ॐ आत्मा प्रकरणात् ॐ
३. आत्माधिकरणम्
सूत्रभाष्यम्
।। ॐ आत्मा प्रकरणात् ॐ ।। ३ ।।
परञ्ज्योतिःशब्देन परमात्मैवोच्यते । तत्प्रकरणत्वात् ।
‘परञ्ज्योतिः परं ब्रह्म परमात्मादिका गिरः ।
सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथञ्चन’ इति ब्रह्माण्डे ।। ३ ।।
।। इति आत्माधिकरणम् ।। ३ ।।
तत्त्वप्रदीपिका
परञ्ज्योतिः परमात्मनोऽन्यद्यत्किञ्चित् यत्प्राप्तिमतो लक्षणादिफलं श्रूयत इति च न वाच्यम् । यतः परञ्ज्योतिः शब्देन परमात्मैवोच्यते । ‘आत्माऽपहतपाप्मा’ इत्यादि तत्प्रकरणपठितत्वात् ।। इत्यात्मसम्पत्त्यधिकरणम् ।।
तत्त्वप्रकाशिका
अत्र मुक्तप्राप्यस्य ज्योतिषो ब्रह्मत्वप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ब्रह्मप्राप्त्यनु-पपत्तेः समर्थनीयमेतत् । ‘परं ज्योतिः’ इति श्रुत्युक्तं ज्योतिर्विषयः । विष्णुरन्यद्वेति सन्देहः । उभयत्र शब्दप्रवृत्तिः सन्देहबीजम् । न विष्णुरिति पूर्वः पक्षः । ज्योतिःशब्दस्यादित्येऽपि प्रयोग-दर्शनात् ‘सूर्यमगन्म ज्योतिः’ इत्यादौ । न च विष्णावपि तच्छब्दसद्भावादत्रादित्यग्रहणायोगः । अत्रादित्याङ्गीकारे ‘स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव सा पाप्मना विनिर्मुक्त इति श्रुत्यैकवाक्यत्वलाभात् । तथा चात्र समाख्यानादादित्यमुपसम्पद्य प्रारब्धकर्मणा मुच्यत इत्यर्थः स्यात् । एवं च न मुक्तस्य ब्रह्मसमीपे भोग इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। आत्मेति ।। अत्र परञ्ज्योतिःशब्देन परमात्मैवोच्यते । ‘य आत्माऽपहतपाप्मा’ इति परमात्मन एवात्रारभ्याधीतत्वेनास्य तत्प्रकरणत्वात् । न हि प्रकरणात्समाख्या बलवती । तस्याः सावकाशत्वाच्चेति भावः । नन्वस्य परमात्मप्रकरणत्वेऽपि प्रसङ्गादन्योक्तिः किं न स्यादित्यत आह ।। परमिति ।। भवेदेतत् यदि परञ्ज्योतिःशब्दोऽन्यत्र वर्तेत । नैतदस्ति । स्मृतिविरोधादिति भावः । अतः परञ्ज्योतिर्ब्रह्मैवेति तत्प्राप्याविहायैव मुक्तो भोगान् भुङ्क्त इति सिद्धम् ।।
गुर्वर्थदीपिका
तस्यास्सावकाशत्वादित्यस्य ब्रह्मप्राप्तिमार्गत्वेनापि सूर्यगतिकथनसम्भवादित्यर्थः ।
भावबोधः
ज्योतिषो ब्रह्मत्वेति ।। पूर्वाधिकरणे यज्ज्योतिः प्राप्य भोगभोक्तुर्मुक्तत्वमुक्तं, तस्य ज्योतिष इत्यर्थः । अनेनानन्तरसङ्गतिरुक्ता भवति ।। ब्रह्मप्राप्त्यनुपपत्तेरिति ।। ‘परं ज्योतिरुपसंपद्य’ इत्युक्तब्रह्मप्राप्त्यनुपपत्तेरित्यर्थः ।। विष्णुरिति ।। अत्र परं ज्योतिरित्युक्तं ज्योतिः किमादित्य उत विष्णुरिति चिन्ता । तदर्थम् ‘स तेजसि सूर्यः’ इति समाख्यायाः ‘परं ज्योतिः’ इति वाक्य-स्यादित्यपरत्वसाधकत्वं न सम्भवत्युत सम्भवतीति । तदर्थम् ‘आत्मा’ इत्यादिपरमात्मप्रकरणं समाख्याबाधकं न भवति उत भवतीति । तदर्थम् ‘य आत्मऽऽपहतपाप्मा’ इति परमात्मप्रकरणेऽपि आदित्यस्य परञ्ज्योतिःशब्देनोक्तिः प्रासङ्गिकी सम्भवतीति प्रकरणं सावकाशमुत समाख्या सावकाशेति । तदर्थं परञ्ज्योतिःशब्दः किमादित्यादेर्वाचक उत परमात्ममात्रवाचक इति । तदर्थं तन्मात्रवाचकत्वे प्रमाणं नास्त्युतास्तीति । परमात्मैवोच्यत इति भाष्यसूचितपूर्वपक्षमाह– न विष्णुरित्यादिना ।। न्यायविवरणं संयोजयितुमाह– न चेति । परञ्ज्योतिःशब्देनेत्यादिं प्रयोजनमित्यन्तं न्यायविवरणं व्याचष्टे । अत्रादित्याङ्गीकार इत्यादिना ।। एकवाक्यत्वलाभा-दिति ।। एकार्थत्वलाभादित्यर्थः । अनेनैकार्थतेति प्रयोजनमिति न्यायविवरणांशो व्याख्यातः । एवं तर्हि ‘स पाप्मना’ इत्यनेन ‘स्वेन रूपेण’ इत्यस्य एकार्थत्वरूपसमाख्यायाः का गतिरित्यतः ‘सावकाशत्वलिङ्गात्’ इति न्यायविवरणांशं व्याख्याति– तस्याः सावकाशत्वाच्चेति ।। तत्रैकार्थ-तेति प्रयोजनमित्युक्तसमाख्याया एव लिङ्गपदेन विवक्षितत्वात् ।। नैतदस्तीति ।। अनेन परञ्ज्योतिःशब्दस्य निरवकाशत्वप्रतिज्ञापरत्वेनापि परञ्ज्योतिःशब्देन परमात्मैवोच्यत इति भाष्यं व्याख्यातं भवति ।। स्मृतिविरोधादिति ।। उपलक्षणं चैतत् । अथ किमुच्यते परञ्ज्योतिः आत्मैव परञ्ज्योतिरित्यादिन्यायविवरणोदाहृतश्रुतिविरोधाच्चेत्यपि द्रष्टव्यम् । अनेन परञ्ज्योतिःशब्दस्य श्रुतित्वेन ‘परञ्ज्योतिरुपसम्पद्य’ इति श्रुत्युक्तज्योतिषो विष्णुत्वसाधकत्वमुक्तं भवति । तथा च निरवकाशश्रुतेरेव बलवत्त्वादिति न्यायविवरणमुक्ततात्पर्यं द्रष्टव्यम् ।
भावदीपः
ज्योतिष इति ।। एतेन पूर्वं ब्रह्मानतिक्रमेण मुक्तो भोगान्भुङ्क्ते इत्युक्तेऽर्थे मुक्त इत्याद्यंशं समर्थ्यात्र ब्रह्मानतिक्रमेणेत्यंशसमर्थनात्सङ्गतिरपि सूचिता ।। अन्यथेति ।। ज्योतिषो ब्रह्मान्यत्वे तत्प्राप्त्यैव स्वरूपाविर्भावादिभोगसम्भवेन परं जैमिनिरित्यादिनोक्तब्रह्मप्राप्तेः फलाभावेनानुपपत्ते-रित्यर्थः । स्वयं प्रतिज्ञाहेतू आह ।। इत्यादाविति ।। यद्यपि देवं देवत्रा सूर्यमगन्म ज्योति-रित्यादिमन्त्रः छान्दोग्यभाष्ये तृतीयान्ते विष्णुपरत्वेनैव व्याख्यातस्तथाप्यमुख्यवृत्त्याऽन्यपरत्व-मप्यस्तीति वा पूर्वपक्षिणो विष्णुपरत्वासम्मतेर्वा एतदुक्तिः ।। विष्णावपीति ।। तद्देवाः ज्योतिषां ज्योतिरित्यादाविति भावः । परञ्ज्योतिःशब्देनादित्यज्योतिरङ्गीकार इत्याद्यन्यत्रोक्तमत्र व्यनक्ति ।। अत्रादित्येति ।। इति श्रुत्येति ।। षट्प्रश्नश्रुत्येत्यर्थः ।। एकवाक्यत्वेति ।। एकार्थत्वे सतीत्यर्थः । अत्र परञ्ज्योतिरिति श्रुतौ ।। एवं चेति ।। परञ्ज्योतिरिति श्रुतिरादित्यप्राप्त्या प्रारब्धकर्ममुक्त्यर्थत्वे सतीत्यर्थः ।।
परमित्यादिभाष्यं व्याचष्टे ।। अत्रेति ।। श्रुतावित्यर्थः । श्रुतिलिङ्गादेरुपक्रमादौ श्रुतत्वे तन्निर्णायकद्वारा सर्वस्य तत्प्रकरणत्वनिर्णायकत्वमिति शब्दादेव प्रमित इत्यत्रोक्तत्वादिह चोपक्रमे विष्णुलिङ्गश्रवणात्सूत्रादौ प्रकरणादित्युक्तमिति भावेन तत्प्रकरणत्वादिति भाष्यं व्याचष्टे ।। य इति ।। आरभ्येति ।। उपक्रम्येत्यर्थः । अस्य परञ्ज्योतिर्वाक्यस्य तत्प्रकरणस्थत्वादित्यर्थः । एवं हि स तेजसीति वाक्यविरोध इत्यत आह ।। न हीति ।। भिन्नस्थानगतत्वेन दौर्बल्यस्य शब्दादेवेत्यत्र व्युत्पादनादिति भावः । अत्र समाख्यापदेन सूर्यमगन्मेत्यपि वाक्यं गृह्यत इत्याहुः । नन्वानर्थक्य-प्रतिहतानां विपरीतं बलाबलमिति न्यायेन तल्लिङ्गादित्यादौ लिङ्गेन श्रुतेरिव समाख्यया प्रकरण-बाधोऽस्त्वित्यतः सावकाशलिङ्गान्निरवकाशश्रुतेरेवातिबलवत्वादित्यन्यत्रोक्तहेतुमप्याह ।। तस्या इति ।। स्वोदयात्फलदं ज्ञानमादेहं कर्म वा रवेरित्युक्त्या प्रारब्धकर्ममोक्षपरत्वेनोपपत्त्या लिङ्गभेदादिरूपमुक्तिपरत्वाभावात् । ब्रह्मप्राप्तिमार्गत्वेनापि सूर्यगत्युक्त्युपपत्तेरिति भावः ।। अत इति ।। एवं प्रबलज्योतिःश्रुतिब्रह्मप्रकरणयोर्भावादित्यर्थः । उत्तराधिकरणोपक्षेपार्थमिति हेतोस्त-त्प्राप्येत्यादि ।।
अभिनवचन्द्रिका
न विष्णुरिति ।। न विष्णुः, अपि तु सूर्य इत्यर्थः । हेतुं वक्तुं सम्भावकं तावदाह– ज्योतिःशब्दस्येति ।। ज्योतिःशब्दस्याऽऽदित्ये प्रयोगो हेतुत्वेनोक्त इति मन्यमानस्य शङ्कामनूद्य निषेधति – न चेति ।। प्रतिज्ञामनुवदन् तत्र हेतुमाह – अत्रादित्याङ्गीकार इति ।। अत्र परञ्ज्योतिः शब्देनेति ।। अत्र यद्यपि विषयसंशयतद्बीजपूर्वपक्षप्रदर्शनानुरोधात् ज्योतिःशब्देन परमात्मैवोच्यत इति वक्तव्यम्, तथापि ज्योतिःशब्दमात्रस्याऽन्यगामित्वेऽपि परशब्दविशिष्टस्य ज्योतिःशद्बस्य विष्ण्वेकनिष्ठत्वात् । अत्र विष्णुरेव विवक्षित इति द्योतनाय ‘परञ्ज्योतिः शब्देन’ इत्युक्तम् ।
पूर्वपक्षस्तु ‘परञ्ज्योतिः’ इति ज्योतिः शब्दोक्तो न विष्णुः किं तु आदित्यः । ‘स तेजसि सूर्ये सम्पन्नो यथापादोदरस्त्वचा विनिर्मुच्यत’ इति समाख्यानात् । एवं च न मुक्तस्य ब्रह्मसमीपे भोग इति ।।
सिद्धान्तस्तु परञ्ज्योतिःशब्देन परमात्मैवोच्यते । ‘य आत्माऽपहतपाप्मेति परमात्मन एव आरभ्याऽधीतत्वेनाऽस्य तत्प्रकरणत्वात् । प्रकरणरस्य समाख्यातो बलवत्त्वात् । सूर्यमण्डल-प्राप्त्यनन्तरं पापकर्मविनाशाङ्गीकारेण ‘स तेजसि सूर्ये सम्पन्न’ इति वाक्यस्य किंस्तुघ्नप्राप्ति-पूर्वकालिकसूर्यप्राप्तिपरत्वेन सावकाशत्वाच्च परञ्ज्योतिःशब्दस्य अन्यत्राऽभावाच्च । अतः परञ्ज्योतिः ब्रह्मैवेति तत्प्राप्य अविहायैव मुक्तो भोगान् भुङ्क्त इति सिद्धम् ।
वाक्यार्थमुक्तावली
ज्योतिष इति पूर्वनये यज्ज्योतिः प्राप्य भोगभोक्तुर्मुक्तत्वमुक्तं तस्य ज्योतिष इत्यर्थः । अनेनानन्तरसङ्गतिरुक्ता भवति ।। अन्यथेति ।। तद्वाक्योक्तस्य ज्योतिषोऽब्रह्मत्वे संपद्याविहायेत्यत्र परञ्ज्योतिरिति वाक्यबलेनोक्ता मुक्तस्य ब्रह्मप्राप्तिरनुपपन्ना स्यादित्यर्थः ।। विष्णुरिति ।। अत्रोक्तं ज्योतिः किं सूर्य उत विष्णुरिति चिन्ता । तदर्थं स तेजसि सूर्ये संपन्न इति समाख्या मुख्यार्थ-स्यापि विष्णोस्त्याजनेन समर्था भवत्युत नेति । अत्र यद्यपि परञ्ज्योतिरित्येकं पदम् । परञ्ज्योतिः परंब्रह्म परानन्दादिका गिर इति वक्ष्यमाणत्वात् । तथा च ज्योतिर्विषय इत्यादिटीकायां ज्योतिश्शब्दस्यैव विषयसंशय तद्बीजपूर्वपक्षानुरोधोक्तिरयुक्ता । तथापि परमित्यस्य भिन्नपदत्व-मुत्तममिति विशेषणसमर्पकत्वं चेति पूर्वपक्षार्थमङ्गीकृत्येदं विषयादिप्रदर्शनम् । वस्तुतस्तु परञ्ज्योतिरिति विशिष्टं विष्ण्वैकनामेत्युत्तरत्रोच्यत इत्यदोषः ।। ज्योतिःशब्दस्येति ।। न च परत्वं तस्यायुक्तमिति वाच्यम् । सूर्यमगन्म ज्योतिरुत्तममित्यत्रेतरज्योतिरपेक्षयोत्तमत्त्वस्याप्युक्तेरिति भावः ।
ननु ज्योतिश्चरणाभिधानादित्यादौ ज्योतिश्शब्दस्य ब्रह्मण्येव परममुख्यत्वस्योक्तत्वान्मुख्ये बाधकाभावादमुख्यार्थादित्यग्रहणमयुक्तमित्याशङ्क्य निषेधति ।। न विष्णावपीत्यदिना ।। कुतो नेत्यग्रहणयोग इत्यतः प्रकरणादित्यंशव्यावर्त्यमर्थलाभ इत्युक्तन्यायं व्यनक्ति ।। अत्रेति ।। सत्यमेवं ज्योतिश्शब्दमुख्यार्थत्वं ब्रह्मण इति । तथाप्यत्र प्रकरणेऽमुख्यार्थ आदित्य एव ग्राह्यः समाख्यानु-कूल्यादिति भावः । परञ्ज्योतिश्शब्देन परमात्मैवेति । न तु सूर्यः, मनुष्यदृष्येषु तेजस्सूत्तम-ज्योतिष्ट्वादुच्यते इत्यर्थः ।। सावकाशत्वाच्चेति ।। स्वेन रूपेणाभिनिष्पद्यत इत्येतदपेक्षया समानोक्त्यभावेन समानार्थकत्वाभावेन शब्दतोऽर्थतश्च सावकाशत्वादित्यर्थः ।। प्रसङ्गादिति ।। ह्वयाम्यग्निमित्यादिवदन्यप्रकरणेऽप्यन्योक्तिः प्रसङ्गात् किं न स्यादित्यत उक्तिरित्युक्तसिद्धान्तन्यायं प्रदर्शयन्नाहेत्यर्थः । स्यादेतत् कथञ्चिद्यदि परञ्ज्योतिश्शब्दोऽमुख्यतोऽप्यन्यवाचकः स्यात् । न चैवम् । तस्य नारायणादिशब्दवद्विष्ण्वैकनामत्वात् । अन्यवाचकेनान्यग्रहणेऽतिप्रसङ्गादिति भावः ।
तत्त्वसुबोधिनी
ज्योतिषो ब्रह्मत्वेति ।। पूर्वाधिकरणे यज्जोतिः प्राप्य भोगभोक्तुः मुक्तत्वं उक्तं तस्य ज्योतिष इत्यर्थः । अनेन आनन्तर्यसङ्गतिरुक्ता भवति ।। ब्रह्मप्राप्त्यनुपपत्तेरिति ।। परमात्मैवोच्यत इति भाष्यसूचितपूर्वपक्षमाह ।। न विष्णुरिति ।। पादोदर इति ।। पादौ उदरे यस्य सः पादोदरः सर्पः इत्यर्थः ।। एकवाक्यत्वलाभादिति ।। एकार्थत्वलाभादित्यर्थः । तथापि समाख्यानादादित्यपरत्वं किं न स्यादित्यत आह ।। न हीति ।। प्रकरणस्य चतुर्थप्रमाणत्वात् तस्याश्च षष्टप्रमाणत्वात् श्रुतिलिङ्गवाक्यप्रकरणस्थानाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षादिति जैमिनिवचनादिति भावः । तर्हि स पाप्मनेत्यत्वनेन रूपेण एतस्य एकार्थ रूपसमाख्यायाः का गतिरित्यत आह ।। तस्या इति ।। ननु च स्वभावदुर्बलत्वेऽपि निरवकाशत्वादस्तु समाख्यायाः प्रकरणबाध इत्यतो वाऽऽह ।। तस्याः सावकाशत्वाच्चेति ।। प्रसङ्गादिति ।। समत्वप्रकारेऽपि देवानां अधिकारप्रतिपादनादिति । नैतदस्तीति । अनेन परञ्ज्योतिः शब्दस्य निरवकाशत्वप्रतिज्ञापरत्वेनापि परञ्ज्योतिः शब्देन परमात्मैव उच्यत इति भाष्यं व्याख्यातं भवति ।। स्मृतिविरोधादिति ।। उपलक्षणं चैतत् । अतः किमुच्यते परञ्ज्योतिः आत्मैव परञ्ज्योतिरिति श्रुतिविरोधाच्चेत्यपि दृष्टव्यम् । अनेन परञ्ज्योतिः शब्दस्य श्रुतित्वेन परञ्ज्योतिरुपसम्पद्येति श्रुत्युक्तज्योतिषः विष्णुत्वसाधकत्वमुक्तं भवति ।
वाक्यार्थविवरणम्
परं ज्योतिरुपसम्पद्येति श्रुत्यर्थमाह ।। आदित्यमुपसम्पद्येति ।। स्वेन रूपेणेत्यस्य तात्पर्यम् ।। प्रारब्धेति ।। पाप्मनेत्यस्यार्थः प्रारब्धकर्मणेति ।। आरभ्य उपक्रम्य । त्वदुक्तसमाख्या च प्रकरणाद्दुर्बलेत्याह ।। न हीति ।। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्य-मर्थाविप्रकर्षात्’ इति जैमिनिसूत्रे प्रकरणस्य समाख्यासकाशाद्बलवत्वोक्तेरिति भावः । यदुक्तं पाप्मनेत्यनेन स्वेन रूपेणैकार्थत्वरूपा समाख्या सा न युक्तेत्याह ।। तस्या इति ।। पाप्मना विनिर्मुक्त इति स्पष्टम् । पापान्मुक्तिकथनेन समाख्यायाः सावकाशत्वात् स्वस्वरूपाभिव्यक्ति-प्रतिपादकस्य स्वेन रूपेणेति वाक्यस्य नैकार्थत्वमिति भावः ।। अन्योक्तिरिति ।। परं ज्योतिरुपसम्पद्येत्यत्रादित्योक्तिरित्यर्थः ।
वाक्यार्थमञ्जरी
ज्योतिष इति ।। पूर्वाधिकरणे ज्योतिःप्राप्य भोगभोक्तुर्मुक्तत्वमुक्तं तस्य ज्योतिष इत्यर्थः ।। ब्रह्मप्राप्त्यनुपपत्तेरिति ।। परं ज्योतिरुपसंपद्येत्युक्तब्रह्मप्राप्त्यनुपपत्तेरित्यर्थः ।। सूर्यमिति ।। ज्योतिः प्रकाशरूपं सूर्यमगन्म प्राप्नुम इत्यर्थः । सद्भावात् ज्योतिश्चरणेत्युक्तरीत्या ।। स तेजसीति ।। यथा पादोदरः सर्पस्त्वचा जीर्णदेहेन विमुच्यते । एवं तेजसि सूर्ये सूर्यं संपन्नः प्राप्तः सोऽधिकारी पाप्मना कर्मणा विनिर्मुक्तो भवतीत्यर्थः ।। एकवाक्यत्वेऽपि ।। एकार्थत्वेऽपीत्यर्थः । तदेव दर्शयति ।। तथा चेति ।। अत्र परञ्ज्योतिरित्यत्र च ।। ॐ आत्मा प्रकरणात् ॐ ।। परञ्ज्योति-रित्युक्तं ज्योतिरात्मा परमात्मैव कुतः य आत्मेति तत्प्रकरणादित्यर्थः ।। सावकाशत्वादिति ।। सूरिभिर्याप्यत्वात्सूर्य इति सूर्यशब्दस्य भगवत्परत्वादिति भावः ।।
।। इति आत्माधिकरणम् ।। ३ ।।