ॐ आवृत्तिरसकृदुपदेशात् ॐ

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

ब्रह्मसूत्रभाष्यम्

अथ चतुर्थाध्यायस्य प्रथमः पादः

अथ आवृत्त्यधिकरणम्

ॐ आवृत्तिरसकृदुपदेशात् ॐ

ब्रह्मसूत्रभाष्यम्

श्रीगुरुभ्यो नमः ।। हरिः ॐ ।। फलं निगद्यतेऽस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन्पादे । नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उच्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः ।

।। ॐ आवृत्तिरसकृदुपदेशात् ॐ ।। १ ।।

।। ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादीनां नाग्निष्टोमादि-वदेकवारेणैव फलप्राप्तिः । किन्त्वावृत्तिः कर्तव्या । ‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’ इत्याद्यसकृदुपदेशात् ।। १ ।।

श्रीत्रिविक्रमपण्डिताचार्यविरचिता तत्त्वप्रदीपिका

तत्त्वप्रदीपिका

फलं निगद्यतेऽस्मिन्नध्याय इत्यादेर्भाष्यस्यायमर्थः । ब्रह्मदर्शनस्य मुक्तिः फलमित्युक्तम् । तत्कार्त्स्न्येनोच्यतेऽस्मिंश्चतुर्थेऽध्याये । तच्चतुरात्मकम् । कर्मविमुक्तिरग्रिमं, तच्च फलमनिष्टानां कर्मणां नाशे तन्निमित्तदुःखानुषङ्गनिवृत्तेः । सा जीवन्मुक्तिरित्युच्यते । तस्यादुःखेन विदुष इच्छानुसारेण शरीराद्विमुक्तिः द्वितीयम् । उत्क्रान्तस्यास्माद्देशाद्विमुक्तिरूपाऽर्चिरादिदेवानां स्थानगतिरुत्तरोत्तरसुखा तृतीयम् । यद्यपि मुक्तौ केषाञ्चिदत्रैव स्थितिः । न साऽपि विना श्वेतद्वीपगतिम् ।

बहुनाऽत्र किमुक्तेन यावछ्वेतं न गच्छति ।

योगी तावन्न मुक्तस्स्यादेष शास्त्रस्य निर्णय’ इति वचनात् ।।

चतुर्थं लिङ्गशरीरान्मुक्तिः कृत्स्नदुःखनिवृत्तिरलम्बुद्धिगोचरसुखानुभूतिश्चेति । तत्र प्रथमं प्रथमपादे । तत्रापि प्रथमतः सर्वदा कार्यं सर्वप्रकारविघ्नेऽपि यावच्छक्त्यनुष्ठेयं साधनमुच्यते । तस्य फलसन्निकृष्टत्वादत्रोक्तिः । फलावस्थानुप्रवेशित्वाच्च । प्रायिकं च समन्वयादिविचारात्मकत्व-मध्यायानां पादानां च । अतः फलाध्याये कर्मक्षयपादेऽस्मिन् साधनविशेषोपदेशो न विरुध्यते ।।

अत्र श्रवणादि विषयः । तदेकवारं कृतं फलदायकमथवाऽभ्यस्यमानमिति सन्देहः । एकवारेणेति प्राप्तम् । कुतः? ‘श्रोतव्यो मन्तव्य’ इत्यादिविधेस्तावता कृतकृत्यत्वात् । न हि तत्राभ्यासो विधीयते । न च फलोदयपर्यन्तमिति मन्तव्यम् । तथाऽभिप्रायाप्रतीतेः । अग्निष्टोमादिविधिवत् । न ह्यसौ स्वर्गार्थिनमधिकारिणं प्रति वर्तमानो विवक्षितफलदानाय तदावृत्तौ वरीवर्ति । अत्र समाधिरभिधीयते ।। आवृत्तिरसकृदुपदेशात् ।। न श्रवणादीनामेकवारानुष्ठानेन विवक्षितफलप्राप्तिः । किन्त्वावृत्त्या । अतः सा कर्तव्या । ‘स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकतो’ इत्यसकृदुपदेशात् ।

योऽसौ नियमनाद्विष्णुः सारत्वात्स इति स्मृतः ।

 अणिमा सूक्ष्मतो गम्य ऐतदात्म्यं च तद्वशम् ।।

 परानन्दत्वतः सत्यमात्मा पूर्णगुणत्वतः ।

 सत्यतो नासि तत्त्वं हि मा भूत्ते स्तब्धता ततः ।।

 असुराः स्तब्धतां याता ब्रह्माहमिति मानिनः ।

 असत्यं जगदित्याहुः सिद्धोऽहं बलवानिति ।।

 अनीश्वरं जगच्चाऽहुरप्रतिष्ठं तथैव च ।

 चेतनैकत्वविषयान्वेदानाहुश्च सर्वशः ।।

 कुतर्कपरमा नित्यं न सहन्ते गुणान् हरेः ।

 शास्त्रतत्वमविज्ञाय ब्रूयुर्वेदेषु चैकताम् ।।

 यान्ति चैव तमो घोरं परमात्मविनिन्दकाः ।

 आलम्ब्य तन्मतं न त्वमेकत्वं विद्धि विष्णुना ।

 एकताभावतो नैव भवेथाश्च महामनाः’ इति सामसंहितायाम् ।।

न चादृष्टफलोऽग्निष्टोमादिरत्र दृष्टान्तः । दृष्टफलानां श्रवणादीनां तद्दर्शनपर्यन्तमावृत्तिरुपपत्तिमती व्रीह्यवघातवत् ।।

श्रीजयतीर्थविरचिता तत्त्वप्रकाशिका

तत्त्वप्रकाशिका

एतदध्यायप्रतिपाद्यं दर्शयति ।। फलमिति ।। विरक्त्यादिसाधनैर्ब्रह्मदर्शनमापाद्यमित्युक्तं पूर्वाध्याये । तत्र तद्दर्शनस्य किं फलं येन तदापाद्यं स्यादित्याशङ्कानिवृत्त्यर्थं यत्तस्य भगवत्प्रसादद्वारा फलं भवति तदस्मिन्नध्याये सूत्रकृता निगद्यत इति भावः । ननु पुरुषार्थाधिकरणे ज्ञानात्सर्वे पुरुषार्था भवन्तीत्युक्तत्वात् किमत्र वक्तव्यमस्तीति । मैवम् । मोक्षेतरपुरुषार्थानामसाधारण्येन ज्ञानफलत्वा-भावात् । मोक्षोऽपि ज्ञानेन भवतीत्युक्तमिति चेत् । सत्यम् । स एव कीदृश इति विचार्यतेऽत्रेति । एतत्पादार्थं दर्शयति ।। कर्मेति ।। ज्ञानफलं मोक्षलक्षणं चतुर्विधं भवति । कर्मक्षयोत्क्रान्तिमार्ग-भोगभेदात् । तत्र कर्मक्षयाख्यफलस्य प्राथम्यात्तत्प्रथमपादे निगद्यत इति भावः । नन्वावृत्ति-रित्यादिसूत्रेषु कर्मक्षयोक्त्यप्रतीतेः कथमेतदित्यत आह ।। नित्यश इति ।। नैतेषुसूत्रेषु कर्मक्षयो निगद्यते किं तु ज्ञानसाधनमेव । तत्तृतीये एव किं नोच्यते । उक्तमेव पुनः किमुच्यते । तस्यैव नित्यशः कार्यत्वमिति । किमिति तद्विना मोक्षलेशाभावात् । अतोऽत्र कर्मक्षयोक्त्यप्रतीतिर्युक्तैवेति भावः ।

यदि फलाध्याये कर्मक्षयपादे च साधनमेवोच्यते तर्ह्यध्यायपादानामर्थव्यवस्थाभावः स्यादित्यत आह ।। प्रायिकत्वाच्चेति ।। नार्थान्तरोक्तावपि व्यवस्थाभावविरोधः । योऽर्थो यत्र प्रायेणोच्यते सोऽध्यायादिस्तदर्थ इति व्यवस्थोपपत्तेः । अत एव एतेष्वधिकरणेषु नाध्यायादिसङ्गतिरन्वेषणीया । तत्रादौ भगवज्ज्ञानाय श्रवणाद्यावृत्तेः कर्तव्यतोपपादनादस्ति शास्त्रसङ्गतिः । अन्यथा श्रवणादीनां ज्ञानसाधनत्वासिद्धेः साधनीयमेतत् । श्रवणादिकं विषयः । किं सकृदनुष्ठेयमुत तदावृत्तिरिति सन्देहः । उभयविधसाधनदर्शनं सन्देहबीजम् । सकृदेवेति पूर्वः पक्षः । सकृदनुष्ठिताग्निष्टोमादिना स्वर्गफलदर्शनात्तद्वदेव सकृदनुष्ठितश्रवणादिनापि ज्ञानसम्भवात् । श्रवणादिविधेश्चाग्निष्टोमादि-विधिवत्सकृदनुष्ठानेन चरितार्थत्वात् । साधनावृत्तेरपि दर्शनादत्रापि तथा स्यादिति चेन्न । उभयथा-दर्शनेऽप्यनावृत्त्यैवापरोक्षज्ञानाभ्युपगमे सर्वसुशकत्वं ज्ञानस्येति गुणलाभादनावृत्त्या श्रवणस्यैव ज्यायस्त्वात् । अतोऽनावृत्त्यैव ज्ञानं सम्भवति । न च तथा भवति । अतो न श्रवणादि ज्ञानसाधन-मिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। आवृत्तिरिति ।। अग्निष्टोमादिवदेकवारेणैव फल-सिद्धेरात्मेति श्रुत्युक्तानां श्रवणादीनामनावृत्तिरिति यदुक्तं न तद्युक्तं किंतु श्रवणादीनामावृत्तिरेव कर्तव्या । उद्दालकेन नवकृत्वः श्वेतकेतुं प्रति तत्त्वस्योपदिष्टत्वात् । श्रवणादेः सकृदेव कर्तव्यत्वे किमर्थमसावसकृदुपदिशेत् । न चाग्निष्टोमादिवदनावृत्तिः । तस्यादृष्टफलत्वेन सकृदनुष्ठानसम्भवात् । तावतैव तद्विधिपूर्तेश्च । श्रवणादेः पुनरज्ञाननिवृत्त्यादिदृष्टफलसाधनत्वेन यावत्फलं कर्तव्यत्वात् । आवर्तन एव तद्विधिपर्यवसानाद् व्रीह्यवघातविधिवत् । न च सुशकत्वगुणलाभादनावृत्तिः । महाफलस्य तदभावस्यैव गुणत्वात् । सर्वेषां मोक्षप्रसङ्गाच्चेति भावः ।।

श्रीवादिराजतीर्थविरचिता गुर्वर्थदीपिका

गुर्वर्थदीपिका

साधनावृत्तेरपीत्यत्र सस्योदयाय जलदानादिसाधनस्याऽऽवृत्तेरपि दर्शनादिति भावः । व्रीह्यवहननादौ पुनःपुनरवहननस्य दर्शनादिति वा ।

श्रीरघूत्तमतीर्थविरचितः तत्त्वप्रकाशिकाभावबोधः

भावबोधः

फलनिरूपणस्येदानीं का सङ्गतिरित्यतः ‘विचारितेष्वशेषेषु साधनेषु’’ इत्यनुव्याख्यानं मनसि निधाय फलं निगद्यत इति भाष्यं व्याचष्टे– विरक्त्यादिसाधनैरिति ।। असाधारण्येन ज्ञान-फलत्वाभावादिति ।। पुरुषार्थाधिकरणे ज्ञानसाध्यत्वेनोक्तस्वर्गादीनां कर्मादिनापि साध्यत्वात् ज्ञानं विना न सिध्यतीत्येवंरूपासाधारण्येन तेषां ज्ञानफलत्वाभावादित्यर्थः । मोक्षस्य च तादृशत्वात् सोऽत्र निगद्यत इति भावः ।। उक्तमिति चेदिति ।। ‘‘विद्यैव तु निर्धारणात्’’ इत्यत्रेत्यर्थः ।।

ननु कर्मनाशस्य कथं ज्ञानासाधारणफलत्वम् ? येन तत्कथनमस्मिन्नध्याये सङ्गतम् । तथात्वे वा प्राथम्यं कुत इत्यतः–

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः’ ।।

इत्यनुव्याख्यानानुसारेण भाष्याभिप्रायमाह– ज्ञानफलमोक्षलक्षणं चतुर्विधमिति ।। आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावादिति भावः । ज्ञानोदयानन्तरमेव कर्मक्षय इति प्रथमं कर्मक्षयस्य, क्षीणकर्मणश्चोत्क्रान्तिरिति तदनन्तरमुत्क्रान्तिः उत्क्रान्तस्य स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिरिति तदनन्तरं मार्गस्य ब्रह्मप्राप्तस्य च भोग इति, तदनन्तरं भोगस्योद्देश इति ज्ञेयम् । उक्तमेवेति ।। ‘सर्ववेदान्तप्रत्ययम्’ इत्यत्र श्रवणाद्यावृत्तेः कर्तव्यत्वम् ‘आनन्दादयः प्रधानस्य’ इत्यत्रात्मत्वोपासनस्य कर्तव्यत्वं तत्रैव सर्वस्वामित्वेनोपासनोक्त्या विष्णुप्रतीकैक्योपासनस्य वर्जनीयत्वम् ‘भूम्नः क्रतुवत्’ इत्यत्र ब्रह्मत्वोपासनस्य कर्तव्यत्वम् ‘ओषु यथाश्रयभावः’ इत्यत्र सूर्यादीनां भगवच्चक्षुराद्याश्रितत्वेनोपासनस्य देवैः कर्तव्यत्वम्, ‘अनुबन्धादिभ्यः’ इत्यत्रासनादे-रावश्यकत्वम्, ‘अन्यैर्गुणैर्देवगणा उपासते’ इति श्रुतिग्राहके ‘दर्शनाच्चे’ इत्यत्रोत्पन्नापरोक्षज्ञानिनां देवानामप्युपासनोक्त्या उपासनस्याप्रायणान्तत्वं चोक्तमेवेत्यर्थः ।।

ननु तर्हि तैरेवाधिकरणैरेतेषां गतार्थत्वमिति च शङ्कते ।। पुनः किमुच्यत इति ।। तस्यैव नित्यश इति ।। परमादरेणेत्यपि ज्ञातव्यम् ।। नित्यशः कर्तव्यत्वे हेतुत्वेन सर्वथा भाव्यमित्येतद्व्याचष्टे– तद्विना मोक्षलेशाभावादिति । आदरनैरन्तर्याभ्यां श्रवणाद्यावृत्तिकरणादिना विनाऽपरोक्षज्ञानाभावेन चतुर्विधमोक्षमध्ये कस्यापि भागस्याभावादित्यर्थः । एतज्ज्ञापनायैव तृतीय इदमनुक्त्वात्रेदमुच्यते । तत्रानुक्त्या हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्त्या फलान्तरङ्गत्वं ज्ञायत इति भावः ।। व्यवस्थाभावविरोध इति ।। व्यवस्थाभावलक्षणो विरोध इत्यर्थः । व्यवस्थाभावेन निमित्तेन फलाध्यायत्वादिविरोध इति वा प्रायेणेति ।। प्राधान्येनेत्यर्थः । श्रवणा-द्यावृत्तेः कर्तव्यतेति । ‘एवं मुक्तिफलानियमः’ इति पूर्वाधिकरणे प्रारब्धकर्मप्रतिबन्धकसद्भावे मोक्षो न भवति तदभावे मोक्षो भवतीत्युक्तिप्रसङ्गेनात्राप्यपरोक्षज्ञानप्रतिबन्धकाज्ञानादिनिवृत्त्यर्थं, श्रवणाद्यावृत्तेः कर्तव्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।

तत्र ‘श्रवणादिसकृत्क्रिया’ । ‘आवृत्तिर्वेति सन्देहः’ इत्यनुव्याख्यानानुसारेण विषय-संशयावाह– श्रवणादिकं विषय इत्यादिना ।। अत्र श्रवणादिकं किं सकृदनुष्ठेयं उतावर्तनीयमिति चिन्ता । तदर्थं श्रवणादिविधेः ज्योतिष्टोमादिविधिवत् किं सकृदनुष्ठानमात्रेण चारितार्थ्यमस्त्युत नास्तीति । तदर्थं मोक्षाख्यमहाफलहेत्वपरोक्षज्ञानस्य सर्वसुशक्यत्वं किं गुण उत तदभाव एव गुण इति । तदर्थं श्रवणादिरदृष्टद्वारा फलहेतुरुत दृष्टफलद्वारा वेति । तदर्थं श्रवणाद्यावृत्तिकर्तव्यतायां प्रमाणं नास्त्युतास्तीति । ‘आत्मा वाऽरे द्रष्टव्यः’ इत्याद्युत्तरभाष्यानुसारेण पूर्वपक्षयति– सकृदिति । सकृदनुष्ठिताग्निष्टोमेत्यादिना । कुतो नेत्यतः श्रवणाद्यनुवृत्त्याऽपरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति । गुण इति न्यायविवरणोक्तयुक्तिमाह– उभयथा दर्शनेऽप्यनावृत्त्यैवेत्यादिना ।। श्रवणादेः पुनरिति ।। निवृत्यादीति ‘आदि’ पदेन प्रधानफलापरोक्षज्ञानस्यापि ग्रहणम् । तथा च भाष्योदाहृतश्रुतौ ‘द्रष्टव्यः’ इति दर्शनानुवादेन श्रवणादीनां विधानात्तेषां दृष्टफलसाधनत्वमवगम्यत इति भावः । महाफलत्वात् सर्वेषामशक्यताया एवोपपन्नत्वादिति न्यायविवरणाभिप्रायमाह– महा-फलस्य तदभावस्यैव गुणत्वादिति ।। अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेरिति न्यायविवरणं हृदि निधायाह– सर्वेषामिति ।।

श्रीराघवेन्द्रतीर्थविरचितः भावदीपः

भावदीपः

यं विजिज्ञास्य विद्वांसो निर्मुक्ताः क्लेशबन्धनात् ।

लभन्ते परमानन्दं तं वन्दे श्रीनिकेतनम् ।। १ ।।

क्वचिदेकदेशे निगद्यत इत्युपपत्त्याऽध्यायार्थत्वाप्रतीतेराह ।। एतदिति ।। चतुर्थाध्यायस्य प्रतिपाद्यमित्यर्थः । एतत्प्रदर्शनं च वृत्तवर्तिष्यमाणयोः सङ्गतिसूचनायेति भावेन व्याचष्टे ।। विरक्त्यादीति ।। विरक्तिभक्तिश्रवणमननध्यानगुरूपसत्त्यादिभिरित्यर्थः ।। उक्तमिति ।। प्रकाशश्च कर्मण्यभ्यासात् तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यादावुक्तमित्यर्थः । जिज्ञासासूत्रस्थाऽतःपदार्थसूचनायोक्तं भगवत्प्रसादद्वारेति । यद्वा न च ज्ञानं विनात्यर्थप्रसाद इत्याद्युक्तदिशा प्रसादरूपफलस्यात्राकथनादाह ।। प्रसादद्वारेति ।। चतुर्थाध्यायस्य वैयर्थ्यमाशङ्क्य प्रपञ्चनपरतया निराह ।। नन्वित्यादिना ।। असाधारण्येनेति ।। कृषेः पलालकुलस्येवानुषङ्ग-सिद्धत्वात् । अत एव पूर्वस्थफलपदस्यैव भाष्येऽनुवाद इति भावः ।। उक्तमिति ।। अनियमः सर्वेषां, विद्यैव तु, अधिकोपदेशात्तु, एवं मुक्तिफलानियम इत्यादावित्यर्थः ।। इति विचार्यत इति ।। तद्विचारश्च तत्राधिकारिणां रुचिविशेषजननाय वा ज्ञानान्मोक्षो न सम्भवतीत्यादिचोद्यनिरासाय वेति ध्येयम् । पूर्ववत् पादार्थत्वाप्रतीतिं निराह ।। एतत्पादार्थमिति ।। ननु मोक्षाख्यफलोक्तिं प्रतिज्ञाय कर्मक्षयः कथ्यत इत्युक्तिरयुक्तेत्यत आह ।। ज्ञानफलमिति ।। प्राथम्यादिति ।। क्षीण-कर्मण एवार्चिरादिमार्गादिसम्भवात् ।

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ।।

इति द्वितीयपादीयानुभाष्योक्तेः । नित्यशः कार्यमित्येतच्छंकापूर्वं व्यनक्ति ।। तदिति ।। ज्ञानसाधनमित्यर्थः । तत्तृतीय एव किं नोच्यत इति प्रश्नस्योत्तरमाह ।। उक्तमेवेति ।। सर्ववेदांतप्रत्ययमित्यादिना श्रवणादिसाधनमुक्तमेवेत्यर्थः । शङ्कते ।। पुनरिति ।। समाधत्ते ।। तस्यैवेति ।। सर्वथा भाव्यमित्येतच्छङ्कापूर्वं व्यनक्ति ।। किमितीति ।। तस्मान्नित्यशः कार्यत्वं वाच्यमित्यर्थः । तद्विना नित्यशः कारणं विनाऽपरोक्षज्ञानत्वरूपमोक्षलेशाभावादित्यर्थः । कर्मक्षयो हि मोक्षैकदेश उक्तः । स च तदधिगम इति वक्ष्यमाणदिशाऽपरोक्षज्ञाने सति भवति । अपरोक्ष-ज्ञानं च श्रवणादेर्नित्यशः करणं विना न युज्यत इति क्षीणकर्मत्वावस्था । जीवन्मुक्ततावस्था अपरोक्षज्ञानित्वावस्था इत्यनर्थान्तरमित्यपरोक्षज्ञानाभावादित्यनुक्त्वा मोक्षलेशेत्युक्तम् । अपरोक्षा-भावादित्येवोक्तौ तर्हि ज्ञानपादादावेव निवेशः स्यादिति शङ्का स्यात् । अतः फलाध्यायसङ्गतत्वद्योतनायैवमुक्तिः ।। अत इति ।। अन्तरङ्गतयाऽऽवश्यकसाधनोक्तिपरत्वा-दित्यर्थः । प्रायेणोच्यते प्राधान्येनोच्यते । अन्यत्तु तदुपयुक्ततयेत्यर्थः । अत एव प्रधान-प्रमेयोपयुक्तविचारपरत्वादेवेत्यर्थः । प्राचीनपञ्चाधिकरणीवदिह शास्त्रसङ्गतिमात्रमेवेति भावः ।

ॐ आवृत्तिरसकृदुपदेशात् ॐ ।। तत्रेति आवश्यकसाधनानां मध्य इत्यर्थः । भगवज्ज्ञाना-येत्युक्त्या शास्त्रसङ्गतिरुपपादिता भवति । एवमग्रेऽपि । भक्तिपादे प्रकाशश्च कर्मण्यभ्यासादित्यत्र श्रवणाद्यभ्यासादपरोक्षधीरित्युक्तम् । इह तु तत्कर्तव्यतेति भेद इति भावः ।। उभयविधेति ।। अग्निष्टोमावघातादिसाधनेत्यर्थः । अग्निष्टोमादिवदेकवारेणैव फलप्राप्तिरिति प्रतिज्ञादृष्टान्तौ व्यनक्ति ।। सकृदेवेति ।। श्रवणादिकं सकृदनुष्ठानेन फलदम् । फलसाधनतया श्रुतिविहितत्वात् अग्निष्टोमादिवदित्युक्तं भवति । विधिबलादावृत्तिरस्त्वित्यत आह ।। श्रवणादीति ।। सत्प्रति-पक्षाभिप्रायेण शङ्कते ।। साधनावृत्तेरिति ।। अवघातादौ तुषविमोक्षादिसाधने आवृत्तेरपि दर्शनादित्यर्थः । न्यायविवरणोक्तसुशकत्वरूपतर्कसाहित्येन बलवत्त्वमाह ।। अनावृत्त्यैवेति ।। अत इति ।। अग्निष्टोमादौ दर्शनात्सर्वजनसुशकत्वगुणलाभाच्चेत्यर्थः । अस्तु तथेत्यत आह ।। न च तथेति ।। सकृच्छ्रवणाद्यनुष्ठानमात्रेण ज्ञानोदय इत्यर्थः ।। अत इति ।। फलव्यभिचारादित्यर्थः । तथा च तन्निर्धारणार्थनियम इत्यादौ श्रवणादेर्ज्ञानसाधनत्वोक्तिरयुक्तेति भावः ।।

शेषपूर्त्या प्रथमादिविपरिणामेन च भाष्यं योजयति ।। अग्निष्टोमादिवदिति ।। आवृत्तिरेवेति ।। एकेन वाक्येनावगतस्य तत्वस्य पुनः पुनस्तेनान्येन वाऽवगतिः श्रवणावृत्तिः । एकया वृत्त्याऽनु-संहितस्य भूयो भूयस्ययाऽन्यया वानुसन्धानं मननावृत्तिः । ध्यानावृत्तिस्तु व्यक्तैवोपदिष्टत्वा-च्छान्दोग्ये षष्ठे । तावता कथमावृत्तिरित्यतोऽन्यथानुपपत्त्येति भावेनाह ।। श्रवणादेरिति ।। पूर्वोक्तदृष्टान्तमाशङ्क्य वैषम्येण निराह ।। न चेति ।। अज्ञाननिवृत्त्यादीति ।। संशयादि-निवृत्तिरादिपदार्थः । तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्र तथोक्तेरिति भावः । कल्पकं नेत्यत आह ।। आवर्तन एवेति ।। व्रीहीनवहन्तीति कर्माङ्गत्वेन विहितावघातस्य यावत्तुषविमोकं कर्तव्यत्वे तद्विधेर्यथा पर्यवसानं तथा श्रवणादिविधेरपीत्यर्थः । प्रागुक्तयुक्तिमाशङ्क्य महाफलत्वा-त्सर्वेषामशक्यताया एवोपपन्नत्वादित्याद्यन्यत्रोक्तं हेतुद्वयमाह ।। न चेत्यादिना ।। १ ।।

श्रीमत्सत्यनाथतीर्थयतिविरचिता श्रीमत्तत्वप्रकाशिकाव्याख्या अभिनवचन्द्रिका

अभिनवचन्द्रिका

लक्ष्मीधराभ्यामाश्लिष्टं सेव्यमानं सुरोत्तमैः ।

नमामि मुक्तिसिध्द्यर्थं वैकुण्ठनिलयं हरिम् ।। १ ।।

एतदध्यायप्रतिपाद्यमिति ।। ‘ब्रह्मस्वरूपनिरूपणेऽनवशेषात् किमध्यायशेषेणेत्यत’ इति वर्तते । तस्य ‘एतदध्यायप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः ।। एतत्पादार्थं दर्शयतीति ।। ‘अध्याय-स्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यत’ इति वर्तते । फलेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेनेति ग्राह्यम् । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः ।। यदीति ।। फलाध्याये तथा कर्मक्षयपादे च यदि साधनमुच्यते तर्हि अध्यायानां पादानां च अर्थेन या व्यवस्था भेदः तदभावः स्यादित्यर्थः । यथा साधनप्रतिपादनेऽपि अयं फलाध्यायः तथा समन्वयाध्यायोऽपि स्यात् । पूर्वाध्यायः फलाध्यायः स्यात् । एवमयं पादो वैराग्यपादः स्यात् । तथा पूर्वे पादाः कर्मक्षयादिपादाः स्युः । प्रतिपाद्यप्रयुक्तव्यवस्थायास्त्वयैव त्याजितत्वादिति भावः । एतेन अध्यायपादयोर्व्यवस्थाभाव इति वक्तव्येऽध्यायपादानामिति बहुवचनप्रयोगोऽनुपपन्न इति परास्तम् ।। अत एवेति ।। फलाद्यतिरिक्तस्याप्यध्यायपादप्रतिपाद्यत्वादेव एतेष्वधिकरणेष्वध्यायादिसङ्गातिः भाष्याभिहिताध्यायपादार्थेन एकार्थता न गवेषणीया । तस्यैवाध्यायपादार्थत्वमिति नियमस्याविवक्षितत्वादिति भावः । एतेन एतेषामधिकरणानामध्याय-पादत्वमस्ति न वा, नाद्यः । एतेष्वधिकरणेष्वध्यायादिसङ्गतिगवेषणाभावोक्तिविरोधात् । नेतिपक्षे ‘भोगेन त्वितरे क्षपयित्वा’ इत्यारभ्यैवाऽध्यायपादत्वेन तत्र च सर्वत्र फलादिनिरूपणसद्भवात् ‘प्रायिकत्वाच्चाऽध्यायानां पादानां च न विरोध’ इत्युक्तं स्यात् । आनन्दमयाधिकरणोपक्रम प्रथमाध्यायपादार्थनिरूपणवत् ‘भोगे न त्वितरे क्षपयित्वा’ इत्येतदधिकरणोपक्रम एव एतदध्यायपादार्थनिरूपणप्रसङ्गश्चेति परास्तम् । ‘आवृत्तिरसकृदुपदेशात्’ इत्यारभ्यैवाऽध्यायपादत्वेन तदर्थनिरूपणस्येहैव युक्तत्वात्, प्राधान्येन निरूप्यमाणार्थस्यासर्वगतत्वेन प्रायिकत्ववचनस्यापि युक्तत्वात् ।

ननु अस्तु फलमध्यायार्थः । प्राचुर्येण प्रतिपाद्यत्वात् । तथापि न कर्मक्षयः पादार्थः । एकाधिकरणप्रतिपाद्यत्वात् । न हि सम्भवति सप्ताधिकरणप्रतिपाद्यं न पादार्थः । एकाधिकरणप्रतिपाद्यं पादार्थ इति इति चेत्, को हि ब्रूते सप्ताधिकरण(णी) प्रतिपाद्यं न पादार्थ इति किं नाम यथा अन्नपानादिप्रियोऽपि पार्थिवः प्रीतिविशेषाच्छाकपार्थिव इत्युच्यते, यथा कर्मान्तरं कुर्वन्नपि देवदत्तः पाठक इत्युच्यते तथा पादकर्तुः आदरवैशेष्यात्कर्मक्षयः प्रतिपाद्य इत्युच्यते ।। शास्त्रसङ्गतिरिति ।। यद्यपि इयं सङ्गतिः शास्त्रेणेवाध्यायपादाभ्यामस्ति । एतदधिकरण प्रतिपाद्यस्याध्यायपादार्थत्वात् । ततश्च शास्त्रादिसङ्गतिरिति वक्तव्यम्, तथापि अध्यायपादार्थत्वेन परिभाषितफलकर्मक्षयाप्रतिपादकत्वाच्छास्त्रसङ्गतिरित्येवोक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ।। अन्यथेति ।। आवृत्तिकर्तव्यताऽसमर्थने अन्वयव्यभिचाराच्छ्रवणादेर्ज्ञानसाधनत्वासिद्धेरावृत्तिः समर्थनीयेत्यर्थः ।। उभयविधेति ।। आवृत्तानि अवघातादीनि साधनानि दृश्यन्ते । ज्योतिष्ठोमादीनि सकृदनुष्ठितानि । तदुभयदर्शनं सन्देहबीजमित्यर्थः ।। सकृदेवेति ।। सकृदेव श्रवणादिकमनुष्ठेयम् । आवृत्तेः कर्तव्यत्वे प्रमाणाभावादिति भावः ।

ननु सकृदनुष्ठितेन साधनेन क्कापि फलादृष्टेरावृत्तिः श्रवणादिविध्यभिप्रेतेत्यङ्गीकर्तव्येत्यत आह सकृदिति ।। सकृदनुष्ठिताग्निष्टोमादिना फलदर्शनेनासम्भावनाभावात् श्रवणादेः सकृदनुष्ठानमेव विध्यर्थो नाऽऽवृत्तिरिति भावः । अवघातावृत्तेर्विध्यभिप्रेतत्वदर्शनादिहापि श्रवणाद्यावृत्तिरपि श्रवणादिविध्यभिपे्रताऽस्त्विति शङ्कते – साधनावृत्तेरिति ।। उभयथेति ।। सत्यमुभयथा दृश्यते । तथापि ज्योतिष्टोमविधिवच्छ्रवणादिविधेरपि सकृदनुष्ठानेनैव ज्ञानलाभ इति तात्पर्यं वाच्यम् । अन्यथा विधिशक्तिप्रतिबन्धः स्यात् । तथा हि पुरुषप्रवर्तनायैव हि विधिः प्रवृत्तो भवति । तद्यदि विधिना सकृदनुष्ठितेनैव श्रवणादिना महाफलावाप्तिरित्युच्येत तदैव औत्सक्यात्पुरुषः प्रवर्तेत अन्यथा तु नेति स्फुटो विधिशक्तिप्रतिबन्धः । न हि कश्चिदावृत्तिसङ्ख्यामनुक्त्वा बहुवारमनुष्ठितेन फलावाप्तिरिति बोधितो महायाससाध्ये प्रवर्तते । अन्यथा हिममहीधरोत्तरसानौ मृतसञ्जीविन्यस्तीत्युपदिष्टोऽपि प्रवर्तेत । अवघाताद्यावृत्तिस्तु अन्वयव्यतिरेकबलेन तथैव कार्यकारणभावावधारणादुपपन्नेति भावः । एतेन मेयसिद्धेर्मानाधीनत्वेन प्रयोजनाधीनत्वाभावात् ज्ञानसुशकत्वगुणलाभाय अनावृत्त्यैव ज्ञानलाभ इत्यङ्गीकार्यमित्ययुक्तं प्राणिनां सौख्यलाभाय यत्र क्कापि भूखननमात्रेण धनलाभ इत्यङ्गीकारप्रसङ्गादिति परास्तम् ।। अतोऽनावृत्त्यैवेति ।। अनावृत्त्यैव ज्ञानमिति श्रवणादिविध्यर्थः सम्भवति नान्य इत्यर्थः । अस्त्वयमेव विध्यर्थः ततः किमित्यत आह – न च तथेति ।। विध्यनुसारेणाऽर्थादर्शनाद्विधिरप्रमाणमिति भावः । एतेन अनावृत्त्यैव ज्ञानं सम्भवतीत्यभिधाय ‘न च तथा’ इति निषेधाद् व्याघात इति परास्तम् ।। फलसिद्धेरिति ।। श्रुत्यभिपे्रतत्वादिति शेषः ।। तस्यादृष्टफलत्वेनेति ।। ज्योतिष्टोमस्य स्वर्गहेतुत्वं श्रुतिमात्रगम्यं नान्वयव्यतिरेकगम्यं तत्फलस्यातीन्द्रियत्वात् । श्रुतिप्रामाण्यात्सकृदनुष्ठानेनैव फलमङ्गीक्रियते । ज्ञानं तु दृष्टफलमिति श्रवणादेस्तत्साधनत्वमन्वयव्यतिरेकसहकृदनुष्ठानेनैव फलमङ्गीक्रियते ज्ञानं तु दृष्टफलमिति श्रवणादेस्तत्साधनत्वमन्वयव्यतिरेकसहकृताऽऽगमवेद्यम् । अन्वयव्यतिरेकौ तु आवृत्तानामेव श्रवणादीनां हेतुत्वं गृह्णीत इति ज्ञानप्राप्तिपर्यन्तं श्रवणादिकं कर्तव्यं, नाऽग्निष्टोमादिवत्सकृदनुष्ठेयमिति भावः । एतेन फलप्राप्तिपर्यन्तं साधनानुष्ठानं चेत् ज्योतिष्टोमादिकमपि स्वर्गपर्यन्तं कार्यम् । दृष्टत्वादृष्टत्वयोरप्रयोजकत्वात् । अन्यथा श्रवणादिकमपि सकृदनुष्ठेयमिति परास्तम् ।। तावतैवेति ।। अन्वयव्यतिरेकावनपेक्ष्य विधायकत्वात्सकृदनुष्ठान एव विधितात्पर्यादिति भावः ।। आवर्तन एवेति ।। अन्वयव्यतिरेकानुसारेण विधायकत्वात् आवृत्तावेव विधेः पर्यवसानमिति भावः ।।

ताम्रपर्णी श्रीनिवासाचार्यविरचिता वाक्यार्थमुक्तावली

यज्ज्ञानक्षीणकर्माणः सुषुम्नारश्मिभिर्गताः ।

अर्चिरादिपथा विष्णुं प्राप्य मोदन्ति तं भजे ।। १ ।।

एतदध्यायप्रतिपाद्यमिति ।। पूर्वाध्यायेन सङ्गतिं सूचयन् स्वस्मिन्नेकवाक्यतासिद्धये एत-दध्यायप्रतिपाद्यं दर्शयतीत्यर्थः । मोक्षसाधनेषु विचारितेषु सत्सु फलप्रतिपादनस्यावशिष्टस्यावसर-प्राप्तत्वादवसरसङ्गतिः । फलप्रतिपादकत्वेनैकवाक्यत्वं चेति भावः ।। मोक्षोऽपीति ।। पुरुषार्थाधि-करण एव ज्ञानादेव स्वर्गो ज्ञानादेवापवर्ग इति श्रुतिमुदाहरतोक्तमित्यर्थः । यद्वा अनियमः सर्वेषामेवं मुक्तिफलानियम इत्यत्रेत्यर्थः ।। किमत्रेति ।। स्वर्गादेः पुरुषार्थस्य ज्ञानफलत्वेनोक्तत्वात् किमत्र फलं वक्तव्यमित्यर्थः ।। असाधारण्येनेति ।। तेषां कर्मणापि साध्यत्वादसाधारण्येन ज्ञानफलं वक्तव्यमिति भावः ।। एतत्पादार्थमिति ।। अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः इति पूरणीयम् ।। प्राथम्यादिति ।। ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावर’ इति श्रुतेः । सेतुदर्शनेन पापनाशवत् ज्ञानानन्तरं कर्मक्षयः प्रक्षीणकर्मणामेवोत्क्रमणम् । उत्क्रान्तस्य मार्गेण ब्रह्मप्राप्तस्य भोग इति क्रमिकत्वादिति भावः । उक्तं च ।।

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ।। इति ।

उक्तमेवेति ।। सर्ववेदान्तप्रत्ययमित्यत्र श्रवणादेः कर्तव्यत्वम् । ‘आनन्दादयः प्रधानस्य’ इत्यत्रात्मत्वोपासनस्य कर्तव्यत्वम् । तत्रैव सर्वस्वामित्वेनोपासनोक्त्या ऐक्योपासनस्य वर्जनीय-त्वम् । भूम्नः क्रतुवदित्यत्र ब्रह्मत्वोपासनस्य कर्तव्यत्वम् । अङ्गाच्चेत्यत्रादित्यादीनां भगव-च्चक्षुराद्याश्रयत्वेनोपासनस्य देवैः कर्तव्यत्वम् । अनुबन्धादिभ्यः इत्यत्रासनादेरावश्यकत्वम् । अन्यैर्गुणैः देवगणा उपासत इति श्रुतिग्राहके दर्शनाच्चेत्यत्रोत्पन्नापरोक्षाणां देवानामप्युपासनोक्त्या उपासनस्याप्रायणांतत्वं चोक्तमेवेत्यर्थः ।।

नित्यशः कार्यमिति ।। सर्वप्रकारेण विघ्नेऽपि यावच्छक्त्यनुष्ठेयमिति तत्त्वप्रदीपे । सर्वथा भाव्यमित्यस्यार्थस्तद्भिन्नेति । कर्मक्षयाद्येकैकदेशस्याप्यभावात् सुखलेशाभावाच्चेत्यर्थः । एत-ज्ज्ञापनायैव तृतीये इदमनुक्त्वाऽत्रेदमुच्यते । तत्रानुक्त्या हि ततो वैलक्षण्यं ज्ञायते फलाध्याये उक्त्वा फलान्तरङ्गत्वं ज्ञायत इति भावः । उक्तं च तत्त्वप्रदीपे तस्य फलसन्निकृष्टत्वादत्रोक्तिः फलावस्थानुप्रवेशितत्वाच्चेति ।। अध्यायपादानामिति ।। समन्वयाद्यध्यायानां याऽर्थव्यवस्था योऽर्थभेदः प्रागुक्तः यश्चैतदध्यायपादानां कर्मक्षयादिलक्षणोऽर्थभेदः उक्तस्स च न स्यात् पूर्वोक्त-विरोधादित्यर्थः । यद्वा अध्यायौ साधनफलाध्यायौ पादौ उपासनाकर्मक्षयपादौ तेषामित्यर्थः ।। यद्वा एतदध्यायैतत्पादवत्सर्वत्रापि व्यवस्थाभावप्रसङ्ग इत्यर्थः ।। व्यवस्थाभावविरोध इति ।। व्यवस्थाभावलक्षणो विरोधः इत्यर्थः । यद्वा व्यवस्थाभावेन निमित्तेन प्रागुक्तविरोध इत्यर्थः ।। प्रायिकत्वादिति ।। समन्वयाध्याये देवताधिकरणस्य साधनाध्याये छन्दत उभयविरोधादित्यस्य अत्र चाधिकरणसप्तकस्य प्रासंगिकत्वादध्यायानां प्रायिकत्वं नामपादे लिङ्गात्मकानां लिङ्गपादे नामात्मकानां तृतीयपादेऽधिकारस्य द्वितीयाध्याये चतुर्थपादे संज्ञामूर्तिक्लृप्तिविचारस्य उपासनापादे छन्दत इति मुक्तनिरूपणस्य अस्मिन्पादेऽधिकरणसप्तके साधनस्य विचारितत्वात्पादानां प्रायिकत्वम् ।

ननु अत्राधिकरणसप्तके साधनविचारे पादस्य कथं फले प्रायिकत्वमिति चेन्न । कार्त्स्न्येन यत्र योऽर्थः प्रतिपाद्यतेऽन्यत्र तथा विविच्य न प्रतिपाद्यते सोऽर्थः तत्पादाद्यर्थ इति विवक्षितत्वात् अत्रोपासनापादे विविच्य प्रतिपादितानामेवावश्यं कर्तव्यत्वमधिकरणसप्तके उक्त्वा कर्मक्षयस्यैव कार्त्स्न्येन प्रतिपादनाददोषः ।

ॐ आवृत्तिरसकृदुपदेशात् ॐ ।। एवं मुक्तिफलेत्यत्र यथा प्रतिबन्धे सति श्रवणादि-साधनसम्पूर्तिजन्मन्येव ज्ञानम् । सति तु प्रतिबन्धे जन्मान्तरे । पुनः किञ्चिच्छ्रवणादिकरणेन ज्ञाननियमो दृष्टान्तत्वेनोपात्तः । तथा च तत्र श्रवणावृत्तिरपि प्रकृता साऽत्र विचार्यत इत्यनन्तर-सङ्गतिः ।। अन्यथेति ।। आवृत्तिकर्तव्यताऽसमर्थनेऽन्वयव्यभिचाराछ्रवणादेर्ज्ञानसाधनत्वासिद्धेः आवृत्तिः समर्थनीयेत्यर्थः । श्रवणादिकं किं सकृदनुष्ठेयं उत तदावृत्तिरिति चिन्ता । तदर्थं सकृदनुष्ठानेऽपि फलसद्भावात् चारितार्थ्यं ज्ञानस्य सर्वशब्दकत्वं गुणस्य भवत्युत न भवतीति ।।

उभयविधेति ।। सकृदनुष्ठेयस्य ज्योतिष्ठोमादेः असकृदनुष्ठेयस्य व्रीह्यवहननादेश्च दर्शन-मित्यर्थः । अग्निष्टोमवदेकवारेणैवेत्युत्तरभाष्यानुसारेण पूर्वपक्षयति ।। सकृदनुष्ठितेति ।। साधना-वृत्तेरपीति ।। अवघातादिसाधनावृत्तेरित्यर्थः । अग्निष्ठोमवदिति भाष्ये एवकारेण न पुनरव-घातादिवदावृत्त्येति निर्धारणेन सूचितं सुखं शक्यते इत्युक्तन्यायं व्यनक्ति ।। अनावृत्त्यैवेति ।। परमफलं विवक्षुः प्रसक्तं फलमाह ।। अत इति ।। सम्भवतीति ।। सम्भावितं न प्रकारान्तर-मित्यर्थः । प्रसक्तं प्रतिषेधति ।। न चेति ।। परमफलमाह ।। अत इति । अन्वयव्यभिचारा-दित्यर्थः । भाष्यस्य यतोऽग्निष्टोमवदेकवारेणैव फलप्राप्तिरत आत्मेत्यादिश्रुत्युक्तानां श्रवणादीनां एकवारेणैव कर्तव्यतेत्यध्याहारानुवृत्तिभ्यां अर्थमभिप्रेत्य व्याचष्टे ।। अग्निष्टोमादिवदिति ।। सूत्रार्थस्त्वतिरोहितः । तस्यादृष्टफलत्वेनेति ।। ज्योतिष्टोमस्य स्वर्गहेतुत्वं श्रुतिमात्रगम्यं न त्वन्वयव्यतिरेकगम्यम् । तत्फलस्य अतीन्द्रियत्वात् । श्रुतिप्रामाण्यात्सकृदनुष्ठानेनैव फलमङ्गी-क्रियते । ज्ञानं तु दृष्टफलमिति श्रवणादेः तत्साधनत्वं अन्वयव्यतिरेकसहकृतागमवेद्यम् । अन्वय-व्यतिरेकौ तु अनावृत्तानामेव श्रवणादीनां ज्ञानहेतुत्वं गृह्णतः इति ज्ञानप्राप्तिपर्यन्तं श्रवणादिकर्तव्यं नाग्निष्टोमवत्सकृदनुष्ठेयमिति भावः ।। तावतैवेति ।। सकृदनुष्ठानेनैव अतीन्द्रियकार्यकारण-विधायकविधिपर्यवसानादित्यर्थः । श्रवणादेः पुनरज्ञाननिवृत्त्यादीति ।। अत्र आदिपदेन प्रधानफलापरोक्षज्ञानस्यापि । तथा च भाष्योदाहृतश्रुतौ दृष्टव्यः इति दर्शनानुवादेन श्रवणादीनां विधानात्तेषां दृष्टफलसाधनत्वमवगम्यते इति भावः ।। आवर्तन एवेति ।। अन्वयव्यतिरेकानुसारेण विधायकत्वादावृत्तावेव विधिपर्यवसानमिति भावः । मैत्रेऽप्युपलक्षिताधिकारिणामेव महाफल-ब्रह्मज्ञानाय विहितानां श्रवणादीनां असारानित्यसर्वाधिकारिसाधारणस्वर्गादिफलकाग्निष्टोमादि-कर्मवन्नैकवारमनुष्ठेयत्वमित्युक्त्या सूचितं महाफलत्वमित्युक्तन्यायं विघटयति च सुशक्यमिति ।

ननु श्वेतकेतुना तत्वविशेषेषु सन्दिग्धेन नवकृत्वः प्रश्नकरणे उद्दालकेन तत्परिहारार्थं नवकृत्व उपदेशात् श्रवणादिकालबाहुल्यमेव प्रतीयते न पुनरावृत्तिः । श्रुतस्यैव शब्दस्य पुनःपुनःश्रवणरूपा हि सा । न च अतत्वमसीति भेदस्य श्रुतस्यैव श्रवणादिति वाच्यम् । तदभ्यासस्य तात्पर्य-ज्ञापकत्वात् । भेदे प्रत्युपदेशमन्योन्या युक्तीः अभिधाय साध्यप्रदर्शनपरत्वाच्चेति चेदत्रोक्तं सुधायां ‘येन केन वाक्येनावगतस्य तत्वस्य पुनस्तेन वान्येन वा अवगतिः श्रवणावृत्तिः’ । एवं एकया युक्त्या अनुसंहितस्य भूयोभूयः तयाऽन्यया वा अनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् । नन्वेवं सति सर्ववेदान्तप्रत्ययमित्यनेनैव गतमिति चेत् तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भः इत्युक्तमेवेति ।

श्रीनिवासतीर्थविरचितं वाक्यार्थविवरणम्

वाक्यार्थविवरणम्

इत्युक्तत्वादिति ।। ज्ञानादेव स्वर्ग इत्यादिश्रुतावुक्तत्वादित्यर्थः ।। इत्युक्तमिति ।। ज्ञाना-देवापवर्ग इत्यपि तत्रैवोक्तत्वादित्यर्थः ।। कीदृश इति ।। कीदृग्विधः कियत्प्रकारोपेत इत्यर्थः । कार्यत्वमिति ।। ज्ञापनायेति शेषः ।। किमितीति ।। नित्यशः कार्यत्वमपि किमिति किमर्थं वक्तव्यम् । अकरणे बाधकाभावादिति भावः ।। प्रायेणेति ।। प्राधान्येनेत्यर्थः ।। उभयविधेति ।। ज्योतिष्टोमादिरूपं साधनं सकृदनुष्ठेयम् । अवहननादिकमसकृदनुष्ठेयमित्यर्थः । ननु श्रोतव्यमित्यादि श्रवणादिविधिरेवासकृदनुष्ठानं बोधयतीति चेत्तत्राह ।। श्रवणादिविधिश्चेति ।। अग्निष्टोमादिवदिति ।। अन्यथा अग्निष्टोमादेरप्यसकृदनुष्ठेयत्वं स्यादिति भावः ।। साधनावृत्तेरिति ।। वितुषीभाव-साधनीभूतावहननाद्यावृत्तेरित्यर्थः ।। अनावृत्त्यैवेति ।। श्रवणानावृत्यैवेत्यर्थः ।। सर्वसुशक्यत्व-मिति ।। अनायासेन सर्वैः साधयितुं शक्यत्वमित्यर्थः ।

शर्करा श्रीनिवासाचार्यविरचिता वाक्यार्थमञ्जरी

विनाश्यकर्मनिचयमुत्क्रम्यार्चिर्मुखात्पथः ।

प्राप्तेभ्यो ह्यात्मनिकटं नमः स्वानन्ददायिने ।। १ ।।

फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह ।। विरक्त्यादीति ।। असाधारण्येनेति ।। तेषां कर्मादिनापि साध्यत्वेन ज्ञानं विना न सम्भवतीत्येवंरूपासाधारण्यं नास्ति तादृशासाधारणफलं मोक्षरूपं निगद्यत इत्यर्थः ।। उक्तमिति ।। विद्यैव तु निर्धारणादित्यत्रेत्यर्थः । कर्मनाशस्य कथं ज्ञानासाधारणफलत्वं एवं तत्कथनमस्मिन्नध्याये सङ्गतं स्यात् तथात्वे वा प्राथम्यं कुत इत्यत आह ।। ज्ञानफलमिति ।। एतत्कर्मनाशाख्यफलमिति भाष्यं उत्तरमाह ।। उक्तमेवेति ।। सर्व-वेदान्तप्रत्ययमित्यत्र श्रवणाद्यावृत्तेः कर्तव्यत्वं आनन्दादयः प्रधानस्येत्यत्रात्मत्वोपासनस्य कर्तव्यत्वम् । तत्रैव सर्वस्वामित्वेनोपासनोक्त्या विष्णुप्रतीकैक्योपासनस्य देवैः कर्तव्यत्वम् । अनुबन्धादिभ्य इत्यत्रोपासनादेरावश्यकत्वं अन्यैर्गुणैर्देवगणा उपासत इति श्रुतिग्राहके दर्शना-च्चेत्यत्रोत्पन्नापरोक्षज्ञानिनां गम्योपासनोक्त्योपासनस्य मोक्षान्तरङ्गत्वं चोक्तमेवेत्यर्थः । ननु तर्हि तैरेवाधिकरणैरेतेषां सप्तानामधिकरणानां गतार्थत्वमिति शङ्कते ।। पुनः किमिति ।। परिहरति ।। तस्यैवेति ।। उपलक्षणमेतत् । परमादरेणेत्यपि द्रष्टव्यम् । प्रयोजनं च पृच्छति ।। किमितीति ।। सर्वथा भाव्यमित्युक्तस्य परिहारमाह ।। तद्विनेति ।। आदरनैरंतर्याभ्यां श्रवणाद्यावृत्तिकरणादिना विना परोक्षज्ञानाभावेन चतुर्विधमोक्षमध्ये कस्यापि भागस्याभावादिति भावः ।। अत्र सप्ताधि-करण्याम् ।। व्यवस्थाभावविरोध इति ।। व्यवस्थाभावलक्षणो विरोध इत्यर्थः ।। प्रायेणेति ।। प्राधान्येनेत्यर्थः । साधनविचारप्रासङ्गिक इति भावः ।। अत एवेति ।। प्रासङ्गिकत्वादेवेत्यर्थः । आवृत्तिः किं फलाय वोत पूरणाय आद्ये आह ।। सकृदनुष्ठितेति ।। द्वितीये आह ।। श्रवणादीति ।। साधनेति ।। अवहननादीत्यर्थः । अनावृत्त्यैवेति पदच्छेदः ।। न चेति ।। अननु भ्नतादिति भावः ।। ॐ आवृत्तिरसकृदुपदेशात् ॐ ।। अपरोक्षज्ञानार्थं श्रवणादीनामावृत्तिः कार्या कुतः स आत्मा तत्त्वमसीत्युद्दालकेन श्वेतकेतुं प्रत्यसकृदनेकवारं तत्त्वोपदेशादित्यर्थः । नवकृत्वः नववारम् ।। अदृष्टेति ।। अप्रत्यक्षेत्यर्थः । व्रीह्यवघातविधिर्व्रीहीनवहंतीत्यादिरूपः ।।


Load More