ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ
४०.काम्याधिकरणम्
सूत्रभाष्यम्
।। ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ।। ६२ ।।
‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ।।
अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।
तुष्ट्यर्थमीश्वरस्यैव नैवोपासा विदुष्यति’ इति बृहत्तन्त्रे ।।
तत्त्वप्रदीपिका
काम्यास्त्वित्यादि सूत्रम् । यस्य यस्य यो धनैश्वर्यादौ कामो भवति तस्य तस्य हि तदर्थ-मुपासनम् । स चोपासकस्तादृशान्गुणानुपसंहरेत्, न मुक्त्यर्थानेव । न वा मुमुक्षूणां काम्योपासनम् । अकामत्वात्तेषां येन मुक्त्यर्थमुपासनं विच्छिद्यते । अतोऽत्यन्तायामापद्येव तदिति गम्यते । तदाऽपि नान्यकामनयैतदुपासनम् । तदपि ह्याह– ‘तुष्ट्यर्थमीश्वरस्यैव न चोपासा विदुष्यति’ इति । ‘सकामेभ्योऽमितगुणा याऽकामैस्तु कृता क्रिया’ इति चान्यत्राऽह ।।
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनस्यैवोपासनस्यावश्यकत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । काम्योपासन-स्याप्यावश्यकत्वे प्रथमपादानुपपत्तिप्रसङ्गात्समर्थनीयम् । प्रकृतोपासनमेव विषयः । कामसाधनभगव-द्रूपगुणविषयं तावत्कर्तव्यमेव । अन्यथा तद्विद्यावैयर्थ्यात् । तत्किमावश्यकं वैकल्पिकं वेति सन्देहः । द्विविधोपासनप्रतीतिः सन्देहबीजम् । आवश्यकमिति पूर्वः पक्षः । मोक्षोपयोगिफलत्वात् । अर्थादिकं हि तत्फलम् । तेन च ज्ञानसिद्धेः । अतः काम्योपासनस्यावश्यकत्वेन वैराग्यस्यानपेक्षितत्वाद्व्यर्थः प्रथमपाद इति । सिद्धान्तयत्सूत्रं पठति ।। काम्यास्त्विति ।। कामसाधनरूपे कामसाधनगुणाः । स्वस्वकामानुसारेणोपसंहर्तव्या न वेति विकल्प एव न तु नियतिः । विकल्पश्चामुमुक्षुभिः कार्यो मुमुक्षुभिर्नेति । मुमुक्षूणां कामाख्यहेत्वभावात् । मुमुक्षुष्वेव वा विकल्पः । फलार्थं न कार्यमीश्वर-प्रसादार्थं कार्यमिति । कुतः । कामाख्यहेत्वभावात्प्रबलहेत्वभावाच्च । न ह्यर्थादिकं विना ज्ञानाभावो नापि तेन नियत्या भवतीति सूत्रार्थः । अत्रैव स्मृतिमाह ।। यस्येति ।। यस्य यस्य पुंसो यो यो वित्तादिकामोऽसावसौ तस्य तस्य तत्कामप्रदरूपस्योपासनं प्रकल्पयेत् । तादृशानां तत्तत्कामप्रदानां गुणानां तत्रोपसंहारं च प्रकल्पयेत्कुर्यादमुमुक्षुरित्यर्थः । अत उक्तरीत्या काम्योपासनस्य वैकल्पिकत्वात्सार्थक्यं वैराग्यपादस्येति सिद्धम् ।।
भावबोधः
ब्रह्मज्ञानसाधनोपासनस्यैवावश्यकत्वसमर्थनादिति । काम्योपासनस्यावश्यकत्वनिरासे ब्रह्म-ज्ञानसाधनोपासनस्यावश्यकत्वं सिध्यतीति भावः । यदि मोक्षोपयोगिफलसाधनत्वेन नृसिंहाद्युपासनं कार्यं तर्हि तेनैव न्यायेन काम्योपासनमपि कार्यमिति पूर्वाधिकरणसिद्धान्तन्यायेनात्र पूर्वपक्षोत्थाना-दनन्तरसङ्गतिरिति भावः । अत एवोक्तं मोक्षोपयोगिफलत्वादिति ।। कामेत्यादि ।। अत्र कामसाधनं भगवद्रूपगुणविषयमुपासनं किमावश्यकमुत वैकल्पिकमिति चिन्ता । तदर्थं तस्यावश्य-मोक्षोपयोगिफलत्वमस्त्युत नास्तीति । तत्साध्यार्थादिकं विना मोक्षो न सम्भवत्युत सम्भवतीति । कामसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियम इति न्यायविवरणानुसारेण पूर्वपक्षमाह– आवश्यकमिति ।। कामसाधना गुणा इति । अनेन कामस्येमे काम्याः सम्बन्धश्च साध्यसाधनरूप इत्युक्तं भवति । यथाकाममित्यस्यार्थः स्वस्वकामानुसारेणेति । ‘‘समुच्चीयेरन्नवा’’ इत्यस्यार्थ उपसंहर्तव्या न वेति विकल्प एवेति ।।
‘तादृशानां गुणानां च समाहारं प्रकल्पयेत् ।
अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।।’
इति स्मृत्यनुसारेण विषयव्यवस्थया विकल्पमेव व्यनक्ति– विकल्पश्चेति ।। कामाख्येति ।। अनेन मुमुक्षातः पूर्वो यः कामः तद्रूपहेत्वभावादिति हेतुवाक्यं ‘अकामत्वान्मुमुक्षूणां’ इति स्मृत्यनुसारेण व्याख्यातं भवति ।
‘तुष्ट्यर्थमीश्वरस्यैव न वोपासा विदुष्यति’
इति स्मृत्यनुसारेण प्रकारान्तरेण व्यवस्थाविकल्पं दर्शयति– मुमुक्षुष्वेवेति ।। उभयत्रापि हेतुप्रतिपादकतया हेतुवाक्यमवतार्य व्याचष्टे– कृत इति ।। हेत्वभावेऽपि नृसिंहाद्युपासनस्य फलान्तरार्थं क्रियमाणत्वेन व्यभिचार इत्यत आह– प्रबलेति ।। दुरितादिप्रतिबन्धकलक्षणहेत्व-भावादित्यर्थः । अनेन पूर्वस्य पूर्वाधिकरणोक्तस्य दुरितप्रतिबन्धकलक्षणस्य हेतोरभावादिति हेतुवाक्यं प्रकारान्तरेण व्याख्यातं भवति । मुमुक्षूणां कामाख्यहेत्वभावादित्यादिनैवानुपसंहारो विरोधाभावादिति न्यायविवरणांशोऽपि कामस्य दुरितादिप्रतिबन्धकस्य चाभावेन तत्प्रयुक्तोप-संहाराकरणे विरोधाभावादिति व्याख्यातः ।
नन्वर्थादेः ज्ञानहेतुत्वस्यैव काम्योपासने प्रबलहेतुत्वात् कथं प्रबलहेत्वभाव इत्याशङ्कानिरासाय प्रवृत्तं काम्यानामनियताङ्गत्वाद्वेति न्यायविवरणं व्याचष्टे– न हीति ।। स्मृतौ यस्य यस्य तस्य तस्येति यत्तच्छब्दयोः सम्बन्ध इति प्रतीतिं वारयन् तां यथावद्व्याचष्टे । यस्य यस्येत्यादिना ।। अमुमुक्षुरिति ।। ‘न वा तेषामुपासनं’ इत्युत्तरवाक्यानुरोधेनामुमुक्षु रित्यध्याहारः ।
भावदीपः
ब्रह्मज्ञानसाधनस्यैवेति ।। अन्यस्यापि मुक्त्युपयोगितयाऽऽवश्यकत्वशङ्कायां तन्निरासेनेति भावः । एतेन मुक्त्यर्थमात्मयोग्यं हि कार्यमेवेति स्मृत्या पूर्वत्र ज्ञानसाधनमेवावश्यकमन्यत्तु नेत्युक्तस्येह समर्थनाद्वा पूर्वसिद्धान्तन्यायेन पूर्वपक्षोत्थानाद्वा पूर्वसङ्गतिरप्यस्य सूचिता ।। प्रथमेति ।। वैराग्यपादेत्यर्थः । अत्र न्यायविवरणे काम्यसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियम इत्युक्तम् । तदयुक्तम् । उपसंहार्यत्वस्यैवासिद्धौ तन्नियमोक्तेरनवसरदुःस्थत्वादित्यतः आध्यानायेति पूर्वोक्तदिशा तत्तद्विद्यावैयर्थ्यानुपपत्त्यैव सिद्धमिति काम्येत्यादेरर्थं वदन्नेवाह ।। कामेति ।। तद्विद्येति ।। अथातो निर्भुजप्रवादाः अथातो निर्भुजवक्ता इत्यादिनोक्तवराहवामननृसिंहादिविद्या इत्यर्थः । तथा यच्छन्दसामृषभ इत्यादिविद्येत्यर्थः ।। द्विविधेति ।। बिम्बाबिम्बोपासनयोः पूर्वोक्तदिशाऽवश्यकत्ववैकल्पिकत्वदृष्टेरिति भावः । अङ्गत्वादेवोपसंहर्तव्यतानियम इत्यन्यत्रोक्त-प्रतिज्ञाहेतू विवृण्वन्नाह ।। अवश्यकमिति ।। मोक्षोपयोगित्वं व्यनक्ति ।। अर्थेति ।। तेन च ज्ञानेति ।। प्रवचनाद्यनुकूलशिष्यादिसम्पादनद्वारा आमायन्तु ब्रह्मचारिणः स्वाहेत्यादेः कर्मकृतिद्वारा वा विविदिषन्ति यज्ञेनेत्यादेरिति भावः ।। अत इति ।। मोक्षोपयोगित्वादित्यर्थः । स्मृत्यनुरोधेन सूत्रार्थं व्यनक्ति ।। कामेति ।। यथाकाममित्यस्यार्थः स्वस्वते ।। समुच्चीयेरन्नेवेत्यस्यार्थः उपसंहर्तव्या न वेति ।। भावमाह ।। विकल्प एव न तु नियतिरिति ।। न वा तेषामिति स्मृत्यनुरोधेन सौत्रवाशब्दोऽधिकारिभेदेन व्यवस्थितविकल्पार्थ इत्याह ।। विकल्पश्चेति ।। मुमुक्षुभिर्नेति ।। कुत इत्यतोऽकामत्वादिति स्मृत्यनुरोधेन सौत्रहेत्वर्थं व्यनक्ति ।। कामेति ।। तुष्ट्यर्थमिति स्मृतिशेषानुरोधेन यथाकामं भगवदिच्छाविशेषरूपप्रसादमनुरुध्य समुच्चीयेरन् यथाकामं चित्तादिकाममनुसृत्य न वेति सूत्रखण्डस्यार्थान्तरमाह ।। मुमुक्षुष्वेवेति ।। कुत इति ।। फलार्थं मुमुक्षुभिर्न कार्यमिति कुत इत्यर्थः । अकामत्वादिति स्मृत्यनुरोधेनानुपसंहारे विरोधाभावादिति न्यायविवरणानुरोधेन च सौत्रहेतुं द्वेधा व्याचष्टे ।। कामेति ।। प्रबलेति च ।। एतेन पूर्वसूत्रोक्तविशिष्टफलत्वरूपहेत्वभावादित्यक्षरार्थ उक्तो ध्येयः । अस्त्वर्थादिकमेव प्रबलहेतुरित्यत आह ।। न हीति ।। यदृच्छालाभसन्तोषादिमतैकाकिनापि तत्सम्भवादिति भावः । कामानामनियताङ्गत्वाच्चेत्यन्यत्रोक्तमाह ।। नापीति ।। अत्रैवेति ।। उक्तसूत्रार्थ एवेत्यर्थः । गुणानां चेति चशब्दानुरोधेन तस्य तस्येत्यस्य रूपपरत्वात्प्रकल्पयेदित्यत्र कर्त्राकाङ्क्षापूरणाय यस्य यस्येत्यस्य प्रतिसम्बन्धिशब्दावाह ।। असावसाविति ।। तत्तत्कामी पुमानित्यर्थः ।। अत इति ।। आवश्यकत्वे पूर्वहेत्वभावादित्यर्थः ।
अभिनवचन्द्रिका
प्रकृतोपासनमेवेति ।। उपासनाप्रसङ्गेन बुद्धौ सन्निधापितं उपासनमेव विषय इत्यर्थः । बुद्धिसन्निहितोपासनाविषयं विवृण्वन् तत्र सन्देहं वक्तुं सिद्धांशं तावदाह– कामसाधनेति ।। सूत्रं योजयति– कामसाधन इति ।। कामसाधनभगवद्रूपे पुत्रकामना चेत्, तत्साधनीभूता गुणाः, द्रव्यकामना चेत् तत्साधनीभूता गुणाः, अन्यान्यकामना चेत् तत्तत्कामसाधनीभूता गुणाः, तत्कामिभिरुपसंहर्तव्याः । अन्येन नेति विकल्प एवेत्यर्थः । इममेव विकल्पं व्यनक्ति– विकल्पश्चेति ।। नेति कोटौ हेतुपरतया पूर्वहेत्वभावादिति सूत्रांशं व्याचष्टे– मुमुक्षूणामिति ।। अनेन ‘पूर्वहेत्वभावात्’ इति सूत्र(स्थं)पदं पूर्वस्य पूर्वकोटेः यो हेतुः धनादिकामना तदभावादिति व्याख्यातं भवति । प्रकारान्तरेण सूत्रं योजयति – मुमुक्षुष्वेव वेति ।। अनेन ‘काम्यास्तु यथाकामं समुच्चीयेरन्न वा’ इति सूत्रखण्डस्य, काम्या गुणाः, यथाकामं मुमुक्षुरूपस्वकामनाविरोधेन उपासने समुच्चीयेरन्, न वा तद्विरोधेन फलकामनया उपासनायां समुच्चीयेरन्निति योजनोक्ता भवति । काम्या गुणा भगवत्प्रसादकामनया उपास्या इत्येतत्कुत इति पृच्छति- कुत इति ।। कामाख्य-हेत्वभावादिति ।। काम्यगुणोपासनप्रवृत्तौ हि कारणद्वयं फलकामना, प्रसादकामना चेति । मुमुक्षोः फलकामनाभावात् । प्रसादकामनाहेतुरिति सिध्यतीति भावः । ननु न भगवत्प्रसादार्थं काम्यगुणोपासनं कार्यम् । तीव्रया बिम्बोपासनयैव भगवत्प्रसादसिद्धेरित्यत आह ।। प्रबलहेत्व-भावाच्चेति ।। यस्य तीव्रबिम्बोपासना वर्तते न कार्यमेव तेन काम्यगुणोपासनम् । यस्य तु नास्ति तेन कार्यमेवेति भावः । अनेन ‘अपूर्वहेत्वभावात्’ इति पदं विच्छिद्य प्रबलहेत्वभावादिति व्याख्यातमिति बोध्यम् । ननु ‘तुष्टोऽर्थेन गुरुर्यस्मात्कैवल्यं दातुमप्यलम्’ इति वचनात्, मोक्षहेतुज्ञानसाधनार्थमेव काम्यगुणोपासनं कार्यमित्यत आह– न ह्यर्थादिकमिति ।। ‘कामः तस्य तस्य भगवद्रूपस्योपासनं कल्पयेत्तद्गुणानां चोपसंहारं च कल्पयेत्’ इत्युक्त्या लब्धमर्थमाह– कुर्यादमुमुक्षुरिति ।।
पूर्वपक्षस्तु– कामसाधनभगवद्रूपोपासनं, तदनुगुणगुणोपसंहारेणावश्यकं, तत्साध्यस्य धनादेर्ज्ञानहेतुत्वात् । अतः काम्योपासनस्याऽऽवश्यकत्वात् व्यर्थः प्रथमः पाद इति ।
सिद्धान्तस्तु– कामसाधनरूपे कामसाधनगुणाः स्वस्वकार्यानुसारेणोपसंहर्तव्या न वेति विकल्प एव । न तु नियतिः । विकल्पश्च अमुमुक्षुभिः कार्यं, मुमुक्षुभिर्नेति । मुमुक्षूणां च कामनाविरहात् । अथवा मुमुक्षुष्वेवायं विकल्पः । फलार्थं न कार्यं, ईश्वरप्रसादार्थं कार्यमिति । अतः कामनोपासनस्य वैकल्पिकत्वात् सार्थक््यं वैराग्यपादस्येति सिद्धम् ।
वाक्यार्थमुक्तावली
ब्रह्मज्ञानसाधनस्यैवेति ।। काम्योपासनस्यावश्यकत्वनिरासे ब्रह्मज्ञानसाधनोपासनस्यावश्यकत्वं सिद्ध्यतीत्यर्थः । यदि मोक्षोपयोगिफलसाधनत्वेन नृसिंहाद्युपासनं कार्यं तर्हि तेनैव न्यायेन काम्योपासनमपि कार्यमिति पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षोत्थानादनन्तरसङ्गतिः ।। प्रकृतोपासनमिति ।। सर्ववेदान्तप्रत्ययमिति कामसाधनभगवद्विद्यायाः प्रकृतत्वात्तत्र कर्तव्यतयोक्तं कामसाधनोपासनं विषय इत्यर्थः । तत्कामावश्यकं वैकल्पिकं वेति संदेह इत्यन्वयः । ननु कर्तव्यमकर्तव्यं वेति कुतो न सन्देह इत्यत उक्तम् ।। कामसाधनेति ।। अत्र कामसाधन-भगवद्रूपगुणविषयमुपासनमावश्यकमुत वैकल्पिकमिति चिन्ता । तदर्थं तत्फलस्य मोक्षोपयोगित्वं नियतमुत नेति । अत्र पूर्वहेत्वभावादिति सूत्रखण्डव्यावर्त्यमङ्गित्वमित्युक्तपूर्वपक्षन्यायं दर्शयति
।। अर्थादिकं हीति ।। ‘वसुपूर्णकरं रत्नं पर्वतस्थं विभावयन् । वसुसिद्धिमवाप्नोति’ इत्यादेरिति भावः ।। तेन चेति ।। ‘तुष्टोऽर्थेन गुरुर्यस्मात् कैवल्यं दातुमप्यलं’ इत्युक्तेरिति भावः ।
सूत्रे तुशब्दः नृसिंहाद्युपासनाद्विशेषद्योतकः । इतिशब्दोऽध्याहार्यः । विकल्प इत्यनुवर्तते । तेनावधारणार्थस्य तोरन्वय इति भावेन सूत्रार्थमाह ।। कामसाधनेति ।। अनेन कामस्येदं रूपं काम्यं तस्य काम्यस्येमे गुणाः काम्याः । सम्बन्धश्च साध्यसाधनलक्षण इत्युक्तं भवति । यथाकामं स्वस्ववित्तपुत्रादिकाममनतिक्रम्येत्यर्थः । स्वस्वेति समुच्चीयेरन्नित्यस्यार्थः । उपसंहर्तव्या इति । विकल्पश्च पुरुषभेदेन व्यवस्थित इत्याह ।। विकल्पश्चेति ।। एतेन विकल्पश्च यथाकामं विषयकामं मोक्षकामं चानतिक्रम्य भवति । विषयलम्पटैकार्थामुमुक्षुभिर्नेति व्यवस्थयेति सूत्रखण्डार्थ उक्तो भवति । मुमुक्षुभिर्नेत्यत्र पूर्वहेत्वभावादिति लिङ्गम् । तस्यार्थो मुमुक्षूणामिति । एतेन मुमुक्षातः पूर्वो यो वित्तादिविषयकामः तदभावान्मुमुक्षूणामित्यर्थ उक्तो भवति । एवं मुमुक्ष्वमुमुक्षुसाधारणचेतनेषु पुरुषभेदेन विकल्पमुक्त्वा मुमुक्षुकोटावेव फलभेदेन विकल्पपरत्वेन व्याचष्टे ।। मुमुक्षुष्वेवेति ।। एतेन काम्याः गुणाः यथाकाममीश्वरप्रसादमनतिक्रम्य तदर्थं मुमुक्षुभिः समुच्चीयेरन् । तैरेव तदन्यफलकामार्थं वा समुच्चीयेरन्नित्यर्थ उक्तो भवति । पूर्वहेत्वभावादित्यस्यार्थः कामाख्येति । तदुपपादनं पूर्ववत् । अर्थान्तरमाह ।। प्रबलेति ।। विशिष्टफलवत्वाख्यपूर्वाधिकरणोक्तप्रबलहेत्व-भावादित्यर्थः । प्रबलहेत्वभावमुपपादयन्न विरोध इत्युक्तन्यायं च व्यनक्ति ।। न हीति ।। मोक्षोपयोगिफलसाधनत्वं हि विशिष्टफलत्वम् । अर्थरूपस्य काम्योपासनफलस्य मोक्षोपयोगफलत्वं च तत्साधनज्ञानहेतुत्वादिति वक्तव्यम् । न चार्थस्य ज्ञानहेतुत्वं व्यतिरेकतोऽन्वयतश्च व्यभिचारात् । तथा चार्थादिहेतूपासनाभावेऽप्यविरोधात् न तस्यावश्यकत्वमिति भावः । स्मृतौ यस्य तस्येति यत्तच्छब्दैरेकविषयत्वं वारयन्नर्थमाह ।। यस्य यस्येति ।।
तत्त्वसुबोधिनी
ब्रह्मज्ञानसाधनेति ।। काम्योपासनस्यावश्यकत्वनिरासे ब्रह्मज्ञानसाधनोपायस्यैवावश्यकत्वं सिध्यतीति भावः । यदि मोक्षोपयोगिफलसाधनत्वेन नरसिंहाद्युपासनं कार्यं तर्हि तेनैव न्यायेन काम्योपासममपि कार्यमिति पूर्वाधिकरणसिद्धान्तन्यायेनात्रपूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। अन्यथा वैयर्थ्यादिति ।। काम्योपासनस्यानावश्यकत्वे काम्यविद्यावैयर्थ्यं स्यादित्यर्थः । कामसाधनगुणा इति ।। अनेन कामस्य साध्याः काम्याः । सम्बन्धश्च साध्यसाधनभाव इत्युक्तं भवति । यथाकाममित्यर्थः ।। स्वकामानुसारेणेति ।। समुच्चीयेरन्न वा इत्यस्यार्थ उपसंहर्तव्या न वेति विकल्प एवेति । विकल्पमेव व्यनक्ति विकल्पश्चेति ।। तादृशानां गुणानां च समाहारं प्रकल्पयेत् । अकामत्वान्मुमुक्षूणां न वा तेषामुपासनमिति स्मृत्यनुसारादिति भावः । कामाख्येति । अनेन मुमुक्षुतः पूर्वो यः कामस्तद्रूपहेत्वभावादिति हेतुर्व्याख्यातं भवति । प्रकारान्तरेण विकल्पं दर्शयति ।। मुमुक्ष्विति ।। तुष्ट्यर्थमीश्वरस्यैव न चोपासा विदुष्यतीति स्मृत्यनुसारादिति भावः । उभयत्रापि हेतुप्रतिपादकतया हेतुवाक्यमवातार्य व्याचष्टे ।। कुत इति ।। हेत्वभावेऽपि नरसिंहाद्युपासनस्य फलान्तरार्थं क्रियमाणत्वेन व्यभिचार इत्यत आह ।। प्रबलेति ।। दुरितादि-प्रतिबन्धकलक्षणप्रबलहेतोरभावादित्यर्थः । अनेन पूर्वस्य पूर्वाधिकरणोक्तस्य दुरितनिबन्धक-लक्षणस्य हेतोरभावादिति हेतुवाक्यं प्रकारान्तरेण व्याख्यातम् । ननु अर्थादेः ज्ञानहेतुत्वस्यैव काम्योपासने प्रबलहेतुत्वात् कथं प्रबलहेत्वभाव इत्यत आह ।। न हीति ।। स्मृतौ यस्य तस्येति यत्तच्छब्दयोः सम्बन्ध इति प्रतीतिं वारयितुं यथावद्व्याचष्टे । यस्य यस्येत्यादिना ।। अमुमुक्षु-रिति ।। न वा तेषामुपासनमित्युक्तवाक्यानुरोधेनामुमुक्षुरित्यध्याहारः ।
वाक्यार्थविवरणम्
कामेत्यादि ।। काम्यपरः कामशब्दः काम्यत इति व्युत्पत्त्या । एवं च काम्यं यत् वस्वादि तत्प्राप्तिसाधनभूतो यः श्रीकरादिभगवद्रूपनिष्ठो गुणः शङ्खप्रसूनाख्यनिधिधारकत्ववसुतर्पकत्वादि-रूपस्तद्विषयं तदुपसंहारपूर्वकमुपासनं ध्यानं कर्तव्यमेव । ‘आदित्यचन्द्रावपि चक्रशङ्खौ शङ्ख-प्रसूनाख्यनिधी दधानः । चिन्त्यः कराभ्यां वसु तर्पयन् सः स्वाङ्कस्थलक्ष्मीगरुडांससंस्थः ।।’ इति विष्णूदिते तन्त्रसारे तथा विहितत्वादित्यर्थः ।। तद्विद्येति ।। कामसाधनभगवद्रूपगुणविषयोपासनस्य कर्तव्यत्वप्रतिपादकविद्येत्यर्थः ।। वैकल्पिकम् ।। अनावश्यकमित्यर्थः ।। द्विविधोपासनेति ।। बिम्बोपासनमावश्यकम् । तदितरोपासनं वैकल्पिकमिति द्विविधसाधनमित्यर्थः ।। फलत्वात् ।। मोक्षोपयोग्यार्थादिफलत्वात् । कथं तदुपासनफलस्यार्थादेर्मोक्षोपयोगित्वमित्यत आह ।। अर्थादिकं हीति ।। तेन अर्थादिना ।। ज्ञानसिद्धेरिति ।। यथोक्तम् । मानुषोऽर्थोऽपि विद्यायाः कारणं सुनियोजितः । तुष्टोऽर्थे न गुरुर्यस्मात् कैवल्यं दातुमप्यलं’ इति । तथा मोक्षोपयोगिज्ञानोप-योग्यर्थफलकत्वेन मोक्षोपयोगिफलकत्वमस्तीति भावः ।। प्रथमपाद इति ।। एतदध्यायस्य प्रथमपादे वैराग्यपाद इत्यर्थः ।। कामाख्येति ।। ईश्वरप्रसादेतरफलविषयककामाख्येत्यर्थः । तेन अर्थेन । भवति ज्ञानमिति शेषः ।
वाक्यार्थमञ्जरी
अनुपपत्तीति ।। रागविरागयोर्विरोधादिति भावः ।। तेन चेति ।। आचार्याय दत्तधनेनेत्यर्थः । ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ।। काम्याः धनादिसाधनेशगुणास्तु यथाकामं वित्तादीच्छानुसारेण समुच्चीयेरन्नुपसंहार्याः मुमुक्षुभिर्न वा कुतः पूर्वहेत्वभावात् मोक्षेच्छातः पूर्वं विद्यमानो यो हेतुः वित्तादिकामाख्यः तेषां तदभावादित्यर्थः । ननु कामाख्यहेत्वभावेऽपि नृसिंहाद्युपासनस्य फलान्तरार्थं क्रियमाणत्वेन व्यभिचार इत्यत आह ।। प्रबलेति ।। दुरितादि-प्रतिबन्धकविलक्षणप्रबलहेत्वभावादित्यर्थः । नन्वर्थादेर्ज्ञानहेतुत्वस्यैव काम्योपासने प्रबलहेतुत्वात्कथं प्रबलहेत्वभाव इत्यत आह ।। न हीति ।। तथा चान्वयव्यतिरेकव्यभिचारान्न तस्य ज्ञानहेतुत्वमिति भावः । स्मृतौ यस्य यस्य तस्य तस्येति यत्तच्छब्दसम्बन्धप्रतीतिं निवारयन् तां यथावद्व्याचष्टे ।। यस्य यस्येत्यादिना ।। मुमुक्षूणां न वेत्युत्तरवाक्यानुरोधेनामुमुक्षुभिरित्यध्याहारः ।
।। इति काम्याधिकरणम् ।। ४० ।।