ॐ वैश्र्वानर: साधारणशब्दविशेषात् ॐ
७. वैश्र्वानराधिकरणम्
सूत्रभाष्यम्
अदृश्यत्वादिगुणेषु सर्वगतत्वं "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्र्वानरमुपास्त’ (छां.उ.५-१८-१) इति वैश्र्वानरस्योक्तमित्यत आह
॥ ॐ वैश्र्वानर: साधारणशब्दविशेषात् ॐ ॥ २४ ॥
अग्नाविष्ण्वो साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणा-द्वैश्वानरो विष्णुरेव ॥ २४ ॥
सत्तकदीपावली
गताधिकरणेनोत्तराधिकरणस्याक्षेपिकीं सङ्गतिं दर्शयति ॥ अदृश्यत्वेति ॥ नित्यं विभुं सर्वगतमिति यत्सर्वगतत्वमुक्तं तन्न विष्णोरेव । श्रुत्यन्तरे वैश्र्वानरस्योच्यमानत्वात् । अभितो विगतमानत्वेनाभि-विमानमात्मानं वैश्र्वानरमिति वैश्र्वानराग्नाविव विष्णावपि स एष वैश्र्वानरो विश्र्वरूप इत्यादिना प्रयुक्तत्वात्साधारणो न विष्णोरेवावगमक इति प्राप्ते सूत्रं पठित्वा व्याचष्टे । वैश्र्वानर इत्यादिना ।
तत्त्वप्रदीपिका
एवं तावत् श्रुतिलिङ्गानामन्यत्रप्रसिद्धानां ब्रह्मणि समन्वयं प्रदर्शयता पादद्वयार्थनिगमनाय सर्वनाम्नां सर्विलङ्गानां च समन्वयदृढीकरणात्मकोऽखिलगुणोदीरणपरतया गुणविरहवादनिराकरणाकृति परम-कारुणिकेनामरगणगुरुणाऽयमधिकरणराज आरभ्यते । "यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मम्’’ इति मुण्डकश्रुतावदृश्यत्वादिगुणेषु सर्वगतत्वमुक्तम् । तदत्र छन्दोग-श्रुतावभिविमानशब्देनोच्यते । अभितो विगतं मानमस्येति "अभिविमा’ । ॐ ज्वलनजनार्दनयो साधारणस्य वैश्र्वानरशब्दस्य विष्णावेव प्रवृत्तिदर्शनेनोभयत्रप्रसिद्धोभयविधपदकदम्बकसमन्वयोप-न्यासावसरसूचनामाचरत्यग्नाविष्ण्वोरित्यादिना । प्रादेशमात्रत्वमधिकार्यपेक्षया । ""प्रादेशमात्रं पुरुषं वसन्तम्’’ इति च भागवते ॥
तत्त्वप्रकाशिका
अत्र लोकतोऽन्यत्र प्रसिद्धवैश्वानरनाम्न पाचकत्वाद्यनेकिलङ्गसमन्वयसिद्धये ब्रह्मणि समन्वयप्रतिपाद-नादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्योदाहरणपूर्वकं विषयादिकं च सूचयति ॥ अदृश्यत्वादीति ॥ गताधिकरणेऽदृश्यत्वादिगुणा विष्णोरुक्तास्तेषु सर्वगतत्वं चोक्तं "नित्यं विभुं सर्वगतम्’ इति । तददृश्यत्वादिगुणेषूक्तं सर्वगतत्वं च छन्दोगश्रुतावभिविमानपदेन वैश्वानरस्योक्तम् । अभितो विगतं मानं मर्यादा यस्येति । "मानं ज्ञानं लयश्चैव मर्यादा चैव (चापि) कथ्यते’ इत्यभिधानात् । तस्य च वैश्वानरस्य विष्णोरितरत्वे सर्वगतत्वमप्यन्यस्य प्रसज्येतेत्यवश्यनिर्णेयत्वम् । स वैश्वानरो विषय । किं विष्णुरन्यो वेति संशय । सर्वगतत्वमन्यत्र प्रसिद्धिश्च सन्देहबीजम् । नायं वैश्वानरो विष्णु किन्त्वग्निदेवता तेजोभूतं वा स्यादिति पूर्व पक्ष । वैश्वानरश्रुते । न च वाच्यं सर्वगतत्विलङ्गाद्वैश्वानरो विष्णुरिति । लिङ्गस्य श्रुतितो दुर्बलत्वात् । न च लिङ्गस्य निरवकाशत्वेन प्राबल्यात् श्रुतिबाधकत्वमिति मन्तव्यम् । श्रुतेरपि प्रसिद्धितो निरवकाशत्वात् । श्रुते विष्णुविषयत्वेऽग्न्यादिविषयतया लोकप्रसिद्धिबाधाद् वैदिकविद्याभेदव्यवहारविरोधाच्च । न हि वैश्वानरश्रुतेरग्न्यादिविषयत्वाभावे व्यवहारस्य गत्यन्तरमस्ति । अत प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेन वैश्वानरश्रुतेरग्नाविष्ण्वो साधारण्यमेव स्यान्न तु लिङ्गेन विष्णुपरतानिश्चय । अतो न वैश्वानरो विष्णुरिति न सर्वगतत्वं तस्येति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अयं वैश्वानरो विष्णुरेव । आत्मानं वैश्वानरमित्यात्मशब्दात् । न चोक्तरीत्या साधारणवैश्वानरश्रुतिसद्भावादनिर्णय इति वाच्यम् । साधारणस्यापि वैश्वानरशब्दस्य "आत्मशब्द परे विष्णौ नान्यत्र क्वचिदिष्यते’ इत्यादौ विष्णावेव प्रसिद्धत्वेनान्यत्रानवकाशात्मशब्दसामानाधिकरण्येन विष्णुपरत्वस्य सम्भवात् । प्रसिद्ध्यादेरन्यथापि सिद्ध्या सावकाशत्वस्य वक्ष्यमाणत्वादिति भाव ॥ २४ ॥
भावबोध
ॐ वैश्र्वानर साधारणशब्दविशेषात् ॐ ॥ लोकतोऽन्यत्र प्रसिद्धवैश्र्वानरनाम्न इति न च सूत्रभाष्ययो साधारणशब्देनास्योभयत्र प्रसिद्धत्वप्रतीतेर्नान्यत्र प्रसिद्धतेति वाच्यम्; सूत्रभाष्ययोरग्नौ वैश्र्वानरशब्दस्य लोकप्रसिद्धेर्विषयवाक्योक्तसर्वगतत्वादिविष्णुलिङ्गानाञ्च निरवकाशत्वेन तुल्यबलतया वैश्र्वानरशब्द-स्याग्नाविष्ण्वो साधारण्यस्यैवाभिप्रेतत्वान्नोभयत्र प्रसिद्धतेति भाव । अत एव वक्ष्यति । अत प्रसिद्धिलिङ्गयोरपि निरवकाशत्वेन वैश्र्वानरश्रुतेरग्नाविष्ण्वो साधारण्यमेव स्यादिति । नापि "विश्र्वजीवान्तर-त्वाद्यै लिङ्गै’ इत्यणुभाष्ये वैश्र्वानरशब्दस्य लिङ्गात्मकत्वोक्त्या तद्विरोध, वैश्र्वानरशब्दस्य सिद्धान्ते यौगिकत्वदर्शनार्थं अवयवार्थकथने तात्पर्यात् । अन्यथा वैश्र्वानरत्वाद्यैरित्यवक्ष्यत् । वैश्र्वानरशब्दस्य समन्वयेनान्तप्रतिष्ठानादिरूपिलङ्गानां य समन्वय सिद्ध तत्प्रदर्शनपरत्वाद्वा । अन्यथा विश्र्वनर-सम्बन्धित्वाद्यैरित्यवक्ष्यत् । अत एवानुव्याख्याने "श्रुतिर्लिङ्गाधिका परा’ इत्युक्तम् । भाष्ये वैश्र्वानर-शब्दस्येत्यस्य संमुग्धत्वेऽपि प्राक् प्राधान्येनेत्येतन्निरवकाशमिति भाव । पाचकत्वाद्यनेकिलङ्ग-समन्वयसिद्धय इति ॥ तेन पादसङ्गतिरुपपन्नेति भाव । अनन्तरसङ्गति टीकायामेव स्पष्टा ॥ किं विष्णुरन्यो वेति ॥ अत्र वैश्र्वानर किमग्निरुत विष्णुरिति चिन्ता । तदर्थमग्निश्रुतिलिङ्गसमानाधिकृतत्व-लोकप्रसिद्धिवैदिकसूक्तविद्याव्यवहारनियमविरोधबलेन वैश्र्वानरशब्द किमग्निदेवताभूतपर उत आत्मशब्दसामानाधिकरण्यगीतासमाख्यादिबलाद्विष्णुपर इति । तदर्थमग्निश्रुत्यादीनां निरवकाशत्वं प्रसिद्धिव्यवहारयोर्गत्यन्तराभाव, आत्मशब्दादीनां सावकाशत्वमुत विपरीतमिति । तदर्थमात्मशब्दादीनां निरवकाशत्वेऽग्निश्रुत्यादीनां सावकाशत्वे प्रसिद्धिव्यवहारयोर्गत्यन्तरे च प्रमाणं नास्त्युतास्तीति । तेजोभूतं वा स्यादिति । अनेन अग्नाविष्ण्वोरित्यादिभाष्येऽग्निशब्देनात एव न देवताभूतं चेत्युत्तरसूत्रानुरोधेन तेजोभूतमपि विवक्षितमित्युक्तं भवति ॥ साधारण्यस्यापि वैश्र्वानरशब्दस्येति ॥ अनेन श्रुतिसाधारण्ये विशेषश्रुत्यादेर्निश्र्चय इति न्यायविवरणमुक्तार्थं भवति । तत्रादिपदेन स्मर्यमाणमित्यादिसूत्रोक्तसमाख्यादे-र्ग्रहणमिति बोद्धव्यम् ।
भावदीप
ॐ वैश्र्वानर साधारणशब्दविशेषात् ॐ ॥ नाम्न इति ॥ श्रुतिर्लिङ्गाधिका परेत्यनुभाष्योक्ते । आपाततोऽन्यत्र रूढत्वात् । विश्वजीवान्तरत्वाद्यैरित्यणुभाष्योक्तिस्तु सिद्धान्तदिशा ब्रह्मणि यौगिकत्वाभिप्रायेणेति भाव । कथं तर्ह्यत्र पादे निवेश इत्यत फलत पादसङ्गतिरन्तर्नय इवेत्याह ॥ पाचकत्वेति ॥ तद्यद् भक्तं प्रथममागच्छेत् तद्धोमीयमिति वैश्वानरे तद्धुतं भवतीत्यादिना पाचकत्वहोमाधारत्वगार्हपत्याद्यङ्गकत्वादिश्रवणादिति भाव । यद्यपि पाचकत्वं कर्मेति वक्ष्यति । तथापि लिङ्गत्वमप्यस्तीति वा तदन्यिलङ्गापेक्षया वा एवमुक्ति । अधिकं चन्द्रिकायाम् । इत्यन्तं भाष्यं सङ्गतिपरत्वेन तावद्य्वाकर्तुं परिष्करोति ॥ गतेति ॥ भाष्यं व्याचष्टे ॥ अदृश्यत्वादिगुणेषूक्तमिति ॥ यस्त्वेतमित्यादेरर्थ ॥ छन्दोगेति ॥ पञ्चमे वैश्वानरविद्यायामित्यर्थ । प्रथमबृहद्भाष्योक्तमाह ॥ मानमिति ॥ भावमाह ॥ तस्येति ॥ वक्ष्यमाणन्यायेनेतरत्व इत्यर्थ । इति सङ्गतिसम्भवादिति हेत्वर्थोऽत्रेतिशब्द ॥ किं विष्णुरिति ॥ किं विष्णुरेव वाऽन्योऽपि वा इत्यर्थ । विष्णुरेव वेति सिद्धान्तकोटे शेषो वा तदेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरत्वेन व्याचष्टे ॥ नायमिति ॥ विष्णुरित्यस्य विष्णुरेवेत्यर्थ । अत एव न देवता भूतं चेति सूत्रमनुरुध्याऽऽह ॥ किं त्विति ॥ विष्णुरित्यप्यनुकर्ष । वैश्वानरस्येति भाष्यसूचितं तावदाह ॥ वैश्वानरेति ॥ अग्नाविष्ण्वो साधारणस्येति भाष्योक्तं साधारण्यमग्नाविष्ण्वो विवरिष्यन् श्रुतिलिङ्गयोस्तुल्यबलत्वं वक्तुमाह ॥ न चेति ॥ प्राबल्यादिति ॥ अन्तरादिनयन्यायेनेति भाव । श्रुतेरपीत्युक्तमेव साक्षादपीति सूत्रव्यावर्त्यं व्यनक्ति ॥ श्रुतेरिति ॥ लोकप्रसिद्धीति ॥ लोकव्यवहाराभावापातादित्यर्थ । नैष्फल्यं स्यादिति भाव । एतेनान्तरादिनयेष्वपि निरवकाशिलङ्गेनोक्ते श्रुतिबाधो न संमत इति पूर्वोक्तसर्वाक्षेपो दर्शित । अभिव्यक्तेरित्यादिसूत्राणां व्यावर्त्यचोद्यमाह ॥ वैदिकेति ॥ अग्न्यादिसर्वशब्दानां विष्णौ मुख्यत्वे सर्वस्य विष्णुविद्यात्वेनेयमग्निविद्या इयमात्मविद्येति भेदव्यवहारो न स्यात् । अस्ति च व्यवहार । तेन तेषामग्न्यादिवाचित्त्वं सिद्धमिति तद्विरोधान्न वैश्वानरादिशब्दानां विष्णुविषयत्वमित्यर्थ । व्यवहारस्य निरवकाशत्वं व्यनक्ति ॥ न हीति ॥ एवं च सिद्धं साधारण्यमित्याह ॥ अत इति ॥ व्यवहार-स्याग्न्यादिविषयत्वं विना गत्यन्तराभावादित्यर्थ । अग्नाविष्ण्वोरिति देवताद्वन्द्वे चेत्यनङादेश । अन्तर्नय इवोभयबाधेनैक्यं तु नाऽऽशङ्क्यम् । भूतसाधारणश्रुत्या प्राप्तं जडेनाभेदायोगात् । कथं तर्हि वैश्वानर-स्योक्तमिति भाष्यमित्यतो भावमाह ॥ अत इति ॥ श्रुते साधारण्यादित्यर्थ । सर्वगतत्वमित्यन्तवाक्यस्य तात्पर्यं न सर्वेति । विष्णुरितीत्यनन्तरं तस्येतीत्यनन्तरं च निश्चय इत्यनुषङ्ग ॥ व्युत्क्रमेण भाष्यं व्याचष्टे ॥ अयमिति ॥ श्रुतिसाधारण्ये विशेषश्रुत्यादे निश्चय इति न्यायविवरणदिशा हेत्वंशं व्याचष्टे ॥ आत्मानमिति ॥ विशेषणपदकृत्यं व्यावर्त्यपूर्वमाह ॥ न चेति ॥ वक्ष्यमाणत्वात् साक्षादपीत्यादि सूत्रेष्विति भाव ॥ २४ ॥
अभिनवचन्द्रिका
साधारणग्रहणं किमर्थम् ? साधारणग्रहणं वैश्वानरशब्दस्योभयत्र प्रसिद्धत्वज्ञापनार्थम् । न चैवं सति अस्याधिकरणस्य तृतीयपादप्रवेशापत्तिः । लोकतोऽन्यत्र प्रसिद्धत्वात् । लोकतोऽन्यत्रप्रसिद्धस्योभयत्र-प्रसिद्धत्वं विरुद्धमिति चेत्, उक्तम्, किमुक्तम् अन्यत्र प्रसिद्धत्वेन प्रतिपन्नत्वमन्यत्रप्रसिद्धत्वम् । उभयत्र प्रसिद्धत्वेन प्रतिपन्नत्वमुभयत्रसिद्धत्वम् । तदुभयमपि एकस्यैव शब्दस्याऽधिकारिभेदेनोपपन्न-मित्युक्तम् । अत एवेदमधिकरणं पादद्वयसन्धौ निवेशितम् । अत एवाऽनुव्याख्याने वैश्वानराधिकरणस्य प्रथमद्वितीयतृतीयपादशेषत्वज्ञापनाय एतदधिकरणारम्भात्प्रागेव ।
"बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दन’
इत्यनेन पादद्वयार्थोपसंहारः कृतः । एवं च सति द्वितीयपादार्थोपसंहारानन्तरम् एतदधिकरण-व्याख्यानात् तृतीयपादशेषत्वं ज्ञायते, तृतीयपादनिरूपणात्प्राग्व्याख्यानात् द्वितीयपादशेषत्वं ज्ञायते । द्वितीयपादार्थोपसंहारे कर्तव्ये प्रथमपादार्थोपसंहारात् अस्याधिकरणस्य प्रथमपादशेषत्वमपि भाष्यकाराभिमतमिति ज्ञायते । शास्त्रादिसङ्गतिरिति ॥ अस्याधिकरणस्य शास्त्राध्यायाभ्यां निरूपिता अतर्न्भावलक्षणा सङ्गतिः पादे, न तु औपोद्धातिकी सङ्गतिरिति विवेकः । एतेन वैश्वानराधि-करणव्यावृत्त्यर्थं प्राधान्येनेत्युक्तत्वात् पुनरस्याऽधिकरणस्य पादान्तर्भावाङ्गीकारे तद्विरोध इति परास्तम् । वैश्वानरस्योक्तमिति ॥ अदृश्यत्वाधिकरणप्रतिपाद्यस्य एतदधिकरणप्रतिपाद्यस्य च सर्वगतत्वेन प्रतीयमानत्वं पूर्वाधिकरणतच्छ्रुतिभ्यां सङ्गतिरिति भावः । नायं वैश्वानर इति ॥ साधकशून्यत्वादिति शेषः । ननु किं वाक्यं, तर्हि निरर्थकमेवेति पृच्छति किंत्विति ॥ न निरर्थकं वाक्यं वैश्वानरशब्दस्य अग्न्ौ तेजोभूते च प्रसिध्दिसद्भावात् अग्न्र्विा तेजोभूतं वा स्यात् । किं तद्विचारेणेत्याह अग्न्दिेवतेति ॥ एतेन पूर्वपक्षिणा अग्न्दिेवतैव, तेजोभूतमेवेति वा, अवधारणीयत्वेन "अग्न्दिेवता, तेजोभूतं वा स्या’दिति अनास्थयाऽभिधानमयुक्तमिति परास्तम् । पूर्वपक्षिणः विष्णुर्नेत्याग्रहेण अग्न्दिेवतादिपक्षपरिग्रहे आग्रहाभावात् ॥ साधकशून्यत्वरूपहेतोरसिद्धिमावक्य परिहरति न चेति ॥ श्रुतेः प्रसिद्धतो निरवकाशत्वं दर्शयति श्रुतेरिति ॥ भवेच्छ्रुतेः सावकाशत्वं यद्यग्न्यादिविषयकत्वप्रसिद्धः काचन गतिः स्यात् । न चैवं, किंतु वैश्वानरश्रुतेः विष्णुविषयत्वे अग्न्यादिविषयतया लोकप्रसिद्धेः भ्रममूलकत्व-लक्षणो बाध एव प्राप्नोतीति निरवकाशत्वमेवाऽभ्युपेयमिति भावः । हेत्वन्तरेण श्रुतेर्निरवकाशत्वमाह वैदिकेति ॥ वैदिकविद्याव्यवहरस्य भ्रममूलत्वलक्षणविरोधप्रसङ्गाच्च श्रुतेर्निरवकाशत्वमिति भावः । गत्यन्तरमस्तीति ॥ भ्रममूलकत्वकल्पनैव गतिर्नान्या गतिरस्तीति भावः अत इति ॥ अत इत्यस्य विवरणं प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेनेति ॥ वैश्वानरश्रुतेः अग्न्ाविष्ण्वोः ज्ञापकशून्यत्वेन साधारण्यमेव स्यादित्यर्थः । त्वयोपन्यस्तं सर्वगतत्विलङ्गं वैश्वानरशब्दस्य अग्न्पिरत्वनिर्णायकश्रुतेः निर्णयप्रतिबन्धायैवोपयुज्यते न तु विष्णुपरत्वनिर्णयायालमिति भावः । अत इति ॥ साधकशून्यत्विलङ्गस्याऽसिद्धेरभावादित्यर्थः । नात्मशब्दो वैश्वानरशब्दस्य विष्णुत्वनिर्णायकः । वैश्वानरश्रुतेरुभयत्रप्रसिद्धत्वेन प्रसिद्धिबललब्धाऽग्रिपरत्व निवारकत्वाभावात् । ततश्चाऽनिर्णय इत्याशङ्क्य निषेधति न चोक्तरीत्येति ॥ साधारणवैश्वानरश्रुतिसद्भावात् । वैश्वानरश्रुतेः अग्न्ाविष्ण्वोः साधारण्य-सद्भावात्, उभयत्रप्रसिद्धत्वादिति यावत् । आत्मशब्दरूपसाधकोपन्यासेऽपि उक्तरीत्या साधकाभावात् "नायं नैश्वानरो विष्णु’रिति पूर्वपक्ष्युक्तरीत्या अग्न्पिरत्वे बाधकाभावात् तदनिर्णय इति वक्तुं शक्यत्वाद-निर्णय एवेति न वाच्यमित्यर्थ । साधारणस्यापीति ॥ वैश्वानरशब्दस्य अग्न्पिरत्वनिरासाय साधकान्तरं मृग्यम् । विष्णुपरत्वनिर्णयायोपन्यस्तस्य आत्मशब्दसामानाधिकरण्यस्यैव तत्र बाधकत्वादिति भावः । नन्वेवं वैश्वानरशब्दस्योभयत्र प्रसिध्द्यङ्गीकारेण पूर्वत्र पूर्वपक्षनिरासेऽपि न प्रथमपूर्वपक्षनिरासः । तदुक्तान्यत्रप्रसिद्ध्यादेर्निरवकाशत्वादित्यत आह प्रसिद्धेरिति ॥
वाक्यार्थमुक्तावली
ॐ वैश्र्वानर साधारणशब्दविशेषात् ॐ ॥ लोकतोऽन्यत्र प्रसिद्धवैश्र्वानरनाम्न इति ॥ न च सूत्रे साधारणपदप्रयोगात् उभयत्र प्रसिद्धत्वमिति वाच्यम् । प्रसिद्धिलङ्गाभ्यां साधारण्यस्य तत्र विवक्षित-त्वेनोभयत्र प्रसिद्ध्या साधारण्यस्यानभिप्रेतत्वात् । अत एव वक्ष्यति अत प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेन वैश्र्वानरश्रुतेरग्नाविष्ण्वो साधारण्यमेव स्यादिति ॥ न च विश्र्वजीवान्तरत्वाद्यै लिङ्गैरिति सङ्ग्रहभाष्ये वैश्र्वानरशब्दस्य लिङ्गत्वोक्तिविरोध । वैश्र्वानरशब्दस्य सिद्धान्ते यौगिकत्वेन प्रवृत्तिनिमित्त-धर्मविवक्षया लिङ्गत्वोक्त्यविरोधात् । अन्यथा वैश्र्वानरत्वाद्यैरित्यवक्ष्यत् । अत एवानुव्याख्याने श्रुतिर्लिङ्गा-धिका परा इत्युक्तम् । विस्तरन्तु आनन्दमालावाक्योदाहरणपूर्वम् अस्माभिरन्यत्र कृतोऽनुसन्धेय ॥ पाचकत्वाद्यनेकिलङ्गसमन्वयसिद्धय इति ॥ तेन पादान्तर्भावाभावेऽपि औपोद्घातिक्या सङ्गत्याऽत्र निवेश इति भाव ॥ किं विष्णुरन्यो वेति ॥ अत्र वैश्र्वानर किमग्निरुत विष्णुरिति चिन्ता । तदर्थमग्निश्रुतिलिङ्गसमानाधिकृतत्वलोकप्रसिद्धवैदिकसूत्रविद्याव्यवहारनियमविरोधबलेन वैश्र्वानरशब्द किमग्निदेवताभूतपर उतात्मशब्दसामानाधिकरण्यगीतासमाख्यादिबलात् विष्णुपर इति । तदर्थमग्नि-श्रुत्यादीनां निरवकाशत्वप्रसिद्धव्यवहारयोर्गत्यन्तराभाव आत्मशब्दादीनां सावकाशत्वमुत विपरीतमिति । अत एव न देवता भूतं चेत्युक्ततत्सूत्रानुसारेणाग्नाविष्ण्वोरित्यादिभाष्येऽग्निशब्देनाभिमन्यमानं च विवक्षितमित्यभिप्रेत्याह ॥ तेजोभूतं वा स्यादिति ॥ भाष्योक्तं साधारण्यमग्नाविष्ण्वो विवरिष्यन् श्रुतिलिङ्गयोस्तुल्यबलत्वं वक्तुमाह ॥ न चेति ॥ साक्षादिति सूत्रव्यावर्त्यमाह ॥ श्रुतेरिति ॥ लोकप्रसिद्धीति ॥ लोकव्यवहाराभावापातादित्यर्थ । एतेनान्तरादिनयेष्वपि निरवकाशिलङ्गेनोक्तश्रुतिबाधो न सम्मत इति पूर्वोक्तसर्वाक्षेपो दर्शित । अभिव्यक्तेरित्यादिसूत्राणां व्यावर्त्यचोद्यमाह ॥ वैदिकेति ॥ अग्न्यादिसर्वशब्दानां विष्णुविषयत्वे सर्वस्य विष्णुविद्यात्वेनेयं वैश्र्वानरविद्याऽऽत्मविद्या प्राणविद्या वायुसूक्तमग्निसूक्तमित्यादिव्यवहारविरोधादित्यर्थ । अतो न वैश्र्वानरो विष्णुरिति निश्र्चय इत्यनुवर्तते । सूत्रे वैश्र्वानरो विष्णुरेवेति साध्ये साक्षाद्धेत्वनुक्ते शब्दविशेषादित्येतच्छब्दादिति बुद्ध्या विवेकेन सम्बध्यत इत्याह ॥ आत्मानं वैश्र्वानरमिति ॥ अनिर्णयेन कृतपूर्वपक्षव्यवच्छेदकतया साधारणस्यापि वैश्र्वानर-शब्दस्य शब्देनात्मशब्देन विशेषणात् समानाधिकृतत्वात् । ततश्र्च विष्ण्वेकवाचितया विशेषणात् विशेषितत्वादग्नेर्व्यावर्तितत्वात् विष्णुरेव वैश्र्वानर इति सूत्रार्थमभिप्रेत्याह ॥ न चोक्तरीत्येति ॥
तत्त्वसुबोधिनी
ॐ वैश्र्वानर साधारणशब्दविशेषात् ॐ ॥ यद्यपि वैश्र्वानरनाम्न सूत्रभाष्ययो अग्नाविष्ण्वो साधारण्यस्योक्त्योभयत्र प्रसिद्धता तथापि वैश्र्वानरशब्दस्य श्रुत्यन्तरे अग्नौ प्रयोगात् विषयवाक्ये अग्निशब्दसामानाधिकरण्याद्वा अन्यत्र प्रसिद्धत्वं नाभिप्रेतं येन श्रुत्यन्तरे विष्णावपि प्रयोगादुभयत्र प्रसिद्धता स्यात् किन्तु लोकत । अत एव टीकायां लोकतोऽन्यत्र प्रसिद्धेत्युक्तम् । सूत्रादावुक्तसाधारण्यम् अन्यत्र प्रसिद्धे विष्णुलिङ्गानां च निरवकाशत्वेन तुल्यबलतया न तु वैश्र्वानरशब्दस्य उभयत्र प्रसिद्धेरिति टीकायामेवोक्तम् । "विश्र्वजीवान्तरत्वाद्यैर्लिङ्गै’ इति भाष्यकारीयिलङ्गत्वोक्तिस्तु सिद्धान्ते वैश्र्वानरशब्दस्य यौगिकत्वदर्शनार्थम् अवयवार्थकथने तात्पर्यात् । अन्यथा "वैश्र्वानरत्वाद्यै’ इत्यवक्ष्यत् । अनन्तरसङ्गतिस्तु गताधिकरणोक्तसर्वगतत्वाक्षेपेण पूर्वपक्षोत्थानात् इति भाष्य एवोक्ता । पाचकत्वाद्यनेकिलङ्गसमन्वय इति । तेन पादसङ्गतिरुपपन्नेति भाव । ननु अभिविमानपदेन सर्वगतत्वं कथं लभ्यत इत्यत आह । अभित इति । तेजोभूतं वास्यादिति । अनेन अग्नाविष्ण्वोरिति भाष्ये अग्निशब्देन "अत एव न देवता भूतं च’ इत्युत्तरसूत्रानुरोधेन तेजोभूतमपि विवक्षितमित्युक्तं भवति । नन्वन्यत्र प्रसिद्धिरस्तु तथाप्यस्तु श्रुते विष्णुविषयत्वमित्यत आह ॥ श्रुतेरिति ॥ वैदिकेति ॥ अन्यविद्याया अपि विष्णुविषयत्वे वैदिकानां योऽयं विद्याभेदव्यवहार इयमग्निविद्येत्यादि तल्लोपाद्विरोध स्यादित्यर्थ । ननु व्यवहार प्रकारान्तरेण भविष्यतीत्यत आह । न हीति । साधारणस्यापि वैश्र्वानरशब्दस्य विष्णुपरत्व-सम्भवादित्यन्वय । तत्र हेतु अनवकाशात्मशब्देति । आत्मशब्दस्यानवकाशत्वं कुत इत्यत उक्तम् आत्मशब्द परे विष्णाविति । तर्हि प्रसिद्धे का गति अत आह ॥ प्रसिद्धेरिति ॥ अन्यथापि अभिव्यक्ते इत्यादि वक्ष्यमाणन्यायेनेति भाव ।
वाक्यार्थमञ्जरी
अन्यत्र प्रसिद्धेति ॥ न च सूत्रभाष्ययोरस्याग्नाविष्ण्वो साधारण्योक्त्योभयत्र प्रसिद्धत्वमिति वाच्यम् । वैश्वानरशब्दीयान्यत्र प्रसिद्धिसर्वगतत्वाख्यविष्णुलिङ्गयोरुभयोरपि निरवकाशत्वेन तुल्यबलत्वाभिप्रायेणैव तत्र साधारण्योक्त्योभयत्र प्रसिद्ध्यभिप्रायेण तदनभिधानादिति भाव ॥ वैश्वानरनाम्न इति ॥ न च विश्वजीवान्तरत्वाद्यैर्लिङ्गैरित्यणुभाष्येऽस्य लिङ्गत्वोक्त्या कथं नामत्वमिति वाच्यम् । तस्य सिद्धान्तै वैश्वानरशब्दस्य यौगिकत्वप्रदर्शनायावयवार्थकथन एव तात्पर्येण लिङ्गत्वकथने तात्पर्याभावात् । अन्यथा वैश्र्वानरत्वाद्यैरिति ब्रूयादिति भाव । पादसङ्गत्यर्थमाह ॥ पाचकत्वाद्यनेक-लिङ्गसमन्वयसिद्ध्यर्थम् इति ॥ यद्यपि पाचकत्वं कर्मेति वक्ष्यति तथापि लिङ्गत्वमप्यस्तीतीयमुक्ति ॥ अभिविमानपदेनेति ॥ न च प्रादेशत्वमात्रोक्तिविरोध । व्योमवच्चेति वक्ष्यमाणत्वात् । तेजोभूतं भूताग्नि । प्रसिद्धित लौकिकवैदिकप्रसिद्धित । तदेव क्रमेणोपपादयति ॥ श्रुतेरित्यादिना ॥ वैदिकेति ॥ वेदप्रसिद्धो योऽयं विद्याभेदव्यवहार इयं वैश्र्वानरविद्यानेयमित्यादिरूपस्तस्माद्विरोधादित्यर्थ । देवताद्वन्द्वे चेत्यनङादेशेऽग्नावैष्णवं चरुमित्यादिवदग्नाविष्ण्वोरित्युपपन्नम् ॥ ॐ वैश्र्वानर साधारणशब्दविशेषात् ॐ ॥ वैश्र्वानरमुपास्ते इत्याद्युक्तवैश्र्वानरो विष्णुरेव । अग्निविष्णुसाधारणवैश्वानरशब्दस्यात्मशब्देन विशेषणादित्यर्थ । वैश्वानरशब्दस्य विष्णुपरत्वसम्भवादित्यन्वय । कुत इत्यत उक्तम् ॥ आत्मशब्दसामानाधिकरण्येनेति ॥ आत्मानं वैश्र्वानरमिति सामानाधिकरण्येनेत्यर्थ । तस्याप्यन्यपरत्वं किं न स्यादित्यत उक्तम् ॥ अन्यत्रानवकाशेति ॥ तत्कुत इत्यत उक्तम् ॥ आत्मशब्द इति ॥
विवृति
यद्यपि वैश्र्वानरनाम्न सूत्रभाष्ययो अग्न्ाविष्ण्वो साधारण्यस्योक्ततया उभयत्र प्रसिद्धता तथापि वैश्र्वानरशब्दस्य श्रुत्यन्तरेऽग्न्ौ प्रयोगाद्विषयवाक्ये अग्न्शिब्दसामानाधिकरण्याद्वाऽन्यत्रप्रसिद्धत्वं नाभिप्रेतम् । येन श्रुत्यन्तरे विष्णावपि प्रयोगादुभयत्र प्रसिद्धता स्यात् । किन्तु लोकत । अत एव टीकायां लोकतोऽन्यत्र प्रसिद्धेत्युक्तम् । सूत्रादावुक्तसाधारण्यन्तु अन्यत्रप्रसिद्धेर्विष्णुलिङ्गानां च निरवकाशत्वेन तुल्यबलतया नतु वैश्र्वानरशब्दस्यान्यत्रप्रसिद्धेरिति टीकायामेवोक्तम् । विश्र्वजीवान्तरत्वाद्यैर्लिङ्गैरिति भाष्यकारीया लिङ्गत्वोक्तिस्तु सिद्धान्ते वैश्र्वानरशब्दस्य यौगिकत्वदर्शनार्थमवयवार्थे तात्पर्यकथनात् । अन्यथा वैश्र्वनरत्वाद्यैरित्यवक्ष्यत् । अनन्तरसङ्गतिस्तु गताधिकरणोक्तसर्वगतत्वाक्षेपेण पूर्वपक्षोत्थानादिति भाष्य एवोक्ता । पाचकत्वाद्यनेकिलङ्गसमन्वयेति ॥ तेन पादसङ्गतिरुपपन्नेति भाव । नन्वभिमानविपदेन सर्वगतत्वं कथं लभ्यत इत्यत आह ॥ अभित इति ॥ तेजोभूतं वा स्यादिति ॥ अतो नाग्न्ििवष्ण्वोरिति भाष्येऽग्न्शिब्देन "अत एव न देवताभूतं च’ इत्युत्तरसूत्रानुरोधेन तेजोभूतमपि विवक्षितमित्युक्तं भवति । नन्वन्यत्र प्रसिद्धिरस्तु तथापिश्रुतेर्विष्णुविषयत्वमस्तु इत्यत आह ॥ श्रुतेरिति ॥ वैदिकेति ॥ अन्यविद्याया अपि विष्णुविषयत्वेवै दिकानां शब्दानां योऽयं विद्याभेदव्यवहार इयमग्न्ििवद्येत्यादितद्विरोध स्यादित्यर्थ ॥ ननु व्यवहार प्रकारान्तरेण भविष्यतीत्यत आह ॥ नहीति ॥ साधारणस्यापि वैश्र्वानरशब्दस्य विष्णुपरत्वसम्भवादित्यन्वय । तत्र हेतुरनवकाशात्मशब्देति ॥ आत्मशब्दस्यानवकाशत्वं कुत इत्यत उक्तम् । आत्मशब्द परे विष्णविति ॥ तर्हि प्रसिद्धे का गतिरत आह ॥ प्रसिद्धेरिति ॥ अन्यथाऽभिव्यक्तेरित्यादिवक्ष्यमाणन्यायेनेति भाव ।