादेवमेवायं शरीरम् आत्मा प्राज्ञेनाऽत्मन’ इत्यादिना च सदृष्टान्तं भेदो व्यपदिश्यते । न चायमभिधीयमानो जीवेशभेदो व्यावहारिक इति वाच्यम् । तदर्थानिरूपणात् । अनिर्वाच्यस्य निरस्तत्वात् । भेदस्य चाबाधात् । न च व्यवहारसम्बन्धित्वं व्यावहारिकत्वं, तथाव्यावहारिकस्यापि ब्रह्मण सत्यत्वात् । अव्यावहारिकत्वे प्रतिवादि-दूषितेऽपि ब्रह्मणि मूकतापत्तेरिति ॥

तत्त्वप्रकाशिका

अत्रासङ्गत्विलङ्गेन लोकप्रसिद्ध्या चेशजीवयो साधारणस्य स्वप्नादिदर्शनिलङ्गस्य भगवति समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति ॥ असङ्गत्वमिति ॥ असङ्गमरसमित्यसङ्गत्वं परमात्मन उक्तम् । तद्वाजसनेयके स्वप्नादिद्रष्टु प्रतीयते । "स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुन प्रतिन्यायं प्रतियोन्यां द्रवति स्वप्नायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष’ इति। तस्य च विष्णोरन्यत्वेऽन्यस्यासङ्गत्वप्रसङ्गादवश्यनिर्णेयत्वम् । तत्स्वप्नादिद्रष्टृत्वं विषय । विष्णोर्जीवस्य वेति सन्देह । उक्तसाधारण्यं सन्देहबीजमिति भाव । सयुक्तिकं पूर्वपक्षयति ॥ स चेति ॥ स्वप्नादिद्रष्टृत्वं जीवस्यैव भवेत् । प्रसिद्धत्वात् । न चासङ्गत्विलङ्गादीशस्येति वाच्यम् । जीवेशयोरभेदेन जीवेऽपि चैतन्यविवक्षयाऽसङ्गत्वोक्तिसम्भवात् । न च मुख्यतोऽ-सङ्गत्वादीश्वरस्य स्वप्नादिद्रष्टृत्वम् । तस्याशरीरतया स्वप्नाद्यवस्थानुभवानुपपत्ते । न च मन्तव्यं यथा स्वप्नादिदर्शनस्य जीवे मुख्यत्वेनाऽसङ्गत्वमभेदाभिप्रायेण नीयते तथाऽसङ्गत्वस्येश्वरे मुख्यत्वेन स्वप्नादिदर्शनस्याप्यभेदाभिप्रायेण नेतुं शक्यत्वात् किं जीव एवात्रोच्यत इति निर्बन्धे कारणमिति । चैतन्यैक्याभिप्रायेण तद्गतासङ्गत्वस्य जीवेऽमुख्यवृत्तिवदीश्वरे स्वप्नादिद्रष्टृत्वस्य विशिष्टनिष्ठस्यामुख्यतोऽपि वक्तुमयोगात् । न च जीवेशाभेद एव कुत इति वाच्यम् । विशेषण-द्वयसामानाधिकरण्यान्यथानुपपत्त्यैव तत्सिद्धे । अतो जीव एवायं स्वप्नादिद्रष्टेति न प्रागुक्ता-सङ्गत्वं विष्णोरेवेति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ स्वप्नादिद्रष्टा परमात्मैवासङ्गत्विलङ्गात् । यतोऽसङ्ग पर एव न जीव । न चेश्वराभेदेन जीवेऽप्यसङ्गत्वोक्ति सम्भवतीति वाच्यम् । सुषुप्त्युत्क्रान्तिप्रकरणयोर्भेदेनैव जीवेशयोरुक्तत्वेन तदभेदस्यैवाभावादिति भाव । न चायं भेदो व्यावहारिक एवेति युक्तम् । सुषुप्तिप्रकरणस्य मोक्षपरताया अपि भावात्। यद्वक्ष्यति "स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’ इति । अनन्वागतं पुण्येना-नन्वागतं पापेनेत्याद्युपपत्तेश्च । मोक्षे च सतो भेदस्य व्यावहारिकता नाम परिभाषामात्रं स्यात्। ननु कथमशरीरस्येश्वरस्य स्वप्नादिदर्शनं युक्तं स्यादित्यत आह ॥ स्वप्नादीति ॥ न विष्णो स्वप्नादिदर्शनायोग किं नाम तस्यैव तन्मुख्यं जीवादपि । स्वाप्नपदार्थानां जीव-गतावस्थायाश्च सत्यत्वात् परमात्मनश्च सर्वज्ञत्वेन तद्विशेषदर्शनोपपत्तिरिति भाव । एवं स्वप्नादिदर्शनासङ्गत्वयो परमात्मनि मुख्यत्वोक्त्या तदन्यथानुपपत्त्याऽभेद इति परास्तम् । तत्र प्रतीतोभयविधिलङ्गान्तरोपपत्तिस्तु तद्भाष्यादवगन्तव्या । अतो विष्णुरेव स्वप्नादिद्रष्टाऽसङ्गश्चेति सिद्धम् ॥

गुर्वर्थदीपिका

असङ्गमरसमित्यनेन "अन्यभावव्यावृत्तेश्च’ इति सूत्रसूचिता "स्थूलमनण्वह्रस्वम्’ इति श्रुतौ परिपठितम् "असङ्गमरसमगन्धमचक्षुष्कम्’ इति वाक्यं गृह्यते । "विशेषणद्वय’ इत्यत्र असङ्गत्वं स्वाप्नादिद्रष्टृत्वमित्येतद्वाक्योक्तमेव विशेषणद्वयं "स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’ इति वक्ष्यमाणसूत्रस्यायमभिप्राय । "तीर्णो हि तदा सर्वान्शोकान्हृदयस्य भवति’ इति वाक्योक्तं सर्वशोकोत्तरणं स्वर्गस्थस्य भवतु न तु मुक्तस्येत्याशङ्क्य सूत्रं प्रवृत्तम् । स्वाप्यय सुप्ति सम्पत्तिर्मोक्ष तदुभयापेक्षयैव सर्वशोकोत्तरणमुच्यते न तु स्वर्गस्थापेक्षया । "अत्र पिता अपिता भवति अनन्वागतं पुण्येन अनन्वागतं पापेन’ इति वाक्यशेषे तदुभयविषयत्वमाविष्कृतं हि । अत्र मोक्षे सुप्तौ च पिता अपिता भवतीत्यर्थ । स्वर्गस्थस्य त्वपितृत्वं न घटते । "अस्म-त्पित’ इत्युद्दिश्य पुत्रेण श्राद्धकरणात् । नापि पुण्यपापाननुगमनम् । पुण्येनैव स्वर्गप्राप्ते । पापेन पुन स्वर्गादधपाताच्चेति । "स वा एष एतस्मिन्सम्प्रसाद’ इत्यादिश्रुतेरयमर्थ । स एष जीवनियामक परमात्मा सम्यक् प्रसीदति बाह्यदुखादिकं विस्मृत्य सुखी भवत्यत्रेति सम्प्रसाद सुप्ति तस्मिन् रत्वा स्वसुखं स्वयमनुभूय जीवं च तत्स्वरूपसुखेन रमयित्वा चरित्वा तावत्पर्यन्तं सुषुम्नायामेव सञ्चरणं कृत्वा । जीववद्धरे सुप्त्यभावसूचनाय चरित्वे-त्युक्तम्। नाडीषु सञ्चरद्वायुना सह नाडीस्थभगवतोऽप्यूर्ध्वाध सञ्चरणसद्भावाच्च चरित्वे-त्युक्तम्। तस्य जीवस्य पुण्यं च पापं च दृष्ट्वैव न तु जीववत्ताभ्यां स्वयमालिप्य । पुनस्तद-नन्तरं प्रति न्यायं यस्यां नाड्यां जीवस्य स्वप्न श्रुतिविहित तन्न्यायमनुसृत्य प्रतियोनि योनिं योनिं प्रति मनुष्यपशुपक्ष्यादिनानायोनिषु स्वप्नान्ताय स्वप्नदर्शनयोग्यनाडीस्थानाय कण्ठदेश-मध्यस्थनाडीस्थानायेत्यर्थ । आद्रवति शनैर्गच्छति आनन्देन वा गच्छति । जीवेषु दया-र्द्रत्वादेव गच्छति न तु स्वप्रयोजनाय गच्छतीति सूचनाय आद्रवतीत्युक्तम् । परमात्मा तत्र स्वप्ने यत्किञ्चिज्जीवेन क्रियमाणं स्वाप्नदेवताराधनादिपुण्यं स्वाप्नविद्वेशादिपापं वा पश्यति ।

यद्वा यत्किञ्चित् स्वप्ने जीवस्य भयदायकं व्याघ्रसिंहादिकं पश्यति तेनानन्वागतो भवति तेन भयादिदायकदर्शनेन अनन्वागतो भवतीत्यर्थ । जीवो यथा भीत सन्पश्यति तथा न भगवानिति भाव । तत्र हेतु "अयं पुरुष असङ्गो हि’ इति । "तद्यथा अस्मिन्नाकाशे श्येनो वा सुपर्णो वा दिवि परिपत्य श्रान्त संहृत्य पक्षौ सल्लयायैव ध्रियते एवमेवायं पुरुष श्रान्त स्वप्नान्ताय धावति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यत’ इत्यादि श्रुत्युक्तमुभयविध-जीवेष्वेवोपपद्यमानं भगवत्यनुपपद्यमानमिव स्थितं लिङ्गान्तरं तदपि "यं विष्णुं श्येनवच्छ्रान्तो जीवो जागारिते भ्रमन् । स्वप्ने च सुप्तावभ्येति संश्रान्त सद्गृहं यथा । सद्गृहं यथेत्युक्त्या समीचीनाय लयाय आलयायेति सल्लयशब्दार्थं सूचयति । "अ इत्यादिश्यते विष्णुरविद्या तन्निरीक्षणम् । तेन स्वप्नानयं पश्येत् जीवो जागरितं तथा । स्वाप्नान्पश्यति जाग्रद्वद्भयं च प्रतिपद्यते’ इत्यादि बृहदारण्यकभाष्योक्तरीत्या योजनीयमित्याह तत्र प्रतीतेति ॥ तत्र तस्मिन्प्रकरणे । तन्निरीक्षणमिति भाष्यस्थवाक्यस्य तस्य परमात्मन निरीक्षणं कृपाकटाक्ष कदाचित्पापभूतभयादिप्रतिपत्तये क्रूरकटाक्षश्च तन्निरीक्षणमित्यर्थ ॥

भावबोध

लिङ्गं स्वप्नादिप्रदर्शनमिति न्यायविवणोक्तिलङ्गस्योभयत्र प्रसिद्धत्वमाह असङ्गत्विलङ्गेन लोकप्रसिद्ध्या चेति । अत्र लिङ्गप्रसिद्ध्योरुभयत्र प्रसिद्धिहेतुत्वोपपादनप्रकारो वज्राधि-करणोक्तन्यायेन द्रष्टव्य ॥ श्रुत्यादिसङ्गतिमिति ॥ "ते यदन्तरेति’ "अर्थान्तरं त्वेति’ श्रुति-सूत्रयोररूपोभूतवर्जनादिति प्रमाणानुसारेण रूपराहित्ये भूतासङ्गत्वस्य हेतुत्वेनाभिप्रेतत्वात् । असङ्गो ह्ययमित्यसङ्गतयोक्तस्वप्नादिद्रष्टुर्विष्णोरन्यत्वे प्रागभिप्रेतासङ्गत्वमप्यन्यस्यैव स्यादित्याक्षेपसम्भवाद् व्यवहारे जीवेशयोर्भेदोक्तेरिति न्यायविवरणानुसारेणात्र भेदेनेत्यत पूर्वसूत्रात् व्यपदेशादित्यनुवृत्तौ पूर्वाधिकरणसिद्धान्तन्यायेन सौत्रव्यपदेशेनैवात्र सिद्धान्त-करणाद्वा अव्यवहितपूर्वाधिकरणसङ्गतिरपि द्रष्टव्या । भाष्योदाहृते स यत्तत्र किञ्चित्पश्य-तीत्यादिश्रुत्यंशे तत्रेत्यनेन परामृश्यापरिज्ञानात् स्वप्नादिद्रष्टृत्वस्य प्रत्येतुमशक्यत्वात् पूर्वांश-मुदाहरति स वा एष इत्यादिना ॥ लिङ्गं स्वप्नादिदर्शनं कस्येति न्यायविवरणानुसारेण सन्देहप्रकारमाह विष्णोर्जीवस्य वेति ॥ अत्र स यत्तत्रेत्याद्युक्तस्वप्नादिद्रष्टृत्वं किं जीवस्योत विष्णोरिति चिन्ता । तदर्थमसङ्गत्वस्य प्रसिद्धिबाधकत्वं न सम्भवत्युत सम्भवतीति चिन्ता । तदर्थमसङ्गत्वं जीवस्येशाभेदेन युक्तमुतायुक्तमिति । तदर्थं जीवेशाभेद किं व्यावहारिक किं वा पारमार्थिक इति । तदर्थं तत्पारमार्थिकत्वज्ञापकं नास्त्युतास्तीति । कुतो न वाच्यमित्यतो जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इति न्यायविवरणोक्तहेतुमाह जीवेशयोरभेदे-नेति। अनेन न्यायविवरणेऽभेद इति निमित्तसप्तमीत्युक्तं भवति ॥ विशेषणद्वयेति ॥ असङ्गत्वस्वप्नादिद्रष्टृत्वरूपविशेषणद्वयसामानाधिकरण्यान्यथानुपपत्त्येत्यर्थ ।

यतोऽसङ्ग पर एव न जीव इति । अनेनासङ्गत्वादि चेश्वरस्यैवेति न्यायविवरणांश आदिपदपरित्यागेन जीवेन तदयुक्तेरिति च तदंश जीवस्यासङ्गत्वस्यायुक्तेरिति च व्याख्यातो भवति ॥ सुषुप्त्युत्क्रान्तिप्रकरणयोरिति ॥ सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोर्भेदोक्तेर्भेद एव भवतीति न्यायविवरणांशोऽप्यनेन व्याख्यातो भवति ।

भेदेनोक्तेरित्यनेन सूत्रे उक्तेरिति शेषो वा पूर्वसूत्रात् व्यपदेशादित्यस्यानुवृत्तिर्वेत्युक्तं भवति। अनन्वागतं पुण्येनानन्वागतं पापेनेत्याद्यनुपपत्तेश्चेति । आदिपदेनात्र पिताऽपिता भवतीति तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवतीत्यादेर्ग्रहणम् । सुषुप्तिप्रकरणस्य मोक्ष-परताया अभावे अनन्वागतमित्याद्यनुपपत्तेरित्यर्थ । तस्यैव तन्मुख्यं जीवादपीत्यादिना जीवस्य तदयुक्तेरिति न्यायविवरणांशस्तस्यासङ्गत्वस्यायुक्तेरितीशे सावकाशत्वाच्चेति न्यायविवरणांशश्च व्याख्यातो भवति । असङ्गत्वादि चेश्वरस्यैवेत्यर्थात् भेद एवेति न्यायविवरणांशं योजयति एवमिति ॥ भेद एवेत्यस्यार्थ । अभेद इति परास्तमिति ॥

ननु स्वप्नादिद्रष्टृत्वस्योक्तरीत्येश्वरनिष्ठत्वेनासङ्गत्वेन सह विरोधाभावेऽपि "सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च’ इत्याद्युक्तिलङ्गानामनन्वागतस्तेन भवतीत्याद्युक्तेश्वरिलङ्गै कथं सामानाधिकरण्योपपत्तिरित्यत आह तत्र प्रतीतेति ॥

"शुभाशुभं तु दृष्ट्वैव स्वप्ने जागरितेऽपि च ।

असंस्पृष्ट सदा दुखैश्चरतीश पुन पुन ॥’

इत्यादिबृहदारण्यकभाष्यादुक्तोभयिलङ्गोपपत्तिर्द्रष्टव्येत्यर्थ ॥

भावदीप

भाष्यसूचितं साधारण्यबीजमाह ॥ असङ्गत्वेति ॥ अलेपत्वरूपासङ्गत्विलङ्गेनेत्यर्थ । सङ्गत्यर्थतया भाष्यं व्याचष्टे ॥ असङ्गमिति ॥ अक्षरनये अन्यभावेति सूत्र इत्यर्थ । तच्चेत्यादि व्याचष्टे ॥ तद्वाजसनेयक इति ॥ षष्ठ इत्यर्थ । स यत्तत्रेति तच्छब्दपरामृष्टं दर्शयितुं पूर्वशेष-माह ॥ स वा इति ॥ सम्यक्प्रसीदत्यस्यामिति सम्प्रसाद सुप्ति तस्मिन् रत्वा रमणं कृत्वा प्रतिन्यायम् अवस्थान्तरं प्राप्तव्यमिति न्यायमनुसृत्य प्रतियोन्यापदव्या तेन स्वाप्नपदार्थदर्शनेना-नन्वागतो निर्लेप लेपे सर्वप्रमाणाभावं वक्तुमसङ्गो ह्ययमिति वाक्यशेष । स चेत्यादेस्तात्पर्यं तस्य चेति ॥ प्रसिद्ध्या जीवत्व इत्यर्थ । उक्तमित्यन्तभाष्यस्य तात्पर्यम् अन्यस्येति ॥ न च न हि सङ्गोऽस्ति वह्निवायुविवस्वतामिति न्यायेनानेकेषामसङ्गत्वं तथा च न पूर्वाक्षेप इति शङ्क्यम् । अनन्यापेक्षस्यानेकेषामयोगादिति तात्पर्यात्तस्यैव श्रुतौ प्रतीतेरिति । पूर्वपक्षादि-परत्वेनापि व्याकुर्वत्स च जीव इति प्रतिज्ञार्थमाह ॥ स्वप्नेति ॥ स्वप्नादिद्रष्टृत्वं चेति सिद्धान्त-भाष्यानुरोधादत्रापि तथैव व्याख्या कृतेति बोध्यम् ।

ननु यथा पूर्वत्र नामरूपनिर्वोढृत्वरूपब्रह्मिलङ्गाद्वै नामेति प्राप्तलोकप्रसिद्धिबाधस्तथाऽत्राप्य-स्त्विति भावेन शङ्कते ॥ न चेति ॥ जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इति न्यायविवरणांशोक्तमाह ॥ जीवेशयोरिति ॥ विशिष्टस्य सङ्गित्वादुक्तं चैतन्येति ॥ ननु विनैवाभेदमीशिलङ्गेन जीविलङ्गमीशे नीयतामिति शङ्कते ॥ न चेति ॥ तस्येशेऽनवकाशतामाह ॥ तस्येति ॥ सर्वत्र प्रसिद्धेत्यत्राशरीर प्रज्ञात्मेत्युक्तेरिति भाव । ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यंशतात्पर्यं व्यक्तीकर्तुमाह ॥ न च मन्तव्यमिति ॥ चैतन्येति ॥ जीवस्य येन चैतन्यात्मना ब्रह्मैक्यं तदभिप्रायेणेत्यर्थ ॥ विशेषणेति ॥ उक्तदिशा निरवकाशासङ्गत्व-स्वप्नादिद्रष्टृरूपविशेषणेत्यर्थ । एतच्चासङ्गत्वं प्रसिद्धेरिति भाष्योक्त्या ज्ञायत इति भाव ॥ अत इति ॥ असङ्गत्वरूपब्रह्मिलङ्गस्य जीवे तदभेदेनोपपत्त्या जीविलङ्गस्य चेशेऽनुपपत्त्या च निर्बाधनिरवकाशप्रसिद्धिभावादित्यर्थ । उक्तमित्यन्तस्य भावोक्तिर्न प्रागिति । अभेदेन जीवेऽ-प्युपपन्नतोक्त्या विष्णावनिरासादेवेत्युक्तम् । स्वप्नादिद्रष्टृत्वं च तस्यैवेति प्रतिज्ञांशं व्याचष्टे ॥ स्वप्नादिद्रष्टेति ॥ असङ्गत्वादि चेश्वरस्यैवेति न्यायविवरणानुरोधेन हेतुमाह ॥ असङ्गत्वेति ॥ अनन्वागतस्तेनेति वाक्योक्तादित्यर्थ । तावता कुतो विष्णुरित्यतो न जीव इत्यादि व्याचष्टे ॥ यत इति ॥ असङ्गो ह्ययमिति हेतूकृतासङ्ग इत्यर्थ । अनन्वागतस्तेन भवतीत्यत्रासङ्गो ह्ययं पुरुष इत्यसङ्गत्वं हेतु । प्रसिद्धमेव च हेतुत्वयोग्यम् असङ्गमस्पर्शमित्यादिश्रुतिषु च ब्रह्मण्येव प्रसिद्धमिति भाव । सुषुप्त्युत्क्रान्त्योर्जीवे(श्वरयो)शयोर्भेदोक्तेरिति न्यायविवरणानुरोधेन प्राज्ञे-नेत्यादिभाष्यं व्याचष्टे ॥ न चेति ॥ सुषुप्तिपदलब्धयुक्तिं वक्तुमाह ॥ न चायमिति ॥ यद्वक्ष्यतीति ॥ चतुर्थ इत्यर्थ । तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवतीति वाक्यं न मुक्तविषयं किन्तु स्वर्गस्थविषयं स्वर्गे लोके न भयं किञ्चनास्तीत्यादेरित्यत स्वाप्ययेति सूत्रम्। स्वाप्यय सुप्ति सम्पत्तिर्मुक्ति । अन्यतरशब्दोऽत्र उभयपर । तीर्णो हीति वाक्यं सुप्तिमुक्त्युभयपरं न स्वर्गिविषयम् । कुत हि यस्मात् अविष्कृतं तदुभयविषयत्वमस्य वाक्यस्य विस्पष्टमत इति सूत्रार्थ । तत् किञ्चिद् व्यनक्ति ॥ अनन्वागतमिति ॥ अन्यथा अत्र पिताऽपिता भवति अनन्वागतं पुण्येनेत्यादिनोक्तापितृत्वपुण्यपापाद्यसङ्गत्विलङ्गानां स्वर्गिण श्राद्धादिभोक्तुरनुपपत्ते सुप्तिप्रकरणस्य मुक्तिपरत्वमुपेयमित्यर्थ । व्यक्तमुक्तमस्य सूत्रस्योभय-परत्वाद्यर्थकत्वं बृहदारण्यकभाष्ये । कर्मनिर्णयटीकायां च । विवृतं तन्त्रदीपिकाया-मस्माभिश्चतुर्थे ।

अस्तु तावता व्यावहारिको भेद इत्यत्र किमागतमित्यत आह ॥ मोक्षे चेति ॥ प्रतिज्ञापरत्वेन व्याख्यातमपीदानीं स्वप्नादीत्यशेषभाष्यं प्रागुक्तशङ्कानिवर्तकतयाऽवतार्य जीवस्य तदयुक्तेरीशे सावकाशत्वाच्चेति न्यायविवरणविवरणपरतया व्याचष्टे ॥ नन्वित्यादिना ॥ सन्ध्ये सृष्टिराह हीत्यादिना तृतीयस्य द्वितीयपादे वक्ष्यमाणत्वात्सत्यत्वस्येति भाव । एतल्लिङ्ग-द्वयानुपपत्तिपरिहारेऽपि लिङ्गान्तरसामानाधिकरण्यानुपपत्त्याऽभेदशङ्कायां कथं तदुपपत्तिरित्यत आह ॥ तत्र प्रतीतेति ॥ सम्प्रसादे रत्वेत्यादिना प्रागुदाहृतवाक्ये प्रतीतजीविलङ्गान्तराणाम् अनन्वागतं पुण्येनेतीदानीमुदाहृतवाक्यप्रतीतपुण्यपापलेपरूपब्रह्मिलङ्गान्तराणामुपपत्तिस्तु "शुभा- शुभं तु दृष्ट्वैव स्वप्ने जागरितेऽपि च । असंसृष्ट सदा दुखैश्चरतीश पुन पुन’ इत्यादि-

वाजसनेयभाष्यादवसेयेत्यर्थ । फलोक्त्योपसंहरति ॥ अत इति ॥ परमात्मनि मुख्यत्वादित्यर्थ ॥

अभिनवचन्द्रिका

अत्र द्वे दर्शने । "आकाशोऽर्थान्तरत्वादिव्यपदेशात्’ इत्यारभ्य, द्विसूत्री एक-मधिकरणमित्येकम् । सूत्रद्वयं पृथक्पृथगधिकरणमित्यपरम् । द्वितीयमपि दर्शनं द्विविधम्, सूत्रद्वयस्य भिन्नाधिकरणत्वेऽपि आद्येऽधिकरणे आकाशशब्दसमन्वयः । द्वितीये स्वप्नादि-द्रष्टृत्विलङ्गसमन्वय इति । तत्राद्यं सत्तकदीपावलीकृतो दर्शनम् । तथा हि "नन्वसङ्गत्वेन श्रुताज्जीवादर्थान्तरत्वं परमात्मनः कथमित्याशङ्क्य परिहरति सुषुप्तीत्यादिना ॥ "सन्ध्यं तृतीयं स्वप्नस्थानम्’ इत्यारभ्य "स तत्र किञ्चित्पश्यत्यनन्वावगतस्तेन भवति, असङ्गो ह्ययं पुरुष’ इत्येतत् परमात्मनि घटयति  स्वप्नादीति ॥ न हि कर्मबद्धजीवस्याऽसङ्गत्वमुपपद्यते । अतोऽर्थान्तरभूतः परमात्मा जीवात् "प्राज्ञेनात्मना संपरिष्वक्त’ इत्यादिश्रुतेरित्यर्थः’ इति सत्तकदीपावल्युक्तेः । द्वितीयस्याद्यं तु तत्वप्रदीपकृतो दर्शनम् । तथा हि  "असङ्गत्वं परमात्मन उक्तं’ "अतमोऽवाय्वनाकाशं अगन्धमरस’ इत्यक्षरब्राह्मणे सुषुप्त्युक्रान्त्योर्भेदेन, असङ्गात्स्वप्नादिद्रष्टुरीश्वराज्जीवस्य भेदव्यपदेशात् न जीवोऽसङ्गः । अपि तु पर एवाऽसङ्गः । "अथ च पराज्जीवस्य भेदव्यपदेशान्न जीवः पर एवाऽसङ्ग’ इति तत्वप्रदीपोक्तेः । द्वितीयस्य द्वितीयं तु टीकाकृतो दर्शनमिति सिद्धमेव । तत्राद्यमते "सुषुप्त्युत्क्रान्त्योर्भेदेन’ इति सूत्रे समन्वेतव्यशब्दं सिद्धान्तहेतुं चाऽनभिधाय भेदव्यपदेशोक्तिर्लिङ्गम् । भाष्यकारीयं चाणुवेदान्ते समन्वेतव्यशब्दमनुक्त्वा "अन्यश्च जीवत’ इति उक्तिर्लिङ्गम् । अधिकरणभेदे तु अनुव्याख्याने

"लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।

पुनःशब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह’

इत्यादिना द्वादशाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीरभिधाय । अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितावित्यनेन देवताऽधिकरणाऽपशूद्राधिकरणयोः प्रासङ्गिकत्वोक्तिर्लिङ्गम् । सुषुप्त्युक्रान्त्योर्भेदेन’ इत्यधिकरणे असङ्गत्विलङ्गसमन्वय इति मते तु "भेदव्यपदेशात् न जीवः, पर एवासङ्ग’ इति भाष्योक्तिर्लिङ्गम् । अन्यथा "भेदव्यपदेशात् जीवः स्वप्नादिद्रष्ट’ इत्यवक्ष्यत् । अस्मिन्नधिकरणे स्वप्नादिद्रष्टृत्विलङ्गसमन्वय इति मते तु "असङ्गो ह्ययं पुरुष’ इति स्वप्नादिद्रष्टृ प्रतीयते । स च जीवः प्रसिद्धेरित्यतो वक्ति’ इति भाष्ये स्वप्नादिद्रष्टृत्वस्य विषयत्वोक्तिः लिङ्गम् ।

विष्णोरर्थान्तरत्वं तु सूत्रेणाऽनेन सिध्यति ।

तदिदं पूर्वशेषं स्यादसङ्गत्वमपि स्फुटम् ॥

सिध्यत्यनेन सूत्रेण ततोऽधिकरणं पृथक् ।

स्वप्नादिदर्शनं चापि सिध्यत्येवामुना स्फुटम् ।

इत्याशयेन सर्वं च सूचयामास भाष्यकृत् ।

इत्येतदखिलं टीकाकारा जानत एव हि ॥ ३ ॥

बोधयामसुरेकैकं शिष्यबुद्धिविशुद्धये ।

तथाहि  न विष्णुर्जीवादर्थान्तरः । विष्ण्वसाधारणधर्मस्याऽसङ्गत्वस्य जीवे श्रवणात् इत्याशङ्कापरिहारस्य सुषुप्त्युत्क्रान्त्योर्भेदाभिधानेन भेदं साधयता कर्तुं शक्यत्वात् भवेदिदं सूत्रं पूर्वाधिकरणशेषः । तथा "असङ्गमरसमगन्धम्’ इत्यसङ्गत्वं परमात्मन उक्तम् । तद्वाजसनेयके कस्यचित्प्रतीयते । "स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्या द्रवति, स्वप्नायैव । स तत्र किञ्चित्पश्यति । अनन्वागतस्तेन भवति । असङ्गो ह्ययं पुरुष’ इति सोऽयमसङ्गः जीवविशेष एव ज्ञानी भवितुं युक्तः । "तद्यथा पुष्करपालाश आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न श्लिष्यत’ इति असङ्गत्वस्य तत्र श्रुतिसिद्धत्वात् । सर्वे जीवा वा असङ्गाः "प्रतिन्यायं प्रतियोन्या द्रवती’ति जीविलङ्गात् । न च बद्धस्यासङ्गत्वासम्भवः । जीवस्य स्वरूपविवक्षया असङ्गत्वोक्त्युपपत्तेः । एवं च अत्रोक्तोऽसङ्गो जीव इति प्रागुक्तोऽपि स एव । ततश्च तत्रोक्तगुणान्तरमपि तस्यैवेति चेत्, न विष्णु-रेवायमसङ्गः । स्वप्नादिद्रष्ट्टत्विलङ्गात् । तद्धि सर्वज्ञत्वाद्विष्णोरेवोपपद्यते । न तु जीवस्य । तस्य स्वप्नदर्शनसम्भवेऽपि सर्वस्वप्नदर्शनासम्भवात् । प्रतियोन्या द्रवणं च जीवमादाय तस्यैव युज्यते। असङ्गत्वं तु सार्वकालिकं न ज्ञानिनः । नापि सर्वजीवानामुपपद्यते । बद्धत्वात् । नापीशाभेदेन, सुषुप्त्युत्क्रान्त्योर्भेदव्यपदेशादित्यस्यार्थस्यानेन लाभात् । इदं सूत्रं पृथगधिकरणं सत् असङ्गत्विलङ्गसमन्वयपरम् । स्वप्नादिद्रष्टृत्विलङ्गसमन्वयपरत्वं तु टीकायामेव व्यक्तं व्युत्पादितमिति तत्परं चेति न मतानां परस्परं विरोध इति ॥ स्वप्नादिद्रष्टुः प्रतीयत इति ॥ अस्याधिकरणस्य, परमात्मधर्मतया अक्षराधिकरणोक्तासङ्गत्वादिधर्माक्रान्तस्वप्नादिद्रष्ट्रप्रति-पादकत्वम्, अक्षराधिकरणेन सङ्गतिरित्युक्तं भवतीति ज्ञेयम् ॥ स वा एष इति ॥ स एषः परमात्मैव, संप्रसादे सुप्तिकाले, रत्वा रमणं कृत्वा, जीवस्य पुण्यं च पापं च दृष्ट्वा, चरित्वा =सञ्चरणं कृत्वा, प्रतिन्यायं प्रतिकालं प्रतिदिनमिति यावत्, प्रतियोनि=प्रतिजीवं, पुनः जीवानां स्वप्नायैव स्वप्नावस्थाप्रेरणायैव, आद्रवति आयाति । स तत्र स्वप्नाद्यवस्थायां, किञ्चित्पश्यति । यज्जीवपापं च पश्यति, तेन पापफलेन अनन्वागतः असम्बद्धो भवति, यस्मादयं पुरुषः, असङ्गः सङ्गरहित इति सिद्धान्तरीत्या श्रुत्यर्थः ॥ उक्तसाधारण्यमिति ॥ उभयपरतया सम्भवनार्हत्वं साधारण्यमित्यर्थः ॥ जीवेशयोरभेदेनेति ॥ नन्वयं पूर्वपक्षो न युज्यते, स्वप्नादिद्रष्टुः विष्णोः अन्यत्व एवाऽन्यस्यासङ्गत्वप्रसङ्गेन अस्य निर्णेतव्यत्वस्योक्तत्वेन अभेदेन पूर्वपक्षे चाऽन्यस्यासङ्गत्वप्राप्त्यभावेनाऽनिर्णेतव्यत्वापातात् । न च जीवेश्वरयोरभेदः रामकृष्णादिरूपाणाम्, ईश्वरेणेव नात्यन्ताभेदः, किं नाम अविद्यावच्छिन्नशुद्धचैतन्यस्य जीवत्वमित्यभेद इत्यभिमानः । एवं च असङ्गत्वप्रसङ्गान्निर्णेतव्यत्वमिति वाच्यम् । एवमपि

असङ्गत्वस्य जीवे औपचारिकत्वेन तस्येश्वरैकनिष्ठत्वाविघातादनिर्णेतव्यत्वपरिहारात् "अभेदाभि- मान’ इति वदता पूर्वपक्षिणा वस्तुतो जीवेशभेदस्याङ्गीकृतत्वेन, सिद्धान्ते "सुषुप्त्युक्रान्त्योर्भेदेन’ इति भेदाभिधानवैय्यर्थ्याच्च । एवं चाभेदेन पूर्वपक्षेऽसङ्गत्वाक्षेपानुपपत्त्या अधिकरणवैयर्थ्यम् । भेदेन पूर्वपक्षे च सिद्धान्ते भेदाभिधानवैयर्थ्यमित्युभयतरपाशारज्जुरिति चेत् ॥

पदवाक्यप्रमाणज्ञान् गुरून् सत्यनिधीनहम् ।

टीकाभावं प्रवक्ष्यामि नत्वा तेषां कृपाबलात् ॥

तथा हि  जीवेशाभेदेनैवेह पूर्वपक्षो युक्तः । सिद्धान्ते भेदाभिधानात् । न च ईशनिष्ठाऽ-सङ्गत्वस्याऽन्यनिष्ठत्वप्राप्त्यभावात् अधिकरणवैय्यर्थ्यमिति वाच्यम् । पूर्वपक्षिणाऽसङ्गत्वस्य जीवधर्मत्वानङ्गीकारेऽपि ईशधर्मस्याप्यसङ्गत्वस्य जीवनिष्ठत्वाङ्गीकारात् । तन्निरासायाऽधि-करणस्यावश्यकत्वात् ।

नन्वेवमपि इदमधिकरणमनारम्भणीयम् । जीवेऽसङ्गत्वस्य स्वतोऽभावात् । अभेदाभि-प्रायेणासङ्गत्वाभिधाने च तस्य तत्रौपचारिकत्वापत्तेः । औपचारिकत्वस्य निरासायाऽधि-करणस्याऽकर्त्तव्यत्वादिति चेत् न । न ह्यत्र पूर्वपक्षी सिंहशब्दस्य माणवके औपचारिकत्वमिव असङ्गशब्दस्याऽर्थाभावेऽपि प्रयोगमात्रं मन्यते । येनोक्तदोषः स्यात् । न चैवं, किं नाम बद्धस्यासङ्गत्वगुणकत्वायोगेऽपि ईशाभेदेन ईशगुणस्याप्यसङ्गत्वस्य राजधनस्यामात्यनिष्ठत्ववत् जीवनिष्ठत्वं मन्यते । ततश्च असङ्गत्वस्य ईशमात्रनिष्ठत्वहान्यापत्त्याऽधिकरणमिदमारम्भणीय-मेवेति । ततश्चैवं योजना । चैतन्यविवक्षया जीवेशयोरभेदेन राजधनस्यामात्यनिष्ठत्ववत् जीवेऽपि ब्रह्मधर्मस्य असङ्गत्वस्योक्तिसम्भवादिति । नन्वसङ्गत्वमीश्वरस्य स्वाभाविकं, तदीयमेव जीवेशाभेदात् जीवनिष्ठमित्युक्तम् । एवं च सति ईशे मुख्यमन्यत्राऽमुख्यमिति स्यात्। यस्य स्वतः स एव धनिको भवति, यस्यान्यदीयं धनमस्ति नासौ मुख्यतया धनिको भवतीति दर्शनात् । मुख्याऽमुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् । मुख्याऽसङ्गत्वेनेश्वर एव स्वप्नादिद्रष्टेत्याशङ्क्य निषेधति  न चेति ॥ न च मन्तव्यमिति ॥ यथा जीवेशयोर्भेदाभावात् ईशगतमसङ्गत्वं जीवनिष्ठमुच्यते तथा तत एव जीवनिष्ठं स्वप्नादिद्रष्ट्रत्वमीशगतमस्तु, किं जीव एव स्वप्नादिद्रष्टेत्याग्रहेणेति न मन्तव्यमित्यर्थः । अमुख्यतोऽपि वक्तुमयोगादिति ॥ कारणगतस्य कार्ये दर्शनवत् कार्यगतस्य कारणेऽदर्शनादिति भावः । विष्णोरेवेति भाव इति॥ यद्यपि असङ्गत्वमीशस्यैव स्वतः, तथापि तन्नेशमात्रवृत्ति, किं तु जीवेऽपि । राजधनस्याऽमात्यवृत्तित्ववत् । एवं च सिद्धान्त्यभिमतेशमात्रवृत्तित्वमयुक्तमिति भावः । असङ्गत्विलङ्गादिति ॥ "असङ्गो ह्ययं पुरुष’ इति उक्तासङ्गत्विलङ्गादित्यर्थः । ननु जीव परसाधरणमसङ्गत्वं कथं हेतुः स्यादित्यत आह यत इति ॥ सत्यमसङ्गत्वमीश्वराऽ-साधरणधर्मः तथापि नेश्वरस्य स्वप्नादिद्रष्ट्रत्वसिद्धिः । अत्राऽमुख्यस्यैव श्रवणादित्याशङ्क्य निषेधति न चेति ॥ अनन्वागतं पुण्येनेति ॥ न केवलं "स्वाप्ययसंपत्यो’ इत्युक्तिबलात् अस्य प्रकरणस्य मोक्षपरत्वम्, अपि तु सुषुप्तिमात्रपरत्वपक्षे "अनन्वागतं पुण्येन’ इत्याद्यनु-पपत्तेश्च मोक्षपरत्वमभ्यपेयमिति भावः । ननु माभूत्पूर्वोक्तोभयविधिलङ्गाऽन्यथानुपपत्त्या जीवेशाभेदसिद्धिः । "संप्रसादेरत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च’ इति स्वप्नावस्थाभोक्तृत्व-पुण्यपापफलभोक्तृत्वलक्षणजीविलङ्गस्य अनन्वागतस्तेन भवतीति ईश्वरिलङ्गसामानाधि-करण्यान्यथानुपपत्या अभेदसिद्धिरवर्जनीयैवेत्यत आह  तत्र प्रतीतेति ॥

शुभाशुभं तु दृष्ट्वैव स्वप्ने जागरितेऽपि च ।

असंस्पृष्टः सदा दुःखैश्चरतीशः पुनः पुनः ॥

इति बृहदारण्यकभाष्यात् उभयविधिलङ्गोपपत्तिः ईश्वरे द्रष्टव्येत्यर्थः । अतो विष्णुरेवेति ॥ मुख्यासङ्गत्वात्स्वप्नादिद्रष्टा विष्णुरेव न जीवः । ततश्च जीवेशाभेदरूपकल्पकाभावात्, अमुख्यमप्यसङ्गत्वं तत्र नेति सिद्धान्त्यभिमतम्, असङ्गत्वस्य विष्णुमात्रवृत्तित्वं सिद्धमिति भावः । एतेन असङ्गत्वस्य हेतुत्वात् स्वप्नादिद्रष्टृत्वं विष्णोरेव सिद्धमिति वक्तव्यं न त्वसङ्गत्वं चेत्यपि, तस्य हेतुत्वेन साध्यत्वाभावदिति परास्तम् । नन्वेवं समाधानमुत्सूत्रम् । सूत्रे जीवेश-भेदस्यैवाभिधानेन सिद्धान्तहेतोरसङ्गत्वस्यानभिधानादिति चेत्, न सिद्धान्तहेतोरसङ्गत्वस्य सूत्रसूचितत्वात् । यावान्सूचितोऽर्थः, स सर्वोऽपि सूत्रार्थ इत्यसङ्गत्वस्यापि सूत्रार्थत्वात् । तथा हि जीवेशभेदाभिधानस्योत्क्रान्तौ भेदेन’ इत्येतावता पूर्णत्वात् तावत्येव वक्तव्ये यत्सुषुप्तिग्रहणं करोति तज्ज्ञापयत्याचार्यः "न केवलं भेदेन व्यपदेशमात्रमिह विवक्षितम्, सुषुप्तिप्रकरणे यदन्यदसङ्गत्वादि श्रूयते, तदपीह विवक्षितम्’ इति । नन्वत्र प्रधानत्वादसङ्गत्वं कण्ठतो निरूप्य, जीवेशभेद एव सूचनीयः, कुतो वैपरीत्यमिति चेत्, न अस्य सूत्रस्य पूर्वाधिकरण-शेषत्वेनार्थान्तरत्वसाधकत्वमप्यस्त्वित्याशयेन वैपरीत्यकरणात् ।

पूर्वपक्षस्तु  अयं स्वप्नादिद्रष्टा जीवो भवेत् । तस्य तस्मिन्प्रसिद्धत्वात् । न च असङ्गत्विलङ्गादीशः स इति वाच्यम् । जीवेशयोरभेदेन जीवेऽप्यमुख्यस्यासङ्गत्वस्य सम्भवात् । न चाऽसङ्गशब्दस्य जीवे प्रयोगसम्भवेऽपि ईशे मुख्यत्वेन मुख्यस्यैव ग्राह्यत्वात् तदनुरोधेनेश एव स्वप्नादिद्रष्टेति वाच्यम् । अशरीरस्य तस्य स्वप्नादिद्रष्ट्रत्वायोगात् । न च जीवेशाभेदेन जीवेऽसङ्गत्ववत् तत एवेशे स्वप्नादिद्रष्ट्रत्वं किं न स्यादिति वाच्यम् । कारणगतस्य कार्ये सम्भवेऽपि कार्यगतस्य कारणेऽयोगात् । न च जीवेशाऽभेद एव कुत इति वाच्यम् विशेषणद्वयसामानाधिकरण्याऽन्यथाऽनुपपत्त्यैव तत्सिद्धेः । अतो जीव एवायं स्वप्नादिद्रष्टेति ईशाऽसाधारणधर्मस्याप्यसङ्गत्वस्य नेशमात्रवृत्तित्वम्, अपि तु राजाऽसाधारणधर्मस्यापि कोशस्य अमात्यगतत्ववत् श्रुतिबलात् जीवगतत्वमिति ।

सिद्धान्तस्तु  स्वप्नादिद्रष्टा परमात्मैव असङ्गत्विलङ्गात् । तद्धि विष्णोरेवोपपद्यते न तु जीवस्य बद्धत्वात् । न च जीवेशाऽभेदात् जीवस्याप्यसङ्गत्वमिति वाच्यम् । सुषुप्त्युत्क्रान्ति-प्रकरणयोः भेदाभिधानेन तदभेदाभावात् । अतो गुणगुणिभावापन्नासङ्गत्विलङ्गाद्विष्णुरेव स्वप्नादिद्रष्टा । असङ्गत्वमपि ईशमात्रनिष्ठम् । ततश्च "असङ्गो ह्ययं पुरुष’ इति प्रमाणभावात् राजधनवदपि असङ्गत्वं नाऽन्यनिष्ठमिति सिद्धम् ।

वाक्यार्थमुक्तावली

असङ्गत्विलङ्गेनेति ॥ लिङ्गप्रसिद्ध्योरुभयत्र प्रसिद्धिहेतुत्वोपपादनप्रकारोऽवज्ञताधिकरण-न्यायेन द्रष्टव्य ॥ श्रुत्यादिसङ्गतिमिति ॥ अनन्तरसङ्गतिस्तु पूर्वाधिकरणे सिद्धान्त-साधकतयोक्तप्राकृतभौतिकशरीरराहित्यस्यैवेह पूर्वपक्षसाधकत्वादिति बोध्यम् । यद्वक्ष्यति तस्य शरीरतया स्वप्नाद्यवस्थानुभवानुपपत्तेरिति । पूर्वाधिकरणे अरूपो भूतवर्जनादित्यत्र भौतिक-शरीरराहित्यस्याप्युक्तत्वात् । शुक्लादिवर्णवर्तनाद्भौतिकदेहवर्जनादिति तत्वप्रदीपोक्ते ॥असङ्गत्वमुक्तमिति ॥ अक्षरत्वनये अन्यभावव्यावृत्तेश्चेत्यत्रेति भाव । स यत्तत्रेति तच्छब्द-परामृष्टं दर्शयितुं पूर्वशेषमाह ॥ स वा इति ॥ सम्यक् प्रसीदत्यस्यामिति सम्प्रसाद सुप्ति तस्मिन् सवा एष विष्णु रत्वा रमणं दत्वा पुण्यं च पापं च दृष्टैव चरति । चरित्वा प्रतिन्यायं प्रतिकालं प्रतियोनि प्रतिजीवं स्वप्नायैव जीवस्य स्वप्नप्राप्तये एवाद्रवति । दृष्टैवेत्येवकारे व्यवच्छेद्यमाह ॥ स इति ॥ स परमात्मा यत्पापं पश्यति तेन तत्फलेनान्वगतो स सृष्टो भवति। कुत इत्यत आह ॥ सङ्गो हीति ॥ सिद्धान्तरीत्या श्रुत्यर्थम् । पूर्वपक्षे तु स वा एष इति जीवो ग्राह्य ॥ विष्णोरिति ॥ अत्र स्वप्नादिद्रष्ट्रत्वं किं जीवस्योत ब्रह्मण इति चिन्ता । तदर्थं किं प्रसिद्धिबाधकं नास्त्युतास्तीति । तदर्थम् असङ्गतत्वादिकं ब्रह्माभेदेन नेतुं शक्यमुता-शक्यमिति । तदर्थं सुषुप्त्युत्क्रान्त्योपदिष्टो भेद किं मिथ्या उत सत्य इति ॥ जीवस्यैवेति ॥ एतेन सत्त्वादिकं जीवे ब्रह्माभेदेन नेतुं शक्यमित्युक्तं भवति ।

ननु यथा पूर्वत्र नामरूपनिर्वोढ्रत्वरूपब्रह्मिलङ्गात् । वै नामेति प्राप्तलोकप्रसिद्धिबाध । तथाऽत्राप्यस्तीति भावेन शङ्कते ॥ न चेति ॥ तत्र नामरूपराहित्यस्य गगने निरवकाशत्वात् । जडे ब्रह्माभेदाभावेनापि ब्रह्मधर्मस्य तत्र नेतुमशक्यत्वाच्च । लोकप्रसिद्धिबाधेऽपीहाभेदेन ब्रह्मधर्मस्यासङ्गत्वस्य जीवे सावकाशत्वेन न तेन प्रसिद्धिबाधो युक्त इति भावेन परिहरति ॥ जीवेशयोरिति ॥ विशेषैक्यस्य बाधितत्वात् । विशिष्टस्य सङ्गतत्वाच्चोक्तम् ॥ चैतन्येति ॥ ननु असङ्गो ह्ययं पुरुष इत्यत्र पुरुषत्वोक्त्या जीवस्य चैतन्यैक्यद्वारकमसङ्गत्वं वक्तव्यम् । ईश्वरस्य मुख्यतो निर्लेपत्वात् । तद्बलात् स्वाप्नादिदृष्ट्रत्वं लोकप्रसिद्धिमनादृत्य नियतमित्याशङ्क्य परिहरति ॥ न च मुख्यत इति ॥ अशरीरतयेति ॥ शरीराभावस्य पूर्वाधिकरणयोरुक्तत्वात् । अशरीर प्रज्ञात्मेत्यादिश्रुतेश्चेति भाव । विशिष्टनिष्ठस्यामुख्यतोऽपीति जीवस्य येन चैतन्यात्मना ब्रह्माभेदस्तस्मिन् शुद्धचैतन्ये सङ्गतत्वात् । ब्रह्मणो येन चैतन्यात्मना जीवभेद-स्तस्मिन् चैतन्ये स्वप्नादिद्रष्ट्रत्वायोगादिति भाव ॥ विशेषेणेति ॥ असङ्गत्वस्वप्नादि-दृष्ट्रत्वरूपनिरवकाशविशेषणद्वयेत्यर्थ । एतेन स्वप्नादिदृष्ट्रजीवे एव प्रसिद्धि । चशब्दा-द्योगोऽपि जीव एव विशेषणमहिम्ना भेदप्रतीते । एवशब्दार्थकचशब्दान्नेश्वर । स्वप्नादिद्रष्टा तस्याशरीरत्वप्रसिद्धेरिति भाष्येण जितं भवति । न जीव पर एवासङ्ग इति भाष्ये स्वप्नादिद्रष्ट्रत्वमिव वक्ष्यमाणानुसारेण स्वप्नादिद्रष्टेत्यन्वेति । तथा च स्वप्नादिद्रष्टा पर एव न जीव यतो सङ्ग इति योजयति ॥ स्वप्नादिद्रष्टेति ॥

असङ्गत्विलङ्गस्य निरवकाशत्वप्रतिपादनपरत्वेनापि साध्यं योजयति ॥ यतोऽसङ्ग इति ॥ असङ्गमस्पर्शमित्यादिश्रुतौ प्रसिद्धेरिति भाव । प्राज्ञेनात्मनेत्यादियोजयितुमाह ॥ न चेति ॥ सूत्रे सुषुप्तिपदलब्धयुक्तिं वक्तुमाह ॥ न चायमिति ॥ स्वाप्यय सुप्ति सम्पत्तिर्मुक्ति अन्यतर शब्दयुक्तिउभयपर । श्रुतिप्रकरणं सुप्तिमुक्त्युभयपरं हि यस्मादुभयविषयत्वमाविष्कृतं स्पष्ट-मिति॥ न केवलं सूत्रबलात्सुप्तिप्रकरणस्य मुक्तिपरत्वं किन्तु तत्प्रकरणे मुक्तिलिङ्गाच्चेत्याह ॥ एतेनाविष्कृतमिति युक्तम् । इत्यादीत्यादिपदेन अत्र पिता भवतीति तीर्णो हि तद् सर्वान् शोकानित्यादे सङ्ग्रह । स्वप्नादिद्रष्ट्रत्वं चेति भाष्येष्वेवकारमयोगव्यवच्छेदकतया । तस्य स्वप्नादिदृष्ट्रत्वं सर्वज्ञत्वाद्युज्यत एवेति सङ्गततया व्याचष्टे ॥ न विष्णोरिति ॥ अन्ययोग-व्यवच्छेदकतयापि तद्य्वाचष्टे ॥ किं नामेति ॥ विद्यमानाशेषार्थज्ञत्वं हि सर्वज्ञत्वं वैधर्म्याच्च । नन्वित्यादिनेति तदसत्वमुच्यते । कथमीश्वरस्य तज्ज्ञानमित्यत आह ॥ पदार्थानामिति ॥ तदारोपितजाग्रत्वस्यासत्वं वैधर्म्यसूत्रोक्तमिति भाव । स्वाप्नपदार्थदर्शनस्य तत्र मुख्यत्वं च सर्वजीवगतस्वप्नावस्थानिर्मातृत्वेन तत्प्रदर्शकत्वेनेत्यादिरूपेण ध्येयम् । उक्तं हि चन्द्रिकायां कार्त्स्नेन स्वानां वस्तूनां द्रष्टा सर्वस्य हीश्वर । न युज्यते सङ्कोचोत्यसङ्कोचस्य सम्भवेति । विशेषणद्वयसमानाधिकरण्यान्यथानुपपत्तेरिति परोपन्यस्तभेदप्रमाणमिति पर एवासङ्ग । स्वप्नादिद्रष्ट्रत्वं च तस्यैवेति भाष्येणैवोपस्तितमित्याह ॥ एवमिति ॥

ननु सम्प्रसादेरत्वेत्यादिना दृष्ट्वैव पापं चेति पुण्यपापवत्वादिरूपजीविलङ्गानां स अनन्वागतं पुण्येनानन्वागतं पापेनेत्यादिब्रह्मिलङ्गानां च स्वप्नादिद्रष्टरि प्रतीयमानत्वादन्यथानु-पपत्यैक्यविवक्षा ज्ञायत इत्यत आह ॥ तत्र प्रतीतेति ॥ "शुभाशुभन्तु दृष्ट्वैव स्वप्ने जागरितेऽपि च । असंसृष्ट सदा दुखैश्चरतीश पुन पुन’ इति बृहदारण्यकभाष्यादित्यर्थ । सूत्रे व्यपदेशादित्यनुवर्तते । स्वप्नादिदृष्टेति योग्यतया लभ्यते । असङ्गत्वव्यपदेशाद्विष्णुरेव स्वप्नादिद्रष्टा न जीव । न चासङ्गत्वं जीवे सावकाशं विष्णुरेवासङ्गो न जीव असङ्गमस्पर्श-मित्यादिव्यपदेशात् । न चाभेदविवक्षया जीवोऽसङ्ग इति वाच्यम् । सुषुप्त्युत्क्रान्तिप्रकरणयो-र्भेदेन जीवेशयोर्व्यपदेशादिति सूत्रार्थ ।

तत्त्वसुबोधिनी

अथ ते यदन्तरेति अर्थान्तरत्वेति श्रुतिसूत्रयो "अरूपो भूतवर्जनादिति’ प्रमाणानुसारेण रूपराहित्ये भूतासङ्गतत्वस्य हेतुत्वेनाभिप्रेतत्वात् ॥ असङ्गो ह्ययमिति ॥ असङ्गतयोक्त-स्वप्नादिद्रष्टु विष्णोरन्यत्वे प्रागभिप्रेतासङ्गत्वमप्यन्यस्यैव स्यादित्याक्षेपसम्भवादिति पूर्वाधि-करणसङ्गति द्रष्टव्या । भाष्योदाहृते स यत्तत्रेत्यादिश्रुत्यंशे तत्रेत्यनेन परामृश्यापरिज्ञानात् स्वप्नादिद्रष्टृत्वस्य प्रत्येतुमशक्यत्वात्तत्पूर्वांशमुदाहरति । स वा एष इत्यादिना ॥ विशेषणद्वय-सामान्याधिकरण्येति ॥ असङ्गत्वस्वप्नादिद्रष्ट्रत्वविशेषणद्वयसामानाधिकरण्यान्यथानुपपत्तेत्यर्थ ॥ सुषुप्तिप्रकरणस्येति ॥ तथा च मोक्षे विद्यमानत्वान्न तस्य व्यावहारिकत्वमिति भाव ॥अनन्वागतपुण्येनेति ॥ आदिपदेन अत्र पिताऽपिता भवति’ इत्यादे "तीर्णो हि सर्वान्शोकान्हृदयस्य भवति’ इत्यादेर्ग्रहणम् । सुषुप्तिप्रकरणस्य मोक्षपरताया अभावे जीवपरत्वे तस्य पुण्यादिनाऽनन्वागतत्वाद्यनुपपत्तेरित्यर्थ ।

ननु स्वप्नादिदृष्ट्रत्वस्योक्तरीत्येश्वरनिष्ठत्वेन असङ्गतत्वेन सह विरोधाभावेऽपि सम्प्रसादे रत्वा चरित्वेत्याद्युक्तिलङ्गानामनन्वागतस्तेन भवतीत्याद्युक्तेश्वरिलङ्गैसह कथं सामानाधि-करण्योपपत्तिरित्यत आह तत्र प्रतीतेति ॥ "शुभाशुभं तु दृष्ट्वैव स्वप्ने जागरितेऽपि च । असंसृष्ट सदा दुखैश्चरतीश पुन पुन इत्यादिबृहदारण्यकभाष्यादुक्तोभयविधिलङ्गोक्ति युक्तेत्यन्वय॥

वाक्यार्थमञ्जरी

उक्तम् अक्षराधिकरणे ॥ स वा एष इति ॥ स एव परमात्मैव सम्प्रसादे सम्यक् प्रसीदति जीवोऽस्यामिति सम्प्रसाद सुप्तिस्तस्मिन् रत्वा रमणङ्कृत्वा पुण्यं च पापं च दृष्ट्वैव चरति चरित्वा च प्रतिन्यायं प्रतिकालं प्रतियोनि प्रतिजीवं पुनस्वप्नायैव जीवस्य स्वप्नप्राप्तय एवाद्रवति दृष्ट्वैवेत्येवकारव्यवच्छेद्यमाह ॥ स इति ॥ स परमात्मा तत्र सुप्तौ यत्किञ्चित्पापं पश्यति तेन पापफलेन दुखेनानन्वागत असंस्पृष्टो भवति । कुत इत्यत उक्तम् ॥ असङ्ग इति ॥ हि यस्मादयं पुरुष असंग तत्तत्कृतपापफलसंसर्गशून्यस्तस्मात्तेनानन्वागत इत्यर्थ ॥ जीवेऽ-पीति॥ देहेन्द्रियान्तकरणचैतन्यसङ्घातरूपेऽपीत्यर्थ ॥ मुख्यतोऽसङ्गत्वादिति ॥ जीवेत्वेक-देशविवक्षयोक्तमसङ्गत्वममुख्यमिति भाव । ईश्वरे शुद्धे ॥ विशिष्टेति ॥ देहादिविशिष्टेत्यर्थ ॥ विशेषणद्वयेति ॥ असङ्गत्वस्वप्नादिद्रष्टृत्वरूपविशेषणद्वयेत्यर्थ ॥ ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ नोक्तरीत्या जीवेशयोरभेदो मन्तव्य प्राज्ञेनात्मना सम्परिष्वक्त इति सुप्तिप्रकरणे प्राज्ञेनात्मनान्वारूढ इत्युत्क्रान्तिप्रकरणे च जीवेशयोर्भेदेनोक्तत्वादित्यर्थ । वक्ष्यति चतुर्थाध्याये ॥ स्वाप्ययेति ॥ तीर्णो हि तदा सर्वाल्लोकान्हृदयस्य भवतीति वाक्यस्य स्वर्गस्थविषयत्व-शङ्कापराकरणायेदं सूत्रम् । स्वाप्ययो मुक्ति सम्पत्तिसुप्ति तीर्णो हीति वाक्यं सुप्तिमुक्ति-विषयमेव न स्वर्गस्थविषयं कुत अत्र पिताऽपिताभवत्यनन्वागतं पुण्येनानन्वागतं पापेनेत्यादिना पितृत्वपुण्यपापाद्यसङ्गत्वादिलिङ्गश्रवणादस्य वाक्यस्य सुप्तिमुक्तिविषयत्वस्याविष्कृतत्वात् स्फुटं प्रतीयमानत्वात्स्वर्गस्थस्य श्राद्धादिभोक्तु तदसम्भवादिति सूत्रार्थ । मोक्षपरत्वाभावे बाधकं चाह ॥ अनन्वागतमिति ॥ पुण्याद्यश्लेष्यस्य मुक्तिमात्रिलङ्गत्वादिति भाव । नन्वस्त्वेवं सुषुप्तिप्रकरणस्य मोक्षपरत्वं ततकिमायातं भेदोव्यावहारिक इत्यत्रेत्यत आह ॥ मोक्षे चेति ॥ परिभाषामात्रं सङ्केतमात्रं न तु पराभिप्रेतमविद्यातत्कार्ययोरन्यतरत्वरूपं तदानीमविद्याया निशेषनाशादिति भाव । ननु स्वप्नादेर्मिथ्यात्वात्तद्रष्टृत्वे ईश्वरस्य भ्रान्तत्वप्राप्त्या कथं तत्र तन्मुख्यमित्यत आह ॥ स्वप्नपदार्थानामिति ॥ ननु स्वप्नादिद्रष्टृत्वस्योक्तरीत्या ईश्वरनिष्ठत्वेना-सङ्गतत्वेन सह विरोधाभावेऽपि सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं पापं चेत्याद्युक्तिलङ्गानाम-नन्वागतस्तेन भवतीत्याद्युक्तेश्वरिलङ्गै सह कथं सामानाधिकरण्योपपत्तिरित्यत आह ॥ अत्र प्रतीतेति ॥ "शुभाशुभन्तु दृष्ट्वैव स्वप्ने जागरितेऽपि च । असंस्पृष्ट सदा दुखैश्चरतीश-पुनपुन’ इति बृहदारण्यकभाष्यादुक्तोभयिलङ्गोपपत्तिर्द्रष्टव्येत्यर्थ ॥

॥ इति सुषुप्त्यधिकरणम् ॥