ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ

१०. अन्वयाधिकरणम्

सूत्रभाष्यम्

।। ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ।। १८ ।।

सर्वगुणानामन्वय आत्मशब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यत’ इति वचनादिति चेत्सत्यम् । स्याच्चैवम् । आत्मेत्येव (बृ.उ.३-४-७) इत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ।

तत्त्वप्रदीपिका

तर्हि तावन्त एवेति नियन्तुं न शक्यते । सर्वगुणानामप्यात्मशब्दे वाच्यत्वेनान्वयात् । अतः कथमनुपसंहारप्रमाणत्वमिति चेत्सत्यम् । न तत्रैव प्रमाणम् । सर्वोपसंहारेऽपि प्रमाणमेव । आत्मेत्येवेति सर्वगुणपूर्ण इत्येवेत्यवधारणात् । एवमर्थानङ्गीकारे सर्वोपसंहारवचनविरोधात् ।

तत्त्वप्रकाशिका

अत्र भगवद्दर्शनसाधनात्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथानुपसंहारप्रमाणौक्तिर्व्याहन्यत इति साधनीयम् । प्रकृतात्मशब्दोक्तगुणा एवात्र विषयः । सर्वोपास्या न वेति सन्देहः । गुणद्वैविध्यदर्शनं सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे ।। अन्वयादिति ।। आत्मशब्दोक्तगुणा न सर्वोपास्याः । आप्तव्याप्तेरिति तस्य सर्वगुणाभिधायकत्वोक्तेः । तथा चायं श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमकरो भवति । न त्वेवमुपासनं कार्यमिति निश्चायकः । न ह्युभयथा श्रुतवतोऽन्यतरस्मिन्नर्थे निश्चयो भवति । न च वाच्यं तस्य सर्वगुणाभिधायकत्वेऽपि स्वयोग्यं तदुक्तमुपास्यमिति । तथा सत्यवधारणविरोधात् । अत आत्मशब्दोक्तगुणानां सर्वोपास्यत्वाभावादनुपसंहारप्रमाणत्वानुपपत्तिरिति भावः । सिद्धान्तांशं व्याचष्टे ।। सत्यमिति ।। कथं परेणोक्तमभ्युपगम्यत इत्यत आह ।। स्यादिति ।। सर्वगुणाभि-धायकत्वमात्मशब्दस्य यत्परेणोक्तं तत्तथा स्यादेवातो नाभ्युपगमो दोषाय । इयांस्तु विशेषः । सर्वगुणांश्चात्मशब्दो वदन् ब्रह्मादीन्प्रत्येव वदति नान्यान्प्रति । तथानुभवात् । अतस्तस्याविभ्रम-करत्वात्तदुक्तोपासनं सर्वेषां युक्तमिति भावः ।

ननु ब्रह्मादीनामात्मशब्दः सर्वगुणान्ज्ञापयतीति कुतोऽन्यान्प्रतीव ब्रह्मादीन्प्रत्यल्पगुणाभिधायकः किं न स्यादित्यत आह ।। आत्मेति ।। अवधारणेऽपि किमायातमित्यत आह अन्यथेति ।। अन्ययोगव्यवच्छेदकावधारणयुक्तात्मशब्दो ब्रह्मादीनधिकरोति ततस्तैरपि तदुक्तमेवोपास्यम् । तथा च यद्यसौ न तान्प्रति सर्वगुणानभिधत्ते तर्हि ‘सर्वैर्गुणैरुपास्योऽसौ ब्रह्मणा परमेश्वरः’ । इत्यादि-सर्वोपसंहारवचनविरोधः स्यात् । अतोऽसौ तेषां सर्वगुणाभिधायक इति भावः । तस्मादात्म-शब्दोक्तगुणोपासनं सर्वेषामस्तीत्युक्तमुपपन्नमिति सिद्धम् ।

गुर्वर्थदीपिका

अन्यथाऽनुपसंहारप्रमाणत्वोक्तिरित्यस्य चतुर्मुखेतरेषामपि स्वयोग्यगुणानुपसंहारेऽप्यस्या एव श्रुतेः प्रमाणत्वोक्तिरित्यर्थः । आप्तव्याप्तेरित्यत्र आप्तव्यानामाप्तुं योग्यानां सर्वगुणानामाप्तेरित्यर्थः । प्रागात्मशब्देनैव सर्वगुणानामुक्तत्वं सिद्धवत्कृत्यावधारणस्य व्यवच्छेद्यान्तराभावादयोगव्यवच्छेद-परतोक्ता । इदानीम्‘आत्मेत्येवोपासीत’ न त्वात्मत्वं विहायेत्येवमाकारेणान्ययोगव्यवच्छेद-मङ्गीकृत्य ब्रह्माद्युपास्यसकलगुणानामप्यात्मशब्दवाच्यरूपमात्मत्वं बलादानयति । ब्रह्माद्युपास्यैक-गुणस्याप्यात्मत्वाभावे न त्वात्मत्वं विहायेत्यभिलषितान्ययोगव्यवच्छेदस्य भङ्गप्रसङ्गात् । अतो ब्रह्माद्युपास्याः सर्वेऽपि गुणाः आत्मशब्देनैव बोधनीया इति भावेनाह भगवान्भाष्यकारः ‘आत्मेत्येवेत्यवधारणात्’ इति । एवं च टीकोक्तान्ययोगव्यवच्छेदोऽपि आत्मत्वरहितगुण-योगव्यवच्छेद इति ज्ञेयम् ।

भावबोधः

आत्मशब्दोक्तगुणोपासनस्येति ।। यद्यात्मशब्देन आनन्दादेर्गृहीतेस्तेषां सर्वोपास्यत्वं तर्हि सर्वेषामपि गुणानां प्रतिपाद्यतया आत्मशब्देनान्वयात् सर्वेषामपि सर्वगुणोपासकत्वं स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। सर्वोपास्या इति ।। अत्राऽऽत्मशब्दोक्ता गुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थं किमात्मशब्दो ब्रह्मादिसर्वाधिकारिणः प्रति सर्वगुणाभिधायक उत यो यावद्गुणोपास्तियोग्यस्तस्य तावद्गुणाभिधायक इति । आत्मशब्दो विभ्रमकर इति न्यायविवरणं सर्वगुणानामन्वय आत्मशब्दे भवतीति भाष्योक्तहेतोः साध्य-प्रतिपादकत्वेन व्याचष्टे– तथा चेति ।। न ह्युभयथेति ।। ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः’ इति आत्मेत्येवेत्यन्ययोगव्यगच्छेद-परावधारणयुक्तात्मशब्दं च श्रुतवत इत्यर्थः । अवधारणोपपत्तेरिति सिद्धान्तयन्न्यायविवरणानु-रोधादाह– न च वाच्यं तस्येति ।। अवधारणविरोधादिति ।। आत्मशब्दोक्तसर्वगुणानुपासने आत्मशब्दोक्तं उपास्यमेवेत्ययोगव्यवच्छेदपरावधारणविरोधः स्यादित्यर्थः ।

नन्वेवं तर्हि सर्वेषामपि सर्वोपास्तिः स्यादित्युक्तमित्याशङ्कापरिहारत्वेन गुणाधिका-नामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणोपपत्तेरिति न्यायविवरणं योजयति । इयांस्त्वित्यादिना । अनेन गुणाधिकानामिति सावधारणम् । तथा च नान्येषां सर्वगुणान् प्रकाशयति । किं तु तत्तदुपासनयोग्यानेवेति लभ्यते । तथा च श्रुतचतुर्गुणोपासनं प्रति गुणचतुष्टयमेवात्मशब्दः प्रकाशयति; नाधिकम् । एवं सति अयोगव्यवच्छेदपरावधारणमप्युपपद्यत इति न्यायविवरणमप्युक्ततात्पर्यम् । तथा च सूत्रे ‘स्यात्’ इत्यतः परं ब्रह्मादीन्प्रत्येव नान्यान्प्रतीति शेषः । तत्र नान्यान्प्रतीत्यत्र हेतुतयाऽवधारणादित्येतदयोगव्यवच्छेदपरावधारणादिति न्यायविवरणेन व्याख्यातमिति ज्ञातव्यम् ।

भावदीपः

सर्वैः कर्तव्यत्वसाधनादिति ।। फलितोक्तिरियम् । पूर्वोक्तदिशा आनन्दादिचतुर्णामिव सर्वयोग्यसर्वगुणानामप्यात्मशब्दोक्ततयाऽवधारणेन च सर्वगुणयुक्तत्वेनैवोपासनाप्राप्तौ तस्य सर्वायोग्यतया ब्रह्मादीतराकर्तव्यत्वशङ्कायां तस्योत्तमान् प्रत्येव सर्वगुणाभिधायकताकथनेन सर्वैः कर्तव्यत्वसाधनादित्यर्थः । एतेनात्मशब्देन चतुर्गुणानामुक्तेरानन्दादिचतुष्टयोपासनसमर्थनमयुक्तम् । सर्वगुणानामप्यात्मशब्दोक्ततयाऽवधारणेन तेषामेवोपास्यता प्राप्तेरिति शङ्कनात्पूर्वसङ्गतिरपि सूचिता ।। अनुपसंहारेति ।। सर्वगुणोपसंहारभिन्नाल्पगुणोपसंहाररूपानुपसंहारे आत्मगृहीतिरित्यत्रात्म-शब्दाच्चेत्यत्र चेति वा आत्मशब्दाच्चेत्यत्रैव वा प्रमाणतयाऽऽत्मशब्दोक्तिर्व्याहन्येतेत्यर्थः ।। गुणद्वैविध्येति ।। आनन्दादेः सर्वोपास्यत्वस्य प्रियशिरस्त्वादेरतादृक्त्वस्य दर्शनमित्यर्थः । साध्यमध्याहृत्य तत्र भाष्यं हेतुतया व्याचष्टे ।। आत्मेत्यादिना ।। एतेन पूर्वस्मादात्मपदमनुवर्त्य आत्मशब्दे सर्वगुणानामन्वयादिति सूत्रस्य, भाष्यस्य तु इति वचनात्सर्वगुणानामन्वय आत्मशब्दे भवति । तस्मात्तदुक्तगुणा न सर्वोपास्या इति योजना सूचिता । व्याप्तिशब्दार्थश्च देशकालगुणापरिच्छेद इति भावः । यद्वा आप्तव्यानामाप्तुं योग्यानां गुणानामाप्तेः प्राप्तत्वादित्यर्थः । हेतोरसिद्धिनिरासायोक्तेरित्युक्तम् ।

नन्वथाप्यप्रयोजको हेतुः । आत्मशब्दस्य सर्वगुणाभिधायकत्वेऽपि तदुक्तगुणानां सर्वोपास्यत्वसम्भवादित्यतो हेतोरप्रयोजकत्वशङ्काव्युदासायाऽऽत्मशब्दो विभ्रमकर इत्यन्यत्रोक्ता-निर्णायकत्वहेतुमाह ।। तथा चेति ।। सर्वगुणाभिधायकत्वे सतीत्यर्थः । अयं आत्मशब्द इत्यर्थः । श्रुतेति बहुव्रीहिः । पूर्वोक्तदिशा अत्र ह्येते सर्व इति वाक्यशेषबलेनात्मेत्येवोपासीतेत्यात्मशब्देनैव चतुर्गुणोपासनं श्रावितमिति तेनैव श्रुतचतुर्गुणोपासनस्य पुरुषस्य ततोऽधिकं सर्वगुणानप्यात्म-शब्देनैव श्रुतवतः पुंसः किमात्मपदेनोक्ताश्चत्वार एवोपास्या उत तेनैवोक्तास्ततोऽधिकाः सर्वेऽपीति संदेहो भवति । द्वयोरप्यात्मपदेनोक्तत्वात् । यथा लोके श्वेतो धावतीत्युपासितव्यमित्युक्ते श्वेतः शुक्लो गच्छतीति श्वा इतो गच्छतीत्यनेकार्थश्रावयद्वाक्यं संदेहकरमेव न तु निर्णायकं तथैवेत्यर्थः । विभ्रमकरत्वं व्यनक्ति ।। न हीति ।। योग्यताविशेषेण निर्णयोपपत्तेरिति प्राप्ते-श्चेत्यत्रोक्तदिशा परिहृतमेतदिति भावेनाशङ्क्य सिद्धान्तहेतुसूचितविशेषशङ्कामाह ।। न च वाच्यमिति ।। अवधारणेति ।। तेन सर्वगुणाभिधायकतया विभ्रमकरत्वादित्यर्थः । ब्रह्मा-द्युपास्यत्वेऽपि तदितरानुपास्यत्वात्सर्वोपास्यत्वाभावादित्युक्तम् । भाष्ये चशब्दोऽवधारण इत्युपेत्याह ।। तत्तथा स्यादेवेति ।। कथं तर्हि विभ्रमकरत्वनिरास इत्यतो गुणाधिकानामधिकारिणां भगवद्गुणानधिकान्प्रकाशयतीत्यन्यत्रोक्तं समाधिमाह ।। इयांस्त्विति ।। फलोक्त्या सूत्रार्थमुपसंहरति ।। तस्मादिति ।। अवधारणाऽन्यथानुपपत्त्याऽऽत्मशब्दस्य ब्रह्मादीन्प्रति सर्वगुणवाचित्वेऽपि तत्तदधिकारिणं प्रति तत्तद्योग्यगुणाभिधायकतया विभ्रमकरत्वाभावादित्यर्थः । इति हेतोरुक्त-मनुपसंहारप्रमाणमुपपन्नमित्यर्थः ।

अभिनवचन्द्रिका

आत्मशब्दोक्तगुणोपासनस्येति ।। आत्मशब्दस्य सर्वानुपासकान् प्रति तत्तद्योग्य-गुणाभिधायकत्वसमर्थनादिति भावः । अन्यथेति ।। सर्वान् प्रति सर्वगुणाभिधायकत्व इत्यर्थः ।। प्रकृतात्मशब्दोक्तेति ।। अत्र बुध्या विवेकेन सर्वोपास्या गुणा विषयः । आत्मशब्दोक्ता न वेति सन्देह इति विषयसन्देहौ द्रष्टव्यौ ।। गुणद्वैविध्यदर्शनमिति ।। आनन्दादिगुणेषु केनचिच्छब्दे-नोक्तत्वं केनचिच्छब्देनानुक्तत्वं च दृश्यते तत्सन्देहबीजमित्यर्थः । एतेनात्मशब्दोक्तानां गुणानां सन्देहधर्मित्वेन तदन्यत्र सर्वोपास्यत्वस्यादर्शनात् गुणद्वैविध्यदर्शनं सन्देहबीजमित्ययुक्तमिति परास्तम् ।। आत्मशब्दोक्तेति ।। सर्वोपास्या गुणाः घटो घटशब्देनेव नासाधारण्येनात्मशब्दोक्ता इति भावः ।। आप्तव्याप्तेरिति ।। परमात्मना आत्मशब्दार्थ सर्वगुणानामाप्तत्वात् परमात्मनो बोधजननाय ‘आत्मशब्दः प्रयुज्यत’ इत्युक्त्या सर्वगुणानां आत्मशब्दप्रवृत्तिनिमित्तत्वं लभ्यत इति भावः ।। श्रुतचतुर्गुणोपासनस्येति ।। ‘सच्चिदानन्द आत्मेति ब्रह्मेपासा विनिश्चिता’ इति प्रमाणेन श्रुत चतुर्गुणोपासनस्य पुंसो विभ्रमकरो भवति विभ्रंशकरो भवतीत्यर्थः ।। न ह्युभयथेति ।। ‘सच्चिदानन्द आत्मेति’ चतुर्गुणोपासनं, ‘आत्मेत्येवोपासीत’ इति सर्वगुणोपासनं च, श्रुतवत इत्यर्थः ।। अवधारणेऽपीति ।। अनुपसंहारप्रमाणत्वाभावेनाऽवधारणस्य वैयर्थ्याख्यविरोधः स्यादित्यर्थः ।। अत इति ।। सर्वोपास्यानां गुणानां आत्मशब्दोक्तत्वाभावात् ‘आत्मेत्येवोपासीत’ इत्यस्याऽनुपसंहारप्रमाणत्वमनुपपन्नमिति भावः ।

पूर्वपक्षस्तु– सर्वोपास्या गुणा नाऽसाधारण्येनाऽऽत्मशब्दोक्ताः । तस्य सर्वगुणाभिधायकत्वात् । ततश्च नास्याऽनुपसंहारप्रमाणत्वमिति ।

सिद्धान्तस्तु– सत्यमात्मशब्दः सर्वगुणाभिधायकः तथापि न सर्वान् प्रति, किंनाम तत्तद्योग्य-तानुसारेण तांस्तान्प्रति गुणाभिधायकः । ततश्चात्मशब्देन यस्य यावन्तो गुणाः प्रतिभासन्ते तेन तावन्तो गुणा उपस्या इति आत्मशब्दोक्तगुणानां सर्वोपास्यत्वादुक्तं युक्तमिति सिद्धम् ।

वाक्यार्थमुक्तावली

यद्यानन्दादिगुणानामात्मशब्देन गृहीतिस्तर्हि तावन्त एवेति नियन्तुं शक्यते । सर्वगुणा-नामप्यात्मशब्देन वाच्यत्वेऽन्वयादिति तत्त्वप्रदीपरीत्या पूर्वाधिकरणसिद्धार्थावष्टम्भेन पूर्वपक्षोत्था-नादनन्तरसङ्गतिः ।। सर्वैरिति ।। ब्रह्मादिभिरुत्तमैरिव देवादिभिर्मध्यमैरधमैश्चेत्यर्थः  ।। अन्यथेति ।। आत्मशब्दोक्तगुणोपासनस्य सर्वैरकर्तव्यत्वे उत्तमैरेव कर्तव्यत्वे च मध्यमाधमान् प्रति अन्ययोगव्यवच्छेदकावधारणयुक्तात्मशब्दः गुणान्तरव्यावृत्तिपूर्वमात्मत्वमात्रोपासनं विदधत् अनुपसंहारे प्रमाणमित्यात्मशब्दाच्चेति व्याहन्येत । तदुक्तगुणोपासनस्यैव कर्तव्यत्वे तान्प्रत्यात्म-शब्दोक्तगुणातिरिक्तगुणानुपसंहारप्रमापकत्वोक्त्यनुपपत्तेरिति भावः ।। सवर्•ेपास्या इति ।। आत्म-शब्दोक्तगुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थमात्मशब्दः सर्वाधिकारिणः प्रति सर्वगुणाभिधायक उतोत्तमान्प्रत्येवेति ।। गुणद्वैविध्येति ।। प्रियशिरस्त्वादीनामानन्दादीनां चेति ।। गुणद्वैविध्यदर्शनमित्यर्थः ।। सूत्रे प्रतिज्ञांशमध्याहरति ।। आत्मशब्दोक्त इति ।। उत्तमैरेवोपास्या न सर्वैरित्यर्थः । अन्वयादित्यत्र आत्मशब्दाच्चेत्यत आत्मशब्द इति सप्तम्यन्त-तयानुवर्तते । सर्वगुणानामिति योग्यतयान्वेति । तथा चात्मशब्दे गुणानामन्वयात् । तदपि कुतः? अन्वयात् । आप्तव्याप्तेरित्यन्वयवचनादिति भावेन हेत्वंशं व्याचष्टे ।। आप्तव्याप्तेरिति ।। यदाप्तव्यं कल्याणगुणजातं तस्याप्तेः प्राप्तेरित्यर्थः ।

नन्वात्मशब्दस्य सर्वगुणवाचकत्वेऽपि तदुक्तोपासनं किं न स्यादित्यतः नायमन्वयादित्युक्तो हेतुः साक्षात्साध्यसाधकः किन्तु आत्मशब्दोक्तगुणानां सर्वैरुपासितुमशक्यत्वेऽपि भ्रमाख्यो न्यायो हेतुः तदुपपादकतया अन्वयादिति सौत्रो हेतुरिति भावेनाह ।। तथा चेति ।। तथा चात्मशब्दस्य सर्वगुणाभिधायकत्वादयमात्मशब्दः श्रुतचतुर्गुणोपासकस्य ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत्किञ्चित्समुपासीत धीरः’ इति श्रुतचतुर्गुणोपासनस्य पुंसां विभ्रमकरो भवति । संशयहेतुरिति यावत् । तदेवोपपादयति  न हीति ।। शब्दात् सर्वगुणान् सत्यो ज्ञान इति चतुर्गुणांश्चोपासनार्थं श्रुतवत इत्यर्थः  ।। स्वयोग्यमिति ।। सत्यो जीव इत्युक्तरीत्या स्वयोग्यं आत्मगृहीतिरित्युक्तरीत्या तदुक्तमुपास्यं नातोऽधिकमिति निश्चयो भवतीति न वाच्यमित्यर्थः ।। अवधारणेति ।। आत्मशब्दोक्तसर्वगुणानुपासने आत्मपदेन यावत्प्रतीतं तावदुपास्यमेवेत्ययोग-व्यवच्छेदपरावधारणविरोधादित्यर्थः ।

ननु यद्युपसंहार एवावधारणस्यायोगव्यवच्छेदकत्वमुक्तं तथापि न तद्विरोधः । आत्मशब्दाच्चेति सूत्रटीकायां चतुर्मुखादीन्प्रत्ययोगव्यवच्छेदकत्वं अन्यान्प्रत्यन्ययोगव्यवच्छेदकत्वमिति व्यवस्थापि-तत्वादिति चेन्न । गुणाधिकानामधिकारिणां भगवद्भुणानधिकान् प्रदर्शयतीति अवधारणोपपत्तेः इत्येतदधिकरणन्यायविवरणे सिद्धान्तेऽवधारणस्याधिकारिभेदेनायोगव्यवच्छेदकत्वस्योच्यमान-त्वेनागामिनं एतदभिप्रेत्य शिष्यहिताय प्राक्तनटीकायां समाहितत्वेऽप्येतदधिकरणे पुनराशङ्कोपपत्तेः ।। अत इति ।। आत्मशब्दस्य सर्वगुणाभिधायकत्वादित्यर्थः ।। अनुपसंहारेति ।। आत्मशब्दोक्त-गुणोपासनाप्रसक्तौ हि तान्प्रत्यनुपसंहारप्रमापकत्वं स्यादिति भावः । सूत्रे स्यादिति वर्तते । तत्राद्यस्य परेणोक्तमनुपसंहाराप्रमाणत्वं स्यात् । अङ्गीक्रियते तन्मात्रप्रमाणत्वाभावादिति भावेन सत्यमित्येतद्व्याचष्टे ।। सिद्धान्तांशमिति ।। उक्तं च तत्वप्रदीपे । सत्यं न तत्रैव प्रमाणमितीति ।। इत्यतश्चाहेति ।। इत्यतः । द्वितीयं स्यात्पदं व्याचष्ट इत्यर्थः । स्याच्चैवं एवमपि स्यात् । तत्र हेतुत्वेनोक्तं यत्सर्वगुणाभिधायकत्वमात्मशब्दस्य तदपि स्यादेव । अत उक्ताभ्युपगमो न दोषायेति भाष्यार्थमाह ।। सर्वेति ।। यद्वा सत्यमित्यस्य परेणोक्तमात्मशब्दस्य सर्वगुणाभिधायकत्वमङ्गीक्रियत इत्यर्थः ।। कथमिति ।। प्रमाणाभावादिति भावः ।। तत्तथा स्यादेवेति ।। प्रामाणिकत्वादिति भावः । अतः प्रमितत्वेन वस्तुनः सत्यत्वात् ।

नन्वात्मशब्दस्य सर्वगुणाभिधायकत्वे आत्मशब्दोक्तगुणानां सर्वेषां सर्वोपास्यत्वप्रसङ्ग इत्यतः सूत्रे भाष्ये च स्याच्चैवमित्यतःपरं ब्रह्मादीन् प्रत्येव नान्यान् प्रतीति शेषः । तथा चैवं सर्वगुणाभि-धायकत्वं ब्रह्मादीन् गुणाधिकान् प्रत्येव नान्यान् प्रति स्यात् । अतो विभ्रमकरत्वात् स्याच्चैवं तदुक्तोपासनं स्यात् । सर्वेषां युक्तमित्यर्थमभिप्रेत्य गुणाधिक्यमित्युक्तन्यायं भाष्यारूढं दर्शयति ।। इयानिति ।। आत्मशब्देन गुणाभिधानविषये इयांस्तु विशेष इत्यर्थः ।। तथानुभवादिति ।। यद्यप्यल्पकानामपि आत्मशब्दात् बहुगुणप्रतीतिरस्ति । तथाप्यात्मशब्देन गुणानामुपासनार्थं युगप-त्प्रतीत्यभावादात्मशब्देन गुणप्रतीतेः एतादृशा एव विवर्जितत्वाददोषः । वक्ष्यति चैतत् । अन्यथा सर्वोपसंहारेति भाष्ये आत्मशब्दस्यान्यान्प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्वे गुणैस्सर्वैरुपास्योऽसावित्यादि सर्वोपसंहार एव च न विरोध उच्यते । तन्न सम्भवति शब्द-स्वाभाव्यात् । आत्मशब्दस्याल्पगुणाभिधायकत्वेऽपि वेदाद्युक्तसर्वगुणोपसंहारोपपत्तेः । किञ्चाव-धारणादित्यस्य कथमनेनोपपादनमित्यत आह ।। अन्ययोगव्यवच्छेदकेति ।। अत्रैवं तावद्योज्यम् । आत्मशब्दोक्तसर्वगुणोपासाविधिः ब्रह्मादीनप्यधिकरोति । विधेः सर्वसाधारणत्वात् । ततस्तैरपि तदुक्तमेवोपास्यम् । तथा च यद्यसौ न तान् प्रति सर्वगुणानभिधत्ते तर्हि सर्वैर्गुणैरित्यादिसर्वोप-संहारवचनविरोध इति । नन्ववधारणस्य ब्रह्मादीन् प्रत्ययोगव्यवच्छेदकत्वात् आत्मेत्येवेत्यात्म-शब्दोक्ताल्पगुणपरित्यागेनोपासनाविधानेऽपि सर्वोपसंहारवचनविरोध इत्यत उक्तम् । अन्ययोग-व्यवच्छेदकावधारणयुक्तेति । अन्यान् प्रतीव आत्मशब्दस्य ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्वे अवधारणमप्यन्यान् प्रतीवान्ययोगमपि व्यवच्छिद्यात् । अर्धजरतीयानुपपत्तेः । आत्मशब्दस्य बहुगुणाभिधायकत्वे एव तदयोगस्यान्यत्र प्रसक्तत्वेन तद्व्यवच्छेदकत्वोपपत्तावपि स्वामित्वाद्यल्प-गुणाभिधायकत्वे तदयोगप्रसक्तेरभावेनान्ययोगव्यवच्छेदकत्वस्यैव त्वयाङ्गीकार्यत्वादिति भावः ।

तत्त्वसुबोधिनी

आत्मशब्दोक्तगुणोपासनस्येति ।। यदि आत्मशब्देनानन्दादिनां गृहीतेः तेषां सर्वोपास्यत्वं तर्हि सर्वेषामपि गुणानां प्रतिपाद्यतया आत्मशब्दोक्तत्वात् सर्वेषामपि सर्वगुणोपासकत्वं स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। आत्मशब्दोक्तगुणोपासनस्य सर्वैः-कर्तव्यत्वाभावासमर्थने इत्यर्थः । अस्तु सर्वगुणाभिधायकत्वमित्यत आह ।। तथा चेति ।। कुतो न निश्चायक इत्यत आह ।। न हीति ।। ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत्किञ्चित् समुपासीत धीरः’ इति आत्मेत्येवेत्यन्ययोगव्यवच्छेदपरावधारणयुक्तात्म-शब्दत्वं च श्रुतवत इत्यर्थः ।। अवधारणविरोधादिति ।। आत्मशब्दोक्तसर्वगुणानुपासने आत्म-शब्दोक्तमुपास्यमेवेत्ययोगव्यवच्छेदपरावधारणविरोधः स्यादित्यर्थः । कथं सर्वोपसंहारविरोध इत्यत आह ।। अन्ययोगेति ।। अधमाधिकारिणः प्रति अन्ययोगव्यवच्छेकावधारणं युक्त इत्यर्थः । अस्य च सूत्रस्य आत्मशब्दोक्तमेवोपास्यमिति नियमश्चेत् आत्मशब्दे सर्वगुणानामन्वयात् सर्वोपास्यत्वं प्रतीयते इति श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रम एवानेन भवति कथमुपासनं कार्यमिति ।। तथा च नात्मशब्दोक्तमेवोपास्यमिति चेत् न स्यादवधारणात् स्यादुक्तात्मशब्दे सर्वगुणानामन्वय इति । तथा स्यादेव तत्तथैव तर्हि सर्वेषां सर्वगुणोपास्तिः स्यादित्यतो परब्रह्मादीन्प्रत्येव नान्यान्प्रतीति शेषः पूरणीयः । एवं चात्मशब्दे ब्रह्मादीन्प्रत्येव सर्वगुणाभिधायकः स्यान्नान्यान्प्रतीति । कुत एतदित्यत उक्तम् ।। अवधारणादिति ।। अयोगव्यवच्छेदपरावधारणादित्यर्थः । ब्रह्मादेः सर्वगुणोपास्तेः श्रुतिसिद्धत्वेन तान्प्रति अयोगव्यवच्छेदकत्वमेवावधारणस्येत्यक्षरार्थः ।

वाक्यार्थविवरणम्

अन्यथेति ।। आत्मशब्दोक्तगुणोपासनस्य सर्वकर्तव्यत्वाभावे ।। अनुपसंहारेति ।। आत्मशब्दाच्चेत्यत्र गुणान्तरव्यावृत्तिकथनपूर्वकं आत्मत्वस्य सर्वोपास्यत्वविधानेनानुपसंहारोऽपि सिद्ध्यतीति यदनुपसंहारप्रमाणत्वं सावधारणात्मशब्दस्योक्तं तद् व्याहतं स्यादित्यर्थः ।। तस्य ।। आत्मशब्दस्य भाष्ये ।। आप्तेति ।। गुणैराप्तेत्यर्थः । अयम् आत्मशब्दः ।। श्रुतेति ।। सत्यो ज्ञानः परमानन्दरूपः आत्मेत्येवं नित्यदेति श्रुत्यर्थः ।। विभ्रमेति ।। सर्वगुणोपासनं कार्यमुत चतुर्गुणो-पासनमिति संशयेत्यर्थः । एवं चतुर्गुणत्वेन । तदेवोपपादयति ।। न हीति ।। उभयथा ।। सर्वगुणाभिधायकत्वेन चतुर्गुणाभिधायकत्वेन च ।। श्रुतवतः ।। आत्मशब्दमिति शेषः ।। अन्यतरस्मिन्् ।। चतुर्गुणोपासनरूपे ।। तदुक्तम्् ।। आत्मशब्दोक्तम् ।। स्वयोग्यम् ।। गुणचतुष्टयम् ।। अवधारणेति ।। अयोगव्यवच्छेदपरावधारणेन तदुक्तसर्वगुणोपासनोक्तेस्तद्विरोध इत्यर्थः । तर्हि सर्वेषां सर्वगुणोपास्तिः स्यादित्यत आह ।। इयांस्त्विति ।। तस्य ।। आत्मशब्दस्य ।। उक्तोपासनम् ।। आत्मशब्दोक्तगुणोपासनम् ।। ब्रह्मादीनिति ।।

अयं भावः ।। आत्मशब्दस्य सर्वान्प्रति सर्वगुणाभिधायकत्वमङ्गीकृत्य तदुक्तं स्वयोग्य-मेवोपासितव्यमित्यङ्गीकारे ह्ययोगव्यवच्छेदपरावधारणविरोधः स्यात् । न चैवम् । किं नाम ब्रह्मादीन्प्रति सर्वगुणाभिधायी इतरान्प्रति तु चतुर्गुणाभिधाय्येव । आत्मशब्दवाच्यगुणत्वेनैवो-पासीतेत्यन्ययोगव्यवच्छेदपरावधारणमुक्तात्मशब्दो ब्रह्मादीनधिकरोति । तावताऽपि तेषां बहु-गुणोपसंहारसिद्धिः । तान्प्रति तस्य बहुत्वाभिधायकत्वात् । अयोगव्यवच्छेदकत्वेऽपि न दोषः । इतरान्प्रति तस्य चतुर्गुणाभिधायकत्वेन तदुक्तगुणोपासनासत्त्वात् । अयोगव्यवच्छेदकत्वेऽपि तेषां न सर्वगुणोपासनाप्राप्तिः । आत्मशब्दप्रकाशितयावद्गुणोपास्त्यङ्गीकारात् । तान्प्रत्यात्मशब्दप्रकाशित-गुणानां चतुष्ट्वादेवेति ध्येयं सूत्रार्थस्तु सर्वगुणानामात्मशब्देऽन्वयादात्मशब्दोक्तगुणा न सर्वोपास्या इति चेत् । उच्यते ।। तर्हि स्यात् ।। सर्वगुणाभिधायकत्वमात्मशब्दस्य स्यादेव । तत्तु ब्रह्मादीन्प्रत्येव । इतरान्प्रति तु चतुर्गुणप्रकाशकत्वमेवेति शेषः । कुत इत्यत उक्तम् ।। अवधारणादिति ।। अन्ययोगव्यवच्छेदपरावधारणात् । तस्य तादृशावधारणं तु ब्रह्मादीने-वाधिकरोति । तथाऽयोगव्यवच्छेदपरस्त्वितरान् । न तस्यैतावता तेषां बहुगुणोपासनाप्रसङ्गः । आत्मशब्दप्रकाशितगुणवत्तयोपासीतेति आत्मशब्दप्रकाशितयावद्गुणोपासनाङ्गीकारात् ।। तेषाम्् ।। आत्मप्रकाशितगुणानाम् ।। चतुष्ट्वादेवेति ।। सर्वोपसंहारवचनेति ।। ब्रह्मणः सर्वगुणोप-संहारवचनेत्यर्थः ।

वाक्यार्थमञ्जरी

प्रमाणत्वोक्तिः आत्मशब्दस्य तदुक्तानङ्गीकारे तस्यैवाप्रामाण्यप्राप्तेरिति भावः ।। ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ।। आत्मशब्दे सर्वगुणानामन्वयात् तस्य सर्वगुणवाचित्वादिति यावत् । तस्यानुपसंहारित्वमयुक्तमिति चेत्, स्यादात्मशब्दस्य सर्वगुणवाचित्वं किन्तु ब्रह्मादीन्प्रत्येव नान्यान्प्रति, कुतः अवधारणात् अन्ययोगव्यवच्छेदपरात्मेत्येवेत्यवधारणात् ।। आप्तव्याप्तेरिति ।। आप्तव्यानां गुणानामाप्तेः प्राप्तत्वादित्यर्थः ।। अयमिति ।। श्रुतआत्मेत्येवेत्यन्ययोगव्यवच्छेदक-पदावधारणयुक्तात्मशब्दयुक्त इत्यर्थः ।। श्रुतचतुर्गुणेति ।। ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात्’ इति चतुर्गुणोपासनं श्रुतवत इत्यर्थः । विभ्रमकरः संशयजनकः ।। अवधारणविरोधादिति ।। आत्मशब्दोक्तसर्वगुणानुपासने आत्मशब्दोक्तमुपास्यमेवेत्ययोग-व्यवच्छेदपरावधारणविरोधादित्यर्थः । नन्वेवं तर्हि सर्वेषां सर्वगुणोपास्तिः स्यादित्यत आह ।। इयांस्त्विति ।। अधिकरोतीति ।। स्वविहितकारितया सङ्गृह्णातीत्यर्थः ।

।। इति अन्वयाधिकरणम् ।। १० ।।