ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ
११. गायत्र्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ २५ ॥
"अथ यदत परो दिवो ज्योतिर्दीप्यत’ (छां.३-१३-७) इत्युक्तस्य ज्योतिषो "गायत्री वा इदं सर्वम्’ इति (छां.३-१२-१) गायत्र्या समारम्भ कृत । तस्मान्न विष्णुरिति चेन्न । तथा चेतोऽर्पणार्थं हि निगद्यते । अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते । तथा हि दर्शनं "गायति त्रायति च’ (छां.उ.३-१२-१) इत्यादि ।
"सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधो ह्यसौ ।
सर्वलोकाभिधो ह्येष तेषां तदुपचारत’ इति वामने ॥ २५ ॥
सत्तकदीपावली
अथ यदत परो दिवो ज्योतिर्दीप्यते विश्र्वत पृष्ठेषु सर्वत पृष्टेष्वनुत्तमेषूत्तमेषु लोकेषु इदं वा व तद्यदिदमस्मिन्नन्तपुरुषे ज्योति इति श्रुत्यन्तरादपि विष्णुरेव मुख्यज्योति । इदमेवाक्षिप्य समर्थयत्सूत्र-मुपन्यस्य व्याचष्टे ॥ छन्दोऽभिधानादित्यादिना ॥ न च वाच्यं गायत्री वा इदं सर्वमिति गायत्रीच्छन्द-प्रारम्भात् नात्र ज्योतिशब्दार्थो विष्णुरिति । गायति च त्रायति च तस्माद्गायत्रीनामेति गायत्रीशब्दस्य विष्णुपरत्वश्रुते सर्वच्छन्दोऽभिधो ह्येष इति पुराणवचनाच्चेत्यर्थ ।
तत्त्वप्रदीपिका
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ।
अथ यदत परो दिवो ज्योतिर्दीप्यत इत्यत्र ज्योतिरुच्यते । तस्मिन्ब्राह्मणे गायत्रीशब्देनोपक्रम कृत । तस्य चानुपसञ्जातविरोधित्वेन बलवत्त्वात् ज्यातिश्शब्दस्य तद्विषयत्वोपपत्ति । "तेजो वै ब्रह्मवर्चसं गायत्री’ इति श्रुते । अतोऽत्रापि न विष्णुर्ज्योतिरिति पूर्व पक्ष । अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यत इत्यस्य स्वपदवर्णनरूपस्य भाष्यस्यायमर्थ । अग्न्यादितेजश्शब्दानां गायत्र्यादिछन्दश्शब्दानां चार्थस्वरूपत्वेन निरूपणीयो विष्णुरेवेति बुद्ध्यवतरणार्थं हि तच्छब्दैर्निगद्यते । कथमन्यविषयतया प्रसिद्धानामन्यस्यैव मुख्यार्थत्वमित्यत आह तथा हि दर्शनं गायति च त्रायति चेति । "इयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयत’ इत्यादिकमादिशब्दाद्द्रष्टव्यम् । "पृथुत्वात्प्रथित्वाच्च पृथिवी विष्णुरुच्यते’ । अग्रणीत्वादगनेतृत्वाददनाच्चाग्नि । ऊषणकरणत्वादुष्णिक् । स्वेच्छानुरोधेन स्तोभनादनुष्टुप् । त्रिभिर्वैदै स्तूयत इति त्रिष्टुप् । छन्द्यत्वाच्छन्द इत्येवं द्रष्टव्यम् ।
तत्त्वप्रकाशिका
अत्र सूत्रमेवादौ पठति ॥ छन्दोऽभिधानादिति ॥ लोकतोऽन्यत्रप्रसिद्धगायत्रीनाम्नोऽत्र हरौ समन्वयसमर्थनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयपूर्वपक्षतत्फलानि सूचयन् सूत्रं व्याचष्टे ॥ अथेति ॥ हृदयनिहितं ज्योतिर्विष्णुरित्यभिहितं तच्च ज्योतिश्र्छन्दोगश्रुतौ श्रूयते । अथ यदत परो दिवो ज्योतिर्दीप्यते विश्र्वत पृष्ठेषु सर्वत पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्पुरुषे ज्योतिरिति । एतच्च गायत्रीत्वेन पठ्यते । गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वमित्युपक्रमात् । इयं च गायत्री यदा विष्णोरन्या स्यात्तदेदं ज्योतिश्च सा स्यादिति गायत्री-निर्णयोऽत्रावश्यापेक्षित । सा गायत्री विषय । किं विष्णुरुत छन्दोविशेष इति सन्देह । ज्योतिश्रुति-र्लोकप्रसिद्धिश्च सन्देहबीजम् । तत्र गायत्री छन्दोविशेष एवेति पूर्व पक्ष । गायत्रीशब्दस्य तत्रैव रूढत्वात् । वाग्वै गायत्रीति वाक्त्वविधानाच्च । न च ज्योतिश्रुत्या गायत्र्यादिश्रुतिबाध । श्रुते श्रुतिबाधकत्वायोगात् । न च सावकाशत्वादिना बाध्यबाधकभाव । गायत्र्यां "तेजो वै ब्रह्मवर्चसं गायत्री’ इति ज्योतिशब्दानतिभिन्नार्थ-तेजशब्दश्रवणेन ज्योतिश्रुतेरेव सावकाशत्वात् । न च गायत्रीश्रुतिर्विष्णाववकाशवती रूढेरभावात् । योगस्य चामुख्यवृत्तित्वात् । न च गायत्र्या भगवदधीनत्वेन तस्मिन्नेव तच्छ्रुतेर्मुख्यत्वमिति वाच्यम् । गायत्र्या वेदविशेषत्वेन नित्यत्वात् । नित्यस्य च पराधीनताऽयोगात् । तस्मात् गायत्री न विष्णुरपि तु छन्दोविशेष एव । ततश्चेदं ज्योतिरानन्दमयश्च नासाविति भाव । सिद्धान्तयत्सूत्रांशमनुकरोति ॥ नेति ॥ स्वपदानि वर्णयति ॥ अग्नीति ॥ अत्र गायत्रीशब्देन विष्णुरेव निगद्यते । तस्माज्ज्योतिशब्देनापि स एव निगद्यते । ततश्च स एवाऽऽनन्दमय । न च गायत्र्यादिशब्दैरुच्यते तदभेदविधानार्थं किन्तु गायत्र्यादिशब्दार्थगुणस्वरूपत्वेनोपासनार्थमेवेति भाव । आदिपदेन वाचो ग्रहणम् । अधिकरणान्तरेऽप्येतन्न्यायस्यानुसन्धेयत्वं च हिशब्देन सूचयति । भवेज्ज्योतिषोऽपि विष्णुत्वं यदि गायत्रीयं विष्णु स्यात्तदेव कुत इत्यत आह ॥ तथा हीति ॥ दर्शनं श्रुति । एतद्गायत्र्या गानत्राणकर्तृत्विलङ्गश्रवणात्तस्य च छन्दस्यसम्भवाद्विष्णुरेव गायत्री ततो ज्योतिरपि स एवेति भाव । आदिपदेन "या वै सा गायत्रीयं वाव सा येयं पृथिवी’ इत्यादे सङ्ग्रह । ननु गायत्री-श्रुतेरन्यत्र निरूढत्वात्कथं लिङ्गमात्रेण विष्णुत्वनिश्चय इत्यत आह ॥ सर्वेति ॥ गायत्रीश्रुते पौराणिक-रूढ्या श्रुत्युक्तयोगेन गायत्र्या भगवदधीनत्वेन च विष्णावेव मुख्यवृत्त्या सावकाशत्वात् लिङ्गस्यामुख्य-वृत्त्याप्यन्यत्रानवकाशात् सावकाशश्रुते निरवकाशिलङ्गेन बाधोपपत्तेर्युक्तो लिङ्गमात्रेणायं निर्णय इति भाव । न च नित्यस्य पराधीनत्वायोग ।
"स्वभावजीवकर्माणि द्रव्यं काल श्रुति क्रिया ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’
इति नित्यानामपि भगवदधीनत्वस्य श्रौतत्वात् । अत्र देवलोकपदाभ्याम् अग्निपृथिव्यादिशब्दानां च भगवत्परत्वमुच्यते ॥ २५ ॥
गुर्वर्थदीपिका
सौत्रपदैरेव व्याख्यानात् अनुकरोतीत्युक्तम् । एतन्न्यायस्य तत्र तत्र समन्वीयमानपदविभाग-लभ्यस्याऽऽसमन्तात् प्रकाशनादिगुणवत्तया भगवति चेतोऽर्पणस्य । गायति स्वभक्तान्प्रति सामगानं करोति त्रायति मुक्तिं दत्वा तान् रक्षयतीति श्रुत्यर्थमभिप्रेत्योक्तं गानत्राणकर्तृत्विलङ्गश्रवणादिति ।
भावबोध
॥ ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ "हृदयनिहितम्’ इत्यनेनानन्तरसङ्गतिरुक्ता भवति ॥ किमिति ॥ अत्र गायत्री किं छन्द उत विष्णुरिति चिन्ता । तदर्थं गायत्रीश्रुतिर्गानत्राणकर्तृत्वादिविष्णुप्रापकबाधिका उत तद्बाध्येति । तदर्थं सा श्रुतिस्सदुपोद्बल-कत्वेनाभिमतममृतं दिवीति परो दिव इत्युपदेशभेदविरोधादिकं च किं निरवकाशमुत सावकाशमिति । तदर्थं गायत्र्यादिशब्दप्रवृत्तिकारणं द्युस्थितत्वद्युपरत्वादिकं च हरेर्न सम्भवत्युत सम्भवतीति । तदर्थं हरेरनादिपदार्थतत्स्वभावनियामकत्वं द्युस्थितत्वद्युपरत्वोपदेशाविरोधापादकादिकं नास्त्युतास्तीति । तदर्थं तत्र तत्कल्पकत्वेनाभिमतस्य भूतादिपादत्विलङ्गादे विष्ण्वैकनिष्ठत्वरूपनिरवकाशत्वे च प्रमाणं नास्त्युतास्तीति । पूर्वाधिकरणेन गतार्थतां निरस्यति न च गायत्र्या इति ॥ कुत इत्यत आकाशादि-शब्दप्रवृत्तिनिमित्तविवरत्वादेराकाशादिस्वभावत्वेऽपि तद्धर्मिण आकाशादेर्जन्यत्वेन धर्मिणा सह भगवदधीनत्वाद् भवतु तन्निमित्तकाकाशादिशब्दानां भगवति मुख्यत्वम् । वेदविशेषरूपगायत्र्या अनादित्वेन तत्स्वभावभूतगायत्रीशब्दप्रवृत्तिनिमित्तस्य तद्रीत्यापि भगवदधीनत्वाभावात् कथं गायत्र्यादिशब्दानां भगवति मुख्यत्वमिति ।
"नित्यत्वादेव शब्दस्य तत्स्वभाव कथं हरे’ इत्यनुव्याख्यानोक्ताभ्यधिकाशङ्कामाह गायत्र्या वेदविशेषत्वेन नित्यत्वादिति । अनेन आकाशाधि-करणोदाहृतन्यायविवरणे बुद्ध्या विवेकेन नित्यत्वे विद्यमान इत्ययं भागो व्याख्यातो भवति । न्याय-विवरणाक्षरयोजना तु अधिभूताध्यात्माधिदैवगतशब्दानां भगवद्विषयत्वमेवेत्यन्वय । भगवद्विषयत्वाभावे पूर्वपक्ष्यभिप्रेताचेतनत्वादिहेतूनामप्रयोजकत्वप्रदर्शनार्थमचेतनत्वजीवान्वयव्यतिरेकनित्यत्वेषु विद्यमानेष्व-पीत्युक्तम् । अत एवापिशब्द । अचेतनत्वेत्यत पूर्वमाकाशाद्यधिभूतप्राणाद्यध्यात्मगायत्र्याद्यधिदेवानामिति शेषो वाऽधिभूतेत्यादिवाक्यादर्थतो लाभो वा द्रष्टव्य इति । अत्र नित्यत्वं नामानादित्वं विवक्षितम् । ध्वंसाप्रतियोगित्वमात्रत्वे तु जन्यत्वाविरोधेनेश्र्वराधीनत्वाविघटकत्वात् पूर्वपक्षयुक्तित्वं न स्यात् । अत एवोक्तं सुधायाम् "वेदस्य नित्यत्वादनादित्वाच्च’ इति ॥ ननु कृतकक्रमविशिष्यवर्णसमुदायरूपस्य वेदस्य कथमनादित्वमिति चेत्, न; यत स्वतन्त्रपुरुष-पूर्वकत्वभूतभवद्भविष्यद्भिरखिलैरेकप्रकारेण पठ्यमानत्वमेवानादित्वं वेदस्य विवक्षितम् । अत एवोक्तं विष्णुतत्त्वनिर्णयटीकायाम् "स्वतन्त्रस्य वक्तुरभावादपौरुषेयत्वमुपपद्यते’ इति । एतदेव चानादिनित्यत्व-मिति च । एतावतैव शब्दस्वभावभूतपदार्थप्रतिपादनशक्ते पराधीनत्वासम्भवेनेश्र्वराधीनत्वविघटनोपपत्तौ मुख्यानादित्वकल्पनावैयर्थ्यात् । न चैवंविधमनादित्वम् आकाशादीनामिति तदुक्तेरभ्यधिकाशङ्का-प्रदर्शकत्वमिति भाव । ननु "विकारशब्दान्नेति चेत्’ इत्यनेन पूर्वमानन्दमयस्य "जीवमुख्यप्राणिलङ्गान्नेति चेत्’ इत्यादि-नोत्तरत्र प्राणादीनां विष्णुत्वाक्षेपपरिहारवदत्राप्यग्निसूक्तोक्तं ज्योतिर्विष्णुर्न । अथ "यदत परो दिवो ज्योति’ इत्युक्तस्यैव ज्योतिषस्तदुपक्रमे "गायत्री वा इदं सर्वम्’ इति गायत्रीरूपच्छन्दोविशेष-त्वेनाभिधानादित्याक्षिप्य गायत्रीशब्दस्यापि विष्णुपरत्वान्नेयमनुपपत्तिरिति परिहारसम्भवेनेदमपि सूत्रं तथैव ज्योतिरधिकरणशेषत्वेनैव व्याख्यायताम् । एवं सत्यग्निगायत्र्यादीति भाष्येऽग्निशब्दोपादानं सूत्रे समन्वेतव्यशब्दानुक्तिराक्षेपसमाधानरूपत्वं च सङ्गच्छते । किमिति टीकायामधिकरणान्तरत्वेन व्याख्यानमस्येति चेत्, न; तथात्वे उदाहृतन्यायविवरणविरोधात् ॥ "नित्यत्वादेव शब्दस्य तत्स्वभाव कथं हरे’ ॥ इत्यनुव्याख्यानविरोधाच्च ॥ तथा हि न्यायविवरणे अधिवेदस्य नित्यत्वेऽपि तद्गतस्य शब्दस्य विष्णुविषयत्वमित्युक्त्या वेदवाचकशब्दस्य समन्वेतव्यत्वं वेदगतनित्यत्वस्य पूर्वपक्षयुक्तित्वं चोच्यते । न च चतुसूत्र्या एकाधिकरणत्वे तत्सम्भवति । तथात्व आकाशप्राणगताचेतनत्वजीवनान्वयव्यतिरेकयो-रिवाग्निगतस्यैव कस्यचिद्धर्मस्य पूर्वपक्षयुक्तित्वेनाग्निवाचकस्यैव शब्दस्य समन्वेतव्यत्वेन च कथनं स्यात् । अनुव्याख्यानेऽपि "नित्यत्वादेव शब्दस्य’ इति वेदरूपशब्दस्याकाशप्राणादिवत् समन्वेतव्यशब्दवाच्य-त्वोक्त्या तद्गतार्थप्रतिपादनशक्तेर्नित्यत्वस्याकाशगतविवरत्वस्वभावत्वस्येव पूर्वपक्षयुक्तित्वोक्त्याऽय-मेवार्थोऽभिहित । न च "अथवाऽत्राप्यथ यत परो दिव’ इति वाक्योक्तज्योतिषि सन्देह इत्यादि सुधाग्रन्थपर्यालोचनया ज्योतिश्शब्दस्यैव समन्वेतव्यत्वप्रतीतिरिति वाच्यम् । तथात्वेऽपि तदुक्तरीत्यैव "अथ यदत’ इति वाक्यगतज्योतिश्शब्दस्य समन्वेतव्यत्वप्राप्तावप्यधिकरणैक्यालाभात् । एवञ्चाग्नि-गायत्र्यादिशब्दार्थरूपोऽसाविति भाष्ये ज्योतिश्शब्दपर्यायाग्निशब्दस्य प्रथमं तत्र पूर्वपक्षयुक्तित्वेन क्रमेणाशङ्कितयोर्गायत्रीवाक्शब्दयोरनन्तरमुपादानम् "प्रणेता ज्योति इत्याद्यै’ इति सङ्क्षेपे आदिपदस्य तत्तदधिकरणन्यायसञ्चारविषयशब्दान्तरसङ्ग्राहकतया सावकाशत्वेन ज्योतिरितिवद् गायत्रीशब्दानुपादानं चात्राधिकरणैक्यज्ञापकम् । अधिकरणभेदेऽपि "अथ यदत’ इति वाक्यगतज्योतिश्शब्दस्य समन्वेतव्यत्वपक्षमादाय भाष्ये प्राधान्याप्राधान्याभ्यामग्निगायत्र्यादिशब्दोपादानस्य सङ्क्षेपे प्रणेतेत्यनेन प्राणाधिकरणद्वयसङ्ग्रहवज्ज्योतिरित्यनेनैवेतदधिकरणद्वयसङ्ग्रहसम्भवेन गायत्रीशब्दानुपादानस्य चोपपत्ते । ""ज्योतिश्र्चरणाभिधानात्’ इति सूत्रोक्ताक्षेपसमाधानरूपत्वमस्याधिकरणान्तरत्वेऽप्यङ्गीकृतमेवेति नानुपपत्ति । "आनुमानिकमप्येकेषाम् इति चेत्’ इत्यादिवत् समन्वेतव्यशब्दानुक्तिराक्षेपसमाधानरूपतया सूत्रविन्यासोऽप्युपपद्यते । भाष्येऽग्निशब्दग्रहणं तु गायत्रीशब्दसमन्वयकथनेन ज्योतिशब्दस्य विष्णुपरत्वं समाहितमिति ज्ञापनार्थम् । अत एव टीकायां गायत्रीपदेन विष्णुरेव निगद्यते । तस्मात् ज्योतिश्शब्देनापि "स एव निगद्यते’ इति तयोर्हेतुहेतुमद्भाव प्रदर्शित । तथा गायत्रीशब्दवाच्यत्वे विष्णोर्बाधकत्वेनोक्ते वाक्शब्दस्यापि विष्णुपरत्वं तत्समाधानार्थं वक्तव्यमित्यादिपदं प्रयुक्तम् । अत एव टीकायामादिपदेन वाचो ग्रहणमित्युक्तम् । ननु तर्हि गायत्र्यग्न्यादिशब्दार्थरूप इति निर्देश स्यादिति चेत्, सत्यम्; तथाप्यन्यत्र प्रसिद्धस्य गायत्रीशब्दस्य विष्णौ प्रयोगे प्रयोजनं सूचितमित्यपि ज्ञापनार्थमग्निगायत्र्यादीत्येवक्रमेण निर्देश । अस्मिन् पक्षे, ""ज्ञानार्थमध्ययनार्थं गुणानां समुदीरणा’ इति प्रमाणप्रसिद्धिद्योतको "हि’शब्द इति ध्येयम् । वाचो ग्रहणमिति । "वाग्वै गायत्री’ इति श्रुतौ वाक्शब्दार्थगुणवत्तयोपासनार्थम् "विष्णुर्वाक्’ इत्युक्तम् । तथा च वाक्यमपि न विष्णुत्वबाधकमिति दर्शयितुं भाष्य आदिपदमित्यर्थ । अनुसन्धेयत्वं हिशब्देन सूचयतीति । एतदध्यायगतानन्दमयाद्यधिकरणेषु तत्तच्छब्दसमन्वयकथनं तत्तच्छब्दार्थयुक्तत्वेन हरेर्ध्यानार्थमुक्तमिति न्यायस्यानुसन्धेयत्वं चेतोऽर्पणार्थं हि निगद्यत इति भाष्यगत"हि’शब्देनाचार्य सूचयतीत्यर्थ । प्रसिद्ध्यर्थको "हि’शब्दोऽस्यार्थस्य सार्वत्रिकत्वं गमयतीति भाव । पृथिवी इत्यादे सङ्ग्रह इति । "या वै सा’ इत्यादिना गायत्र्या पृथिव्यभेदमुक्त्वा "अस्यां हीदं सर्वं प्रतिष्ठितम्’ इति पृथिव्या सर्वाधारत्वमुक्तम् । तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वे युक्तं नान्यथेत्यर्थ ॥ लिङ्गस्येति ॥ अनेनानन्यथासिद्धिलङ्गैरिति न्यायविवरणं पूर्ववद्व्याख्यातं भवति ॥ सावकाशश्रुते-र्निरवकाशिलङ्गेनेति ॥ अनेन "सन्दिग्धा’ इत्यादिन्यायविवरणं पूर्ववद्व्याख्यातं भवति । उपलक्षणं चैतत् । सैद्धान्तिकश्रुतिलिङ्गानां बाहुल्यमपि प्राबल्यनिमित्तं द्रष्टव्यम् । अत एवोक्तमनुव्याख्याने "बाहुल्यात् श्रुतिलिङ्गयो’ इति । न्यायविवरणे च पुरुष इत्यादीत्यादिपदेन श्रुतिबाहुल्यं "लिङ्गै’ इति बहुवचनेन लिङ्गबाहुल्यं चोक्तम् । भाष्ये च "गायति च त्रायति चेत्यादि’ इत्यत्रादिपदेन लिङ्गबाहुल्यमुक्तम् ।
भावदीप
॥ ॐ छन्दोऽभिधानात् ॐ ॥ अन्यत्रेति ॥ वर्णसमावेशरूपमन्त्र इत्यर्थ । अध्याहारेण भाष्यस्योक्तार्थसूचकत्वं ॥ हृदयेति ॥ छन्दोगेति ॥ तृतीयेऽध्याये ज्योतिरितीति श्रूयत इत्यन्वय । सौत्रपदानां अर्थोऽगे्र व्यक्त इति गायत्र्या समारम्भ कृत तस्मादित्यन्तभाष्यस्यार्थ इत्युपक्रमादिति । विष्णुरित्यस्य तात्पर्यमाह ॥ इयं चेति ॥ इदमिति ॥ पुरुषे ज्योतिरित्युक्तं पूर्वोक्तज्योतिश्चेत्यर्थ । एतेन भाष्येऽस्मिन्नर्थे ज्योतिश्चेति शेष इति भाव । इति पूर्वाक्षेपसङ्गतिसद्भावाद् गायत्रीनिर्णयोऽवश्यापेक्षित इत्यर्थ । एतेन सङ्गतिफलं सूचयन्निति विवृतम् । वागित्याद्यंशोक्तिरुत्तरार्था । छन्दोऽभिधानान्नेति चेदिति सौत्रशङ्काभागविवरणपरतयाऽपि भाष्यं व्यनक्ति ॥ तत्र गायत्रीति ॥ न विष्णुरिति ॥ भाष्ये गायत्रीति पदस्येति शेषमुपेत्यान्वयमुखेनार्थकल्पनं कृत्वा तस्मादिति हेत्वंशं व्याचष्टे ॥ रूढत्वादिति ॥ पूर्वपक्षदाढर्याय कथं प्रसिद्धबहुलशब्दानामन्यथार्थतेत्यनुभाष्योक्तिलब्धमपि हेतुं तस्मादित्यस्यार्थत्वेनोपेत्याह ॥ वाग्वा इति ॥ ज्योतिश्रुतेर्विष्णुपरत्वस्य पूर्वमुक्तत्वेन तद्विरोधान्नात्र पूर्वपक्षोदय इत्याशङ्कां निराह ॥ न च ज्योतिश्रुत्येति ॥ तस्मादित्यत्यार्थान्तरमप्याह ॥ ज्योतिश्रुतेरेव सावकाशत्वादिति ॥ गायत्रीश्रुतेर्निरवकाशत्वादित्यप्यर्थमुपेत्य निरवकाशत्वमुपपादयति ॥ न च गायत्रीश्रुतिरिति ॥ योगस्येति ॥ गानत्राणकर्तृत्वरूपस्येत्यर्थ । प्रमाणाश्रितचोद्यमुक्त्वा प्रमेयाश्रितमपि तत् "नित्यत्वादेव शब्दानां तत्स्वभाव कथं तत’ इत्यनुभाष्योक्तं शङ्कापूर्वमाह ॥ न च गायत्र्या इति ॥ स्वातन्त्र्यं तत्र मुख्यं स्यादित्युक्तेराह ॥ मुख्यत्वमिति ॥ गायत्रीपदप्रवृत्तिनिमित्तस्य गायत्री-स्वभावत्वात्तस्या ईशाधीनत्वेन प्रवृत्तिनिमित्तस्यापि तथात्वमिति प्रवृत्तिनिमित्तस्येशाधीनत्वादौ युक्तिसूचनाय गायत्र्या इत्येवोक्तम् । तस्मादित्यस्यार्थान्तरं गायत्र्या नित्यत्वादिति ॥ नित्यस्य चेति ॥ अनादेरित्यपि ध्येयम् । जन्यभूताकाशस्वभावस्य विवरत्वादे पदप्रवृत्तिनिमित्तस्य धर्मिणा सह जन्यत्वेनेशाधीनत्वेऽपि अनादिनित्ये तदभावादिति भाव । एतेनाऽधिवेदगतानामपि शब्दानां नित्यत्वे विद्यमानेऽपीति न्यायविवरणांशो व्याख्यात । इदं चोपलक्षणम् । गायति त्रायति चेति वाक्यशेषोक्तं यदर्थाभिधान-रूपगानकर्तृत्वं यच्चाध्येतॄणां पापाद्रचेत्यपि ध्येयम् । एवं च गायत्रीवागादिनिरूढनिरवकाश-श्रुतिबलादन्यदपि विष्णुलिङ्गं गायत्र्यामेव योज्यमिति भावेनोक्तार्थं सर्वं भाष्यारूढं कुर्वन् तस्मान्न विष्णुरिति भाष्यमनूद्य फिलतार्थं चाह ॥ तस्मादिति ॥ रूढत्वाद्वाक्त्वविधानाज्ज्योतिश्रुते गायत्र्यां सावकाशत्वात् गायत्रीश्रुते विष्णावनवकाशात् गायत्रीप्रवृत्तिनिमित्तस्येशानधीनत्वादीशगतत्वा-भावाच्चेत्युक्तसर्वहेतुपरामर्श । बुद्धिस्थाशेषार्थपरामर्शित्वात्तच्छब्दस्य प्रागुक्ताशेषार्थस्य भाष्यकर्तृबुद्धि-स्थत्वादिति भाव । विष्णुर्न चेन्नैरर्थक्यं गायत्रीशब्दस्य स्यादित्यत छन्दोविशेष एवेति फिलतोक्ति ॥ इदं ज्योतिरिति ॥ हृदयाहितत्वयुक्तम् । एतच्छान्दोग्यस्थं पूर्वोक्तमग्निसूक्तस्थं चेत्यर्थ । एतेन तस्मादुक्तहेतुसमुदायान्न विष्णुर्गायत्री तस्माद्गायत्र्यैक्याज्ज्योतिरादिशब्दवाच्यश्च न विष्णुरिति गायत्रीज्योतिपदाध्याहारेण चावृत्त्या च भाष्यार्थो दर्शित ॥ नासाविति ॥ अपि तु छन्दोविशेष एवेत्यनुषङ्ग । तस्यानन्दमयत्वं चाभिमानिद्वारेति भाव । एतेन पूर्वपक्षफलानि सूचयन्नित्यंशो विवृत ॥ अग्रे व्याख्यानकरणादिदं किमित्यत आह ॥ अनुकरोतीति ॥ किञ्चिद्विवरणेनेति योज्यम् । यथान्यासस्य हि पुनरुच्चारणमनुकरणम् ॥ स्वपदानीति ॥
"सूत्रार्थो वर्ण्यते यत्र पदै सूत्रानुकारिभि । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु’
इत्युक्ते । भाष्यत्वादिति भाव । नेचि नञो न विष्णुरित्यनुवृत्तेनान्वये सति फिलतार्थमाह ॥ विष्णुरेवेति ॥ भाष्ये हि यस्मादित्यर्थ इत्युपेत्याह ॥ तस्मादिति ॥ ज्योतिशब्देनेति ॥ अत्रत्येन पूर्वतनेन चेत्यर्थ । अयं च न विष्णुर्ज्योतिरिति चेन्नेति पूर्वभाष्येण ज्योतिशब्दाध्याहारयुतेनान्वये सति सिद्धोऽर्थ । चेतोऽर्पणार्थमित्येद्य्वावर्त्यमाह ॥ न चेति ॥ सौत्रतथाशब्दार्थो गायत्र्यादीति ॥ वाचोग्रहणमिति ॥ वाग्वाव गायत्रीति गायत्र्या वाक्त्वोक्तिर्वाक्शब्दार्थगुणस्वरूपत्वेनोपासनार्थमेव नाभेदविधानार्थेति गायत्र्या विष्णुत्वे सापि न बाधिकेति भावेन भाष्ये आदिपदमिति भाव ॥ सूचयतीति ॥ आदिपदमिति विपरिणम्यानुषज्यत इति चन्द्रिकोक्ति । हिशब्देन सूचयतीति तु पाठो न बहुकोशेषु दृश्यत इत्याहु । पूर्वोत्तराधिकरणविषयवाक्येषु विष्णौ प्रसिद्धविष्णुनारायणादि-पदप्रयोगमकृत्वा इन्द्राकाशाग्निज्योतिप्राणादित्याक्षरादिशब्दप्रयोगस्तु तत्तच्छब्दार्थगुणस्वरूपत्वेन विष्णोरुपासनार्थमैश्वर्यादिगुणान् विष्णौ वक्तुमित्यनुसन्धेयत्वं सूचयति भाष्यस्थमादिपदमित्यर्थ । अत एव भाष्ये पूर्वनये त्वामग्ने तमसीति श्रुताग्निपदोपादानेन तत्किञ्चिद्विवृतम् । सूत्रे भाष्ये च हिर्हेतावित्युपेत्योक्तम् ॥ श्रवणादिति ॥ तस्य चेति ॥
तन्निसृतत्वाद्वेदानां गायकस्त्राति चाखिलम् । अतो गायत्रिनामासौ वासुदेव पर पुमान् ।
इति स्मृत्या अखिलवेदोच्चारयितृत्वाखिलपालायितृत्वरूपस्य छन्दस्यसम्भवादित्यर्थ । इति चेन्नेति पूर्वेण भाष्येणान्वयमुपेत्यार्थमाह ॥ विष्णुरेवेति ॥ या वै सेति ॥ या वै सा गायत्री इयं वाव सा येयं पृथिवी अस्यां हीदं सर्वं प्रतिष्ठितं एतामेव नातिशीयन्त इति वाक्ये गायत्र्या पृथिवीशब्दितवस्त्वभेद-मुक्त्वा तस्य वस्तुन सर्वाधारत्वं सर्वोत्तमत्वं चोच्यते । तच्च गायत्र्या विष्णुत्वं एव युक्तं नान्यथेत्यर्थ । एतेन पृथिव्यादिशब्दार्थोऽपि लिङ्गबलाद्विष्णुरूपमेवेति सूचितम् । एवं च पूर्वपक्ष एव पृथिव्यादितादात्म्यं बाधकम् । न सिद्धान्त इति भाव । अत एव स्मृतौ सर्वलोकाभिधो ह्यसावित्यंशोक्ति । स्मृत्युक्तिमात्रेण कथमुक्तशङ्कानिरास इत्यतस्तद्धरेरेवेत्यनुव्याख्यानस्य तद्गायत्रीपदं हरेरेव वाचकं तत् गायत्रीपदप्रवृत्ति-निमित्तं हरेरेव तत् अन्यगतं च प्रवृत्तिनिमित्तं हरेरेवाधीनमिति सुधोक्तदिशाऽर्थत्रयमुपेत्य तत्रोक्तं व्यञ्जयन् स्मृत्युदाहर्तुर्भावमाह ॥ गायत्रीश्रुतेरिति ॥ श्रुत्युक्तेति ॥ गायति त्रायति चेति श्रुत्युक्तेत्यर्थ । गायत्रीपदप्रवृत्तिनिमित्तस्य गायत्रीस्वभावत्वात् तस्या ईशाधीनत्वे तस्यापि तत्सिद्ध्यतीति गायत्र्या इत्येवोक्तम् । अधिवेदगतानामपि शब्दानां भगवद्विषयत्वमेवानन्यथासिद्धिलङ्गैरिति न्यायविवरणांशाभि-प्रायमाह ॥ लिङ्गस्येति ॥ बाधेति ॥ सन्दिग्धश्रुतिलिङ्गाभ्यां युक्ताभ्यामप्यसन्दिग्धयो केवलयोरेव बलवत्वादित्यन्यत्रोक्तेरिति भाव । अत्र यद्यपि बाहुल्यात् श्रुतिलिङ्गयोरित्यनुभाष्यसुधयोरुक्तदिशा अतो ज्यायांश्च पुरुष यद्वै तद्ब्रह्म एतामेव ब्रह्मोपनिषदं वेदेति पुरुषब्रह्मश्रुतय प्रागुक्तिलङ्गानि चेति लिङ्गबाहुल्यमस्ति निर्णायकं तथाप्यनन्यथासिद्धिलङ्गैभगवद्विषयत्वमेवेत्युक्तिस्वारस्यानुरोधेन लिङ्गस्य निरवकाशतयैव निर्णय कृत । न तु श्रुतिलिङ्गबाहुल्येन असन्दिग्धयो केवलयोरेव बलवत्वादित्युक्ते । ""तावानस्य महिमा ततो ज्यायांश्च पूरुष’’ इत्यादिशब्दसहितिलङ्गैश्चेति न्यायविवरणोक्तिरभ्युच्चयत्वेनेति भाव । अत्रानुभाष्ये तादृशत्वाच्च तच्छक्तेरिति युक्तेरेवोक्तत्वात्समयपादीयानुभाष्योक्तां श्रुतिं स्वयमाह ॥ स्वभावेति ॥ उक्तं च गीताभाष्ये अनादौ च तत्सिद्धं द्रव्यं कर्म चेत्यादाविति द्वितीये । कर्माणि धर्माधर्मव्यक्तय, क्रिया परिस्पन्द, श्रुतिर्वेद अस्मिन्नर्थे तादृशत्वाच्च तच्छक्तेरित्यनुभाष्यसुधयोरुक्ता युक्तिरपि । चन्द्रिकायाम्
अनादीनां गुणादीनां यथा गुण्यादितन्त्रता ।
तथाऽनादिश्रुतेरस्तु क्षेमायेश्वरतन्त्रता ॥
इत्यादिना विवृता । अत्र वेदस्यानादिनित्यत्वं नाम पुराणादेरिवानियतानुपूर्वीकत्वाभावादिरूपं ध्येयम् । आम्नायोऽनन्यथापाठादिति स्मृते । सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वादिति तत्वनिर्णयोक्तरीत्या विष्णुबुद्धिगतत्वमपेक्ष्य नित्या वेदा इत्यादि तत्वसङ्ख्यानटीकायां नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वमित्युक्तावपि "नित्या वेदा समस्ताश्च शाश्वता विष्णुबुद्धिगा’ इत्येतत्तत्व-निर्णयटीकायां ""न हि वयं वेदस्य कूटस्थनित्यतां ब्रूम’’ इति क्रमस्य कृतकत्वेऽपीति चोक्त्या नित्यविभूनां वर्णानाम् उच्चारणाधीनक्रमविशेषविशिष्टानामेव वेदत्वेन वर्णादिवन्मुखतोऽनादिनित्यत्वाभावात् । भाष्ये स्मृतिशेषोक्ते फलमाह ॥ अत्र देवलोकेति ॥ पूर्वनयवाक्यस्थाग्नीत्यर्थ । पृथिव्यादीत्यादिपदेन ज्योतिशब्दो वाऽन्तर्नयोक्तेन्द्रादिशब्दो वा ग्राह्य ॥ २५ ॥
अभिनवचन्द्रिका
अत्र द्वे दर्शने "अथ यदत परो दिवो ज्योतिर्दीप्यत’ (छा.३-१३-७) इति छान्दोग्यस्थं जोतिर्वाक्यं विषय । अत्रोक्ते ज्योतिषि सन्देह, किं ब्रह्म उताऽन्यदिति । उपक्रमे गायत्रीशब्दश्रवणात् अन्यदिति प्राप्ते विष्णुरिति सिद्धान्त । पूर्वाधिकरणेऽग्न्सिूक्तोक्तज्योतिर्निर्णय । इह तु छान्दोग्योक्त-ज्योतिष विस्पष्टविष्णुलिङ्गदशनेन गायत्रीश्रुत्या च अभ्यधिकाशङ्काप्राप्तौ निर्णय इति एकं दर्शनम् । छन्दोगा पठन्ति "गायत्री वा इदं सर्वं भूत’(छा.उ.३-१२-१)मिति । तत्र संशय किं गायत्री ब्रह्म, उत वर्णमालारूपो मन्त्र इति । गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धे छन्द इति प्राप्ते, विष्णुरिति सिद्धान्त इत्यपरं दर्शनम् । तत्राद्यं सुधाभिमतम् । तत्र सूत्रयोजना तु "उपक्रमे गायत्रीरूप-च्छन्दोऽभिधानात्, ज्योतिर्न विष्णु, किन्तु छन्द एवेति चेत्, न गायत्रीशब्दार्थत्वेन चेतोर्पणार्थो हि तथा निगद्यते । तथा हि दर्शनं, "गायति त्रायति चे’त्यादीति । द्वितीयन्तु सुधाटीकयोरभिप्रेतम् । द्वितीये भाष्ये ज्योतिर्वाक्योपादानं पूर्वाधिकरणार्थाऽऽक्षेपप्रदर्शनार्थम् । सूत्रयोजना तु "गायत्रीशब्दस्य छन्दसि रूढत्वेन तेन छन्दसोऽभिधानात् प्रागुक्तं ज्योति आनन्दमयश्र्च छन्द एव न विष्णुरिति चेत्, न "गायत्रीशब्दार्थरूपोऽसा’विति विष्णो चेतोर्पणं कार्यम्, इत्याशयेन गायत्रीशब्देन विष्णो-र्निगदात् विष्णुरेव प्रागुक्तं ज्योतिरानन्दमयश्र्च । भवेदेतत् यदीयं गायत्री विष्णु स्यात् तदेव कुत इत्यत उक्तं तथा हि दर्शनमिति । दर्शनं श्रुति । एतद्गायत्र्या गानत्राणकर्तृत्विलङ्गश्रवणात्, तस्य च लिङ्गस्य छन्दस्यसम्भवात् विष्णौ सम्भवात् विष्णुरेव गायत्रीति । नन्विदं सूत्रं नाधिकरणान्तरं सङ्गत्यादिष्वन्यतमस्य भाष्यकृताऽनिरूपणादित्यत आह श्रुत्यादीति ॥ यद्यपि श्रुत्यादिसङ्गत्यादिकं कण्ठतो भाष्यकृता नोक्तं, तथापि श्रुत्यादिसङ्गत्यादे सूचनात् अधिकरणान्तरमिति भाव । एतेन अस्य गायत्रीशब्दसमन्वयपरत्वमुक्तम् । तथा सति "छन्द इति चेन्न तथा चेतोर्पणनिगदा’दित्येव सूत्रं स्यात् न तु "छन्दोऽभिधानान्नेति चेन्ने’ति गायत्र्या विष्णुत्वस्याऽप्रतिज्ञातत्वेनाऽप्रसक्तनिषेधप्रसङ्गादिति परास्तम् । पूर्वपक्षफलस्य पूर्वाधिकरणाऽऽक्षेपस्य दर्शनाय "छन्दोभिधानान्नेति चे’दिति सूत्रकृतोक्त-मित्यङ्गीकारात् । अत्र भाष्ये "ज्योतिषो गायत्र्या समारम्भ कृत’ इत्यनेन पूर्वाधिकरणश्रुत्यर्थस्य एतदधिकरणार्थस्य च ज्योतिशब्दविषयत्वं सङ्गतिरिति सूचितम् । "गायत्री वा इदं सर्व’मित्यनेन ज्योतिर्वाक्यस्योपक्रमस्थगायत्रीवाक्यं विषयवाक्यमिति सूचितम् । "गायत्र्या समारम्भ कृत’ इत्यनेन गायत्री विषय । तद्रूढिविषयछन्दोविशेष एव गायत्रीति पूर्वपक्षश्र्च सूचित । अस्मिन्विषयवाक्ये छन्दसि निरूढगायत्रीशब्दं विष्णुपरत्वेनोक्तज्योतिशब्दं च दर्शयता गायत्री छन्दोविशेष, उत विष्णुरिति संशय सूचित । तस्मान्न विष्णुरिति पूर्वाधिकरणाक्षेप पूर्वपक्षफलमिति सूचितमिति बोध्यम् । भाष्यकारसूचितं श्रुत्यादिसङ्गत्यादिकं स्वयमाह हृदयनिहितमित्यादिना ॥ अथ यद्यपि "हृदयनिहितं ज्योतिर्विष्णुरित्यभिहित’मित्यनन्तरम् "एतच्च गायत्रीत्वेन पठ्यते’ इत्येव वक्तव्यम्, तथापि "तज्ज्योतिर्न गायत्रीत्वेन पठ्यते, अपि तु तस्माद्भिन्नं ज्योति गायत्रीत्वेन पठ्यत’ इति शङ्कापरिहाराय "तज्ज्योति छन्दोगश्रुतौ श्रूयत’ इत्यारभ्य "पुरुषं ज्योति’रित्यन्तं वाक्यं प्रवृत्तम् । पूर्वसूत्रे अग्न्सिूक्तवाक्यस्योदाहरण-मात्रत्वात्, चरणाभिधानादिति हेतोरप्युदाहरणमात्रत्वात्, यावज्ज्योतिर्वाक्यसमन्वय तदैव निगदित इति अग्न्सिूक्तगतमेव ज्योति छन्दोगश्रुतौ श्रूयते । तदेव गायत्रीत्वेन पठ्यत इति बोध्यम् । गायत्री-निर्णयस्याऽऽवश्यकत्वमाह इदं चेति ॥ अवश्यापेक्षित इति ॥ वशं गतो वश्य "वशं गत’ (पा.सू.४-४-७६) इति सूत्रेण यत्प्रत्यय । न वश्य अवश्य, अवश्य इति हेतोरपेक्षित इत्यर्थ । यदि पूर्वाधिकरणन्यायेन गायत्रीनिर्णयो वशंगत स्यात् तर्हि गायत्रीनिर्णय सूत्रकृता न वक्तव्य स्यात् । न चैवम् इति अभ्यधिकाशङ्कासद्भावात् । अत सूत्रकृता गायत्रीनिर्णयोऽवश्यं कर्तव्य इति भाव । एतेन कृत्यप्रत्ययान्ते परत विहितस्य मलोपस्य निष्ठाप्रत्ययान्ते परतोऽयोगात् अवश्यापेक्षित इति प्रयोगोऽनुपपन्न इति कस्यचिद्भ्रमो निरस्त । गानत्राणकर्तृत्विलङ्गश्रवणादिति ॥ अनेन "गै शब्द’ इत्यस्मात् "श्याद्व्यधे’(पा.सू.३-१-१४१)ति सूत्रेण आकारान्तत्वात् ण "आतो युक्चिण्कृतो’(पा.सू.७-३-३३)रित्यनेन युक्ति अजाद्यतष्टा(पा.४-१-४)बिति टापि गायेति रूपम् । "त्रै पालन’ इत्यस्माद्धातो औणादिककिप्रत्यये "कृदिकारादक्तिन’ (गणसूत्रम्) इति ङीषि त्रीति रूपम् । एवं च गाया च सा त्री चेति विग्रहे पुंवद्भावे च गायत्रीति रूपं सूचितम् । ननु "गै शब्द’ इत्यस्माद्धातो "गस्थकन्, ण्युे’(पा.सू.३-१-१४६,१४७)ति विशेषविहिताभ्यां थकन् ण्युभ्यां भवितव्यं, न तु णप्रत्ययेन, मैवं "वासरूपोऽस्त्रिया’(पा.सू.३-१-९२)मिति अपवादस्य विकल्पेन उत्सर्गबाधकत्वाभिधानात् । स्मृतौ सर्वदेवाभिधो ह्यसावित्यत्रत्येन वासुदेवशब्देनेव "सर्वदेव’ इत्यनेन शब्देन तथा सर्वलोक इत्यनेन शब्देन परमात्मा प्रतिपाद्यत इत्युच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृतिं व्याचष्टे । अत्र देवलोकेति ॥
वाक्यार्थमुक्तावली
ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ हृदयनिहितमिति । अनेनानन्तरसङ्गतिरुक्ता भवति । ततश्र्चायं भाष्यार्थ हृदय आहितं यदितिसूक्ते हृदयगुहानिहितत्वेनोक्तस्य तस्यैव "अथ यदत परो दिवो ज्योतिर्दीप्यत’ इत्युक्तस्य ज्योतिषो गायत्रीत्वेन पाठ इति । विषय-वाक्यार्थस्तूत्तरत्र भविष्यति । किं विष्णुरिति । अत्र गायत्री छन्द उत विष्णुरिति चिन्ता । तदर्थं गायत्रीवाक्श्रुती तदुपोद्बलकोपदेशभेदश्र्च पूर्वपक्षे हेतु गानत्राणकर्तृत्वभूतादिपादव्यपदेशलक्षणसिद्धान्त-प्रापकबाधक उत तद्बाध्य इति । तदर्थं पूर्वपक्षश्रुतिरुपदेशभेदश्र्च स्वतन्त्र्यतद्गतत्वाख्यप्रवृत्तिनिमित्तविरहेण विरोधेन च निरवकाश उत तत्सत्वेनाविरोधेन च सावकाश इति । तदर्थं तत्कल्पकत्वेनाभिमतगानत्राण-कर्तृत्वादेर्विष्ण्वैकनिष्ठत्वे प्रमाणं नास्त्युतास्तीति । न विष्णुरित्यत पूर्वं शेषमाह । गायत्री छन्दोविशेष एवेति । "एव’कारव्यवच्छेद्यप्रदर्शनपरं भाष्यमिति भाव । तस्मादिति हेत्वंशस्य प्रसिद्धगायत्र्या समारम्भस्य कृतत्वादित्यर्थं मत्वा व्याचष्टे । गायत्रीशब्दस्येति । वाक्ये तेजस्त्वविधानार्थं समारम्भ कृत इति सूचितम् । आग्निगायत्र्यादिशब्दार्थरूप इति सिद्धान्तभाष्ये आदिपदेन वाक्शब्दोपादानञ्च सूचितं युक्त्यन्तरमाह । वागिति । अव्यवहितपूर्वाधिकरणे ज्योतिश्रुत्या गायत्रीश्रुतेर्बाधमाशङ्क्य परिहरति ॥ न चेति ॥ ज्योतिश्रुतेरेवेति ॥ इदमप्यग्निगायत्र्यादीति भाष्यमहिम्ना लब्धमिति बोध्यम् । एवं तस्मादित्येतदध्याहृतगायत्री छन्द एवेत्येतदुपपादकतया व्याख्याय न विष्णुरित्येतत्सम्बन्धितया योजयति ॥ न च गायत्रीश्रुतिरिति ॥ छन्दोऽभिधानादिति ॥ प्रबलरूढ्युक्त्या ज्ञापितं योगायोगं दर्शयति योगस्येति । पूर्वाधिकरणेन गतार्थतां निरस्यन् छन्दश्शब्दसूचितं नित्यत्वादेव शब्दस्य तत्स्वभाव कथं तत इत्यनुव्याख्यानोक्तं पूर्वपक्षमाह । न च गायत्र्या इत्यादिना ॥ नित्यस्येति ॥ अनादि-नित्यस्येत्यर्थ । इदमुक्तं भवति । आकाशादिशब्दप्रवृत्तिनिमित्तविवरत्वादेस्तत्स्वभावस्य तद्धर्मिण आकाशादेर्जन्यत्वेन धर्मिणा सह भगवदधीनत्वात् । भवतु तन्निमित्तकाकाशादिशब्दानां भगवति मुख्यत्वं गायत्र्यादिशब्दानां तु वेदविशेषरूपगायत्र्या अनादित्वेन तत्स्वभावरूपगायत्रीशब्दप्रवृत्तिनिमित्तस्य तद्रीत्यापि भगवदधीनत्वायोगेन कथमपि न भवति वृत्तिरिति । स्वपदानीति । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति स्वपदवर्णनस्य भाष्यलक्षणतयोक्तिरिति भाव । सूत्रे निगदान्नेति पञ्चम्यन्वयेऽपि समन्वयसाध्यपर्यवसानाय प्रवृत्तं निगद्यत इति भाष्यं साध्यप्रदर्शनपरतया फिलत-प्रदर्शनपरतया च व्याचष्टे अत्र गायत्रीपदेनेत्यादिना । भाष्येऽग्निग्रहणं तत्समानार्थकज्योतिपदोपलक्षण-मित्याशयेन ज्योतिपदेनेत्युक्तम् । चेतोऽर्पणार्थमित्येतध्याहृत्यमाह ॥ न चेति ॥ किन्तु गायत्र्यादीति टीकायामादिपदेन ज्योतिरादिग्रहणम् । ननु ज्योतिश्शब्देनापि स एव निगद्यत इति टीकायां गायत्री-शब्दवाच्यत्वज्योतिश्शब्दवाच्यत्वयोर्हेतुसद्भावप्रदर्शनेन तदनुसारेण भाष्येऽपि गायत्र्यग्न्यादीति निर्देश स्यादिति चेन्न । ज्योतिषा सह सङ्गतिसद्भावेन फलतया प्राधान्यादग्न्यादित्वेन ग्रहणोपपत्ते । अत एवाग्निसूक्तसङ्गतिसद्भावेन तस्याप्याक्षेपसमाधानलाभायैतद्विषयवाक्यस्य ज्योतिपदं परित्यज्य तत्समानार्थ-काग्निपदग्रहणं कृतम् ॥ एतन्न्यायस्येति ॥ आनन्दमयादिशब्दार्थगुणस्वरूपत्वेन चेतोऽर्पणार्थं निगद्यत इत्येतत् "हि’ सर्वाधिकरणेष्वपि प्रसिद्धं हीति तदर्थ इति भाव । सूत्रे भाष्ये च हिर्हेतावित्युपेत्योक्तं श्रवणादिति ॥ असम्भवादिति ॥ तन्निस्सृतत्वाद्वेदानां गायति त्राति चाखिलमिति । छान्दोग्यभाष्यदिशा गानत्राणकर्तृत्वस्याचेतनेऽयोगादिति भाव ॥ पृथिवीत्यादेरिति ॥ अत्रादिपदेन या वै सा पृथिवी इयं वाव सा यदिदमस्मिन्पुरुषे शरीरमित्यादे सङ्ग्रह । छन्दस पृथिवीत्वाद्यनुपपत्ते । एतामेव नातिशीयन्त इति वाक्योक्तसर्वोत्तमत्वायोगाच्च । विष्णोस्त्वाकाशाधिकरणन्यायेनाधिभौतिकशब्दवाच्यत्वस्यो-पपत्तेरिति भाव । ननु वामनपुराणे तेषां तदुपचारत इत्युक्तम् । विष्णाविव च्छन्दस्यपि रूढिसत्वादित्यत आह गायत्रीश्रुतेरित्यादिना । छन्दस्यज्ञरूढिरत्र पौराणिकरूढि तत्र रूढिमात्रमत्र श्रुतौ तु महायोग । अन्यगतस्याल्पप्रवृत्तिनिमित्तस्यापि भगवदायत्तत्वमिति । अत्र परममुख्यवृत्तिस्तत्र तदपेक्षयाऽल्पमुख्य-वृत्तिरिति भाव । युक्तो लिङ्गमात्रेणेति । निरवकाशिलङ्गमात्रेणैव यदा निर्णयस्तदा किमु श्रुतियुक्ति-बहुलिङ्गैरिति भाव । अतो एवोक्तमनुव्याख्याने "बाहुल्यात् श्रुतिलिङ्गयो’ इति । न्यायविवरणे च पुरुष इत्यादीत्यादिपदेन श्रुतिलिङ्गबाहुल्यं चोक्तम् । भाष्ये च गायति त्रायति चेत्यादीत्यादिपदेन श्रुतिलिङ्गबाहुल्यं युक्तम् ॥ न च नित्यस्येति ॥ यद्यपि क्रमस्य बुद्ध्युपाधिकत्वेन कृतकत्वात् क्रमविशिष्टवर्णानां सादित्वमेव । तथापि चन्द्रिकारीत्या ईश्र्वरबुद्धिघटितक्रमविवक्षयेयमुक्तिरिति ज्ञेयम् । यद्वा भूतभविष्यद्वर्तमानैरखिलैरेकप्रकारेण पठ्यमानत्वं कूटस्थनित्यत्वमिति भावबोधरीत्या वैवक्षिकेय-मुक्ति । अथ वा स्वाभाविक एव वेदे क्रम इति मतेनेयमुक्ति । न सन्ति यदुपेक्षयेति । न चैवं सञ्जिहीर्षावैय्यर्थ्यमिति वाच्यम् । सञ्जिहीर्षायां ध्वंस । उपेक्षायां शशविषाणवन्न सन्तीति विवक्षितत्वात् । न च शशश़ृङ्गादिवदसद्भूयादितीश्र्वरेच्छया सदसदिति वाच्यम् । उपेक्षामात्रेण तदसत्वोपपत्ते । यद्वा उपेक्षामात्रेण न सन्ति नश्यन्ति किं जिहीर्षायामिति विवक्षितत्वात् । सर्वदेवाभिध इत्यादे प्रकृतोपयोग-माह । अत्रेति । सूत्रे छन्द इति व्यस्तम् । छन्दोऽभिधानादिति समस्तं च पदम् । तत्वित्यनुवर्तते । छन्द इत्यनेन तुरन्वेति । गायत्रीति योग्यतया लभ्यते । गायत्री छन्द एव न विष्णु गायत्रीपदेन छन्दस एव तत्राभिधानात् । यद्वा छन्दसि गायत्रीपदस्याभिधानात् । तस्य तत्र रूढत्वादिति यावत् । वाग्वै गायत्रीति गायत्र्या वाक्त्वाभिधानाच्च । न च ज्योतिश्रुतिविरोध । ज्योतिपदेनापि छन्दस एवाभिधानात् । कुत तेजो वै ब्रह्मवर्चसं गायत्रीति श्रुत्यन्तरे ज्योतिश्शब्दपर्यायतेजश्शब्दस्य छन्दस्यभि-धानादिति चेन्न । कुत तथाहि दर्शनम् । हि यस्मात्तथा तादृक् विष्णुत्वज्ञापकगानत्राणकर्तृत्वरूप-लिङ्गप्रतिपादकं दर्शनं श्रुतिरस्ति । तस्माद्विष्णोरेवात्र गायत्रीवाग्ज्योतिपदैर्निगदाच्च महायोगप्रवृत्त्या प्रतिपादनात् । पौराणिकरूढ्या च निगदान्न छन्दो गायत्री किन्तु विष्णुरेवेति योजना । नारायणादिपदं परित्यज्यान्यप्रसिद्धगायत्र्यादिपदेन ब्रह्मणो निर्देशे किमन्याभेदे बोधनप्रयोजनमित्यत उक्तं तथा चेतोर्पणेति । तथा तेन प्रकारेण गानत्राणकर्तृत्वादिगुणवैगुण्येन चेतोर्पणार्थमुपासनार्थमित्यर्थ । उपासना-स्वरूपं वक्तुं चेतोर्पण इति उक्तम् । गुणानामेकबुध्यारोह एव ध्यानं स्यात् क्रियामानसवदिति वक्ष्यति ।
तत्त्वसुबोधिनी
ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम् ॐ ॥ हृदयनिहितमित्य-नेनानन्तरसङ्गतिरुक्ता भवति । श्रुतेरिति । समबलत्वादिति भाव । ननु रुढ्यभावेऽपि योगस्य सत्वात् मुख्यत्वमित्यत आह । योगस्य चेति ॥ पूर्वाधिकरणेन गतार्थतां निरस्यति ॥ न चेति ॥ कुत इत्यत आकाशादिशब्दप्रवृत्तिनिमित्तस्य विवरत्वादे आकाशादिस्वभावत्वेऽपि तद्धर्मिण आकाशादे धर्मिणा सह भगवदधीनत्वाद्भवतु तेषां शब्दानां भगवति मुख्यत्वं वेदविशेषरूपगायत्र्यास्तु अनादि-नित्यत्वेन न भगवदधीनत्वमित्याह ॥ गायत्र्या इति ॥ अत्र च नित्यत्वं नाम अनादिनित्यत्वमेवाभिमतं न तु ध्वंसाप्रतियोगित्वं तथा सति जन्यत्वाविरोधेन ईश्र्वराधीनत्वाविघटकत्वात् पूर्वापक्षयुक्तित्वं न स्यात् । अत एवोक्तं सुधायाम् । वेदस्य नित्यत्वादनादित्वाच्चेति । ननु कृतकक्रमविशिष्टवर्णसमुदाय-रूपवेदस्य न अनादित्वम् । उक्तं हि तत्वनिर्णयटीकायाम् । न हि वयं वेदस्य कूटस्थिलनत्यत्वं ब्रूम इति । क्रमस्य कृतकत्वेऽपि इति चेत् न । तत्वसङ्ख्यानटीकायां नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वं तच्च वेदानां नित्या वेदा समस्ताश्र्चेत्यादिप्रमाणसिद्धमित्युक्तत्वात् । युक्तं चैतत् क्रमस्य ईश्र्वरबुद्धिस्थत्वात् । अत एवोक्तं तत्वनिर्णये सर्वज्ञत्वात् ईश्र्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात् इति । तट्टीकायां कौटस्थ-निषेधश्र्च अस्मदादिबुद्धिघटितक्रमाभिप्रायेणेति सर्वमनवद्यम् । केचित्तु स्वतन्त्रपुरुषपूर्वकत्वभूत-भवद्भविष्यद्भिरखिलै एकप्रकारेण पठ्यमानत्वादिकमेवानादित्वं वेदस्य विवक्षितम् । अत एवोक्तं तत्वनिर्णयटीकायाम् स्वतन्त्रस्य वक्तुरभावात् अपौरुषेयत्वमुपपद्यत इति । एतदेव च अनादिनित्यत्वमिति च । एतावतैव शब्दस्वभावभूतपदार्थप्रतिपादनशक्ते पराधीनत्वसम्भवेन ईश्र्वराधीनत्वविघटनोपपत्तौ मुख्यानादित्वकल्पनावैय्यर्थ्यात् । न चैवंविधमनादित्वम् आकाशादीनामिति तदुक्ते अभ्यधिका-शङ्काप्रदर्शकत्वमित्याहु । ननु विकारशब्दात् इत्यादौ आनन्दमयादे विष्णुत्वाक्षेपपरिहारवदत्रापि अग्निसूक्तोक्तं ज्योति न विष्णु । अथ यदत इत्युक्तस्य अस्यैव ज्योतिष तदुपक्रमे "गायत्री वा इदं सर्वं’ इति गायत्रीरूपछन्दोविशेषत्वेनाभिधानात् इत्याक्षिप्य गायत्रीशब्दस्यापि विष्णुपरत्वान्नेय-मनुपपत्तिरिति परिहारसम्भवेनेदमपि सूत्रं तथैव ज्योतिरधिकरणशेषत्वेनैव व्याख्यायताम् । एवं सति अग्निगायत्र्यादीति भाष्ये अग्निपदं सूत्रे समन्वेतव्यशब्दानुक्तिश्र्च सङ्गच्छते तत्किमिति टीकायामधि-करणान्तरतया व्याख्यातमिति चेन्मैवम् । न्यायविवरणविरोधात् । न्यायविवरणे वेदस्य नित्यत्वेऽपि तद्गतशब्दस्य विष्णुविषयत्वोक्त्या वेदवाचकशब्दस्य समन्वेतव्यत्वेन वेदगतनित्यताया पूर्वपक्षयुक्तित्वेन प्रतिभासात् एकाधिकरणत्वे च अग्निगतस्यैव कस्यचिद्धर्मस्य तत्वेन अग्निशब्दस्यैव समन्वेतव्यत्वेन कथनं स्यात् । नित्यत्वादेव शब्दस्य इत्यनुव्याख्याने तट्टीकायां च अस्यैवार्थस्योक्ते । भाष्ये अग्निशब्दो-पादानसमन्वेतव्यानुक्तेश्र्चान्यथासिद्ध्या न अधिकरणैकत्वमुक्तमिति दिक् । ननु न विष्णो गायत्र्यादि-शब्दवाच्यत्वम् । वाग्वै गायत्रीति गायत्र्या वाक्त्वस्य विहितत्वादित्यत आह । आदिपदेन वाचो ग्रहणमिति । वाग्वै गायत्रीति श्रुतौ वाक्शब्दार्थगुणवत्तया उपासनार्थं विष्णुर्वागित्युक्तम् । तथा च वाक्त्वमपि न विष्णुत्वबाधकमिति दर्शयितुं भाष्ये आदिपदमित्यर्थ । अनुसन्धेयत्वं सूचयतीति । आदिपदमित्यनुषङ्ग । एतदध्यायगतानन्दमयाद्यधिकरणेषु तत्तच्छब्दसमन्वयकथनं तत्तच्छब्दार्थयुक्तत्वेन हरे ध्यानार्थमुक्तमिति न्यायस्य अनुसन्धेयत्वं च गायत्र्यादीत्यादिपदेन सूचयत्याचार्य इत्यर्थ । अनुसन्धेयत्वं सूचयति हिशब्देनेति पाठे हिशब्देनाचार्य एतत्सूचयतीत्यर्थ । प्रसिद्ध्यर्थको हिशब्दोऽ-स्यार्थस्य सार्वत्रिकत्वं गमयतीति भाव । आदिपदेन पृथिवीत्यादे सङ्ग्रह इति । या वै सेत्यादिना गायत्र्या पृथिव्यभेदमुक्त्वा अस्यां हीदं सर्वं प्रतिष्ठितमिति पृथिव्या सर्वाधारत्वमुक्तम् । तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वं युक्तं नान्यथेत्यर्थ । भाष्ये अग्निशब्दग्रहणन्तु गायत्रीशब्दसमन्वयकथनेन ज्योतिशब्दस्य विष्णुपरत्वं समाहितमिति ज्ञापनार्थम् । न चैवं गायत्रीअग्न्यादिशब्दार्थरूप इति निर्देश स्यात् इति वाच्यम् । अन्यत्र प्रसिद्धस्य गायत्रीशब्दस्य विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वसूत्रे उत्तरत्र च अग्न्यादिशब्दानां विष्णौ प्रयोजनं सूचितमिति ज्ञापनार्थमिति भाव । समुदायार्थमाह ॥ गायत्रीश्रुतेरिति ॥
वाक्यार्थमञ्जरी
ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनं ॐ ॥ गायत्री वेत्युक्तगायत्री छन्दोविशेष एव स्यात् । गायत्रीपदेन छन्दसोऽभिधानात् तस्मान्न तद्ब्रह्मेति चेन्न । किन्तु ब्रह्मैव गायत्री कुत, हि यस्मात्तथा दर्शनं गानत्राणकर्तृत्विलङ्गबोधिका "गायति त्रायति च’ इति श्रुतिरस्ति तस्मादित्यर्थ । विष्ण्वादिप्रसिद्धपदानि विहायाप्रसिद्धगायत्रीपदेन तन्निर्देशे किं निमित्तमित्यत उक्तम् ॥ तथेति ॥ तथा गानादिकर्तृत्वगुणविशिष्टतया चेतसि अन्तकरणे अर्पणार्थं ध्यानार्थम् उपासनार्थमिति यावत् । निगदात् गायत्री वा इदं सर्वमिति कथनादित्यर्थ ॥ अथेति ॥ अथ द्वारपोपास्तिकथनानन्तरं पुनर्भगवन्माहात्म्यमुच्यते । यच्छ्वेतद्वीपानन्तासनवैकुण्ठगतमूर्तित्रयं तत् । अत बुद्धिस्थतया विवक्षिताया दिव पर । ज्योति तेजोमयं विश्र्वत मेरुवैजयन्तसत्यलोकाख्यब्रह्मसदनेभ्य पृष्ठेषु क्रमेणोच्चेषु सर्वत भूर्भुवस्वरात्मकसर्वलोकेभ्य पृष्ठेषु अनुत्तमेषु न विद्यत उत्तमो लोको येभ्यस्तेषु स्वयमेवोत्तमेषु अनन्तासनश्र्वेतद्वीपवैकुण्ठेषु दीप्यते प्रकाशते तत्सर्वलोकेषु दीप्यमानं तेज इदं वा व इदं खलु इदं किं यदिदमस्मिन्नन्त पुरुषे पुरुषहृदये ज्योतिरस्ति तदित्यर्थ ॥ गायत्री वेति ॥ अत्र भगवत षविधरूपेषु गायत्रीनामकं स्त्रीरूपं हयशीर्षकं प्रथमरूपापेक्षया द्वितीयं रूपमुच्यते । यदिदं किञ्च भूबहौ बहुपूर्णतायामित्युक्ते भूतं पूर्णं मत्स्यादि सर्वं सर्वान्तस्थितं च तदिदं सर्वं गायत्रीनामा भगवानेव । एवं च भूतशब्दाभिधेयं मत्स्यादि सर्वान्तस्थितं द्वितीयं रूपमित्युक्तं भवति । अस्यैव तृतीयं रूपमाह ॥ वागिति ॥ गायत्रीनामा भगवान्वाग्वै वाक्संस्थो वचनाद्वाामा स्त्रीरूपो हयशीर्षाख्य एव । न तु तद्भिन्न इत्यर्थ । वाामकस्य भगवद्रूपत्वं कुत इत्यतस्तल्लक्षणयोगादित्यत आह ॥ वाग्वेति ॥ इदं सर्वं प्राणिजातं वाग्वै वाामकभगवदधीनमेव । वाचा हि प्रवर्तते निवर्तते च लोक । सर्वलोकप्रवर्तकत्वं च भगवल्लक्षं च प्रसिद्धमेवेति ॥ छन्दोविशेष एवेति ॥ गायत्री छन्दोपेतमन्त्रविशेष इत्यर्थ ॥ वाग्विधानाच्चेति ॥ न शब्दात्मकस्य तत्सम्भवतीति भाव । तेज कान्ति । ब्रह्मवर्चसम् अध्ययनलब्धकान्तिविशेष । तदुभयसाधनं गायत्रीत्यर्थ ॥ योगस्येति ॥ गायति वेदान् त्रायति चाध्यापकान् पापेभ्य इति निर्वचनादिति भाव ॥ नित्यस्येति ॥ अनादि-नित्यस्येत्यर्थ । अन्यथोत्पत्तावीश्र्वराधीनत्वापरिहारात् । अत एव न्यायविवरणटीकायां वेदस्य नित्यत्वेनानादित्वादित्युक्तम् । वेदस्य नित्यत्वादनादित्वाच्चेति सुधाग्रन्थाच्च । यद्यपि कृतकक्रमविशिष्टस्य वर्णात्मकस्य वेदस्य नानादित्वम् । तथापीश्र्वरबुद्धिघटितस्य तथात्वेन वा कृत्वा चिन्तया वा तदुक्तिरित्यदोष । स्वपदानि स्वोक्तपदानि । ""सूत्रार्थो वर्ण्यते यत्र पदै सूत्रानुकारिभि । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु’’ इत्युक्तेरिति भाव । गायत्र्यादीति ॥ गायत्र्यादिशब्दार्थो गानत्राणकर्तृत्वादि स एव गुणस्तत्स्वरूपत्वेनेत्यर्थ । आदिपदेन वाचो ग्रहणमिति । वाग्वै गायत्रीति श्रुतौ वाक्शब्दार्थगुणवत्तया उपासनार्थं विष्णुर्वागित्युक्तम् । तथा च वाक्त्वविधानं न विष्णुत्वपक्षे बाधकमिति भाव ॥ एतन्न्यायस्येति ॥ तत्तच्छब्दसमन्वयकथनं तदर्थगुणस्वरूपत्वेनोपासनार्थमिति न्यायस्येत्यर्थ ॥ या वै सेति ॥ चतुर्थरूपमनेनोच्यते । या वै गायत्री तत्संस्थं तन्नामा भगवान् सा इयं वाव इयं खलु । इयं केत्यपेक्षायामाह ॥ येयमिति ॥ पृथुत्वात्पृथिवीनामा पृथिवीसंस्थो भगवा-नित्यर्थ । तथा चात्र या वै सेत्यादिना गायत्र्या पृथिव्यभेदमुक्त्वा अस्यां हीदं सर्वं प्रतिष्ठितमिति पृथिव्या सर्वाधारत्वमुक्तम् । तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वं युक्तं नान्यथेति भाव ॥ श्रुत्युक्तेति ॥ गायतीति श्रुत्युक्तेत्यर्थ । कर्माणि पुण्यपापानि । क्रिया चेष्टा । स्मृतिविशेषोदाहरण-प्रयोजनमाह ॥ अत्रेति ॥
विवृति
हृदयनिहितमित्यनेनानन्तरसङ्गतिरुक्ता भवति ॥ श्रुतेरिति ॥ समबलत्वादिति भाव । ननु रूढ्यभावेऽपि योगस्य सत्वान्मुख्यत्वमित्यत आह ॥ योगस्य चेति ॥ पूर्वाधिकरणेन गतार्थतां निरस्यति ॥ न चेति ॥ कुत इत्यत आकाशादिशब्दप्रवृत्तिनिमित्तविवरत्वादेर्भगवदधीनत्वेऽपि धर्मिण आकाशादे जन्यत्वेन धर्मिणा सह भगवदधीनत्वे तद्भवतु तेषां शब्दानां मुख्यत्वं भगवति, वेदविशेष-रूपगायत्र्यास्त्वनादिनित्यत्वेन न भगवदधीनत्वमित्याह ॥ गायत्र्यादेरिति ॥ ननु गायत्र्यादिशब्दैर्विष्णु-वचने प्रयोजनान्तराभावेनाभेदविधानार्थमेवेदं वचनमिति स्यात् ॥ तच्चायुक्तम् ॥ श्रुत्यादिविरोधादित्यत आह ॥ न चेति ॥ ननु न विष्णोर्गायत्र्यादिशब्दवाच्यत्वं वाग्वै गायत्रीति गायत्र्या वाक्त्वविधानादित्यत आह ॥ आदिपदेन वाचोग्रहणमिति ॥ वाग्वै गायत्रीति श्रुतौ वाक्शब्दार्थगुणवत्तयोपासार्थं विष्णु-र्वागित्युक्तं तथा च वाक्त्वमपि न विष्णुत्वबाधकमिति दर्शयितुं भाष्ये आदिपदमित्यर्थ ॥ अनुसन्धेयत्वं सूचयतीति ॥ आदिपदमित्यनुषङ्ग ॥ एतदध्यायगतानन्दमयाद्यधिकरणेषु तत्तच्छब्धसमन्वयकथनं तत्तच्छब्दार्थयुक्तत्वेन हरेर्ध्यानार्थमुक्तमिति न्यायस्यानुसन्धेयत्वं चेतोर्पणार्थे गायत्र्यादीत्यादिपदेनाचार्य सूचयतीत्यर्थ ॥ यद्वाऽनुसन्धेयत्वं सूचयति ॥ हिशब्देनाचार्य एतत्सूचयतीत्यर्थ ॥ प्रसिद्ध्यर्थको हिशब्दोऽस्यार्थस्य सार्वत्रिकत्वं गमयतीति भाव ॥ ननु भाष्ये त्रायते चेत्यादीत्यत्रादिशब्द किमर्थ इत्यत आह ॥ आदिपदेन पृथिवी इत्यादे सङ्ग्रह इति ॥ या वै सेत्यादिना गायत्र्या पृथिव्यभेदमुक्त्वा अस्यां हीदं सर्वं प्रतिष्ठितमिति पृथिव्या सर्वाधारत्वमुक्तम् ॥ तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वं युक्तं नान्यथेत्यर्थ ॥ भाष्ये अग्न्शिब्दग्रहणं तु गायत्रीशब्दसमन्वयकथनेन ज्योतिशब्दस्य विष्णुपरत्वं समाहितमिति ज्ञापनार्थम् ॥ न चैवं गायत्र्यादिशब्दार्थरूप इति निर्देश स्यादिति वाच्यम् ॥ अन्यत्र प्रसिद्धस्य गायत्रीशब्दस्य, विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वसूत्रे उत्तरत्र च अग्न्यादिशब्दानां विष्णौ प्रयोजनं सूचितमिति ज्ञापनार्थमिति भाव ॥ समुदायार्थमाह ॥ गायत्रीश्रुतेरिति ॥ कथं सर्वच्छन्द इति स्मृत्याऽग्न्पिृथिव्यादिशब्दानां भगवत्परत्वमित्यत आह ॥ अत्रेति ॥