ॐ प्रदानवदेव हि तदुक्तम् ॐ
२६. प्रदानाधिकरणम्
सूत्रभाष्यम्
।। ॐ प्रदानवदेव हि तदुक्तम् ॐ ।। ४४ ।।
न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति । ‘आचार्यवान्पुरुषो वेद’ (छां.उ.६-१४-२) इति ह्युक्तम् ।
तत्त्वप्रदीपिका
अथ किं श्रवणादिमात्रेण दृष्टिर्भवत्युत सेतिकर्तव्येनेति विचार्यते । श्रोतव्य इत्येव विहितत्वाद्येन केनाप्युपायेन श्रुतवतः स्वयमेव मननादिना दृष्टिरित्यत आह– प्रदानवदेव तदुक्तम् ।। न ताव-त्परोपदेशे निलीनतया बलाद्वा श्रवणं दृष्टिद्वारं भवति । चौर्यादिदोषदुष्टत्वात् । किन्त्वित्थं श्रवणं कर्तव्यमिति यथाशास्त्रविहितं तथा कृतेनैव सेतिकर्तव्येनेति ह्युक्तम् । तदेव वर्णयति यथा गुरुदत्तं तथैव भवतीति । यथाभूतगुरुदत्तं तथैव भवति यथा च गुरुणा दत्तं प्रसादेन वाऽप्रसादेन वा तदनुरूपं भवति । अत उत्तमगुरुं प्राप्य शुश्रूषया प्रसाद्य ततः श्रोतव्यमित्यर्थः । उक्तञ्च भगवतैव–
‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ।।
असंशयः संशयच्छिद्गुरुरुक्तो मनीषिभिः ।
तस्माद्ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।।
अन्येऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिता ।
नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ ।
न तत्सत्यं भवेत्तस्मादर्चनीयः परो गुरुः’ इति ।।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनोपासनेतिकर्तव्यतासाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ‘इतरे त्वर्थ-सामान्यात्’ इत्युक्तमयुक्तं स्यादतस्तत्समर्थनीयम् । प्रकृतं श्रवणाद्येव विषयः । किं यथाकञ्चिदनुष्ठितं ज्ञानसाधनमुत गुरुप्रसादपूर्वकप्रदानयुक्तमिति सन्देहः । कर्तव्यताविधेरुभयथाऽपि पर्यवसानं सन्देहबीजम् । यथाकञ्चिदनुष्ठितं श्रवणादिज्ञानसाधनमिति पूर्वः पक्षः । ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति श्रवणादिमात्रस्यैव ज्ञानहेतुत्वावगमात् । मानस्य च गुरुप्रसादाधीनत्वे ज्ञानिनोऽपि मोक्षस्य तदधीनत्वप्रसङ्गश्च । नेदमनिष्टमिति चेन्न । कदाचिद्गुरुकोपेन तदभावप्रसङ्गात् । अन्यथा गुरुकोपवत्तद्वरस्यापि निरर्थकता स्यात् । अभ्युपगमे चानियम इत्युक्तविरोधः स्यात् । अतो ज्ञाने गुर्वपेक्षाभावात्तदुक्तप्रकारेणोपासनमयुक्तमिति । सिद्धान्तय-त्सूत्रमुपन्यस्य व्याचष्टे ।। प्रदानवदिति ।। न श्रवणादिमात्रं ज्ञानसाधनं किं तु प्रसादपूर्वक-गुरुप्रदानयुक्तमेव गुरुप्रदानानुसारित्वात्फलस्य । न चैवमुक्तवचनविरोधः । गुरुप्रदानं ज्ञानसाधनस्य श्रवणादेरितिकर्तव्यतेत्यभ्युपगमात् । न हि दृढमुष्टिनिपीडनादि पृथक्साधनमुच्यत इति भावः । गुरुप्रदानाधीनत्वं ज्ञानस्य कुत इत्यत आह ।। आचार्यवानिति ।। न चैवमुक्तरीत्या ज्ञानाद्यभावः । तज्ज्ञानमोक्षयोरीश्वरकल्पितत्वात् । न चैवं गुरुशापो विफलः । ज्ञानादिह्रासहेतुत्वात् । उक्तं च । ‘ज्ञानिनो गुरुशापेऽपि नामुक्तिः संसृतेर्भवेत् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति’ इति । तथा ‘ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः । तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्’ इति । अतो गुरुप्रदानस्यावश्यकत्वादुक्तं युक्तमिति सिद्धम् ।
गुर्वर्थदीपिका
उपासनेतिकर्तव्यतासाधनादित्यत्र उपासनस्य गुरुप्रसादपूर्वकप्रदानाख्येतिकर्तव्यतासाधना-दित्यर्थः । अन्यथा गुरुणा भावितत्तत्फलानुसारेण प्रदानाभावे अभ्युपगमे चेत्यत्र गुरुकोपान्मोक्षा-भावाभ्युपगम इत्यर्थः । न श्रवणादिमात्रमित्यत्र यस्मात्कस्माच्चिद्गुरोः श्रवणादिकं श्रवणादि-मात्रमित्युच्यते । प्रसादपूर्वकगुरुप्रदानेत्यत्र गुरुस्सर्वज्ञो नियतगुरुः । न हि दृढमुष्टिनिपीडनादीत्यत्र तण्डुलान्पिनष्टीत्यादिनोक्तपिष्टीकरणाय तण्डुलादेर्दृढमुष्टिनिपीडनम् । आदिपदेन मुसलादिकं गृह्यते । पृथक्साधनं पेषणाङ्गभूतसाधनं न ह्युच्यते तण्डुलान्पिनष्टीति वाक्ये न ह्युच्यत इत्यर्थः । इदं चोपलक्षणम् । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति विधिवाक्ये कस्याप्यङ्गस्यासङ्ग्रहात् । वाक्यान्तरेण सङ्ग्रहस्तु ‘एवमाचार्यवान्पुरुषो वेद’ इति गुरुप्रदानेऽपि समान इत्यपि द्रष्टव्यम् । तज्ज्ञानमोक्षयोरित्यत्र तच्छब्देनाधिकारिणो गृह्यन्ते ।
भावबोधः
इति कर्तव्यतासाधनादिति ।। प्रधानभूताङ्गिविचारानन्तरं तदङ्गभूतेतिकर्तव्यताविचारादनन्तर-सङ्गतिरिति भावः । ‘इतरे तु अथ सामान्यात्’ इत्युक्तमयुक्तमिति । तत्र तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेरिति न्यायविवरणानुसारेण ध्यानयोग्यतानिर्णयार्थं गुरुपरिग्रहस्यावश्यकत्वस्योक्तत्वादित्यर्थः । यथाकथञ्चिदिति ।। अत्र श्रवणादि किं यथाकथञ्चिदनुष्ठितं ज्ञानसाधनं उत गुरुप्रसादपूर्वकप्रदानयुक्तमेवेति चिन्ता । तदर्थं श्रवणादिफलं ज्ञानादिकं गुरुप्रसादाधीनं न भवत्युत भवतीति । तदर्थं ज्ञानादेः फलस्य गुरुप्रसादाधीनत्वे ‘श्रोतव्यः’ इत्यादिश्रुतिविरोधकादाचित्कगुरुशापप्रयुक्तमोक्षाभावौ किं भवत उत न भवत इति । सौत्रावधारणव्यावर्तककथनपरेण च श्रवणादिमात्रेणेति भाष्यानुसारेणाह– आत्मेति ।। गुर्वधीनत्वे ज्ञानमोक्षयोः ज्ञानिनोऽपि कदाचिद्गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गात् । न गुर्वधीनत्वमिति न्यायविवरणं योजयति– ज्ञानस्य चेत्यादिना । ज्ञानिनो गुरुशापान्मोक्षाभावो नानिष्ट इत्यत आह– अभ्युपगम इति ।। अत्र सौत्रः ‘तत्’शब्दः पूर्वसूत्रप्राप्तश्रवणाद्युपासनपरामर्शक ‘एव’कारव्यावर्त्त्यं च श्रवणादिमात्रमित्यभिप्रेत्य प्रवृत्तं न च श्रवणादिमात्रेणेत्यादिभाष्यं व्याचष्टे– न श्रवणादिमात्रमित्यादिना ।। ‘श्रोतव्यः’ इति श्रुतिविरोधपरिहारार्थमेव भाष्ये सेतिकर्तव्ये-नेत्युक्तम् । अन्यथा यथागुरुदत्तमित्यादिनैव पूर्तेरित्यभिप्रेत्याह– न चैवमित्यादिना ।। गुरुप्रदान-मित्यनेन सेतिकर्तव्यतेत्यतः स्वपदविवरणार्थं यथा गुरुदत्तमिति भाष्यमित्युक्तं भवति ।। न हि दृढमुष्टीति ।। यथा ‘सोममभिषुणोति’ इत्यादौ सोमरसस्य दृढमुष्टिनिपीढनसाध्यत्वे ‘सोमं दृढमुष्ट्या निपीढयेत्’ इति न पृथक् चोच्यते । तेन विना सोमरसलाभासम्भवेनानुक्तिसिद्धत्वात् तथाऽत्रापीति भावः । ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण चामुक्त्यनुपपत्तेरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे न चैवमित्यादिना । मुक्तिदूषणेनैवेति गुरुशापादेः कृतार्थत्वादिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासापूर्वकं व्याचष्टे– न चैवमिति ।। अत्र न्यायविवरणोदाहृतं प्रमाणं पठति– उक्तं चेति ।। प्रमाणविशेषमप्याह– तथा हीति ।।
भावदीपः
उपासनेतिकर्तव्यतेति ।। गुरुप्रदानरूपेत्यर्थः । प्रधानचिन्तानन्तरं तदङ्गविचारणाद्वा पूर्वोक्तेन समस्तोपासनकर्तव्यत्वहेतुनैव श्रुतिविहितत्वेन तन्मात्रकर्तव्यत्वपूर्वपक्षकरणाद्वा पूर्वसङ्गतिरपीति भावः ।। इतरे त्विति ।। गुरुप्रदानासमर्थने स्वप्राप्यफलसाम्येन मध्यमगुणा गुरूक्तप्रकारेणोपास्या इति प्रागुक्तमयुक्तमित्यर्थः । यथाकथञ्चित् गुरूपदेशे निलीनतया वा बलाद्वेत्यर्थः ।। प्रदानेति ।। उपदेशयुक्तमित्यर्थः ।। उभयथेति ।। गुरुमुखाच्छ्रोतव्यो मन्तव्य इति विशिष्याश्रवणादिति भावः । श्रवणादिमात्रेण दृष्टिरिति भाष्योक्तप्रतिज्ञामाह ।। यथाकथञ्चिदिति ।। कुत इत्यतः पूर्वत्र हिशब्दोक्तमेव हेतुमाह ।। आत्मा वा अर इति ।। अप्रयोजको हेतुरित्यतो गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोऽपि कदाचिद्गुरुकोपाज्ज्ञानफलाभावेनामुक्तिप्रसङ्गादित्यन्यत्रोक्तं विपक्षे बाधकं व्यनक्ति ।। ज्ञानस्य चेति ।। गुरुकोपस्य वैफल्यमेव कुतो नेत्यत आह ।। अन्यथेति ।। तद्वरस्येति ।। ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादित्येवंरूपतद्वरस्येत्यर्थः ।। अभ्युपगमे चेति ।। मोक्षाभावस्येत्यर्थः ।। अत इति ।। अनुकूलतर्कसनाथेनानुमानेन श्रवणादिमात्रत एव फलसिद्ध्यनु-मानादित्यर्थः । सौत्रैवकारव्यावर्त्योक्तिपरं न चेत्यादिभाष्यं व्याचष्टे ।। नेति ।। सेतिकर्तव्येनेत्ये-तत्सूत्रारूढं करोति ।। प्रसादेति ।। कुत इत्यतो यथेत्यादिभाष्यस्य यथा प्रीत्याऽप्रीत्या वा तथैव तदनुरूपमेव फलमित्यर्थमुपेत्य हेतुमाह ।। गुरुप्रदानेति ।। सम्यग्लक्षणसंपन्नो यद्दद्यात्सुप्रसन्नधीः । शिष्याय सत्यं भवतीति नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ । न तत्सत्यं भवेत्तस्मादर्चनीयः सदा गुरुः इति च स्मृतेरिति भावः । सेतिकर्तव्येनेत्येवंरूपभाष्योक्तिसूचितयुक्तिं प्रागुक्तशङ्कानिवर्तकत्वेन व्यनक्ति ।। न चैवमित्यादिना ।। श्रोतव्य इत्यादिवचनेनेत्यर्थः । तावता कथमुक्तशङ्कानिरास इत्यत आह ।। न हीति ।। ‘सोममभिषुणोति’ इत्यादौ सोमरसस्य दृढमुष्टिनिपीडनसाध्यत्वेऽपि सोमं दृढमुष्ट्या निपीड्येत्यादिरूपेण यथा पृथङ्नोच्यते तेन विना तल्लाभेनाङ्गत्वेनानुक्ति-सिद्धत्वात्तथाऽत्रापि गुरुमुखाच्छ्रोतव्य इति पृथगनुक्तावप्यभिमतत्वान्न तद्विरोध इति भावः ।
यद्वा गुरुप्रदानेन विना ज्ञानासिद्धौ श्रवणादिवत्प्राधान्यमेव स्यात्कुतोऽङ्गतेत्यत आह ।। न हीति ।। दृढमुष्टिनिपीडनादिना यागसिद्धावपि तत् सोमवत्प्रधानसाधनं यथा न भवति तथेदमपीत्यर्थः । ज्ञानस्य चेत्यादिनोक्तचोद्यमनूद्य चतुर्थस्कन्धतात्पर्याभिमतहेतूक्त्या निरस्यति
।। न चैवमुक्तेति ।। अन्यथा गुरुकोपवदित्यादिनोक्तमनूद्य निराह ।। न चैवं गुर्विति ।। येन तद्वरोऽपि व्यर्थः स्यादिति भावः । कुत इत्यतो मुक्तिदूषणेनैव गुरुशापस्य कृतार्थत्वादित्य-न्यत्रोक्तहेतुं व्यनक्ति ।। ज्ञानादीति ।। मुक्तीत्युपलक्षणमिति भावः ।। उक्तं चेति ।। न्यायविवरणोक्तवचन इत्यर्थः । आनन्दह्रासेत्युपलक्षणमिति भावः । चतुर्थस्कन्धतात्पर्योक्तमाह ।। ये ज्ञानविषया इति ।। पूर्वत्र ज्ञानपदाश्रवणाद्वचनान्तरोक्तिः । पूर्वं साधारणाधिकारिपरं उत्तरं तूत्तमाधिकारिपरमित्याहुः ।। अत इति ।। गुरुप्रदानयुक्तश्रवणादेरेवाभिमतफलहेतुत्वाद्बाधका-भावाच्चेत्यर्थः ।। उक्तमिति ।। इतरे त्वित्यत्रोक्तमित्यर्थः ।
अभिनवचन्द्रिका
अन्यथेति ।। तत्र गुरुपरिग्रहस्योक्तत्वादिति भावः । न केवलं पूर्वोक्त ‘आत्मा वा ओ द्रष्टव्य’ इति श्रुतिविरोधो दोषः । अपि तु मोक्षस्य तदधीनत्वप्रसङ्गश्च दोष इत्याह– ज्ञानस्येति ।। ‘अनियम’ इत्युक्तविरोध इति । ज्ञानिनां मध्ये केषाञ्चिन्मुक्तिः केषांचिन्नेति नियममपहाय सर्वेषां मुक्तिरित्युक्तिविरोध इत्यर्थः ।। न चैवमिति ।। गुरुप्रसादयुक्तस्यैव श्रवणादेः कारणत्वं न केवलस्येत्यङ्गीकारे, ‘आत्मा वा ओ द्रष्टव्य’ इति वचनविरोधः । तस्य श्रवणादेरेव साधनत्वाभि-धायित्वात् । अन्यथा गुरुप्रसादयुक्तस्यैव श्रवणादेः साधनतामभिदद्यादिति भावः ।। गुरुप्रदान-मिति ।। गुरुप्रदानस्य श्रवणादिसमकक्षत्वाभावात्, गुरुप्रदानयुक्तस्याभिधानप्रसङ्गो नेति भावः ।। नात्र कारणमिति ।। ज्ञानादिविघाते शापादिः कारणं नेत्यर्थः ।
पूर्वपक्षस्तु– श्रवणादिकमेव ज्ञानसाधनं न गुरुप्रदानपूर्वकम् । ‘आत्मा वा ओ द्रष्टव्यः’ इति श्रुतौ श्रवणादीनामेव ज्ञानसाधनत्वाभिधानात् । न हि श्रवणादित्रयमुक्त्वा, विशिष्यगुरु-प्रदानस्यानुक्तौ कारणमस्ति । किं च गुरुप्रसादस्य श्रवणाद्यङ्गत्वे अनुष्ठितश्रवणादेरपि गुरुकोपेन ज्ञानाभावः स्यात् । तथा जातापरोक्षस्यापि मोक्षाभावः स्यादविशेषादिति ।
सिद्धान्तस्तु– गुरुप्रदानयुक्तमेव श्रवणादिकं मोक्षसाधनम् । ‘आचार्यवान्पुरुषो वेद’ इति वचनात् । न च ‘आत्मा वा ओ द्रष्टव्यः’ इति श्रुतौ श्रवणादेरिव गुरुप्रदानस्याप्युक्तिप्रसङ्गः । गुरुप्रदानस्य श्रवणाद्यङ्गत्वेन तत्समकक्षत्वाभावात् । न च अनुष्ठितश्रवणादेरपि ज्ञानाभावः । ज्ञानिनोऽपि मोक्षाभावो गुरुकोपेन स्यादिति वाच्यम् । तज्ज्ञानमोक्षयोरीश्वरकल्पितत्वात् । न चैवं गुरुशापो विफलः ज्ञानादिह्रासहेतुत्वात् । तदुक्तम् ‘ज्ञानिनो गुरुशापेऽपि नामुक्तिः संसृतेः क्कचित् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति’ इति । तथा ‘ये ज्ञानविषयाः शापाः मुक्तिगाश्चाधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः । तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्’ इति । अतो गुरुप्रदान-स्याऽऽवश्यकत्वात् तद्युक्तमेव श्रवणादिकं कर्तव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अन्यथेति ।। गुरुप्रदानपूर्वकत्वरूपेति कर्तव्यताऽदाने इतरे त्वर्थसामान्यादित्यत्र योग्यगुरूप-देशेन स्वस्वयोग्यमुपासनं कार्यमित्युक्तमयुक्तं स्यादित्यर्थः ।। प्रकृतश्रवणाद्येवेति ।। कर्तव्यतया पूर्वाधिकरणे प्रकृत इत्यर्थः । एतेन श्रवणादेरितिकर्तव्यस्यानुष्ठेयत्वसिद्धौ तदितिकर्तव्यता-विचारावसर इत्यनन्तरसङ्गतिरिति भावः । अत्र प्रकृतं श्रवणादिकं यथाकथञ्चिदनुष्ठितं ज्ञान-साधनमुत गुरुप्रसादपूर्वकप्रदानयुक्तमेवेति चिन्ता । तदर्थं ज्ञानादेर्गुरुप्रसादाधीनत्वे श्रोतव्य इत्यादि-प्रमाणविरोधः । कदाचित् गुरुकोपेन तदभावप्रसङ्गलक्षणतर्कबाधश्चास्ति स नास्तीति । यथाकथञ्चिदिति । परोपदेशे निलीनतया बलाद्वानुष्ठितमित्यर्थः । उक्तं च तत्वप्रदीपे । न तावत्परोपदेशे निलीनतया बलाद्वानुष्ठितं दृष्टिद्वारं भवतीति । सौत्रावधारणव्यावर्त्यकथनपरं न च श्रवणादिमात्रेणेति भाष्यमनुरुध्याह ।। आत्मेति ।। यथा गुरुदत्तं तथैव भवतीत्युत्तरवाक्ये गुरुप्रदानस्य फलाव्यभिचारित्वोक्त्या तन्निषेध्यतया सूचितं फलाभाव इत्युक्तन्यायं विशदयति । ज्ञानस्य चेत्यादिना ।। तदभावप्रसङ्गादिति ।। ज्ञानाभावप्रसङ्गाद्भाविनोऽपि मोक्षाभावप्रसङ्गा-च्चेत्यर्थः ।। त्वद्वरस्यापीति ।। मदुपदिष्टं तवापरोक्षं मोक्षपर्यवसायि भवेदिति प्रसादपूर्वं दत्तवरस्यापीत्यर्थः ।। अभ्युपगम इति ।। ज्ञानिनो मोक्षाभावाभ्युपगम इत्यर्थः ।
सूत्रे तदित्यनेन पूर्वसूत्रप्रकृतं श्रवणादित्रयं परामृश्यते । दृष्टिदमिति प्रकरणात्सम्बद्ध्यते । तथा च प्रसादपूर्वकगुरुप्रदानयुक्तमेव तच्छ्रवणादिकं दृष्टिकारणम् । कुतः? तत्र ज्ञानस्य गुरु-प्रदानाधीनत्वमुक्तं श्रुताविति सूत्रार्थः । अत्रैवकारव्यावर्त्यं दर्शयन् न च श्रवणादीति भाष्यं व्याचष्टे ।। न श्रवणादीति ।। प्रदानवत्तदित्यंशव्याख्यापरं किन्तु सेतिकर्तव्येनेत्येतत् व्याचष्टे ।। किमिति ।। इतिकर्तव्यविवरणाय प्रदानपूर्वकस्यैव फलप्रदत्वे युक्तिसूचनाय च प्रवृत्तं यथा गुरुदत्तमित्येतद्व्याचष्टे ।। गुरुप्रदानेति ।। फलस्य प्रदानान्वयव्यतिरेकानुविधायित्वादित्यर्थः । भाष्ये किन्तु गुरुप्रदानयुक्ते-नेत्यनुक्त्या सेतिकर्तव्येनेति प्रयोगेन व्यावर्त्यं पूर्वपक्ष्युक्तं प्रमाणविरोधमाशङ्क्य निराह ।। न चैवमिति ।।
तत्त्वसुबोधिनी
इति कर्तव्यतासाधनादिति ।। प्रधानविचारादनन्तरं तदङ्गभूतेतिकर्तव्यताविचारादनन्तर-सङ्गतिरिति भावः । अन्यथेति इतिकर्तव्यता समर्थनाभाव इत्यर्थः ।। इतरेत्वर्थसाम्यादित्युक्त-मयुक्तमिति ।। तत्र ध्यानयोग्यतानिर्णयार्थं गुरुपरिग्रहावश्यकत्वस्य उक्तत्वादित्यर्थः ।। तदधीनत्व- प्रसङ्ग इति ।। गुर्वधीनत्वप्रसङ्ग इत्यर्थः । तदभावप्रसङ्गात् । ज्ञानमोक्षयोः अभावप्रसङ्गात् । ननु गुरुकोपेन मोक्षाभाव इत्यत आह ।। अन्यथेति ।। गुरुकोपस्य निरर्थकेत्यर्थः । ज्ञानिनो गुरुशापान्मोक्षाभावो नानिष्ट इत्यत आह अभ्युपगम इति ।। अत्र सौत्रतच्छब्दः पूर्वसूत्र-प्राप्तश्रवणाद्युपासनपरामर्शक एवकारव्यावर्त्यं च श्रवणादिमात्रं इत्यभिप्रेत्य प्रवृत्तं ‘न च श्रवणादि-मात्रेण इत्यादिभाष्यं व्याचष्टे- न च श्रवणादिमात्रमित्यादिना ।। श्रोतव्य इति श्रुतिविरोध-परिहारार्थमेव भाष्ये सेति कर्तव्येनेत्युक्तम् । तर्हि श्रोतव्य इत्युक्तिविरोध इत्याशङ्क्य निषेधति ।। न चैवमिति ।। ननु गुरुप्रदानज्ञानसाधनत्वमेवास्तु कुत इतिकर्तव्यतात्वमित्यत आह- न हीति ।। मुष्टिनिपीडनसाधनदार्ढ्यं इतिकर्तव्यतैव न तु साधनं तद्वत्प्रकृतेऽपि इति भावः । प्रमाणविशेष-मप्याह– तथेति ।। अधिकारिणो मुक्तिगाः ये ज्ञानविषया शापा ते कदाचित् काल एव भवन्ति न तु सर्वकाल इत्यर्थः ।
वाक्यार्थविवरणम्
तदधीनत्वेति ।। गुरुप्रसादाद्यधीनत्वेत्यर्थः । इदं मोक्षस्य गुरुप्रसादाधीनत्वम् ।। तदभावेति ।। मोक्षाभावेत्यर्थः ।। अन्यथेति ।। गुरुकोपेऽपि मोक्षाङ्गीकार इत्यर्थः ।। अभ्युपगम इति ।। अपरोक्षज्ञानिनो गुरुकोपेन मोक्षाङ्गीकार इत्यर्थः ।। उक्तवचनेति ।। गुरुप्रसादपूर्वकत्व-तदभावोदासीनत्व ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्य इत्यादीत्यर्थः ।। इति कर्तव्यतेति ।। तथा च सेतिकर्तव्यताकमेव श्रवणं तत्राभिमतमिति भावः । ननु श्रुतौ श्रवणेतिकर्तव्यता कण्ठतः कुतो नोक्तेत्यत आह ।। न हीति ।। ‘निपीड्याथो वासो विस्तृत्य चाञ्जसा’ इत्यादौ मुष्ठ्या वासोनिपीडनादि विधीयते । तत्र वासोनिपीडनसाधनमुष्ट्यादेर्दाढ््यमभिप्रेतम् । दृढमुष्टिनिपीडनेनैव वाससो जलनिर्गमनसम्भवात् । अतो मुष्टेर्दाढर्््यादिरूपेतिकर्तव्यता पृथङ्नोच्यते । सिद्धत्वेन अवक्तव्यत्वात् । तद्वत्प्रकृतेऽपीति सम्प्रदायविदः ।। साधनमिति ।। वाससो जलनिर्गमनेत्यर्थः ।
ननु अधिकारिणो ज्ञानमोक्षयोरीश्वरकल्पितत्वेऽपि गुरुशापः कुतो विफलो न भवतीति चेत् । अत्र प्रष्टव्यं, गुरुशापस्य वैफल्यं किं मनुष्योत्तमक्षितिपविवक्षयोच्यते उत आधिकारिकदेवविवक्षया । नाद्य इत्याह ।। ज्ञानादिह्रासेति ।। आदिपदेन मौक्तानन्दसङ्ग्रहः । अस्मिन्नर्थे प्रमाणमाह ।। तदुक्तमिति ।। मुक्तिः लिङ्गभङ्गः । आनन्द•हासदोषेण विद्यमानानन्दस्येति शेषः ।। विदुष्य-तीति ।। मनुष्योत्तमक्षितिपानामिति शेषः । •हासवचनस्याधिकारिकदेवेष्वसम्भवादिति भावः । द्वितीयपक्षेऽपि । आधिकारिकान् प्रत्यपि न गुरुशापस्य वैफल्यम् । तेषामपरोक्षज्ञानमोक्षानन्दयोः क्लृप्तत्वेन ह्रासाद्यसम्भवेऽपि ज्ञानाद्युत्पत्तौ किञ्चिद्विलम्बहेतुत्वात् । अत्र प्रमाणमाह ।। तथेति ।। एवं विकल्पमुखेन योजनाऽकरणे ज्ञानादिह्रासहेतुत्वादित्यर्थे आद्यप्रमाणस्य सम्मतित्वसम्भवेऽपि, ये ज्ञानविषया इति द्वितीयप्रमाणोदाहरणासम्भवात् । कादाचित्का इत्यनेन ज्ञानादिह्रासोक्त्य-लाभात् । न हि तेषां ज्ञानस्य मुक्तेश्च ‘तारतम्यस्य चैव हि भगवन्नियतत्वात्’ इति नियतोक्तिश्चाधिकारिकान् देवान् विहाय अन्यत्र घटते । न वाऽऽधिकारिकाणां ज्ञानादिह्रासवचनं युक्तम् । वृद्धिह्रासौ विमुक्तिगौ नृणामित्याद्युक्तेः । अतो अत्रोक्तविकल्पक्रमेणैव ग्रन्थयोजने द्वितीयप्रमाणोदाहरणं तत्र नियतत्वकथनं च श्लिष्टतरं भवति, नान्यथेति द्रष्टव्यम् ।। ज्ञान-विषयाः ।। ‘तव अपरोक्षज्ञानं मा भवतु’ इत्यपरोक्षज्ञानविषयाः । मुक्तिगाः ‘तव मुक्तिर्मा भवतु’ इत्येवं मुक्तिविषयाश्चेत्यर्थः ।। कादाचित्का इति ।। कालविलम्बाय भवन्तीत्यर्थः ।
वाक्यार्थमञ्जरी
इति कर्तव्यतेति ।। उपसाधनतेत्यर्थः ।। इत्युक्तमिति ।। तत्र गुरूपदेशानुसारेणोपासना-कर्तव्यतोक्तेरिति भावः । अभ्युपगमे मोक्षाभावस्य ।। इत्युक्तेति ।। तत्र कस्यापि ज्ञानिनो मोक्षाभावो नेत्युक्तेरिति भावः ।
ॐ प्रदानवदेव हि तदुक्तं ॐ ।। प्रीतिपूर्वकत्वादि प्रकृष्टं दानं उपदेशः प्रदानं तद्युक्तमेव श्रवणादिकं अपरोक्षज्ञानसाधनं, कुतः तदुक्तं तज्ज्ञानस्य गुरुप्रदानाधीनत्वमाचार्यवानिति श्रुतावुक्तं यत इत्यर्थः । उक्तवचनं आत्मा वार इत्यादि ।। न हीति ।। दृढमुष्टिनिपीडनादि पृथक् साधनं न हीत्यर्थः । उक्तं न्यायविवरणे । तथा चतुर्थतात्पर्ये । अत्र ज्ञानाद्यभावे ।
।। इति प्रदानाधिकरणम् ।।