ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ

७. मुग्धप्राप्त्यधिकरणम्

सूत्रभाष्यम्

।। ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ।। १० ।।

मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।

हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति ।

समीपस्थस्तथा स्वप्नं स्वपित्यस्मिल्लयं व्रजन् ।।

यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।

अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेरः’ इति वाराहे ।।

सोऽपि तत एवेति सिद्धम् ।

मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।

स ईशः परमो ज्ञेयः परमानन्दलक्षण’ इति (हि) कौर्मे ।।

तत्त्वप्रदीपिका

मुग्धं’ मोह इति व्याचख्यौ । भावे क्तप्रत्ययदर्शनात् । सोऽपि तत एवेत्युक्तहेतुभ्य एव सिद्धम् ।

तत्त्वप्रकाशिका

सर्वावस्थानां तद्बोधानां चेश्वराधीनत्वे सिद्धे अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्यावान्तरावस्था-संस्थितजीवप्राप्यत्वनिरूपणादस्ति शास्त्रादिसङ्गतिः । अन्यथा निरतिशयैश्वर्याभावेन न तत्र भक्तिरुत्पद्यत इति निरूपणीयम् । अवस्थाविचारप्रसक्तो मोहोऽत्र विषयः । किं जीवस्य ईश्वरे तदन्यत्र वा भवतीति सन्देहः । द्विविधावस्थादर्शनं च सन्देहबीजम् । न मोहो भगवदितरत्र जीवस्येति पूर्वः पक्षः । जाग्रत्स्वप्नयोः पृथगवस्थात्वात् । अन्यथा तत्सङ्कीर्णतापातात् । न चैवं सुप्तिसङ्करप्रसङ्गो दोषः । समानधर्मतया तत्संकरस्य गुणत्वात् । अतः परमात्मन्येव मोहो जीवस्येति ।

सिद्धान्तयत्सूत्रमुपन्यस्य प्रतिज्ञांशं तावद्व्याचष्टे ।। मुग्ध इति ।। हेत्वंशं व्याख्यातुं समस्तसूत्रार्थे स्मृतिमुदाहरति ।। हृदयस्थादिति ।। मोहे तावत्परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशाः प्रसक्ता न तावत्त्रयः कल्पा मोहे सम्भवन्ति । जाग्रदाद्यवस्थाधर्मत्वात् । एवं च प्रसक्तप्रतिषेधेऽन्यस्या-प्रसङ्गात् परिशिष्टोऽर्धप्रवेश एव मोहे जीवस्य ज्ञायत इति भावः । मोहस्यावस्थात्रयातिरेकित्वे भवेदेतत् । तदेव कुत इत्यत आह ।। दुःखेति ।। न तावत्सुप्त्यन्तर्भावो मोहस्य दुःखानुसन्धानात् । नापि जाग्रत्स्वप्नान्तर्भावः । दुःखात्मकालाद्यतिरिक्तविषयादर्शनादिति भावः । नातिदूरसामीप्यं चिरं नास्तीत्यप्रसङ्गः । मोहेऽर्धप्राप्तिसमर्थनाय परिशेषे प्रकारान्तरप्रदर्शनं चैतत् । न मोहे समग्रप्राप्तिः । दुःखानुसन्धानात् । नाप्यप्राप्तिरेव । अन्यार्थादर्शनात् । अतः परिशेषादर्धप्राप्तिरिति । दूरस्थः अक्षिस्थः समीपस्थः कण्ठदेशस्थः । ‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः’ इत्यादेः सर्वत्र सामीप्यमेवेत्यत उक्तम् ।। हृदयस्थादिति ।। त्रयः तिस्रः । दूरस्थत्वादित्रयः प्रकाराः यत एवमवस्थात्रये विनियुक्ता अतो मोहोऽवस्थेति वा । मोहेऽवस्थानमेव चिन्त्यते तस्येश्वराधीनता कुतो न चिन्त्यते । मोहकारणानां पृथगपि दर्शनादित्यत आह ।। सोऽपीति ।। कर्मानुस्मृत्यादिनैव मोहस्यापि भगवदधीनत्वं सिद्धमतो न चिन्त्यत इत्यर्थः । बाह्यकारणदर्शनं निमित्तविषयमन्यथा विशेषस्मृतिविरोधादिति भावेन तामुदाहरति ।। मूर्छेति ।। अत एव सार्थकोऽयं विचारः । अनिश्चितस्वरूपस्येश्वराधीनताया दुर्ज्ञानत्वात् । अतो मोहावस्थाया अपि भगवदधीनत्वान्मुग्ध-प्राप्यत्वाच्च महामाहात्म्ये तत्र भक्तिरुपपन्नेति सिद्धम् ।

गुर्वर्थदीपिका

तस्यावान्तरावस्थासंस्थितजीवप्राप्यत्वेत्यत्र प्राप्यत्वमर्धप्राप्यत्वम् । अतो न पूर्वपक्षसिद्धान्त-योरैक्यम् । अतः परमात्मन्येव मोहो जीवस्येति वदतः पूर्वपक्षिणः परमात्मप्रवेशेऽपि दुःखस्य पृष्ठलग्नत्वान्न तस्य महामाहात्म्यमिति दुराशा । तर्हि सिद्धान्तिनामपि लयेऽयोग्यजीवानां भगव-दुदरप्रवेशेऽपि दुःखानुषङ्गात्कथं महामाहात्म्यमिति चेत् स्वोदरप्रविष्टभक्तजीवानामेव दुःखानपहारे महिम्नो न्यूनता न तु द्वेषिणामपि । द्वेषिषु दुःखदानस्यैव प्रभोर्महामाहात्म्यहेतुत्वात् । मोहावस्थायां च त्रिविधजीवानामपि प्रवेशादंशतो माहात्म्यहानिं शङ्कमानो भगवानर्धजरतीयस्य चायोगा-त्तामवस्थामेवार्धप्राप्तिरूपां कुरुते । अत एव सुप्तौ स्वोदरप्रविष्टानामयोग्यजीवानामपि न स्वरूपभूतं दुःखं व्यञ्जयति । सुप्तेरपुरुषार्थत्वप्रसङ्गात् । अर्धजरतीयस्य चायोगात् । लये दुःखं भुञ्जानास्तु न सुप्ताः । येन सुप्तौ द्वैविध्यं स्यात् । किन्तु मुक्तवत्तेऽपि प्रतिबन्धाख्यसंसारान्मुक्ता एव । लयेऽपि संसारिणः कल्यादयः सुप्तिगतत्वान्न स्वरूपभूतमपि दुःखं भुञ्जते ।

इयांस्तु विशेषः । योगिजीवानां सुप्तिर्बाह्यदुःखाभावात्स्वरूपभूतसुखलेशाच्च तेषामिष्टा । अयोग्यजीवानां तु स्वरूपभूतसुखाभावात्केवलं बाह्यदुःखाभावेनैवेष्टा । एतावन्तं कालं सुखं सुप्तोऽस्मीत्यौत्तरकालिकपरामर्शाद्भ्रमस्वभावस्तेषां साक्षी तमेव सुखत्वेनानुभवति च । अतश्च-तस्रोऽपीमाः सांसारिकावस्थाः सर्वेषामेकप्रकार एव नात्र द्वैविध्यमिति सिद्धान्तिभिरभिप्रेतत्वात् । हृदयस्थपरमात्मनस्सकाशाज्जाग्रदवस्थायां दक्षचक्षुषि स्थितिरतिदूरमित्युच्यते । स्वप्नदर्शनाय दक्षनेत्रात्परावृत्त्याऽऽगमने सति कण्ठदेशे या स्थितिः तत्सामीप्यमित्युच्यते । सुप्त्यर्थं कण्ठदेशादपि परावृत्य परमात्मन उदरे या स्थितिस्सा अतिदूरमपि न । सामीप्यमपि न । किन्तु ‘सता सौम्य तदा सम्पन्नो भवति’ इति श्रुतेः सम्पत्तिरित्युच्यते । एवमतिदूरत्वादिप्रकारत्रय-वैचित्र्यादवस्थात्रयवदागमनसमये कण्ठनेत्रयोर्मध्येऽतिदूरं नेति व्युत्पत्त्या नातिदूरमित्यप्येक-प्रकारोऽस्ति । एवं कण्ठात् हृदयं प्रत्यागमे सति मध्ये कण्ठदेशाख्यसामीप्यं नेति न सामीप्याख्यः कश्चित्प्रकारोऽस्ति । उभयं जाग्रदवस्थावदपि न । स्वप्नवदपि न । सुप्तिवदपि न । अतस्तयोरपि काञ्चित्काञ्चित्संज्ञां दत्वाऽवस्थाद्वयमपि कुतो न कल्प्यत इत्यत उक्तं नातिदूरेति ।। अतिदूरं च सामीप्यं चातिदूरसामीप्ये द्वन्द्वस्य चैकवद्भावे अतिदूरसामीप्ये एवातिदूरसामीप्यमित्युच्यते । अतिदूरसामीप्यं नेति नञा सह समासे नातिदूरं न सामीप्यमिति पराशङ्कितावस्थाद्वयमपि नातिदूरसामीप्यमित्येवोच्यते । तच्चातिदूरे स्थितिवत्सामीप्ये स्थितिवत् हृदि स्थितिवच्च चिरं बहुकालं नास्तीति कृत्वा प्रसङ्गः पृथगवस्थाद्वयत्वप्रसङ्ग एव नेत्यर्थः । अन्यार्थादर्शनादित्यस्य भगवदन्तरप्राप्तजाग्रत्स्वप्नद्रष्टृजीववदात्मकालदुःखेभ्योऽन्येषामर्थानामदर्शनात् । भगवदुदर-प्रविष्टेभ्योऽन्यस्य चेतनस्य स्वाप्ननानापदार्थानां वा जाग्रत्पदार्थानां वा दर्शननियमादित्यर्थः । सर्वत्र सामीप्यमित्यत्र सर्वत्र जाग्रत्स्वप्नस्थानेऽपि सामीप्यात्तत्तदवस्थाप्रेरकभगवन्मूर्तिसामीप्यादित्यर्थः । मूर्तिविशेषापेक्षया तदुक्तिरित्याह ।। हृदयस्थादिति ।। अतो मोहोऽवस्थेत्यत्र अवस्था, चिरकालीनत्वादवस्थारूपो मोह इति विशेषणविशेष्यभावः । अन्यथा ज्ञेय इति पुल्लिङ्गानु-पपत्तिरिति ज्ञेयम् ।

भावबोधः

अस्याधिकरणस्यानन्तरसङ्गतिं वदन् शास्त्रादिसङ्गतिमाह– सर्वावस्थानामिति ।। प्रधानावस्थाविचारानन्तरमेवावान्तरावस्थाविचारावसर इति भावः । न चैवं ‘स एव च’ इत्यतः पूर्वमेवानेन भवितव्यमिति वाच्यम्; स्वप्नादिवन्न मोहोऽसङ्कीर्णावस्थेति ज्ञापनाय सूत्रकृता व्यवधानकरणादिति तात्पर्यम् ।। मोहोऽत्रेति ।। अत्र मोहः किं भगवदर्धप्राप्तिरूपो न भवत्युत भवतीति चिन्ता । तदर्थमितरावस्थानतिरिक्त उत तदतिरिक्त इति । तदर्थं तद्व्यावर्तकधर्मोपेतो न भवत्युत भवतीति । मोहे ब्रह्मप्राप्तिरेव पृथगवस्थावदिति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– न मोह इति ।। अनेन मोहे ब्रह्मप्राप्तिरित्येवेत्ययमंशो व्याख्यातः । पृथगवस्थात्वादिति हेतुवाक्यं योजयति– जाग्रत्स्वप्नयोरिति ।। सकाशादिति शेषः । हेतोरप्रयोजकतां परिहरति– अन्यथेति ।। मोहो भगवदितरत्रेत्यङ्गीकार इत्यर्थः ।

नन्वस्तु मोहो भगवदितरत्र तथापि तस्य जाग्रत्स्वप्नसङ्कीर्णता कुत इत्यतश्चोक्तम् । जाग्रत्स्वप्नयोरिति ।। पृथक् परमात्मन इति शेषः । तथा च जाग्रत्स्वप्नयोरेव परमात्माऽप्रवेश-रूपावस्थात्वान्मोहस्यापि अप्रवेशरूपत्वाङ्गीकारे एतत्सङ्कीर्णता स्यादित्यर्थः । अत एव जाग्रत्स्वप्नाभ्यामिति वक्तव्येऽर्थद्वयानुगुण्याय जाग्रत्स्वप्नयोरित्युक्तम् ।

नन्वत्र ब्रह्मप्राप्तिरेवेतिवत् ब्रह्माप्राप्तिरेवेत्यपि पूर्वपक्षः कुतो न कृतः । तस्यापि पक्षस्यार्ध-प्राप्तिरूपसिद्धान्तविरोधित्वादिति चेत्, ; प्राप्तिरेवेति पूर्वपक्षे मोहस्य सुप्तिसाङ्कर्यापादने सुप्तेरेकत्वेन तत्साङ्कर्यस्येष्टत्ववदप्रवेश एवेति पूर्वपक्षे मोहस्य जाग्रत्स्वप्नसाङ्कर्यापादने जाग्रत्स्वप्नयोः परस्परं पृथगवस्थात्वादेकस्योभयसाङ्कर्यस्य पूर्वपक्षिण इष्टत्वासम्भवात् । न चान्यतरसाङ्कर्य-मेवापाद्यम्, उभयोरप्यप्रवेशावस्थात्वाविशेषेण विनिगमकाभावादिति । व्याख्यातुमिति ।। स्मृत्यै-वेत्यर्थः ।। एवं चेति ।। अनेन परिशेषमानादर्धप्राप्तित्वावगमादिति न्यायविवरणमपि व्याख्यातम् ।

नन्वेतावन्तं कालमहं मूर्च्छितो दुःख्यभवमिति देशकालात्मावस्थादुःखानामनुभवात् कथं दुःखमात्रप्रतिस्मृतेरित्युक्तमित्यतो दुःखपदमनुभूयमानसर्वोपलक्षणम् । मात्रपदं तु तद्व्यति-रिक्तव्यवच्छेदपरमित्यभिप्रेत्याह– दुःखात्मकालेति ।।

ननु कण्ठहृदयमध्यप्रदेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणकण्ठ मध्यप्रदेशावस्थान-स्यापि पृथगवस्थात्वं प्रसज्येताविशेषादित्यत आह– नातिदूरसामीप्यमिति ।। दक्षिणकण्ठमध्य-प्रदेशस्य हृदयस्थाद्दक्षिणाक्षिवदतिदूरत्वं कण्ठवदतिसामीप्यं वा नास्तीति मार्गतया तत्प्रवेशगत-जीवस्य यन्नातिदूरसामीप्यं तज्जीवस्य मोहवच्चिरकालं नास्तीति हेतोस्तस्य पृथगवस्थात्वस्याप्रसङ्ग इति भावः ।। अतः परिशेषादिति ।। अनेन परिशेषादर्धप्राप्तित्वावगमादिति न्यायविवरणं प्रकारान्तरेण व्याख्यातम् । नन्ववस्थाशब्दस्य स्त्रीलिङ्गत्वात् त्रयोऽवस्था इति कथमित्यत आह– त्रयस्तिस्र इति ।। नात्र त्रयोऽवस्था इति सामानाधिकरण्यं येन लिङ्गव्यत्यासदोष इति पक्षान्तरमाह– दूरस्थत्वादिति ।। मोहस्येश्वराधीनत्वशङ्काभावान्न चिन्त्यत इत्यत आह– मोहकारणादीनामिति ।। अभिघातव्याध्यादीनामित्यर्थः । आदिपदेन तदुद्बोधकारणौषधादीनां ग्रहणम् । अत एव भाष्ये सोऽपीत्यपिशब्दस्य मूर्च्छाप्रबोधनं चेति स्मृत्यनुसारेण तदुद्बोधसमुच्च-यार्थत्वं चेति भावः ।

भावदीपः

अत्र मोहस्येशाधीनत्वचिन्तामकृत्वा तत्स्वरूपोक्तिरेव कुतः कृतेति शङ्कां निरसितुमाह ।। सर्वेति ।। कर्मानुस्मृत्यादिहेतुभिः प्रागुक्तदिशेति भावः । मोहस्याप्यवस्थात्वेन तदधीनत्वसिद्धेरपि तत एवेति भाष्य एव व्यक्तत्वादिति भावः । एतेन मोहावस्थानियन्तृत्वमहिम्नो मुग्धप्राप्यत्व रूपमहिमान्तरोक्तिरत्रेति वा प्रधानावस्थाचिन्तानन्तरं अवान्तरावस्थाचिन्तावसर प्राप्तेति वा सार्वत्रिकावस्थाचिन्तानन्तरं क्वचित्कावस्थाचिन्तावसरप्राप्तेति वा पूर्वसङ्गतिः सूचिता ।। जीव-प्राप्यत्वेति ।। तादृशजीवेनाऽर्धप्राप्यत्वनिरूपणादित्यर्थः । तेन सिद्धान्त इव पूर्वपक्षेऽपि जीवप्राप्यत्वस्यानुमतत्वात्फलाभावाद् व्यर्थेयं चिन्तेति प्रत्युक्तम् । पूर्वपक्षे मोहस्य सुप्तितः पार्थक्याभावेनावान्तरावस्थात्वाभावेन तदवस्थावस्थितजीवप्राप्यत्वमहिम्नोऽभावात्सिद्धान्ते च भावा-त्फलभेदः । अत एवावान्तरावस्था संस्थितेत्युक्तिः । अन्यथा मुग्धजीवेति वा सुप्त्येकदेशवज्जीव-प्राप्यत्वेति वा ब्रूयादिति बोध्यम् । मोहस्योक्तावस्थात्रयानन्यत्वं सिद्धवत्कृत्य सुप्त्यन्तर्भावोऽथ स्वप्नजाग्रदन्तर्भाव इति भावेनाह ।। किमिति ।। मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादित्यन्यत्रोक्तं पूर्वपक्षं हेतुसाध्ययोर्व्याहतिनिरासायावधारणव्यावर्त्यं दर्शयन् शेषोक्त्या हेतुं च विवृण्वन् व्यनक्ति ।। न मोह इति ।। पृथक्पदस्वारस्यसूचिते शङ्कोत्तरे आह ।। न चैवमिति ।। समानेति ।। सर्वेन्द्रियोपरत्यादिरूपसमानधर्मतयेत्यर्थः । तयोस्तत्पृथग्धर्मत्वान्न तत्साङ्कर्यमनुगुणमिति भावः । उक्तार्थं न्यायविवरणोक्तसाध्योपपादकमिति दर्शयन्नुपसंहरति ।। अत इति ।। जाग्रत्स्वप्नयोः पृथगवस्थात्वेन तत्साङ्कर्यस्यायोगात्सुप्तिसाङ्कर्यस्यानुगुणत्वादित्यर्थः ।

प्रतिज्ञांशं तावद्व्यचष्ट इति ।। अस्येति आत्मनीति च पदद्वयमनुवर्त्येति योज्यम् ।। समस्तेति ।। हेतुप्रतिज्ञारूपसमस्तसूत्रार्थ इत्यर्थः । मोहस्योक्तावस्थात्रयान्यत्वं सिद्धवत्कृत्य तदसम्भावनां निरसिष्यन् परिशेषमानादर्धप्राप्तित्वावगमादित्यन्यत्रोक्त्यनुरोधेन स्मृतिं व्याचष्टे ।। मोह इति ।। यत एवमित्यन्तस्यार्थः ।। न तावदिति ।। मोहस्त्वित्यादेरर्थः ।। एवं चेति ।। त्रयाणां मोहत्वायोगे इत्यर्थः ।। अन्यस्येति ।। नातिदूरसामीप्यमिति वक्ष्यमाणदिशेति भावः । दुःखेति शेषोपयोगमाह ।। मोहस्येति ।। मात्रपदसार्थक्यमाह ।। नापीति ।। दुःखपदमुपलक्षणं मत्वाऽऽह ।। दुःखात्मकालादीति ।। सुप्त्यवस्थातमश्चादिपदार्थः । कालात्माज्ञानसुप्त्यवस्थानां तदा साक्षिवेद्यत्वादिति भावः । नन्वन्यस्याप्रसङ्गादित्ययुक्तम् । विदूरसामीप्यरूपाक्षिकण्ठ-देशयोरिवाक्षिकण्ठयोर्मध्यदेशरूपस्य किंचिद्दूरत्वस्य तथा हृदयकण्ठयोर्मध्यदेशरूपस्य किञ्चि-त्सामीप्यस्य च प्रसङ्गसम्भवेन परमात्मविदूरत्वकिञ्चिद्दूरत्वसामीप्यनातिसामीप्यप्रवेशार्धप्रवेशाः प्रसक्ता इति वक्तव्यम् । तथा च कथं परिशेषतोऽर्धप्रवेशो मोह इत्युक्तिरित्यत आह ।। नाति-दूरेति ।। दूरं च समीपं च दूरसमीपे अत्यन्तं दूरसमीपे अतिदूरसमीपे तयोर्भावः अतिदूरसामीप्यं तन्न भवतीति नातिदूरसमीप्यं किञ्चिद्दूरत्वं किंचित्सामीप्यं च यज्जीवस्य कण्ठाक्षिमध्यदेश-स्थत्वादिरूपं तच्चिरकालं नास्ति । दक्षिणाक्षितो हृदयदेशं प्रत्यागमने मार्गमात्रमिति तयोः प्रसक्तिर्नास्तीत्यर्थः । कण्ठाक्षिमध्यदेश एव नातिदूरसमीप्यशब्देनोच्यत इत्यप्याहुः । दुःख-मात्रेतिपदं प्रकृतोपयोगितयाऽपि व्याचष्टे ।। मोह इति ।। मात्रपदार्थव्यक्तीकरणं नाप्यप्राप्तिरेवेत्यादि ।। अन्येति ।। प्रागुक्तदुःखाद्यन्येत्यर्थः ।। अत इति ।। समग्रप्राप्त्यप्राप्त्योरयोगादित्यर्थः । स्मार्तपदानामर्थमाह ।। दूरस्थोऽक्षिस्थ इत्यादि ।।

ननु हृदये प्रतिष्ठितानि भवन्तीति षष्ठगतबृहदारण्यकवाक्येन तथा ‘हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः । जीवानां स्थानमुद्दिष्टः सर्वदैव सनातनः । हृत्कर्णिकामूलगतः सोऽङ्गुष्ठाग्र-प्रमाणकः । मूलेश’ इति नामास्मिन्सर्वजीवाः प्रतिष्ठिता इति स्मृत्या तथा अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रेण हृदि ह्येष आत्मा’ इति षट्प्रश्नश्रुत्या च जीवस्य सर्वदा हृद्देश एवाऽवस्थित्यवगमात्कथमक्ष्यादिस्थत्वमुच्यत इति चेन्मैवम् । ‘हृदये संस्थितो जीवो विशेषेण हरिः स्वयम् । चक्षुरादिषु रूपाणि जाग्रत्काले तयोस्सदा । बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः । हृदयस्थेन रूपेण तदा जीवो न किञ्चन । जानाति’ इति षष्ठबृहद्भाष्योक्तस्मृत्या ‘असम्यक्सम्य-गिति च ह्यवस्थाभेदतः सुराः । व्याप्त्यव्याप्तियुता’ इत्याद्यवस्थितिसूत्रभाष्योक्तस्मृत्या चोत्तमानामंशेनाऽक्ष्यादिष्ववस्थाने विरोधाभावात् अन्येषां त्वक्ष्यादिष्वभिमानातिशयेनाऽक्षिस्थ इत्याद्युक्त्युपपत्तेः । उक्तं चैतरेयभाष्ये द्वितीयेऽध्याये । न हि जीवस्याऽक्षिणि पृथक् शिरोबाह्वादिकं विद्यते हृदिस्थमेव हि तस्य रूपं जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वा लोकवदिति सूत्रादिति ।। समीप्यमेवेति ।। अक्ष्यादिस्थविश्वतैजसनामकभगवन्मूर्तिसामीप्यमेव । माण्डूके तथा श्रवणादित्यर्थः । त्रय इति पुल्लिङ्गानुपपत्तेराह ।। त्रयः तिस्र इति ।। अत इति ।। कर्मानुस्मृत्यादिहेतोरप्राप्तेरयोगाच्चेत्यर्थः ।

अभिनवचन्द्रिका

अन्यथेति ।। ननु जाग्रदवस्थासंस्थितजीवप्राप्यत्वाभावेऽपि यथा न निरतिशयैश्वर्यभङ्गः, तथा मोहावस्थायां स्थितजीवप्राप्यत्वाभावेऽपि अभङ्गसम्भवेन तत्र भक्तिसम्भवात् व्यर्थमिदमधि-करणमिति चेत्, न वैषम्यात् । युक्तं जाग्रदाद्यवस्थासंस्थितजीवप्राप्यत्वाभावेऽपि परमैश्वर्यम् । तत्र प्रमाणाऽभावेन तदभावस्य प्रमाणसिद्धपरमैश्वर्यापलापहेतुत्वाभावात् । मुग्धजीवप्राप्यत्वाभावस्तु तदपलापहेतुः । अर्धप्राप्तिरूपमोहस्य ‘अर्ध प्राप्तिरिति ज्ञेय’ इति प्रमाणसिद्धत्वात् । न हि प्रमाणत्वाविशेषेऽपि एतत्प्रमाणोक्तं नास्ति, प्रमाणान्तरोक्तमस्तीति सम्भवतीति । एवम् एवंजातीयके सर्वत्र द्रष्टव्यम् ।। जाग्रत्स्वप्नयोरिति ।। जाग्रत्स्वप्नातिरिक्तावस्थात्वादित्यर्थः ।। अन्यथेति ।। भगवदितरत्र मोह इत्यङ्गीकारे जाग्रत्स्वप्नैकदेशत्वं स्यादित्यर्थः ।। न चैवमिति ।। भगवत्येव मोह इत्यङ्गीकारे मोहस्य सुप्त्येकदेशत्वं स्यादिति न वाच्यमित्यर्थः ।। समानधर्मत-येति ।। आत्मातिरिक्तविषयादर्शनेन समानधर्मतयेत्यर्थः ।। दुःखात्मेति ।। जाग्रत्स्वप्नयो-र्दुःखाऽऽत्मकालाऽतिरिक्तविषयत्व स्वाभाव्यादिति भावः ।

ननु ‘अवस्थाविचारप्रसक्तो मोहोऽत्र विषय’ इति प्राचीनाधिकरणेन सङ्गातिरुक्ता । सा न युक्ता प्रतिदिनभावित्वेन चिरभाविजाग्रदाद्यवस्थानिरूपणकाले कादाचित्कमोहस्य प्रसङ्गाऽ-योगादित्याशङ्कां सिंहावलोकनन्यायेन परिहरति नातिदूरसामीप्यमिति ।। देहारम्भक कर्म-नाशोत्तरभावित्वात् मरणमतिदूरशब्देनोच्यते । तत्समीपभावित्वात् अतिदूरसामीप्यमिति मोह उच्यते, स चिरमहरहर्नास्तीति अप्रसङ्गो न मन्तव्यः । उपेक्षानर्हस्य स्मृतेरेव प्रसञ्जकत्वादिति भावः । एतेन ‘नलोपो नञ’ इति नलोपे नुडागमे च सति अनतिदूरसामीप्यमिति भाव्यमिति परास्तम् । अप्रसङ्गपदेन नञोऽन्वितत्वेन समासाभावात् ।। प्रकारान्तरप्रदर्शनमिति ।। पूर्वं तु दूरस्थत्व, समीपस्थत्व, प्रवेशाऽर्धप्रवेशान् प्रसज्य पक्षत्रयं निराकृत्याऽर्धप्रवेशोऽवशेषितः । इदानीं तु प्राप्त्यप्राप्त्यर्धप्राप्तीः प्रसज्य प्राप्त्यप्राप्ती निराकृत्य, अर्धप्राप्तिरवशेषितेति भेदः ।। अर्धप्राप्तिरिति ।। ननु इदमयुक्तम् । भगवत्प्राप्तेः सुखहेतुत्वेन दुःखाभावप्रसङ्गात् । अन्यथा मुग्धादपि सुप्तस्य दुःखातिशयः स्यात् । समग्रप्राप्तिसद्भावात् इति चेत् । स्यादयं दोषः यदि मुग्धस्य प्राज्ञप्राप्तिप्रयुक्तं दुःखमिति ब्रूमः । न चैवं किंनाम मुग्धस्य मरणनाडीसम्बन्धप्रयुक्तमेव दुःखं ब्रूमः । त्रय इति पुल्लिंगस्य अवस्थेत्यनेनाऽन्वयायोगात् त्रय इत्यनूद्य लिङ्गव्यत्ययः कार्य इति भावेनाह– त्रयस्तिस्त्र इति ।। अवस्थेत्येकवचनान्तं नित्यस्त्रीलिङ्गं मोह इति नित्यपुल्लिङ्गे नाऽन्वेति । त्रिशब्दस्तु प्रकारवाची एवमित्यनेनान्वेतीत्याशयवान् ‘यत एवं त्रयोऽवस्था’ इति भाष्यं प्रकारान्तरेण व्याचष्टे दूरस्थत्वादिति ।। एवमित्यनूद्य ‘अवस्थात्रये विनियुक्ता’ इति व्याख्यानम् ।

पूर्वपक्षस्तु न मोहो जीवस्य भगवदितरत्र किं तु परमात्मन्येव । जाग्रत्स्वप्नावस्थाविलक्षणत्वात् । अन्यथा तत्संकीर्णतापातात् । न च परमात्मनि मोहाङ्गीकारे सुप्त्यैकदेशत्वप्रसङ्गः । बाह्यार्थाऽ-विषयत्वेन तदेकदेशत्वस्येष्टत्वात् । अतः परमात्मन्येव मोहो जीवस्येति ।

सिद्धान्तस्तु भगवति अर्धप्रवेश एव जीवस्य मोहे न समग्रप्रवेशः, परिशेषात् तथा हि मोहे तावत् परमात्मविदूरत्व, सामीप्य, प्रवेशाऽर्धप्रवेशाः प्रसक्ताः । न तावत्त्र्त्रयः कल्पाः सम्भवन्ति । तेषां जाग्रदाद्यवस्थाधर्मत्वात् । एवं च प्रसक्तप्रतिषेधेऽन्यस्याऽप्रसङ्गात् परिशिष्टोऽर्धप्रवेशो मोहो जीवस्य मोहस्याऽवस्थात्रयातिरेकित्वे भवेदेतत्, तदेव कुत इति चेत्, अत्र वक्तव्यम् । किं मोहस्य सुप्तावन्तर्भाव उच्यते । उत जाग्रत्स्वप्नयोः । न तावदाद्यः वैलक्षण्यात् । तथा हि मुग्धः कदाचिदपि नोच्छ्वसिति । स वेपथुश्चास्य देहो भवति । भयानकं चाऽस्य वदनं भवति । विस्फारिते चाऽस्य नेत्रे भवतः । सुप्तस्तु प्रसन्नवदनः, तुल्यकालं पुन रुच्छ्वसिति । निमीलिते अस्य नेत्रे भवतः । न चाऽस्य देहो वेपते, पाणिपेषमात्रेण च सुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः । मुसलाभि घातादिनिमित्तत्वात् मोहस्य । सुच्छायादि-निमत्तित्वात्स्वापस्य । न च वदन्ति मुग्धं सुप्तमिति । नापि जाग्रत्स्वप्नयोरन्तर्भावः । दुःखाऽऽत्म-कालातिरिक्तविषयाऽदर्शनात् । अतो मोहोऽवस्थान्तरमेव, ततश्च मुग्धप्राप्यत्वेन महामाहात्म्य-वत्त्वाद्भगवति भक्तिर्युक्तेति सिद्धम् ।

वाक्यार्थमुक्तावली

अवान्तरावस्थासंस्थितेति ।। अर्धप्राप्तिरूपमोहाख्यावान्तरावस्थेत्यर्थः । प्रधानविचारानन्तर-मवान्तरविचार इत्यनन्तरसङ्गतिरिति भावः । नन्वेवं सति स एवेत्यतः पूर्वमनेनाधिकरणेन भवितव्यमिति चेत् अत्रोक्तं सुधायाम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।। अन्यथेति ।। अवान्तरावस्थासंस्थितजीवप्राप्यत्वाभाव इत्यर्थः । ननु यथा जाग्रदवस्थासंस्थितजीवप्राप्यत्वाभावेऽपि नैश्वर्यहानिः तद्वत्प्रकृतेऽप्युपपत्तेः व्यर्थमिदमधिकरणमिति चेन्न ।। वैषम्यात् ।। धर्मिग्राहकप्रमाणेन मोहस्यार्धप्राप्तिरूपतया सिद्धत्वेन तदभावेन तत्प्रवर्तकत्व-स्यैवाभावेनैश्वर्यहानिप्रसङ्गादेतदधिकरणसार्थक्योपपत्तेः । जाग्रदवस्थायां भगवत्प्राप्तौ प्रमाणा-भावादिति ।। किं जीवस्येश्वर इति ।। किं जीवस्येश्वर एव तदन्यत्रापि वेत्यर्थः । मोहः किं समग्रप्राप्तिरूप उतार्धप्राप्तिरूप इति चिन्ता । तदर्थमितरावस्थानतिरिक्त उत तदतिरिक्त इति । अर्धसम्पत्तिरित्यनेन मोहस्य स्वप्नसुप्तिसमुदायत्वरूपावान्तरावस्थात्वद्योतनात्तन्निवर्त्यतया सूचितं पृथग्भव इत्युक्तन्यायं विशदयन्पूर्वपक्षयति ।। न मोह इत्यादिना ।। जाग्रत्स्वप्नयोस्सकाशादिति शेषः । हेतोरप्रयोजकतां परिहरति ।। अन्यथेति ।। मोहो भगवदितरत्रेत्यङ्गीकारे जाग्रदवस्थया स्वप्नावस्थया च साङ्कर्यापातादित्यर्थः ।। समानधर्मतयेति ।। स्वप्नजागरितविषयानुभवाभावेन सुषुप्तिसमानधर्मतयेत्यर्थः । दुःखानुसन्धानादैक्येनेति चोक्तम् ।

सूत्रे मुग्ध इति भावे क्तः । आत्मनीति अस्येति पदद्वयमनुवर्तत इति भावेन भाष्ये मोहाव-स्थायां परमेश्वरे जीवस्येत्युक्तम् ।। व्याख्यातुमिति ।। स्मृत्यैवेत्यर्थः । समानेत्युक्तन्यायप्रदर्शकं परिशेषादिति हेत्वंशं व्याख्याति ।। मोहो तावदित्यादिना ।। दुःखानुसन्धानादिति मोहावस्थातः-प्रागेव विषयानुभवेन जातस्य दुःखस्य तदानीमभावादित्यर्थः । न तु तदानीं विषयानुभवेन जातस्य दुःखस्यानुभवः तदाभिमानाभावेन दुःखजन्माभावात् । तदुक्तं सुप्तिप्रलयादावभावादिति गीताभाष्ये । कालादीत्यादिपदेन दशावस्थयोर्ग्रहणम् ।

ननु मोहे परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशाः प्रसक्ता इति पक्षचतुष्टयमात्रस्य प्रसक्त्युक्ति-रयुक्ता । जाग्रदवस्थायां हृदयस्थं परमात्मानमपेक्ष्य दक्षिणाक्ष्याख्यविदूरस्थानस्थितस्य जीवस्य स्वप्नप्राप्तये कण्ठदेशाख्यसमीपप्राप्त्यागमनसमये दक्षिणाक्षिकण्ठमध्यस्थत्वरूपनातिदूरत्वाख्य-प्रकारान्तरस्य प्रसक्तत्वात् । तथा समीपात्कण्ठदेशात् सुप्तौ प्रवेशाय हृदयं प्रत्यागमनसमये कण्ठहृदयमध्यदेशस्थत्वरूपातिसामीप्याख्यप्रकारान्तरस्य च प्रसक्तत्वादित्यत आह ।। नातिदूर-सामीप्यमिति ।। अतिदूरं च सामीप्यं चातिदूरसामीप्यम् । द्वन्द्वैकवद्भावः । तदुभयविलक्षणमुक्तं प्रकारद्वयं नातिदूरसामीप्यम् । तदुभयं चिरं नास्ति । मार्गमात्रत्वादतश्चिरकालीनमोहे चिरकालीनं प्रकारचतुष्टयमेव प्रसक्तं न तु पक्षद्वयस्याल्पकालीनस्य प्रसक्तिरिति भावः । यद्वातीत्येतद्दूर-सामीप्याभ्यां सम्बध्यते । न अति दूरं नातिदूरं नातिदूरं च तत् सामीप्यं च तदुभयं चिरं नास्तीत्यप्रसङ्ग इति योज्यम् । यद्वा ननु कण्ठहृदयमध्यदेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणाक्षिकण्ठमध्यदेशावस्थानस्यापि पृथगवस्थात्वं प्रसज्येताविशेषादित्यत आह ।। नातिदूर-सामीप्यमिति ।। दक्षिणाक्षिकण्ठमध्यप्रदेशस्य हृदयस्थानात् दक्षिणाक्षिवदतिदूरत्वं कण्ठवदति-सामीप्यं वा नास्तीति मार्गतया तत्तद्देशगतजीवस्य यन्नातिदूरसामीप्यं तत् जीवस्य चिरकालीनं नास्तीति हेतोस्तस्य पृथगवस्थात्वस्य प्रसङ्ग इति भावबोधोक्तार्थो ज्ञेयः ।

मोहस्यावस्थात्रयातिरिक्तत्वोपपादकया दुःखमात्रप्रतिस्मृतेरित्यंशं प्रकारान्तरेण व्याचष्टे ।। मोहोऽर्धप्राप्तीति ।। मोहे परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशानां प्रसक्तिमुक्त्वा पक्षत्रयव्यवच्छेदेन परिशेषस्यैकेन प्रकारेणोपपादितत्वात्प्रकारान्तरेत्युक्तम् ।। अन्यार्थादर्शनादिति ।। जाग्रत्स्वप्नार्था-दर्शनादित्यर्थः । नन्ववस्थाशब्दस्य स्त्रीलिङ्गत्वात् त्रयोऽवस्था इति कथमुक्तमित्यत आह ।। त्रयस्त्रिस्र इति ।। अवस्थेत्येकवचनान्तत्वमभिप्रेत्य पक्षान्तरमाह ।। दूरस्थादीति ।। अतो मोहावस्थेति । दुःखमात्रस्मृतेर्मोहोऽपि तु विशिष्यावस्था पृथगवस्थेत्यर्थः । यद्वा अतो मोहोऽवस्था मोहलक्षणावस्था दुःखमात्रप्रतिस्मृतेः परिशेषादर्धप्राप्तिरित्यवतारद्वयानुसारेणार्थः । मोहस्येश्वरान्याधीनत्वप्रापकाभावान्न चिन्त्यत इत्यत आह ।। मोहकारणादीनामिति ।। आध्यातव्याध्यादीनामित्यर्थः । कारणादीनामित्यादिपदेन तदुद्बोधकारणौषधादीनां ग्रहणम् । अत एव भाष्ये सोऽपीत्यपिशब्दस्य मूर्च्छा प्रबोधनं चेति स्मृत्यनुसारेण तदुद्बोधसमुच्चयार्थत्वं चेति भावः ।

तत्त्वसुबोधिनी

अस्याधिकरणस्यानन्तरसङ्गतिं वदन् शास्त्रादिसङ्गतिमाह ।। सर्वावस्थानामिति ।। प्रधानावस्थाविचारानन्तरमेवावान्तरावस्थाविचारावसर इति भावः । न चैवं स एवेत्यतः पूर्वमेवानेन भवितव्यमिति वाच्यम् । स्वप्नादिवन्न मोहोऽसङ्कीर्णावस्थेति ज्ञापनार्थं सूत्रकृता व्यवधानकरणादिति तात्पर्यम् । कुतो नेत्यतस्तत्र हेतुमाह ।। जाग्रत्स्वप्नयोरिति ।। सावकाशादिति शेषः । जाग्रत्स्वप्नयोः सावकाशात् मोहस्य पृथगवस्थानत्वात् तयोश्च विष्णोरन्यत्रैव सत्वात् मोहस्य तदन्यत्र सत्त्वं न युक्तमिति भावः । अप्रयोजकत्वं पृथगवस्थानत्वस्य परिहरति ।। अन्यथेति ।। मोहो भगवदितरत्रेत्यङ्गीकारे इत्यर्थः । नन्वस्तु मोहो भगवदितरत्र तथापि तस्य जाग्रत्स्वप्न-सङ्कीर्णता कुत इत्यतश्चोक्तम् ।। जाग्रत्स्वप्नयोरिति ।। पृथक् परमात्मन इति शेषः । तथा च जाग्रत्स्वप्नयोरेव परमात्मप्रवेशरूपावस्थात्वात् मोहस्याप्यप्रवेशरूपत्वाङ्गीकारे तत्सङ्कीर्णता स्यादित्यर्थः । ननु स्वप्नजाग्रदवस्थाभ्यां साङ्कर्यपरिहारेऽपि सुप्त्या साङ्कर्यं स्यादेव । तस्यापि मोहवत् भगवदितरत्राभावादित्याशङ्क्य निषेधति ।। न चेति ।। समानधर्मवत्तयेति ।। भगवति प्रविष्टत्वं बाह्यान्तर्द्वयजन्यज्ञानाभावरूपसमानधर्मवत्तयेत्यर्थः । व्याख्यातुमिति । स्मृत्यैवेत्यर्थः । कुतो न सम्भवतीत्यत आह ।। जाग्रदादीति ।। अत्र धर्माणामन्यत्रासम्भवादिति भावः ।। नापि जाग्रत्स्वप्नान्तर्भाव इति ।। दुःखमात्रस्य तत्रानुभवादिति भावः । अन्यथा सुखानुभवोऽपि स्यादिति भावः । नन्वेतावन्तं कालमत्राहं मूर्च्छितोऽभवमिति देशकालावस्थादुःखानामनुभवात् कथं दुःखमात्रप्रतिस्मृतेरित्युक्तमित्यतो दुःखपदमनुभूयमानसर्वोपलक्षणं मात्रपदं तु तद्व्यवच्छेदपर-मित्यभिप्रेत्याह ।। दुःखात्मकालेति ।।

ननु कण्ठहृदयमध्यप्रदेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणाक्षिकण्ठमध्यप्रदेशावस्थान-स्यापि पृथगवस्थात्वं प्रसज्येत । अविशेषादित्यत आह ।। नातिदूरसामीप्यमिति ।। दक्षिणाक्षि-कण्ठमध्यप्रदेशस्य हृदयस्य दक्षिणाक्षिवदतिदूरत्वं कण्ठवदतिसामीप्यं वा नास्तीति मार्गतया तत्प्रदेशगतजीवस्य यत्रातिदूरसामीप्यं तज्जीवस्य मोहवच्चिरकालं नास्तीति हेतोः तस्य पृथगवस्था-त्वस्याप्रसङ्ग इति भावः ।। दुःखेति ।। अन्यथा सुखानुसन्धानमपि स्यादिति भावः ।। अन्यार्था-दर्शनादिति ।। सर्वथाप्राप्तौ जाग्रत्स्वप्नयोरिव घटादिरूपान्यार्थदर्शनं स्यात् । न च तदस्तीत्यर्थः । अप्रतीतार्थत्वात् स्मृतिं व्याचष्टे ।। दूरस्थ इत्यादिना ।। जाग्रदेष्यति जाग्रदवस्थां प्राप्नोति । नन्ववस्थाशब्दस्य स्त्रीलिङ्गत्वात् त्रयोऽवस्थेति कथमुक्तमित्यत आह ।। त्रयस्त्रिस्र इति ।। नात्र त्रयोऽवस्था इति सामानाधिकरण्यं येन लिङ्गव्यत्यासदोषः स्यादित्याशयेन पक्षान्तरमाह ।। दूरस्थत्वादिति ।। मोहस्येश्वराधीनत्वशङ्काकारणाभावात् न चिन्त्यत इत्यत आह ।। मोहकारणादीनामिति ।। आध्यातव्याध्यादीनामित्यर्थः । आदिपदेन तदुद्बोधकारणौषधीनां ग्रहणम् । तर्हि बाह्यकारणदर्शनस्य का गतिरित्यत आह ।। बाह्येति ।। अत एवेत्यस्यार्थमाह ।। अनिश्चितेति ।।

वाक्यार्थविवरणम्

जाग्रत्स्वप्नयोः सकाशादिति शेषः ।। समानेति ।। सुप्तिमोहयोरात्मकालातिरिक्तबाह्यपदार्थ-ज्ञानाभाववत्त्वेन समानधर्मत्वादित्यर्थः ।। धर्मत्वादिति ।। परमात्मविदूरत्वादीनां त्रयाणामित्यर्थः । भाष्ये जाग्रत् जाग्रदवस्थामेष्यति प्राप्नोतीत्यर्थः ।। एतदिति ।। दुःखमात्रप्रतिस्मृतेरिति भाष्यमित्यर्थः ।। तमेव प्रकारं विवृणोति ।। न मोह इत्यादिना ।। इत्यादेः सर्वत्रेति ।। अनया श्रुत्या जीवस्यावस्थात्रयेऽपि भगवत्सम्बन्धप्रतिपादनात् जीवस्यावस्थात्रयेऽपि भगवत्सामीप्य-मेवेत्यर्थः ।। हृदयस्थादितीति ।। हृदयस्थभगवदपेक्षया सामीप्येनेत्यर्थः ।। अवस्था इति ।। अवस्था इति बहुवचनतया पदं विच्छिद्य त्रय इत्येतत् तद्विशेषणं तिस्र इति व्याख्यातम् । इदानीं मोहावस्थेत्येकवचनान्तमेवेत्यभिप्रेत्य त्रय इत्यनन्तरं पदानामध्याहारं चाभिप्रेत्य व्याचष्टे ।। दूरस्थत्वादिति ।। अतो मोहावस्थेति वेति । अतो मोहावस्था परिशेषतोऽर्धप्राप्तिरिति ज्ञेय इति भाष्येण सम्बन्धः ।

ननु एतावन्तं कालमहं दुःख्यासमिति परामर्शबलेन दुःखात्मकालानां त्रयाणां तदनुभवाङ्गी-काराद्दुःखमात्रप्रतिस्मृतेरिति मात्रशब्दः कथमिति चेत् सत्यम् । आत्मकालातिरिक्तवस्तुप्रति-स्मृतेरेव मात्रपदेनात्र व्यवच्छेद इति द्रष्टव्यम् ।। कर्मानुस्मृत्यादिनैवेति ।। उक्तरीत्या एष ह्येव एवेति सर्वकर्मणां भगवदधीनत्वस्य श्रुतत्वान्मोहप्राप्तेरेतदन्तर्भावादिति मोहस्य भगवदधीनत्वं सिद्धम् । अनुस्मृतिश्च प्रदर्शकस्त्विति पूर्वोक्ता न सम्भवति । तत्र मूर्च्छाया अनुपात्तत्वात् । अतो मूर्च्छा प्रबोधनमिति वक्ष्यमाणैवानुस्मृतिरत्र द्रष्टव्या ।। अत एवेति ।। यतोऽत्र स्मृतौ मूर्च्छाया भगवदधीनत्वं प्रतिपाद्यतेऽत एवेत्यर्थः ।। अयं विचारः ।। मोहे जीवस्य किं भगवत्यवस्थानमितरत्र वेत्यवस्थानविचारः । कुत इत्यत आह ।। अनिश्चितस्वरूपस्येति ।। मोहस्येत्यर्थः । अवस्थान-विशेषत्वेन मोहस्वरूपस्य निर्णये हि तादृशस्य मोहस्येश्वराधीनत्वं सुज्ञानमिति मोहेऽवस्थानमेव चिन्त्यते न भगवदधीनत्वमिति युक्त्यन्तरमनेनोक्तं भवतीति द्रष्टव्यम् ।

वाक्यार्थमञ्जरी

अवान्तरावस्था मूर्च्छा ।। द्विविधेति ।। द्विरूपेणेशतदन्यत्र भाविसुषुप्तिजाग्रदवस्था-दर्शनमित्यर्थः ।। जाग्रत्स्वप्नयोरिति ।। मोहस्य जाग्रत्स्वप्नयोःसकाशात्पृथगवस्थात्वादिति भावः । नन्वथापि मोहो भगवदन्यत्र किं न स्यादित्यत आह ।। अन्यथेति ।। जाग्रत्स्वप्नयोः परमात्मनः सकाशात्पृथगन्यत्र भागव्यवस्थानान्मोहस्यापि तथात्वाङ्गीकारे तदुभयसांकर्यं स्यादित्यर्थः । एतदर्थमुक्तं जाग्रत्स्वप्नयोःपृथगवस्थात्वादिति ।। परमात्मन इति शेषः । न चेष्टापत्तिः तयोः परस्परं पृथगवस्थात्वेनैकस्य मोहस्यैव सांकर्यायोगादिति भावः । एतदर्थमप्युक्तं जाग्रत्स्वप्नयोः पृथगवस्थात्वादिति । परस्परमिति शेषः ।। न चैवमिति ।। मोहस्य भगवत्प्रवेशावस्थानत्वाङ्गीकारे सुप्तेरपि तथात्वेन तत्सांकर्यप्रसङ्ग इत्यर्थः ।। समानधर्मतयेति ।। परमात्मप्रवेशार्थत्वेन मनआदि सर्वेन्द्रियोपरमत्वेन च समानधर्मत्वेन चेत्यर्थः ।। गुणत्वादिति ।। सुप्तेरप्यनेकत्वेन तत्साङ्कर्ये प्रागुक्तदोषाभावादिति भावः ।। ॐ मुग्धेऽर्धसंपत्तिः परिशेषात् ॐ ।। भावेऽक्तः । मुग्धे मोहे अर्धसंपत्तिः जीवस्य परमात्मन्यर्धप्रवेशः । कुतः ? परिशेषात् । हृदयस्थापेक्षया दूरत्वसामीप्य-प्रवेशार्धप्रवेशानां मध्ये आद्यत्रिकस्यासम्भवेनार्धप्रवेशस्य परिशिष्टत्वादित्यर्थः । व्याख्यातुं स्मृत्यैव धर्मत्वात् तेषामेतत्परिशेषेणार्धप्रवेशज्ञानम् ।। दुःखात्मकालेति ।। एतावन्तं कालमहं दुःख्य-भवमित्युत्तरकालीनपरामर्शादिति भावः ।

ननु हृदयकण्ठमध्ये प्रवेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणाक्षिकण्ठमध्यप्रवेशा-वस्थानस्यापि पृथगवस्थात्वं प्रसज्जेत । अविशेषादित्यत आह ।। नातिदूरसामीप्यमिति ।। दक्षिणाक्षिकण्ठमध्यप्रदेशस्य हृदयस्थानाद्दक्षिणाक्षिवदतिदूरत्वं कण्ठवदतिसामीप्यं वा नास्तीति मार्गतया तत्प्रदेशगतजीवस्य यन्नातिदूरं सामीप्यं तज्जीवस्य मोहवच्चिरकालं नास्तीति हेतोस्तस्य पृथगवस्थानस्याप्रसङ्ग इति भावः । एतद्दुःखमात्रेत्यादि तदेवाह ।। न मोह इति ।। अन्यार्थेति ।। आत्मकालदुःखातिरिक्तेत्यर्थः ।। दक्षिणाक्षीति ।। विश्वस्य दक्षिणनयनाग्रवृत्तित्वेन तैजसस्य कण्ठाधोभागस्थमनोवृत्तित्वेन तदुभयसामीप्यं दक्षिणाक्षिस्थस्याप्यस्तीति कथमक्षिस्थो दूरस्थ इत्यर्थः । अवस्थाशब्दस्य स्त्रीलिङ्गत्वात्कथं त्रय इति पुल्लिङ्गप्रयोग इत्यत आह ।। त्रयस्तिस्र इति ।। कारणान्तरादर्शने न विवादाभावान्न तच्चिन्त्यत इत्यत आह ।। मोहकारणानामिति ।। ताडनादीनामित्यर्थः ।। कर्मानुस्मृतीति ।। एष ह्येव साधु कर्म कारयतीति सर्वकर्मणां भगवदधीनत्वोक्त्या मोहस्यापि कर्मत्वेन भगवधीनत्वं सिद्धं अनुस्मृतिश्च वक्ष्यमाणा आदिशब्देन शब्दविधिग्रहणम् ।। अत एवेति ।। स्मृतौ भगवतो मूर्च्छातत्प्रबोधप्रवर्तकतया ज्ञेयत्वोक्तेरेवेत्यर्थः । सार्थक्यमेवेत्यत आह ।। अनिश्चितेति ।। नन्ववस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रेण ‘हृदि ह्येष आत्मा’ इति श्रुत्या च जीवस्य हृदये एव सर्वदाऽवस्थानाभ्युपगमात्कथमक्ष्यादि-स्थत्वमुच्यत इति चेन्मैवम् उत्तमानामंशेनाक्ष्यादिस्थत्वे विरोधाभावादन्येषामक्ष्यादिष्वभि-मानातिशयेनाक्षिस्थ इत्युक्त्युपपत्तेः । उक्तं चैतरेयभाष्ये । न हि जीवस्याक्षिणी पृथक्शिरो-बाह्वादिकं विद्यते हृदिस्थमेव हि तस्य रूपं जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवदिति । उक्तं च बृहद्भाष्ये । ‘हृदये संस्थितो जीवो विशेषेण हरिस्तथा । चक्षुरादिषु रूपाणि जाग्रत्काले तयोः सदा । बहूनि संस्थितान्ये यदैकीभावमाप्नुयुः । हृदयस्थेन रूपेण तदा जीवो न किञ्चन । जानाति’ इति विदुः प्राज्ञा इति । उक्तं चावस्थितिसूत्रे भाष्य एव । ‘असम्यक्सम्यगिति च ह्यवस्थाभेदतः सुराः । व्याप्त्यव्याप्तियुता’ इति सप्तमतात्पर्ये ।

।। इति मुग्धप्राप्त्यधिकरणम् ।। ७ ।।