ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ
८. अथ शब्दमूलत्वाधिकरणम्
सूत्रभाष्यम्
।। ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ।। २८ ।।
न चेश्वरपक्षेऽयं विरोधः । ‘योऽसौ विरुद्धोऽविरुद्धो मनुरमनुरवाग्वागिन्द्रोऽनिन्द्रःप्रवृत्तिरप्रवृत्तिः स परः परमात्मा’ इति पैङ्ग्यादिश्रुतेरेव । शब्दमूलत्वाच्च न युक्तिविरोधः ।
‘यद्वाक्योक्तं न तद्युक्तिविरोद्धुं शक्नुयात्क्वचित् ।
विरोधे वाक्ययोः क्वापि किञ्चित्साहाय्यकारणम्’ इति ।।
पुरुषोत्तमतन्त्रे ।
सत्तर्कदीपावली
तर्को न्यायरूपः वाक्ययोः परस्परविरोधपरिहारेण विषयव्यवस्थापनाया उपयुक्तो न स्वतन्त्रः परवस्तुनिप्रवर्तते । तदेतदाह ।। श्रुतिरित्यादिना ।।
तत्त्वप्रदीपिका
न चेश्वरपक्षे कृत्स्नैकदेशविकल्पेन कर्तृत्वविरोधः । श्रुतेस्तु शब्दमूलत्वात् ।। विरुद्धः लौकिक-कर्तृविरुद्धलक्षणः । अविरुद्धःप्रमाणतः । अस्यान्यो मन्ता नास्तीत्यमनुः । अवाक् स्वतन्त्र-वक्त्त्रन्तररहितः । अनिन्द्रः अन्येश्वरवर्जितः । अप्रवृत्तिःप्रवर्तकशून्यः । आदिशब्दः शाखान्तर-द्योतकः ।
तत्त्वप्रकाशिका
अत्र विष्णोः सर्वकर्तृत्वे कृत्स्नप्रसक्त्यादियुक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सर्वकर्तृत्वं विष्णोरुक्तम् । तस्य च युक्तिविरोधे लक्षणसूत्रानुपपत्तेरवश्यमसौ निराकर्तव्यः । तत्स्रष्टृत्वं विषयः । किं विष्णोर्युक्तमयुक्तं वेति सन्देहः । उक्तन्यायो दोषदर्शनं च सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । जीवकर्तृत्वपक्षोक्तदोषस्यात्रापि सम्भवति । तथा हि । किमीश्वरः कार्येषु सर्वशक्त्याप्रवर्तते तदेकदेशेन वा । नाद्यः । तृणादानादावपि कृत्स्नप्रसक्तेः । न द्वितीयः । ‘नेह नानास्ति किञ्चन’ इत्यादि श्रुतिव्याकोपात् । न हि वक्तुं युक्तमयं दोषो जीवपक्ष एव नेश्वरपक्ष इति । ईश्वरे तदस्पर्शनिमित्तस्य जीवादतिशयस्यादर्शनात् । विशेषमन्तरेणापि दोषास्पर्शे किं जीवेनापराद्धम् । एतेन जीवस्येश्वराधीनकर्तृत्वाङ्गीकारेण कृत्स्नप्रसक्त्यादिदोषपरिहारः प्रागुक्तोऽप्ययुक्तः । अतो युक्तिविरोधान्न विष्णोर्जगत्कर्तृत्वलक्षणं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। श्रुतेरिति ।। नेश्वरकर्तृत्वे युक्तिविरोधः । ‘योऽसौ विरुद्धः’ इत्यादिश्रुतौ लोकविरुद्धधर्माणामीश्वरेऽविरुद्धत याव-स्थानोक्तेः । ननु श्रुत्युक्तत्वेऽपि युक्तिविरुद्धं कथमुपैतुं शक्यम् । अन्यथा जीवेऽपिप्रत्यक्षबलादभ्युप-गन्तव्यमविशेषादिति चेत् । मैवम् । भवेज्जीवप्रतिबन्द्येश्वरे युक्तिविरोधो यदि विशेषाभावो भवेत् । न चैवं शब्दैकसमधिगम्यत्वस्य युक्तिविरोधपरिहारोपयोगिनः परमेश्वरे श्रुत्यादिसिद्धत्वाज्जीवे तदभावात् । न हि शब्दैकसमधिगम्यवस्तुनि युक्तिविरोधः । यथाप्रत्यक्षाविषये नप्रत्यक्षविरोध इति भावः । विरुद्धो लोकदृष्ट्या अविरुद्धःप्रमाणैः न मन्ता वक्ता स्वामीप्रवर्तको यस्यासौ तथोक्तः । शब्दैकसमधिगम्ये न युक्तिविरोध इत्यत्र स्मृतिं चाह ।। यदिति ।।
गुर्वर्थदीपिका
‘योऽसौ विरुद्ध’ इत्यत्राणुत्वमहत्वे यौगपद्येन कथ्यमाने यः परमात्मा लोकदृष्ट्या विरुद्धः, विरोधवान् । ‘अणोरणीयान्महतो महीयान्’ इत्यादिप्रमाणैरविरुद्धः । लोकदृष्ट्या मनुः मनन-योग्यः, ‘यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’ ‘नाहं विदाम्यहममी मुनयः सुरेशाः’ इत्यादिप्रमाणैरमनुः आन्तं मननायोग्यः लोकदृष्ट्या वाक् वक्तुं योग्यः, ‘सन्त्यश्रुता अपि नैवात्र शङ्का’ । ‘यतो वाचो निवर्तन्त’ इत्यादिप्रमाणैरवाक् आन्तं वक्तुमयोग्यः । लोकदृष्ट्या इन्द्रः । अर्शवान् अर्श इतिवत् इन्द्रवान् । कृष्णरामाद्यवतारेषु विश्वामित्रनारदादीनामभिवादनदर्शनात् । ‘मत्तः परतरं नान्यत्’ ‘न दैवं केशवात्परम्’ इत्यादिप्रमाणैरनिन्द्रः न विद्यते इन्द्रो यस्येति विग्रहः । लोकदृष्ट्याप्रवृत्तिःप्रवर्तकत्वात्, ‘नाहं किञ्चिदुपाश्रित’ इत्यादिप्रमाणैरप्रवृत्तिरिति योजना । न हि शब्दैकसमधिगम्येत्यनेन यथा शब्दो वक्ति तथैव सोऽङ्गीकार्यः । न तु लोक-दृष्ट्या विरोधः शङ्कनीय इति सूचितम् ।
भावबोधः
कृत्स्नप्रसक्त्यादियुक्तिविरोधपरिहारादिति ।। अत्रादिपदेन निरवयवत्वशब्दकोप-शरीरेन्द्रियादिविकलत्वाधिष्ठानराहित्यादिलक्षणविरोधिबहुयुक्तिग्रहणम् । ततश्चानुव्याख्याने ‘बहुयुक्तयः’ इत्यनेनैवैतदधिकरणोपाधिरपि सङ्गृहीत इति भावः । अनेन ‘कृत्स्नप्रसक्तिः’ इति पूर्वसूत्रे जीवकर्तृत्वपक्षोक्तदोषस्येश्वरपक्षे उद्धारादनन्तरसङ्गतिरपि सूचिता । किं विष्णोरिति ।। अत्र विष्णोर्जगज्जन्मादिकर्तृत्वं किं युक्तिविरुद्धम् उत नेति चिन्ता । तदर्थमीश्वरकर्तृत्वपक्षेऽपि कृत्स्नप्रसक्त्यादिदोषः प्राप्नोत्युत नेति । तदर्थमन्यत्र विरुद्धत्वेन दृश्यमानं किमीश्वरेऽपि विरुद्ध-मेवोताविरुद्धमिति । तदर्थं शब्दैकसमधिगम्यत्वविचित्रशक्तिरूपविशेषेण तत्र विरोधपरिहारो न सम्भवत्युत सम्भवतीति । तदर्थमीश्वरपक्षवदेव जीवपक्षेऽपि चेतनत्वादिविशेषेण विरोधपरिहारः स्यादित्यतिप्रसङ्गः किं प्राप्नोत्युत नेति । तदर्थमीश्वर एवप्रतीतविरोधस्यादोषत्वे जीवेप्रतीत-विरोधस्य दोषत्वे चप्रमाणं नास्त्युतास्तीति । न जीवाद्विशेषादर्शनं परमेश्वर इति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न हि वक्तुमिति ।। शब्दैकसमधिगम्यत्वस्येति ।। युक्तिविरोधनिरासकविचित्रशक्तिसद्भावादित्यनेन च शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीव इति न्यायविवरणमपि व्याख्यातम् ।। तथोक्त इति ।। ‘अमनुरवागनिन्द्र अप्रवृत्तिरित्युक्त’ इत्यर्थः ।
भावदीपः
ईश्वरपक्षेऽयं विरोध इति भाष्यानुरोधादाह ।। कृत्स्नप्रसक्त्यादीति ।। निरवयवत्वमादिपदार्थः ।। युक्तीति ।। व्याघातपर्यवसायियुक्तीत्यर्थः । एतच्चिन्तायाः सङ्गतिसाफल्ये वक्ति ।। सर्व-कर्तृत्वमिति ।। न चेश्वरपक्षेऽयं विरोध इति भाष्यं नञ्परित्यागेन व्याचष्टे ।। जीवकर्तृत्वेति ।। कृत्स्नप्रसक्तेरिति ।। न चेष्टापत्तिः । प््रोक्षावत्त्वभङ्गप्रसङ्गादिति भावः । जीवाद्विशेषादर्शनं परमेश्वर इति न्यायविवरणस्य शब्दमूलत्वादित्यादिसूत्रव्यावर्त्यमत्र शङ्कापूर्वं योजयति ।। न हीति ।। नन्वेवं यद्धि युक्त्या विरुध्येत तदीशकृतमेव हीति प्राचीननयभाष्येण कथं जीवकर्तृत्वोपपत्ति-रुक्तेत्यत आह ।। एतेनेति ।। ईश्वरे जीवाद्विशेषादर्शनेनेत्यर्थः । एतत्सिद्धान्तसिद्धमचिन्त्य-शक्तित्वं तस्योपेत्य तदीशकृतमेवेति समाधानस्य शिष्यहितार्थं तत्रोक्तावप्यत्र पूर्वपक्षे तस्या-संमतेरिति भावः ।। अत इति ।। कृत्स्नप्रसक्त्यादिदोषसम्भवात्तदपवादकस्य विशेषस्य चादर्शना-दित्यर्थः । यद्वा जीवाद्विशेषादर्शनेन कृत्स्नप्रसक्त्यादियुक्तिविरोधादित्यर्थः । पूर्ववदत्रापि तुशब्दो जीवसाम्यव्यावर्तक इति भावेन न चेश्वरेत्यादिभाष्यं तस्य प्रागेव विवृतत्वात्तद्भावविवरणफलं न युक्तिविरोध इत्येतदेवानुवदन् भाष्यं व्यनक्ति ।। नेश्वरेति ।। शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीवे । न जीवाद्विशेषादर्शनं परमेश्वरे विशेषश्रुतेरेवेति न्यायविवरणरीत्या शब्दमूलत्वाच्चेत्येतच्छङ्कापूर्वं व्यनक्ति ।। नन्विति ।। श्रुत्यादीति ।। ‘नावेदविन्मनुते’ तमित्यादि श्रुतिस्मृतिसिद्धत्वादित्यर्थः । एतेन विशेषश्रुतेरेवेति श्रुतिपदमुपलक्षणमिति दर्शितम् । भाष्योक्त-श्रुत्यर्थमाह ।। विरुद्ध इति ।। तथोक्त इति ।। अमनुरवागनिन्द्रोऽप्रवृत्तिरित्युक्त इत्यर्थः ।
अभिनवचन्द्रिका
कृत्स्नप्रसक्तेति ।। नन्विष्टापादनमेतत् । कृष्णकेशस्यापि पूर्णब्रह्मत्ववत् तृणादानादिशक्तेरपि पूर्णशक्तित्वादिति चेत्, न । यद्येकदेशोऽपि पूर्णः स्यात्, तर्हि एकदेश एव न स्यात्, एकदेशः कृत्स्नश्चेत्यस्य व्याहतत्वात् । तथा च परेणाङ्गीकृतत्वेऽपि तस्य प्रमाणविरुद्धत्वेन अनिष्टत्वेनापादनसम्भवात् । नन्वयं दोषः जीवस्वातन्त्र्याङ्गीकार एव न तु परमेश्वरस्वातन्त्र्याङ्गी-कारे । तस्य परमैश्वर्यसम्पन्नत्वेन जीवादुत्कृष्टत्वात् । न हि परमाशक्तस्य मुमूर्षोः गुरुतर-भारोद्वहनादिकर्तृत्वाङ्गीकारे यो दोषः स दृढाङ्गस्यापि तदङ्गीकारे भवतीत्याशङ्क्य निषेधति– न हि वक्तुं युक्तमिति ।। कुतो न युक्तमित्यत आह – ईश्वरे तदस्पर्शनिमित्तस्येति ।। सत्यमीश्वरस्य परमैश्वर्यं जीवव्यावृत्तमस्ति, नासौ ईश्वरस्वातन्त्र्याङ्गीकर्तुः कृत्स्नप्रसक्त्यादि-दोषनिरासहेतुः, किन्तु कार्त्स्न्यप्रवृत्त्यवयवप्रवृत्ती विना प्रकारान्तरेणेश्वरस्य प्रवृत्तिमत्त्वमेव तत्स्वातन्त्र्याङ्गीकर्तुर्दोषनिरासहेतुः, न चासावीश्वरेऽस्तीति कृत्स्नप्रसक्त्यादिदोषानिरास इति भावः ।। शब्दैकसमधिगम्य इति ।। अनुमानं तावत् न स्वातन्त्र्येणार्थं साधयति, किन्तु प्रत्यक्षमनुमानं वोपजीव्यैवार्थं साधयतीत्यविवादम् । ततश्च परमेश्वरस्यातीन्द्रियत्वादाग-मोपजीव्यनुमानमेव विरोधीति वक्तव्यम् । न च तत् सम्भवति । उपजीव्यविरुद्धत्वेन स्वस्यैवा-प्रामाण्यादिति भावः ।। प्रत्यक्षाविषय इति ।। रामकृष्णादौ दोषग्राहिप्रत्यक्षवदित्यर्थः । ‘अमनुः, अवाक्, अनिन्द्रः, अप्रवृत्तिरिति’ पदचतुष्टयं युगपद्व्याचष्टे – न मन्तेत्यादिना ।। न विद्यते मन्ता यस्यासावमनुः । न विद्यते वक्ता यस्यासाववाक् । न विद्यते इन्द्रः स्वामी यस्यासावनिन्द्रः । न विद्यते प्रवर्तको यस्यासावप्रवृत्तिरिति विवेकः ।
वाक्यार्थमुक्तावली
कृत्स्नप्रसक्त्यादीत्यादिपदेन निरवयवत्वशब्दकोपाशरीरेन्द्रियादिविकलत्वाधिष्ठानादि-राहित्यादिलक्षणविरोधिबहुयुक्तिग्रहणम् । ततश्चानुव्याख्याने बहुयुक्तय इत्यनेनैतदधिकरणोपाधिरपि सङ्गृहीत इति भावः । न चारम्भाधिकरण एवोपलक्षणत्वेन बहुयुक्तिविरोधानामशेषाणां परिहृत-त्वाद्व्यर्थमिदं सूत्रमिति वाच्यम् । अखण्डे ब्रह्मण्येकदेशैकदेशिभावस्य व्याहतत्वात् व्याघात-पर्यवसायित्वेनातिप्रबलयुक्तिविरोधस्यात्राशङ्कित्वादिति भावेन कृत्स्नेतिसूत्रे जीवकर्तृत्वोक्तदोष-स्येश्वरपक्षे उद्धारानन्तरसङ्गतिरप्युक्ता भवतीति ज्ञेया ।। किं विष्णोरिति ।। अत्र पूर्वोक्तं विष्णोः सर्वकर्तृत्वं न युक्तमुतयुक्तमिति चिन्ता । तदर्थं तस्य सर्वकर्तृत्वे कृत्स्नप्रसक्त्यादिदोषोऽस्त्युत नेति । तदर्थमन्यत्र युक्तिविरुद्धं ब्रह्मण्यपि तद्विरुद्धं न वेति । तदर्थं ब्रह्मणि तद्विरोधः तस्य तर्कागोचरत्वाद्यटितघटनाशक्तिभ्यां सुपरिहर उत नेति । न चेश्वरपक्षेऽयं दोष इति भाष्यसूचितपक्षमाह ।। जीवकर्तृत्वपक्ष इति ।। कृत्स्नप्रसक्तिरिति ।। न चेष्टापत्तिः प््रोक्षावत्व-भङ्गप्रसङ्गात् । तथा चेश्वरस्य व्याघात इति भावः ।। श्रुतिव्याकोपादिति ।। भिन्नांशाभावादिति भावः । न च विशेषबलादंशांशिभावः । जीवेश्वरमनुपेत्य विशेषबलादेवाविरोधो तदंशांशस्यापि शब्दमूलत्वात् । आत्मनि चैवमित्यादि सूत्रव्यावर्त्यं विशेषादर्शनमित्युक्तपूर्वपक्षं व्यनक्ति ।। न हीति ।। प्रागुक्त इति जीवस्येश्वराधीनकर्तृकृत्स्नप्रसक्त्यादिदोषप्रसङ्गः । न चैतद्युक्तमत ईश्वराधीनकर्तृत्वमङ्गीकार्यमिति तर्कस्य विपर्ययपर्यवसानेन सूचित इत्यर्थः । न च यत्तु युक्त्या विरुध्येत तदीशकृतमेव हीतीश्वरस्याचिन्त्यशक्त्युक्त्या दोषस्य प्रागपाकृतत्वात् कथं तदापकरण- मगतार्थता चेति वाच्यम् । एतदधिकरणप्रमेयस्य भाष्यकृता शिष्यहितार्थं तत्रोक्तत्वात् । स्पष्ट-मेतत्सुधायाम् ।। लोके विरुद्धधर्माणामिति ।। अखण्डत्वैकदेशित्वादिविरुद्धधर्माणामित्यर्थः ।। यदि विशेषाभावो भवेदिति ।। एतेन सौत्रस्तुशब्दो विशेषोऽर्थोऽपीत्युक्तं भवति ।। श्रुत्यादीति ।। एतेन श्रुतेरित्येतदावर्तत इत्युक्तं भवति ।। जीव इति ।। एतेन शब्दैकसमधिगम्यत्वसर्वशक्ति-त्वादिविशेषाणामदर्शनं जीव इति न्यायविवरणोक्तरीत्या सिद्धान्तन्न्यायोऽप्युक्तो भवति । अमनुरित्यादौ विग्रहमर्थं वदन् युगपदेन दर्शयति ।। न मन्ता वक्तेति ।। न मन्ता यस्य सोऽमनुः । न वक्ता यस्य सोऽवागित्यादि द्रष्टव्यम् । सूत्रे ईश्वरपक्ष इति शेषः । उप सहानदर्शनादित्यतो नेति वर्तते । कृत्स्नप्रसक्तिसूत्रं चात्रानुषज्यते । तुशब्दोऽवधारणे विशेषे च । ततश्च नेश्वरपक्षे कृत्स्नप्रसक्तिः निरवयवत्वशब्दकोपो वा युक्तिविरुद्धधर्माणामप्यविरोधेनावस्थान-प्रतिपादकश्रुतेरेव विद्यमानत्वात् न पुनर्जीव इवप्रत्यक्षमित्येवार्थः । न च प्रापकसाम्यात्पक्ष-द्वयसाम्यम् । किं त्वात्मनि तु जीवाद्विशेषोऽस्ति । कुतः आत्मनः शब्दमूलत्वात् । शब्दैक-समधिगम्यत्वात् तथा श्रुतेरिति सूत्रार्थः ।
तत्त्वसुबोधिनी
कृत्स्नप्रसक्त्यादियुक्तिविरोधपरिहारादिति ।। अत्र आदिपदेन निरवयवत्वशब्दव्याकोप-शरीरेन्द्रियादिविकलत्वाधिष्ठानराहित्यादिलक्षणविरोधि बहुयुक्तिग्रहणम् । अत्र यदि कृत्स्न-प्रसक्तिर्निरवयवत्वशब्दव्याकोपादिदोषदुष्टत्वात् न जीवस्य कर्तृत्वं तर्हि कृत्स्नप्रसक्त्यादिदोषाणां ईश्वरपक्षेऽपि साम्यान्नेश्वरस्य जगत्कर्तृत्वमिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। जीवेति ।। जीवकर्तृत्वाङ्गीकारे उक्तस्य कृत्स्नप्रसक्त्यादेः विष्णुपक्षेऽपि साम्यादित्यर्थः ।। तृणादानादाविति ।। न चेष्टापत्तिः । लोके दृष्टत्वेनानुभवविरोधादिति भावः ।। नेहेति ।। तत्रैकदेशाद्यभावस्योक्तत्वादिति भावः ।। ननु कृत्स्नप्रसक्त्यादिदोषः जीवकर्तृपक्षस्यैव बाधको, नेश्वरपक्षस्येत्यत आह ।। न हि वक्तुमिति ।। कुतो नेत्यत आह ईश्वरे इति ।। जीवापेक्षया ईश्वरे विशेषाभावेऽप्यस्तु दोषास्पर्शः इत्यत आह ।। विशेषमिति ।। यदुक्तं जीवे स्वातन्त्र्येण कर्तृत्वेऽपि कथं कृत्स्नप्रसक्त्यादिदोषाभावः इति शङ्कायां ईश्वराधीनत्वात् न दोषः इति तदप्य-युक्तमित्याह ।। एतेनेति ।। ईश्वरपक्षस्य कृत्स्नप्रसक्त्यादिदोषदुष्टत्वोपपादनेनेत्यर्थः ।। अन्यथेति ।। युक्तिविरुद्धमप्यङ्गीक्रियते चेदित्यर्थः ।। जीवेऽपीति ।। कर्तृत्वमिति शेषः ।। श्रुत्यादिसिद्ध-त्वादिति ।। ‘नेन्द्रियाणि नानुमानम्’ इत्यादिश्रुत्यादिसिद्धत्वादित्यर्थः ।। तदभावादिति ।। शब्दैकसमधिगम्यत्वाभावादित्यर्थः । अस्तु शब्दैकसमधिगम्यत्वं, तथापि युक्तिविरोधः कुतो नेत्यत आह ।। न हीति ।। तथा च युक्त्यविषयत्वान्न युक्तिविरोधःप्रसरतीति भावः । युक्त्य-विषयेऽपि कुतो न विरोधः इत्यतः कुत्राप्यदृष्टत्वादित्याह ।। यथेति ।। विरुद्धः अविरुद्धः इत्येतत् व्याहतमतो व्याचष्टे ।। विरुद्धो लोकदृष्ट्येति ।। तथोक्तः इति ।। अमनुरवाग-निन्द्रोऽप्रवृत्तिरित्युक्त इत्यर्थः ।
वाक्यार्थविवरणम्
नेहेति ।। तत्रैकदेशाद्यभावस्योक्तत्वादिति भावः । ननु कृत्स्नप्रसक्त्यादिदोषो जीवकर्तृत्व-पक्षस्यैव बाधको नेश्वरपक्षस्येत्यत आह ।। न हि वक्तुमिति ।।प्रत्यक्षबलात् ।। अनुभव-बलात् ।। अभ्युपगन्तव्यम् । कृत्स्नप्रसक्त्यादियुक्तिविरुद्धमपि कर्तृत्वमित्यर्थः ।। अविशेषात् ।। युक्तिविरुद्धत्वाविशेषादित्यर्थः ।
वाक्यार्थमञ्जरी
उक्तन्याय इति ।।प्रथमाध्यायोक्तप्रमाणानीत्यर्थः ।। नेह नानेति ।। इह ब्रह्मणि नाना अंशादि विभागो नेत्यर्थः ।। एतेनेति ।। ईश्वरस्य दोषित्वप्रतिपादनेनेत्यर्थः । न हि स्वदोष-परिहाराक्षमः परदोषं परिहरतीति युक्तमिति भावः । नेश्वरस्य कर्तृत्वे युक्तिविरोधः । श्रुतेस्तु लोकविरुद्धधर्माणामीशे अविरुद्धत्वप्रतिपादकयोसाविति श्रुतेरेव । श्रुत्युक्तमपि युक्तिविरुद्धं कथ-मभ्युपेयमित्यत उक्तम् ।। शब्दमूलत्वादिति ।। शब्दैकप्रमाणगोचरत्वादीश्वरस्य न तत्र युक्ति-विरोधः शङ्क्य इत्यर्थः ।। शब्दैकसमधिगम्यत्वस्येति ।। शब्देतरप्रमाणागोचरत्वस्येत्यर्थः ।। तथोक्त इति ।। अमनुरवागनिन्द्रोऽप्रवृत्तिरित्युक्त्येत्यर्थः । स्वयं तु मंतृत्वादेर्मनुरित्याद्युक्त इत्यपि ध्येयम् ।