ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ

७. अथ समुदायाधिकरणम्

सूत्रभाष्यम्

परमाणुपुञ्जवादिमतं निराकरोति–

।। ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ।। १८ ।।

समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात्तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ।

सत्तर्कदीपावली

परमाण्वारम्भवादवत्परमाणुपुञ्जवादोऽप्यनुपपन्नः । तथा हि । परमाणुपुञ्जशब्दादिभेदः समुदाय-स्तावदेकपरमाणुहेतुकश्चेत्प््रालये समुदायस्याप्यविच्छेदः स्यात् । बहुपरमाणुहेतुकश्चेद्बहुसमुदाययो-र्भेदोऽङ्गीकृतः स्यात् । न च तथा सति बहुत्वैकत्वे समुदायस्य समुदायिभूतानां बहुत्वमिति समुदायहेतुकत्वं बहुत्वं किं न स्यादिति । अन्योन्याश्रयतया परमाणुपुञ्जवादोऽपास्तः स्यात् । तदाह ।। परमाणुपुञ्जेत्यादिना ।।

तत्त्वप्रदीपिका

चतुर्विधेषु बौद्धेषु वैभाषिकाः सौत्रान्तिकाश्च बाह्यार्थवादिनः । ते तावदुभयेऽपि परमाणूनां पुञ्जविशेषं जगत्क्षणभङ्गिसङ्गिरन्ते । विज्ञानवेदनासंज्ञासंस्कारानन्यस्कन्धांश्च । तत्र प्रथमे प्रत्यक्ष-मेतत्प््राचक्षते । अपरे तु नितरां मूढतमाः प्रतिबिम्बेनानेन बुद्ध्यारोपितेन बिम्बादन्यदनुमेयमितीत्येष भेदः । तेषां परमाणुकारणनिरासप्रसङ्गसङ्गतं मतमधुना निरस्यति । समुदायउभयहेतुकेऽपि तदप्राप्तिः । न तावत्परमाणुसमुदायस्यैकहेतुकत्वम् । समुदायत्वाभावप्रसङ्गात् । द्व्यादिहेतुके समुदायेऽङ्गीक्रिय-माणेऽन्योन्याश्रयात्तस्यायुक्तिः, द्वित्वादिसिद्धौ समुदायसिद्धिः, तत्सिद्धौ द्वित्वादिसिद्धिरिति । द्व्यादिहेतुकत्वानङ्गीकारे द्वितीयानपेक्षत्वादेकस्यैव समुदायत्वमिति सर्वदा समुदायः स्यात् । अतः समुदाय एव न युज्यते द्वय्यामपि पदव्याम् । समुदायविशेषात्मना जगज्जन्म दूरापेतम् ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ।। परमाणुपुञ्जेति ।। द्विविधसमयिनां मध्ये हैतुकनिरासानन्तरं पाषण्डिनां निराकरणं प्राप्तम् । पाषण्डिनोऽपि द्विविधाः । अवैदिका वैदिकाश्च । तत्रावैदिका-नामतिविरोधिनां निराकरणं प्रथमप्राप्तम् । तत्र बौद्धजैनानां मध्ये बौद्धस्यैव प्राथमिकत्वादादौ तन्निराक्रिया युक्ता । बौद्धानां बहुविधत्वेऽपि परमाणुकारणताभ्युपगन्तृनिराकरणसङ्गत्या वैभाषिक-सौत्रान्तिकमतमत्र निषिध्यत इति भावः । अत्र विष्णोर्जगत्कारणत्वे बौद्धमतविरोधनिरासादस्ति शास्त्रादिसङ्गतिः । हरिर्जगत्कर्तेत्युक्तम् । तत्र बौद्धमतविरोधेनाभावशङ्का स्यादिति तद्दूषणीयमेव । ईश्वरस्य जगत्कारणत्वमेव विषयः । युक्तमयुक्तं वेति सन्देहः । समयविवादः सन्देहबीजम् । न युक्तमिति पूर्वपक्षः । रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितं खलु जगत्परमार्थसत् तदशेषं परमाणुसमुदायमात्रं न त्ववयवी नाम कश्चिदस्ति । परमाणुसमुदाय एव घटादिबुद्ध्युपपत्तौ परमाणु-परिणामस्य तदारब्धस्य वाऽवयविनोऽभ्युपगमस्य व्यर्थत्वात् । विद्यमानं च सर्वं क्षणिकमेव एतदेव हि पदार्थानां सत्त्वं यत्कालतः क्षणिकत्वं देशतः परमाणुत्वम् । तच्चैतत्कार्यं कालकर्मनिमित्तेन भवत्यतः किमीश्वरेण । न च तदनभ्युपगमे मानविरोधः । आगमप्रामाण्यानभ्युपगमात् । अतो न लक्षणं युक्तमित्येवं प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। समुदाय इति ।। न विष्णो-र्जगत्कारणत्वमयुक्तम् । बौद्धानामनुपपन्नभाषित्वेन तत्कल्पनाया दुष्टत्वात् । तथा हि । कालकर्मादि-निमित्तेन क्षणिकः परमाणुनिमित्तकः समुदायो भवति । न त्ववयवी कश्चिदस्तीति यदुक्तं तत्र प्रष्टव्यम् । किमयं समुदाय एकपरमाणुहेतुकोऽनेकपरमाणुहेतुको वेति । आद्यस्तावदनुपपन्नः । एकस्मात्समुदाय इत्यस्य व्याहतेः । द्वितीयोऽपि किं मिलितानेकहेतुको वा विरलानेकहेतुको वा । नाद्यः । मिलितानेकतः समुदायः समुदाये सति मिलितत्वमित्यन्योन्याश्रयतया समुदायानुपपत्तेः । नोत्तरः । अमिलितपरमाणूनां सदा सद्भावेन समुदायस्यापि सदातनत्वापत्त्या प्रलयाभ्युपगम-विरोधापातादिति भावः । अत्रातिपीडायामनवस्थापि द्रष्टव्या ।

गुर्वर्थदीपिका

यद्यपि ‘बुद्धो नाम्ना जिनसुत’ इति वचनाज्जिनः प्राथमिकः, बुद्धस्तु पश्चात्तनः । तथाऽपि शिशुरूपेण बुद्धेन वेदनिन्दात्मके पाषण्डमते प्राक्कृते तत्र किञ्चिदङ्गीकृत्य पुनर्जिनेन वेद-निन्दात्मकं मतान्तरं कृतमिति भावेनोक्तम् ।। बौद्धस्यैव प्राथमिकत्वादिति ।। बौद्धस्य बुद्धकृत-मतस्य । रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितमित्यत्र रूपपदेन पृथिव्यप्तेजोवाय्वाख्य-भूतानि तत्तद्व्यवहारालम्बनपरमाणवश्च गृह्यन्ते । निर्विकल्पकं ज्ञानं विज्ञानम् । वेदना दुःखम् । सुखं तु दुःखाभाव एव । न ततोऽतिरिक्तम् । अतिरेकपक्षे तदपि दुःखशबलत्वाद्वेदनापदे-नोच्यते । सविकल्पकं ज्ञानं संज्ञा । संस्कारः समनन्तरप्रत्ययाख्या स्मृतिः । इदं चतुष्टय-मान्तरम् । आत्मा ज्ञानसन्ततिरेव न ततोऽतिरिक्त इति भावः । परमाणुसमुदाय एवेत्यस्य विवाहचतुर्थदिने गजाकारेण राशीभूताविकृततण्डुलवत्तत्तदर्थाकारेण पुञ्जीभूताविकृतपरमाणु-समुदाय एवेत्यर्थः । एतदेव हि पदार्थानां सत्त्वमित्यत्र पदार्थानां परमाणुसमुदायात्मकघटादि-पदार्थानाम् । अर्थक्रियाकारित्वं हि सत्त्वम् । तच्च क्षणे क्षणे स्वसदृशसंस्थानान्तरकरणेन विकुर्वद्रूपवत्वे सत्येव स्यात् । अतः क्षणिकत्वमेव सत्त्वमिति भावः । मिलितानेकहेतुक इत्यत्र सकृद्घटोत्पत्त्यनन्तरं पुनर्यावद्घटसत्त्वं घटाकारेण मिलितैस्तैरेव परमाणुभिः क्षणेक्षणे घट-समुदायात्मककार्योत्पत्तिपरम्परां वदता सृष्टेरैकविध्याय प्राचीनघटाकारसमुदायात्मककार्यमपि घटाकारेण मिलितपरमाणुभ्य एव वक्तव्यम् । मिलितत्वं च घटाद्याकारेण समीपस्थपरमाणु-समुदायत्वम् । अन्यथा विरलानेकहेतुकत्वाख्यद्वितीयकोटेरविशेषापातात् । एवं च कारणीभूत-मिलितत्वसम्पत्तिरेव सम्बन्धविशेषघटितपरमाणुसमुदाये सत्येव भवति । स च समुदायः उत्पत्स्यमानघटाकारसमुदायातिरिक्तो न परेण वक्तुं शक्यते । कार्यसमुदायातिरिक्तघटक-समुदायान्तरस्य परेणानङ्गीकारात् । स एव चेत् । न समुदाये सति मिलितत्वं मिलितत्वे सति समुदाय इति कथं नान्योन्याश्रय इति भावः । उत्पत्स्यमानादन्येन समुदायेन मिलितत्वं चेत्तस्यापि तथा तस्यापि तथेत्यनवस्थेत्याह ।। अत्रातिपीडायामिति ।। अप्रामाणिक-समुदायकल्पनेन प्रमेयस्य बहुपीडनादतिपीडायामित्युक्तम् ।

भावबोधः

एतदधिकरणस्य पूर्वाधिकरणेनानन्तरसङ्गतिमाह– बौद्धानामिति ।। सौत्रान्तिकवैभाषिक-मतमिति । सौत्रान्तिकमते रूपादिप्रपञ्चस्यानुमेयत्वाङ्गीकारेण वैचित्र्यसत्त्वेऽप्यधिकरण-दूषणांशस्योभयमतसाधारण्येनोभयमतमप्यत्र निषिध्यत इति भावः ।। युक्तमयुक्तं वेति ।। अत्रेश्वरस्य जगत्कारणत्वं किं न युक्तम् उत युक्तमिति चिन्ता । तदर्थं वैभाषिकसौत्रान्तिकसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं सौत्रान्तिकवैभाषिकौ किमुपपन्नभाषिणावुतानु-पपन्नभाषिणाविति । तदर्थं तत्परिकल्पितपदार्थक्षणिकत्वादिप्रक्रियायां साध्यसाधकभावाभावौ वर्तेते उत न वर्तेते इति ।। रूपविज्ञानेति ।। रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । वेदनापरपर्यायं दुःखं चैकस्कन्धः । सुखं दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । सविकल्पकज्ञानं संज्ञास्कन्धः । समनन्तरप्रत्ययः संस्कारस्कन्ध इति द्रष्टव्यम् । वैशेषिकादिमताभिप्रायेणाह– तदारब्धस्येति ।। भाष्ये सौत्रापिशब्दसमुच्चेयप्रदर्शनाय समुदायस्यैकहेतुत्वं न युज्यत इत्युक्तम् । एकहेतु-कत्वमेकपरमाणुहेतुकत्वमित्यर्थः । उभयहेतुकेऽपीत्यत्रोभयशब्दो मिलितानेकपरमाणुपरः । अङ्गीकृते सतीति शेषः । तदप्राप्तिरित्यत्र तच्छब्दः समुदायपरामर्शकः । अन्यथेत्यस्य मिलितानेकहेतुकत्वानङ्गीकारे विरलानेकपरमाणुहेतुकत्वाङ्गीकार इत्यर्थः इति भाष्याक्षरार्थमभि-प्रेत्य तदभिप्रायमाह– किमयं समुदाय इत्यादिना ।।

ननु येभ्यो मिलितानेकपरमाणुभ्यो समुदायो, न तत्समुदायजन्याः । किं तु समुदित-परमाण्वन्तरादिति नान्योन्याश्रय इत्यत आह– अतिपीडायामिति ।।

भावदीपः

अत्रैतन्मतनिरासे परमाणुपुञ्जेति पदप्रयोगसूचितां सङ्गतिं वक्तुमाह ।। द्विविधेति ।। प्रागुक्तद्विविधेत्यर्थः । तामाह ।। बौद्धानामिति ।। वैभाषिकेति ।। तन्मतयोरनतिभिन्नार्थत्वादिति भावः । आकाशे चेति सूत्रानुगुण्याय जगत्स्वरूपं व्यनक्ति ।। रूपेति ।। विषयेन्द्रियाद्यात्मना स्थिताः रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकज्ञानं विज्ञानस्कन्धः । दुःखं वेदनास्कन्धः । सुखं च दुःखाभाव एव । सुखमपि वेदनास्कन्ध इत्येकदेशिनां मतम् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः । तेषां वासनासंस्कारस्कन्धः । इत्येवं रूपेणावस्थितमित्यर्थः । असति प्रतिज्ञेत्यादिसूत्रोपयोगायाह ।। परमार्थेति ।। अर्थक्रियाकारि-रूपपारमार्थिकसत्यमित्यर्थः । आद्यसूत्रनिरस्यमाह ।। तदशेषमिति ।। वेदान्तिरीत्याऽऽह ।। परिणामस्येति ।। वैशेषिकरीत्याऽऽह ।। तदारब्धस्येति ।। द्वितीयादिसूत्रोपयोगायाऽऽह ।। विद्यमानं चेति ।। क्षणिकत्वे सत्त्वं न स्यादित्यत आह ।। एतदेवेति ।। ईश्वरवादस्य तद्विरोधं दर्शयितुमाह ।। तच्चेति ।। विप्रतिषेधाच्चासमञ्जसमित्याद्युक्तदोषोऽत्र मते नेत्याह ।। न चेत्यादिना ।। अत इति ।। ईश्वरस्यैवानुपयोगादित्यर्थः । समुदायादिखण्डनस्य सङ्गतत्वद्योतना-याह ।। न विष्णोरिति ।। परमाणुनिमित्तकः समुदायो भवतीत्येतावदनुवादेनैव पूर्तौ कालकर्मे-त्याद्युक्तिः सूत्रेषु वक्ष्यमाणदूषणज्ञानसौकर्यायेति ध्येयम् । सूत्रभाष्ययोरुभयशब्दोऽनेकपरो न द्विमात्रपर इति भावेन अनेकपरमाणुहेतुको वेति विकल्पः । भाष्यं व्याचष्टे ।। आद्य-स्तावदित्यादिना ।। भाष्ये एतत्पक्षनिरासः सौत्रापिपदसूचित इति द्योतनाय तावदित्युक्तम् । भाष्ये समुदायशब्दप्रयोगादेव सूचितां युक्तिमाह ।। एकस्मादिति ।। सूत्रभाष्ययोरुभयशब्दः ‘उभादुदात्तो नित्यम्’ इति सूत्रादवयवार्थे निष्पन्नत्वान्मिलितानेकपरमाणुपर इत्यभिप्रेत्य विकल्पमुखेन भाष्यं व्याचष्टे ।। किं मिलितेति ।। एकदेशस्थानेकहेतुको वेत्यर्थः । अन्यथेत्यादि व्याचष्टे ।। नोत्तर इत्यादिना ।। अतिपीडायामिति ।। अन्योन्याश्रयपरिहाराय मेलनस्य मेलना-न्तरेण सामीप्येन वा विशिष्टानेकहेतुकत्वे अनवस्थेत्यर्थः ।

अभिनवचन्द्रिका

रूपविज्ञानवेदनासंज्ञा संस्काररूपेणेति ।। विषयेन्द्रियाद्यात्मना स्थिताः रूपरसगन्ध-स्पर्शशब्दाद्यात्मकाः परमाणवो रूपस्कन्धः, अहमित्यभिमानारूढं निर्विकल्पकज्ञानं विज्ञान-स्कन्धः, दुःखं वेदनास्कन्धः, सुखन्तु दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः, रागद्वेषमोहादिरूपः समनन्तरप्रत्ययः संस्कारस्कन्धः । एवं पञ्चस्कन्धात्मना अवस्थितं परमार्थसदित्यर्थः ।। यत्कालतः क्षणिकत्व-मिति ।। व्याप्यव्यापकयोरभेदोपचारोऽयम् । ततश्च व्यापकाभावे व्याप्यायोगात् विद्यमानस्य सर्वस्य क्षणिकत्वमभ्युपेयमिति भावः । एतेन साध्यावैशिष्ट्यात् सत्त्वेन परकीयं क्षणिकत्व-साधनमनुपपन्नमिति परास्तम् ।। कालकर्मनिमित्तेनेति ।। कालकर्मनिमित्तेनैव भवति न तु उपादानेनेति भावः । एतेन परमाणूनां क्षणिकत्वे उत्तरक्षणे पुनः परमाणूत्पत्तौ उपादानाभावात् पुनः परमाणूत्पत्तिरनुपपन्नेति परास्तम् । निरुपादानसृष्टेः अभ्युपगतत्वेन उपादानाभावस्यादोषत्वात् ।। किमयमिति ।। परस्यानुपपन्नभाषित्वेन युक्तमेवायं ब्रवीतीति नियमाभावात् प्रश्नः ।। मिलितानेकत इति ।। यद्यपि न मेलनातिरिक्तः समुदायो दृश्यते इत्यात्माश्रय इत्यात्माश्रयो वक्तव्यः तथापि समुदायव्यक्तिभेदमङ्गीकृत्य पूर्वस्मात्समुदायादुत्तरसमुदायः उत्तरस्माच्च पूर्वसमुदाय इत्यङ्गीकारेऽन्योन्याश्रयो बोध्यः । व्यक्तिबाहुल्याङ्गीकारे तु अनवस्थां वक्ष्यति ।। सदा सद्भावे-नेति ।। यद्यपि परमाणवः क्षणिकाः, तथापि तत्प्रवाहस्तु सदा वर्तत इति सदा सद्भावेनेत्युक्तम् ।। अतिपीडायामिति ।। यस्मात् समुदायाद्यः समुदाय उत्पद्यते न तस्मात् पूर्वसमुदायोत्पत्ति-रङ्गीक्रियते किन्तु समुदायान्तरात् सोऽप्येवं, सोऽप्येवमिति नाऽन्योन्याश्रय इत्यतिपीडायामित्यर्थः ।

इयमत्र सूत्रयोजना परमाणुसमुदायेन केवलं एकपरमाणुहेतुकेऽङ्गीक्रियमाणे समुदायप्राप्तिः किन्तु उभयहेतुके समुदितानेकहेतुकेऽङ्गीक्रियमाणेऽपि तदप्राप्तिरिति ।। भाष्ये अन्यथेति ।। अन्यथा पूर्वोक्तमिलितानेकहेतुकत्वादन्यथा विरलानेकहेतुकत्वाङ्गीकारे, सर्वदा समुदायत्वं स्यादित्यर्थः ।

वाक्यार्थमुक्तावली

परमाणुपुञ्जस्यैव घटादिबुद्धिविषयत्वमिति वादः परमाणुपुञ्जवादः ।। प्राथमिकत्वादिति ।। प्रथमनिर्मितत्वात् प्रबलत्वाच्चेत्यर्थः ।। बहुविधत्वेऽपीति ।। वैभाषिकसौत्रान्तिकमाध्यमिक-योगाचारभेदैर्बहुविधत्वेऽपीत्यर्थः । अपिशब्दान्माध्यमिकादीनामतिविरोधित्वेऽपीति ग्राह्यम् । यद्यपि परमाणुपुञ्जरूपः क्षणिको बाह्यार्थो घटादिः सन् प्रत्यक्षश्चेति वदतः सौत्रान्तिकात् सोऽनुमेय इति वदन् वैभाषिकोऽतिविरोधी । ततोऽपि ज्ञानातिरेकेण बाह्यार्थ एव नास्तीति वदन् योगाचारोऽतितरां विरोधी । ततोऽपि सर्वशून्यवादी माध्यमिकोऽतितमां विरोधीति माध्यमिकयोगाचारवैभाषिकसौत्रान्तिकाः क्रमेण निराकार्याः । तथापि परमाण्वारम्भवादनिरासेन तत्पुञ्जवादोपस्थितेः । पुञ्जरूपबाह्यार्थसत्वे वा, द्वित्वेनैकीकृत्यावान्तरभेदमविवक्षित्वा वा, तार्किकं प्रत्युक्तमीश्वरस्य वैदिकत्वमयुक्तम् । वेदस्यैवाप्रमाणत्वादिति षष्ठाक्षेपेण प्रवृत्तयोः वैभाषिकसौत्रान्तिकमतयोर्निरासः क्रियत इति भावः ।। युक्तमयुक्तं वेति ।। ईश्वरस्य जगत्कारणत्वं वैभाषिकादिपरिकल्पितपदार्थक्षणिकत्वादिप्रक्रिया विरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । आकाशे चेति सूत्रानुगुण्याय जगत्स्वरूपं निरूपयति ।। रूपेति ।। विषयेन्द्रियात्मना स्थिताः रूपरसगन्धस्पर्शशब्दात्मकाः पञ्च परमाणवो रूपस्कन्धः । अहमित्यभिमानारूढं निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । दुःखं वेदना स्कन्धः । सुखं तु दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । कुण्डली गौर्गच्छति इत्यादि सविकल्पकज्ञानं संज्ञास्कन्धः । समनन्तरप्रत्ययः संस्कारस्कन्धः । समनन्तरप्रत्ययो नाम तेषां वासनेति चन्द्रिकायाम् । स्मृतिरिति केचित् । रागद्वेषमोहादिरूपः समनन्तरप्रत्यय इत्यन्ये । तच्छास्त्रे पक्षत्रयस्याप्युक्तत्वात् टीकानामविरोधः । असति प्रतिज्ञोपरोध इति सूत्रोप-योगमाह ।। परमार्थेति ।। अर्थक्रियाकारिरूपपारमर्थिकसत्य इत्यर्थः । आद्यसूत्रनिरस्यमाह ।। तदशेषमिति ।। वेदान्तरीत्याह ।। तत्परिणामस्येति ।। वैशेषिकादिरीत्याह ।। तदारब्ध-स्येति ।। द्वितीयादिसूत्रोपयोगमाह ।। विद्यमानं चेति ।। यत्कालत इति ।। व्याप्यव्यापकयोर-भेदोपचारोऽयम् । ततश्च व्यापकाभावे व्याप्यायोगात् विद्यमानस्य सर्वस्य क्षणिकत्वमभ्युपेयमिति भावः । एतेन साध्यावैशिष्ट्याद्विद्यमानं सर्वं क्षणिकमिति सत्वेन परकीयं क्षणिकत्वसाधनमनु-पपन्नमिति निरस्तम् । अर्थक्रियाकारित्वं हि सत्त्वम् । तच्च न जलाहरणादिना सम्भवति । तस्य कादाचित्कत्वात् । क्षणिकत्वे तु द्वितीयक्षणस्थपदार्थजनकत्वेन सम्भवति । न च स्थायित्वं युक्तम् । एकेनैव घटेन कुलालशाला परिपूर्तिप्रसङ्गात् । अतः सत्त्वेन क्षणिकत्वं युक्तमेव । सत्त्वस्य क्षणिकत्त्वेनेव परमाणुत्वेनापि व्याप्तिसद्भावात्तेन परमाणुत्वमप्यनुमेयमित्याह ।। देशत इति ।। महत्वेऽवयवित्वापत्यावयवानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम् । तत्कार्येणाप्येवमिति सजातीयार्थक्रियावैधुर्येण सत्त्वभङ्गापत्तेरिति भावः । नन्वेको महान् इत्यादि प्रत्यक्षप्रत्ययविरोधपरिहाराय समुदायस्य गोघटादिबुद्धिविषयत्वे परमाणुमेलकेनेश्वरेण भवितव्यम् । तथाऽवयव्यनभ्युपगमे परमाणूनां गोघटादिविलक्षणाकारता च न स्यादित्यत आह ।। तच्चैतदिति ।। आदिकालीनं कार्यमित्यर्थः । अन्यदा तु कुलालादि व्यापारादिनिमित्तान्तरमस्तीति भावः ।। कालेति ।। सिद्धान्तिनाप्यवश्यमङ्गीकार्येणेति शेषः । निमित्तेनेति वदता समुदायस्य परमाणुनिमित्तकत्वमेव न तु तदुपादानकत्वमित्युक्तम् भवति । यद्वक्ष्यति परमाणुनिमित्तक इति ।। सूत्रेऽपिशब्दोऽनुक्तैकपरमाणुहेतुकेऽपीति समुच्चायक इत्यभि-प्रेत्य भाष्ये समुदायस्यैकहेतुत्वमित्युक्तम् । अत्राप्राप्तिर्नाम व्याहत्या तदनुपपत्तिः । उभयहेतुक इत्यत्रोभयशब्दो नैकपरः । तथा चोभयहेतुकेत्यस्य समुदितानेकपरमाणुहेतुके विरलानेकपरमाणु-हेतुकेऽपीत्यर्थद्वयं विवक्षितम् । तत्र आद्येऽन्योन्याश्रयात्तदप्राप्तिः । द्वितीये विरलानेकपरमाणूनां सदा सत्त्वात् समुदायोऽपि सदा स्यादिति तस्य समुदायस्य प्रलयाप्राप्तिरित्यर्थमभिप्रेत्योभयहेतु-केऽपीत्यादिभाष्यं प्रवृत्तमिति भावेन विकल्पमुखेन योजयति ।। किमियमिति ।। युक्तिमेव परो वक्तीति नियमाभावात् प्रश्नः ।। व्याहतेरिति ।। समुदायो नाम किं परमाणूनां संयोग, उतानेकत्त्वसङ्ख्या, अथ वृक्षाणामिवैकदेशावच्छेदेनावस्थानं, अथ तदारब्धं द्रव्यान्तरम् । पक्ष-चतुष्टयेऽपि व्याहतिरेव । एकस्मात् संयोगात् अनेकानां सहावस्थानायोगात् । एकस्यानारम्भ-कत्वाच्चेति भावः ।। मिलितानेकेति ।। समुदितानेकहेतुको वा विरुद्धानेकहेतुको वेत्यर्थः ।। मिलितत्वमिति ।। समुदितत्वमित्यर्थः । मिलितानेकहेतुकः समुदायः । जाते हि समुदायेऽनेकेषां समुदितत्वमित्यन्योन्याश्रयत्वमित्यर्थः । ननु येभ्यो मिलितानेकपरमाण्वन्तरहेतुकः समुदायो नेत्यत आह ।। अत्रातिपीडायामिति ।।

तत्त्वसुबोधिनी

एतदधिकरणस्य पूर्वाधिकरणेन सङ्गतिमाह ।। द्विविधेति ।। प्राथमिकत्वादिति ।। बौद्ध-शास्त्रस्य प्रथमनिर्मितत्त्वेन तेषां प्राथमिकत्त्वादित्यर्थः । ननु बौद्धाः वैभाषिकसौत्रान्तिक-माध्यमिकयोगाचारभेदेन चतुर्विधाः । तत्र माध्यमिकस्य सर्वशून्यवादित्वेन योगाचारस्य विज्ञानातिरिक्तपदार्था(नाम)भाववादित्वेन वैभाषिकस्य च घटादिपदार्थानां अनुमेयत्ववादित्वेन तेषां प्रबलत्वात् माध्यमिकादिक्रमेणैव निरासः कर्तव्यः । तथा च प्रथमतो वैभाषिकसौत्रान्तिक-निराकरणमयुक्तमत आह ।। बौद्धानामिति ।। तथा च पूर्वं परमाण्वारम्भवादेन तत्पुञ्ज-वादोपस्थितेरनन्तरसंगत्या, आदौ वैभाषिकसौत्रान्तिकनिरासः । तत्रापि सौत्रान्तिकमते रूपादिप्रपञ्चस्य अनुमात्वेन तयोर्वैचित्र्येऽपि परमाणुपुञ्जरूपबाह्यार्थ सत्त्ववादित्वेनैकीकृत्त्य अवान्तरभेदमविवक्षित्वा अत्र तन्निरासः इति भावः ।। रूपविज्ञानमिति ।। विषयेन्द्रियाद्यात्मादि- नास्थिता रूपरसगन्धस्पर्शशब्दकाः । परमाणवो रूपस्कन्धः अहमित्यभिमानारूढं दण्डायमानं निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः दुःखवेदनास्कन्धः सुखं तु दुःखाभाव एव सुखमपि वेदना-स्कन्धः इति केचित् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः । रागद्वेषमोहादि-रूपः समनन्तरप्रत्ययः संस्कारस्कन्धः इति द्रष्टव्यम् । ननु परमाण्वारब्धो वा तत्परिणामरूपो वाऽवयवी नास्ति चेत् तर्हि घटादिबुद्धेः निर्विषयत्वापत्तिरित्यतः आह परमाण्विति ।। तदारब्धस्येति ।। वैभाषिकमतानुसारेण । ननु परमाणुपरिणाम एव किं न स्वीक्रियते इत्यत आह ।। विद्यमानं चेति ।। तथा च सर्वस्यापि क्षणिकत्वात् न परिणामवादाङ्गीकरणं युक्तमिति भावः । ननु क्षणिकत्वे पदार्थानां सत्त्वं कथमित्यत आह ।। एतदेव हीति ।। कालतः क्षणिकत्वमिति ।। प्रतिक्षणविनाशित्वमित्यर्थः ।। देशतः परमाणुत्वमिति ।। अणुरूपे देशे सत्त्वमित्यर्थः । तथापि समुदायादिकार्यनिमित्त-त्वेनेश्वरोऽङ्गीकर्तव्यः इत्यत आह ।। तच्चैतदिति ।। क्षणिकपरमाणुनिमित्तकः इति । क्षणिकाः ये परमाणवः तन्निमित्तकः इत्यर्थः । भाष्ये सौत्रापिशब्दसमुच्चयप्रदर्शनाय समुदायस्यैकहेतुकत्वं न युज्यते इत्युक्तं एकहेतुकत्वं एकपरमाणुहेतुकत्वम् इत्यर्थः । उभयहेतुकेऽपीत्यत्रोभयशब्दः मिलितानेकपरमाणुपरः । अङ्गीकृते सतीति शेषः । तदप्राप्तिरित्यत्र तच्छब्दः समुदायपरामर्शकः । अन्यथेत्यस्य मिलितानेकहेतुकत्वानङ्गीकारे विरलानेकपरमाणुहेतुकत्वाङ्गीकारे इत्यर्थः इति भाष्याक्षरार्थमभिप्रेत्य तदभिप्रायमाह ।। किमयमिति ।। परमाणूनां सदा सद्भावेनेति ।। न च विरलपरमाणूनां अपि क्षणिकत्वेन सदा सद्भावोऽयुक्तः इति वाच्यम् । क्षणिकानामपि विग्रह-परमाणूनामपि वाहस्य सदासत्त्वेन तथोक्तमिति भावः । ननु एभ्यो मिलितानेकपरमाणुभ्यः समुदायो न ते तत्समुदायजन्याः किन्तु समुदितपरमाण्वान्तरादिति नान्योन्याश्रयः इत्यतः आह ।। अत्रातिपीडायामिति ।। समुदितपरमाण्वन्तरमपि परमाणुसमुदायान्तरादित्यनवस्थेति अर्थः ।

वाक्यार्थविवरणम्

प्राथमिकत्वादिति ।। यथोक्तं तात्पर्यनिर्णये । ‘ततस्तु बुद्धोदितपक्षसंस्थो जिनोऽपि चक्रे मतमन्यदेव’ इति । अतो बौद्धस्यैव प्राधान्येन प्राथमिकत्वमित्यर्थः । वैभाषिकसौत्रान्तिक-माध्यमिकयोगाचारभेदेनेत्यर्थः ।। सङ्गत्येति ।। वैशेषिकैः परमाणुकारणत्वं जगतोऽङ्गीकृतम् । आभ्यां तु परमाणुपुञ्जरूपत्वमिति परमाण्वङ्गीकारवादित्वेन सङ्गतिरस्तीत्यर्थः । ‘पञ्चस्कन्धा-त्मना स्थितम्’ । एतदनुव्याख्यानं मनसि निधाय तन्मनस्स्थितिं दर्शयति ।। रूपेत्यादिना ।। अणूनां समुदायं चेत्येतदनुसारेणाह ।। तदशेषमिति ।। पञ्चस्कन्धात्मकं जगदित्यर्थः । अवयविनोऽभावे घटादिबुद्धीनां निरालम्बनतापात इत्यत आह ।। परमाण्विति ।। अस्मद्रीत्या परिणामस्येति । तार्किकरीत्याऽऽरब्धस्येत्युक्तम् । स्वरसक्षणिकं जगदित्यानुसारेणाह ।। विद्य-मानं चेति ।। सत्त्वयुक्तमित्यर्थः । चशब्दात् परमाणुपुञ्जरूपमिति ग्राह्यम् । तथा च यत् सत् तत्क्षणिकं परमाणुपुञ्जरूपं चेत्यर्थः । ननु विद्यमानरूपसत्त्वहेतुना क्षणिकत्वपरमाणुसमुदाया-त्मकत्वसाधनं कुत इत्यतस्तादात्म्याविनाभावनियामकस्य सत्त्वादित्याह ।। एतदेव हीति ।। बौद्धमते तादात्म्यतदुत्पत्तिभ्यामेवाविनाभावः प्रसिद्धः । प्रकृते च तदुत्पत्तेरयोगात्तादाम्ये-नैवाविनाभाव इत्याशयेन सत्त्वक्षणिकत्वयोस्तादात्म्यमुक्तमिति ध्येयमिति तु सम्प््रादायविदः । अन्ये तु अप्रयोजकताशङ्कापरिहाराय तदुभयमुपपादयन्ति ।

एतदेव हीति ।। अत्र विना नोपपद्यत इति शेषः । तेनैवकारान्वयः । ततश्चेत्थं योज्यम् । यदेतत्पदार्थानां सत्त्वं तत्पदार्थान्तं कालतः क्षणिकत्वं विना नोपपद्यत एव । तथा यदेतत्पदार्थानां सत्त्वं तदेतत्पदार्थानां देशतः परमाणुत्वं स्वल्पदेशे विद्यमानत्वं परमाणुपुञ्ज-रूपत्वमिति यावत् ।। तद्विना नोपपद्यत एवेति ।। अत्रोभयत्राप्युपपादकं प्रसिद्धमिति हिशब्देनाचष्टे । तथा हि समर्थस्य आक्षेपायोगात् कुर्वद्रूपत्वाख्यार्थक्रियारूपसत्त्ववतां पदार्थानां स्थायित्वे एकस्मिन् क्षणे एकस्मादेव घटादनन्तघटोत्पत्तिप्राप्त्या कुलालशालापूर्तिप्रसङ्गात् । तत्परिहाराय तादृशसत्त्वसिद्धयेऽवश्यक्षणिकत्वमङ्गीकार्यम् । एवं सत्त्ववतां परमाणुघटादि-भावानामवयवावयविभावमङ्गीकृत्य परमाणुपुञ्जात्मकतानङ्गीकारेऽवयवी पटः किमवयवेषु तन्तुषु कार्त्स्न्येन वर्तत उतैकदेशेन । नाद्यः । पटस्यानेकत्वप्रसङ्गात् । न द्वितीयः । अवयवान् तन्तून् विहाय पटस्यैकदेशाभावात् । तथा च पट एकदेशेनावयविनि, तन्तौ एकदेशेन वर्तत इत्युक्त्या तन्तुः स्वयमेव स्वस्मिन्नस्तीत्युक्तं स्यात् । तच्चायुक्तम् । इत्येवम् अवयविनि बाधकसद्भावेन तस्य मिथ्यात्वात् सत्त्वानुपपत्तेरवश्यं परमाणुसमुदायात्मकत्वं युक्तम् । समुदायस्यैवायोगात् । समुदायो हि मेलकेन पुंसा भवति । न चास्मदादिस्तथेतीश्वरोऽङ्गीकार्य इत्याशङ्कां कालकर्म-निमित्तत इत्यनुसारेण परिहरति ।। तच्चैतदिति ।। ननु येभ्यो मिलितपरमाणुभ्यः समुदायो जायते ते मिलितानेकपरमाणवो न तत्समुदायजन्याः किं तु समुदितपरमाण्वन्तरादतो नान्यो-न्याश्रय इत्यत आह ।। अत्रातिपीडायामिति ।। परमाण्वन्तरेऽपि समुदायस्यैकपरमाणुहेतुकत्वा-सम्भवात् । अनेकपरमाणुहेतुकत्वेऽपि विरलानेकहेतुकत्वासम्भवेन मिलितानेकहेतुत्वे वाच्ये अन्योन्याश्रयापत्त्या तत्परिहाराय मिलितानेकपरमाणवो न तत्समुदायजन्याः, किं तु समुदित-परमाण्वन्तरादिति वक्तव्यम् । तस्मिन् परमाण्वन्तरेऽपि समुदायः किमेकपरमाणुहेतुकोऽनेक-परमाणुहेतुको वेत्यादिविकल्पपरम्पराप्रसरेण अनवस्था स्यादित्यर्थः ।

वाक्यार्थमञ्जरी

प्राथमिकत्वादिति ।। बुद्धोक्तमतैकदेशमवलम्ब्य जिनेन मतान्तरकरणादिति भावः ।। बहुविधत्वेऽपीति ।। वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदेनेत्यर्थः । ईश्वराभावं वक्तुमाह ।। रूपविज्ञानेति ।। शरीरेन्द्रियविषयात्मनावस्थिताः रूपरसगन्धस्पर्शात्मकाः परमाणवो रूप-स्कन्धाः । निर्विकल्पकज्ञानं विज्ञानस्कन्धः दुःखं वेदनास्कन्धः । सुखं च दुःखाभाव एव । सविकल्पकं ज्ञानं संज्ञास्कन्धः । समनन्तरप्रत्ययः संस्कारस्कन्ध इति द्रष्टव्यम् । अस्मन्मताभि-प्रायेणाह ।। परमाणुपरिमाणस्येति ।। वैशेषिकमताभिप्रायेणाह ।। तदारब्धस्येति ।। यदिति ।। पदार्थानां सत्त्वं नाम स्वसदृशकार्यजनकत्वरूपमर्थक्रियाकारित्वम् । तत्र यदि घटस्य स्थायित्वं तर्हि प्रतिक्षणं घटान्तरं समुत्पादयेत् । सोऽप्येवम् एवं चाल्पतरकाले कुलालशालापूर्त्तिः स्यात् । अतो घटान्तरमुत्पाद्य स्वयं नश्यतीत्यङ्गीकार्यम् । तथा घटव्याप्तत्वे तत्कार्यस्य सर्वत्रोपलब्धि-प्रसङ्गात्परिछिन्नत्वं चाङ्गीकार्यमिति भावः । समुदायः किमेकपरमाणुजन्य उतानेकपरमाणुजन्यः । आद्ये एकस्मात्समुदाय इति व्याहतमित्यपिशब्दसूचितदूषणम् । द्वितीये समुदाये उभयहेतु-केऽनेकपरमाणुजन्ये अङ्गीकृते सति तदप्राप्तिः तस्य समुदायस्यानुपपत्तिः । अन्योन्याश्रया-दित्यर्थः । ननु येभ्यो मिलितानेकपरमाणुभ्यो समुदायो जन्यते न ते तत्समुदायजन्याः किन्तु समुदितपरमाण्वन्तरजन्या इति नान्योन्याश्रय इत्यत आह ।। अत्रातिपीडायामिति ।। समुदित परमाण्वन्तरस्यापि मिलितानेकपरमाण्वन्तरहेतुकत्वावश्यम्भावादिति भावः ।

Load More