ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ
५. वैद्युताधिकरणम्
सूत्रभाष्यम्
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ।। ६ ।।
प्रकारान्तरेण तत्र तत्रोच्यमानत्वाद्वायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्क-नीयम् । विद्युत्पतिना वायुनैव ‘स एनान्ब्रह्म गमयति’ इति ब्रह्मगमनश्रुतेः ।
‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।
कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति बृहत्तन्त्रे ।।
।। इति वैद्युताधिकरणम् ।। ५ ।।
तत्त्वप्रदीपिका
तारतम्यक्रममनादृत्य बहुप्रकारेणोच्यमानत्वात्प्रधानवायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्यः स्यादिति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव ब्रह्मगमनश्रुतेः । आह हि विद्युतं गन्तव्यां प्रस्तुत्य ‘‘तत्पुरुषो मानवः स एनान्ब्रह्म गमयति’ इति । अस्मिन्नेवार्थे प्रमाणभूतं प्रकटार्थमुक्तश्रुतेरुपबृंहकं साक्षाद्भगवत्प्रणीतं तन्त्रवाक्यमिहाप्युदाहरति–
‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।
कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति ।।
‘दिवस्पतिः’ इति विशेषणं च तस्यैव स्यात् । ‘द्यौर्वाव विद्युत्तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इति श्रुतेः । विद्युत्पतिना वायुनैवेति न श्रीरपि पृथग्गन्तव्येत्यर्थः ।।
तत्त्वप्रकाशिका
अत्र ब्रह्मप्राप्तिमार्गे मुख्यवायोरन्तिमत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा तस्याति-प्राधान्यासिद्धेः समर्थनीयमेतत् । प्रकृतो मार्ग एव विषयः । किं तत्र मुख्यवायोरनन्तरं ब्रह्मणोऽ-र्वाग्गन्तव्योऽस्ति न वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । ब्रह्मणोऽर्वाग्वायोः परतोऽन्यः प्राप्योऽस्तीति पूर्वः पक्षः । तथाभ्युपगमेऽपि बाधकाभावात् । न च वाच्यं वायोः सर्वाधिकार्युत्तम-त्वात्स एवान्तिमप्राप्य इति । उत्तमत्वक्रमानुसारेण प्राप्तिक्रमाभावात् । ‘सोमं वैश्वानरं चेन्द्रं ध्रुवम्’ इत्यादौ सोमावरस्याग्नेरिन्द्रावरस्य च ध्रुवस्य पश्चात्प्राप्त्युक्तेः । अतो वायोरपि परतो गन्तव्य-सद्भावान्न तस्यातिशयेन प्राधान्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। वैद्युतेनेति ।। तत्र तत्र श्रुत्यादौ मार्गे प्रकारान्तरेण तारतम्यक्रमं विहाय प्राप्तेरुच्यमानत्वाद्वायोः परतो ब्रह्मणोऽ-र्वाग्गन्तव्योऽस्तीति न शङ्कनीयं किं तु वायुरेवान्तिमप्राप्यः । कुतः । यो ह्यन्तिमो भवति तस्य ब्रह्मप्रापयितृत्वेन भाव्यम् । राजादौ तथा दर्शनात् । ब्रह्मप्राप्तिश्च वायुनैव भवति । अतः स एवान्तिमः । ब्रह्मप्रापकत्वं च वायोः कुतः । ‘तत्पुरुषो मानवः स एनान् ब्रह्म गमयति’ इति श्रुतेरिति भावः । वायोरिवान्यस्यापि ब्रह्मप्रापकत्वेऽन्तिमत्वं सम्भवतीत्यत आह ।। विद्युदिति ।। अतो वायोरेवान्तिमत्वाद्युक्तं तस्यातिप्राधान्यमिति सिद्धम् ।।
भावबोधः
मुख्यवायोरन्तिमत्वसमर्थनादिति ।। पूर्वाधिकरणे दिवस्पतित्वेनोक्तस्य मुख्यवायोरत्रान्तिम-प्राप्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।। किमिति ।। अत्र प्राप्तिमार्गः किं मुख्यप्राण-परब्रह्ममध्यगतकिञ्चित्प्राप्यको भवत्युत न भवतीति चिन्ता । तदर्थं ‘सोमं वैश्वानरं चेन्द्रं ध्रुवम्’ इत्यादिनोक्तोत्तमक्रमानुसारेण प्राप्तिक्रमाभावः, मध्ये कस्यचित् प्राप्यत्वसाधको भवत्युत न भवतीति । तदर्थं वायोरन्यस्य ब्रह्मप्रापकत्वशक्तिरस्त्युत नास्तीति । तदर्थं ब्रह्मपापकत्व-शक्तेर्मुख्यप्राणमात्रनिष्ठत्वे विशेषप्रमाणं नास्त्युतास्तीति । ‘सोमादग्निमग्नेरिन्द्रम्’ इति सोमा-दवरत्वस्यापि प्राप्तेः प्राधानवायोरप्यवरोऽन्यः प्राप्योऽस्तीति न्यायविवरणं मनसि निधाय पूर्वपक्षं रचयति । ‘ब्रह्मणोर्वाग्वायोः परतोऽन्यः प्राप्य’ इत्यादिना उदाहृतन्यायविवरणानुसारेण तत्र तत्रेत्यादिभाष्यं व्याचष्टे– तत्र तत्रेत्यादिना ।। राजादौ तथा दर्शनादिति ।। अनेन न हि राजानं यः कश्चित् प्रापयति । क्लृप्तमतिप्रियं चापहायेति न्यायविवरणांशो व्याख्यातो भवति । ब्रह्मप्राप्तिश्च वायुनैव भवतीति । अनेनोत्तमत्वात्तस्यैव ब्रह्मप्रापयितृत्वशक्तेरिति न्यायविवरणमुक्ततात्पर्यं भवति ।। तत्पुरुषो मानव इति ।। उपलक्षणमेतत् । ‘वायुरेव ब्रह्म, गमयति तस्य ह्येषा शक्तिः’ इत्यादिन्यायविवरणोदाहृतश्रुतेश्चेत्यपि द्रष्टव्यम् ।
भावदीपः
मुख्यवायोरन्तिमत्वेति ।। एतेन पूर्वत्र दिवस्पतित्वबाधकेन चरमवायोरातिवाहिकत्वा-योगेऽपीह बाधकाभावान्मुख्यवाय्वनन्तरमपि तदवमः कश्चित्प्राप्योऽस्त्विति पूर्ववैषम्येण शङ्कना-त्पूर्वसङ्गतिरपि सूचिता । प्रधानवायोरप्यवरोऽन्यः प्राप्योऽस्त्वित्यन्यत्रोक्तप्रतिज्ञानुरोधेन वायो-रपीत्यादिभाष्यार्थमाह ।। ब्रह्मण इति ।। स्वयं हेतुमाह ।। बाधकाभावादिति ।। इयदा-मननादित्युक्तं हृदि कृत्वा शङ्कते ।। न चेति ।। तन्निरासकतया न्यायविवरणोक्तहेतुमुक्त्वा तत्रोक्तरीत्यैव हेतुमुपपादयति ।। उत्तमत्वेति ।। एतेनेयन्नयेन गतार्थता निरस्ता ।। अत इति ।। उत्तमत्वक्रमानुसारेण प्राप्तिक्रमाभावेन बाधकाभावादिति भावः ।। भाष्यं व्याचष्टे ।। तत्र तत्रेति ।। भाष्यस्य फलितार्थमाह ।। किं तु वायुरिति ।। भाष्यशेषमवतारयति ।। कुत इति ।। अस्य अत इति परिहारः । तस्य विवरणम् ।। यो हीत्यादि ।। हि यस्मादंतिम एव ब्रह्मप्रापिता । राजादौ दर्शनात् । यतो ब्रह्मप्राप्तिश्च वायुनैवातः स एवान्तिम इत्यर्थः । भाष्ये वायुनैव ब्रह्मगमन-श्रुतेरित्युक्तहेतोरप्रयोजकत्वनिरासाय । न हि राजानं यः कश्चित्प्रापयतीति न्यायविवरणसूचितायाः यो हीति सामान्यव्याप्तेरुक्तिः । भाष्योक्तश्रुतौ स इति तच्छब्दपरामर्शद्योतनाय पूर्ववाक्यमाह ।। तत्पुरुष इति ।। तस्याः पूर्वप्रकृतविद्युतः पुरुषो भर्ता मानवः । सर्वमनुस्वामी वायुरित्यर्थः ।। अत इति ।। वायोरेव ब्रह्मप्रापकत्वश्रवणादन्तिमस्यैव प्रभुप्रापकत्वस्य राजादौ दर्शनाच्चेत्यर्थः ।।
अभिनवचन्द्रिका
अन्यथेति । ननु वायोरन्तिमत्वसाधनं विनापि श्रुतिप्रामाण्यादेव अतिप्राधान्यसिद्धिर्भविष्यति । न हि भवति सोमेन्द्रयोः अग्निध्रुवाभ्यां परतः प्राप्यत्वं न समर्थितमित्येतावता विद्यमानमपि तदुत्तमत्वावेदकं प्रमाणमनादृत्य तयोरुत्तमत्वासिद्धिः । ततश्चेदमधिकरणमनारम्भणीयमिति चेत् सत्यं सिध्यत्येव प्रमाणबलात् अधिकार्युत्तमत्वं प्राणस्य, तथापि साक्षाद्भगवत्प्रापकत्वलक्षणं माहात्म्यं न सिध्यति । तद्यथा अमात्योत्तमस्यापि भाविपदनियुक्तस्य राजपुत्रस्य, राजेच्छाविरहात् न राजप्रापकत्वरूपं माहात्म्यम्, अपि तु अवरस्याप्यमात्यस्य तन्माहात्म्यं, तद्वदिहापि मुख्यप्राणस्य तन्माहात्म्यं नेति भ्रमनिरासाय समर्थनीयमेव चरमप्राप्यत्वमिति ।। बाधकाभावादिति ।। ननु मुख्यवाय्वनन्तरं प्राप्यान्तरसद्भावे प्रमाणमस्ति न वा । आद्ये तदेव वक्तव्यं, मानाधीनत्वान्मेयसिद्धेः । किं बाधकाभावोपन्यासेन । द्वितीये वाय्वनन्तरं अन्यः प्राप्योऽस्तीति रिक्तं वचः । न हि भवति नास्ति प्रमाणं अस्तितत्प्रमेयमिति इति चेत्, सत्यम् – प्रमाणमेव प्रमेयसिध्यर्थं वक्तव्यम् । उक्तं च – पूर्वपक्षिणा यदयमङ्गीकारे बाधकाभावमाह तदेव तत्र प्रमाणं बाधकाभावस्य वस्तुतथात्वेन विनाऽनुपपद्यमानत्वात् । तद्यथा रात्रिभोजनं विनाऽनुपपद्यमानं पीनत्वं तत्र प्रमाणमिति ।। अतिशयेन प्राधान्यमिति ।। सर्वेषां साक्षाद्भगवत्प्रापकत्व-रूपातिशयसहितप्राधान्यमित्यर्थः । एतेन इन्द्रादीनामिव प्रथमप्राप्यत्वेऽपि स्वाभाविकस्वमाहात्म्या-नपायात् अतिशयेन प्राधान्यं न स्यादित्ययुक्तमिति परास्तम् ।
पूर्वपक्षस्तु वायोः परतः ब्रह्मणोऽर्वाक्गन्तव्योऽस्ति । तथाऽङ्गीकारे बाधकाभावात् । एवं च न वायोः ब्रह्मप्रापकत्वरूपं विशिष्टं माहात्म्यमिति ।
सिद्धान्तस्तु नास्त्येव वायोरनन्तरं प्राप्यम् यतः । विद्युत्पतिना वायुनैव ब्रह्मप्राप्तिः न तु तदन्येन । तस्य ब्रह्म प्रापणसामर्थ्याभावात् । न च वायोरपि प्रमाणाभावेन तत्सामर्थ्याभाव इति वाच्यम् । ‘स एनान् ब्रह्म गमयति’ इति श्रुतेः । ‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चाऽपरः । कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति स्मृतेश्च । अतो वायोरेवान्तिमप्राप्यत्वात् युक्तं तस्याऽतिशयेन प्राधान्यमिति सिद्धम् ।।
वाक्यार्थमुक्तावली
मुख्यवायोरन्तिमत्वसमर्थनादिति ।। पूर्वाधिकरणे दिवःप्राप्त्यनन्तरं गम्यवायोर्मुख्यत्व-मुक्त्वाऽधुना तस्यैवान्तिमत्वप्राप्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। तदनन्तरमपि द्वारतया प्राप्तव्यान्तरसद्भावे दिव इव तस्याप्यतिप्राधान्यासिद्धेरित्यर्थः ।। किमिति ।। ब्रह्ममार्गे वायोरनन्तरं द्वारतया प्राप्योऽस्ति न वेति चिन्ता । तदर्थं तथाभ्युपगमे बाधकं नास्त्युतास्तीति । वायोरपि परतः ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीत्युत्तरभाष्यानुसारेण पूर्वपक्षयति ।। ब्रह्मण इति ।। तथाभ्युपगमेऽपीति ।। दिवः ब्रह्मणो द्वारतया प्राप्यान्तरसाहित्यदर्शनात् प्रकृतेऽपि मार्गत्वेन हेतुतयाऽभ्युपगमे बाधकाभावादित्यर्थः । एतेन बाधकाभावमात्रस्य प्रमेयासाधकत्वात् कथं तन्मात्रोपन्यास इति निरस्तम् । सत्प्रतिपक्षमाशङ्क्य निषेधति ।। न चेति ।। कुतो न वाच्यमित्यतः प्रकारान्तरेण तत्र तत्रोच्यमानत्वादिति भाष्यसूचितं विक्रम इत्युक्तन्यायं विशदयति ।। उत्तमत्वेति ।।
ननु दिवस्पतित्वेनावधृतमुख्यभावस्य वायोः पूर्वप्राप्यत्वे ब्रह्मैकगमयितृत्वाभावेन मुख्यत्व-व्याहतिरिति चेन्न । मुख्यप्राणस्य ब्रह्मैकगमयितृत्वे प्रमाणाभावात् । तथा चातिवाहिकस्य मुख्यान्यत्वे पूर्वगमनलिङ्गमप्यप्रयोजकमेवेति भावः । सूत्रे वैद्युतेनेति, भाष्ये च विद्युत्पतिना वायुनेति तृतीया प्रथमार्थे च । अन्तिमप्राप्य इति शेषः । तथा च विद्युतोऽयं वैद्युतः विद्युत्पति-र्वायुरेवान्तिमः प्राप्य इति प्रतिज्ञा न, किंतु वायुरेवान्तिमः प्राप्य इति वक्ष्यन् एवकार-व्यावर्त्यप्रदर्शनपरं प्रकारान्तरेणेत्यारभ्य न शङ्कनीयमित्यन्तभाष्यं व्याचष्टे ।। तत्र तत्रेत्यादिना नाशङ्कनीय इत्यन्तेन ।। प्रतिज्ञातार्थे हेतुं पृच्छति ।। कुत इति ।। तदुत्तरत्वेनापि वैद्युतेन तत इत्यंशं विद्युत्पतिना वायुनेति भाष्यं यतो ब्रह्मप्राप्तिश्चेत्यादावुपस्कारपूर्वं व्याचष्टे ।। ब्रह्मप्राप्तिश्च वायुनैव भवत्यतः स एवान्तिम इति ।। ब्रह्मप्रापयितृत्वहेतोरन्तिमत्वसाध्येन व्याप्तिमुपपादयितु-मन्तिमत्वस्य व्यापकत्वमाह ।। यो हीति ।। यो येन ह्यग्निमान् तस्य धूमवत्वेन भाव्यमिति-वदियमुक्तिरिति । दृष्टान्तमाह ।। राजादाविति ।। राजादावन्तिमेनैव गम्यत्वदर्शनादित्यर्थः । तदुक्तं न्यायविवरणे । न हि राजानं यः कश्चित्प्रापयति क्लृप्तमतिप्रियं चापहायेति हेतुस्वरूपे प्रमाणं पृच्छति ।। ब्रह्मपापकत्वं चेति ।। तदुत्तरत्वेन वैद्युतेनैव विद्युत्पतिना वायुनैव तच्छ्रुतेर्ब्रह्मगमन-मित्येतत्प्रतिपादकश्रुतेरिति भावेन प्रवृत्तं विद्युत्पतिनेत्यादिभाष्यं व्याचष्टे ।। तत्पुरुष इति ।। विद्युतं प्रस्तुत्य तस्याः पुरुषः पतिर्यो मानवः ज्ञानरूपत्वान्मनुनाम्नो हरेः सम्बन्धी वायुः स एनान्ब्रह्म गमयतीति श्रुतेरित्यर्थः । वायुनेत्यनुक्त्वा वैद्युतेनेति वचनं तत्पुरुषो मानव इति श्रुतिविशेष-द्योतनायेति भावः । वैद्युतग्रहणेनैव विद्युत्पतिर्वायुरेवेति स्मृतिश्च सूचितेति भावेनावतार्य व्याचष्टे ।। वायोरिवेति ।। स्मृतौ प्राणानां मन आदीन्द्रियदेवानां शेषादीनां नायकमृते कस्यापि ब्रह्मगमयितृत्वशक्तिर्नास्तीत्युक्तयोरुत्वमित्युक्तन्यायोऽपि हेतुस्वरूपसाधकमित्युक्तं भवति । तदुक्तं न्यायविवरणे । उत्तमत्वात्तस्यैव ब्रह्मगमयितृत्वशक्तेरिति ।
तत्त्वसुबोधिनी
मुख्यवायोरन्तिमत्वेति ।। पूर्वाधिकरणे दिवस्पतित्वेन उक्तस्य मुख्यवायोरत्रान्तिमप्राप्यत्वं समर्थ्य तदनन्तरसङ्गतिरिति भावः ।। उभयथासम्भव इति ।। वायोः उत्तमत्वात् अन्यो मार्गत्वेन नास्ति अर्चिरादिवन्मध्येऽन्योऽपि भविष्यतीत्युभयथासम्भव इति । वायोः उत्तमत्वात् अन्यः मार्गत्वेन नास्ति ।। तथा दर्शनादिति ।। राज्ञः समीपस्थस्य अन्तिमस्य खण्डाधिपत्यादि-प्रापयितृत्वस्य दृष्टत्वादित्यर्थः । तत्पुरुषो मानव इति । उपलक्षणमेतत् । वायुरेव गमयति । तस्य ह्येषा शक्तिरिति श्रुतेश्चेत्यपि दृष्टव्यम् ।
वाक्यार्थविवरणम्
ब्रह्मण इति ।। कार्याकार्यब्रह्मणः सकाशादर्वागित्यर्थः ।। परत इति ।। अनन्तरमित्यर्थः ।। स एवेति ।। वायोरनन्तरमन्यस्य प्राप्यत्वे तस्यैवान्तिमप्राप्यत्वप्राप्त्याऽधिकार्युत्तमत्वापत्तिरिति भावः । प्रकारान्तरेणेत्यस्यार्थमाह ।। सोमं वैश्वानरमित्यादिना ।। तथा दर्शनादिति ।। अन्तिमस्य मन्त्रिण एव राजप्रापकत्वदर्शनादित्यर्थः ।
वाक्यार्थमञ्जरी
वैद्युतेनैव विद्युत्पतिना वायुनैव ब्रह्मप्राप्तेर्यतस्ततः स एवान्तिमप्राप्यः तदेवं कुतः तच्छ्रुतेस्तेनैव ब्रह्मप्राप्तः स एवेति श्रुतिसिद्धत्वादिति भावः ।। राजादाविति ।। क्लृप्तस्यातिप्रियस्यान्तिमप्राप्यस्य मन्त्रिण एव राजादिप्रापयितृत्वदर्शनादिति भावः ।। तत्पुरुष इति ।। तस्याः विद्युतः पुरुषो भर्ता मननान्मनुः भगवान् तत्पुत्रत्वान्मानवो वायुरेनानधिकारिणो ब्रह्म गमयतीत्यर्थः ।।
।। इति वैद्युताधिकरणम् ।। ५ ।।