ॐ स्तुतयेऽनुमतिर्वा ॐ

४. स्तुत्यधिकरणम्

सूत्रभाष्यम्

अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव’ (बृ.उ.५-५-१) इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह—

।। ॐ स्तुतयेऽनुमतिर्वा ॐ ।। १४ ।।

न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ।।

तत्त्वप्रदीपिका

मौनमुपासनम् । अमौनमपरोक्षज्ञानम् । निर्विद्य नितरां लब्ध्वा, विद् लाभ इति धातोः । अथ ब्राह्मणः ब्रह्मनिष्ठो भवति । स येन केनापि वर्तेत, तेनेदृश एव स्यात् । न किञ्चिदपि हीयते । एवं श्रुतियोजनायां ज्ञानिनो यथेष्टचरणं विधीयत इत्यायातम् । युज्यते च । किन्नु खल्वेवंविधं ब्रह्मदर्शनं तस्य दर्शनवतोऽभिमत न कुर्वीतेत्यत आह– स्तुतयेऽनुमतिर्वा ।। नायं विधिः यो ज्ञानी स यथेष्टं चरेदेवेति । प्रमाणाभावात् । अपि तु ‘केन स्याद्येन स्यात्तेनेदृश एव’ इत्युक्तिर्ज्ञानिस्तुतये । यथेष्टप्रवृत्तावनुमतिमात्रं वैतत् । ‘स्तुतिः’ सामर्थ्यप्रकटनम् । ‘अनुमतिः’ क्रियमाणस्याभ्यनुज्ञा । यथेष्टचरणेऽपि तस्य ज्ञानिनो मुक्तेर्नियतत्वात् ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञानस्यासत्प्रवृत्तावपि मोक्षसाधनत्वनियमलक्षणमहिन्मो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा साधनान्तरादतिशयाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतज्ञानवानत्र विषयः । किं तस्य सदसत्प्रवृत्त्योर्विशेषोऽस्ति न वा इति सन्देहः । लौकिकदृष्टिस्तुल्यं त्वित्युक्तिश्च सन्देहबीजम् । पूर्वपक्षं सूचयति ।। अथेति ।। न ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्ति । ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव इति श्रुतौ ज्ञानिनो यथेष्टप्रवृत्तिविधानात् । तथा हि । यो ब्रह्मप्राप्तियोग्योऽसावागमजं ज्ञानं लब्ध्वा युक्तिजज्ञानमापादयेत् । तदुभयलाभानन्तरं ध्यानी भवति । तेन चापरोक्षज्ञानं प्राप्नोति अथ जीवन्मुक्त उच्यते । स च सता वाऽसता वा केनाऽपि प्रकारेण वर्तेतेति । यदि ज्ञानिनः सदसत्प्रवृत्त्योरस्ति विशेषस्तर्हि सदेवाचरेन्नासदिति वक्तव्यम् । न तु यथेष्टाचरणं विधातुं युक्तम् । श्रूयते च ज्ञानिनः सदसत्प्रवृत्त्योरविशेषो येन स्यात्केन स्यात्तेनेदृश एवेति । अयुक्तश्च ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषः । न हि मोक्षादतिशयितं फलमस्ति यत्सत्प्रवृत्त्या भवेत् । न च समुच्चयसाध्यत्वं मोक्षस्य नापि ज्ञानिनो मोक्षाभावो योऽसत्प्रवृत्त्या भविष्यति । अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषाभावादाद्याधिकरणोक्तमयुक्तमिति । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अस्त्येव ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषस्तर्हि कथमयं यथेष्टाचरणविधिः । मैवम् । केन स्यादित्यस्य विधित्वाभावात् । तर्हि किमर्थमुच्यते । यथा कञ्चित् भृत्यं प्रति तत्स्तुतये कथ्यते यथेष्टं कुर्विति न तु विधिस्तथैतदपि ज्ञानिनः स्तुतय एवोच्यते । अथवा यथेष्टाचारेऽनुज्ञानमात्रमेतत् । सर्वथा तु न विधिरिति भावः । न सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषो युज्यते । तथा सत्यसत्प्रवृत्त्या कुण्ठितस्य ज्ञानस्य मोक्षसाधनत्वाभावप्रसङ्गादित्यत आह ।। युज्यते चेति ।। सदसत्प्रवृत्तिभ्यां विशेष इति शेषः ।।

गुर्वर्थदीपिका

न ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्तीत्यत्र ज्ञानिनां सदसत्प्रवृत्तिभ्यां सर्वथा शुभाशुभफले न स्त इति पूर्वपक्षिणोऽभिसन्धिः । सिद्धान्तिनस्तु सत्प्रवृत्तेर्न मोक्षसाधकत्वं नाप्यसत्प्रवृत्ते-र्मोक्षप्रतिबन्धकत्वम् । मुक्तावानन्दवृद्धिह्रासफलकत्वात्सर्वथा निष्फलत्वं च नेत्याहुरिति विवेकोऽनुसन्धेयः । बाल्येन तिष्ठासेदित्यत्र युक्तयनुसन्धानाख्यबलवान्बली बलिनो भावः बाल्यमिति व्युत्पत्या बाल्यपदेन युक्तयनुसन्धानात्मकं मननं गृह्यते । प्राथमिकब्राह्मणशब्दस्य ‘अणपणगतौ’ इति धातोः ब्रह्माणतीति व्युत्पत्या ब्रह्मप्राप्तियोग्यत्वमर्थः । यद्वा ब्रह्म वेदमणति पठतीति ब्राह्मणो वेदाध्ययनवानित्यधिकारिणस्सामान्यलक्षणमुच्यते । प्राथमिकपाण्डित्याख्य-श्रवणस्यैव मौनं निर्विद्येति पुनरनुवादः । गत्यर्थानां ज्ञानार्थत्वात् द्वितीयब्राह्मणशब्दस्य ब्रह्मापरोक्षज्ञानित्वमर्थ इत्यनुसन्धेयम् । आद्याधिकरणोक्तमित्यत्र ‘अधिकोपदेशात्’ इत्यधिकरणे यदुक्तं तन्नेत्यर्थः ।

भावबोधः

अत्र पूर्वाधिकरणोक्तज्ञानाधिकारतारतम्यानुसारेणैव ‘केन स्यात्’ इति श्रुतिविचारादनन्तर-सङ्गतिरिति ज्ञेयम् ।। किमित्यादि ।। अत्र ज्ञानिनां सदसत्प्रवृत्त्योर्विशेषो नास्त्युतास्तीति चिन्ता । तदर्थं ‘केन स्यात्’ इति श्रुतिर्निरवकाशोत सावकाशेति । तदर्थं ज्ञानिनां सदसत्प्रवृत्योर्विशेषः किं न युक्त उत युक्त इति । तदर्थं सदसत्प्रवृत्त्योर्विशेषः किं मोक्षतदभावयोरन्यतर उत तदतिरिक्त इति । तदर्थं ज्ञानिनां विहितनिषिद्धकरणाकरणयोः प्रमाणं नास्त्युतास्तीति । श्रुतौ यथेष्टाचरणविधेरप्रतीतेः कथमेतदित्यतो द्वितीये ब्राह्मणो ब्रह्माणितुं योग्यः । पाण्डित्यमागमजज्ञानं, बाल्यं युक्तिसहितं बलयुक्तत्वात् । मौनमुपासनाजं, अमौनमपरोक्षज्ञानं, निर्विद्यं नितरां प्राप्य लब्ध्वा ‘विद् लाभे’ इति धातोः । अथ ब्रह्मणो मुक्तो भवतीत्यर्थ इति बृहदारण्यकभाष्यं मनसि निधाय श्रुतिव्याख्यानपूर्वकं पूर्वपक्षमुपपादयति– तथा हीत्यादिना ।। अधिकारज्ञापकस्याद्य-ब्राह्मणशब्दस्यार्थो ब्रह्मप्राप्तियोग्य इति । ‘पाण्डित्यं’ इत्यस्यार्थं आगमजज्ञानमिति । ‘निर्विद्य’ इत्यस्यार्थो लब्ध्वेति । यद्यपि निःपूर्वो विदिर्वैराग्ये रूढः । तथापि निः उपसर्गः । सत्तार्थस्यैव विदेरर्थं बाधित्वा तं वैराग्यार्थं व्यवस्थापयति । निर्विद्यत इति कर्तरि प्रयोगदर्शनात् लाभार्थस्यार्थं तु विशिनष्ट्येव केवलम् । निर्विदन्ति निविदन्त इति वैराग्ये तत्प्रयोगादर्शनादिति गीताभाष्य-टीकायामेवोक्तम् । बाल्यमित्यस्य युक्तिरूपबलसम्बन्धीत्यर्थमभिप्रेत्याह– युक्तिजज्ञानमिति ।। तिष्ठासेदित्युक्तायाः स्थितीच्छाया अविधेयत्वात्; तदिच्छायां बाल्यस्याकारणत्वाच्च युक्तिजज्ञान-मापादयेदिति तात्पर्यमुक्तमिति ज्ञातव्यम् । अथ ‘मुनिः’ इत्यस्यार्थो तदुभयलाभादनन्तरं ध्यानी भवतीति । तेन चापरोक्षज्ञानं प्राप्नोतीति । अनेन मौनं निर्विद्यामौनं प्राप्नोतीति शेषपूरणेन वाक्यं योजितं भवति । जीवन्मुक्त उच्यत इति । ‘न चाथ ब्राह्मणो मुक्तो भवति’ इति बृहदारण्यक-भाष्यविरोधः । ब्राह्मणशब्दस्य जीवन्मुक्तपरममुक्तोभयपरत्वेन तदुपपत्तेः । अत एव तत्र–

प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते ।

अपरोक्षविन्मुक्तियोग्यस्तुतार्तीयेनोभयोर्ग्रहः ।।’

इत्युक्तमिति भावः । ज्ञानिनामात्मस्वरूपस्यैव दार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्त्योरविशेष इति न्यायविवरणं मनसि निधाय आह– अयुक्तश्चेति ।। न हि मोक्षादिति ।। मोक्षश्च ज्ञानिनां निश्चित एवेति भावः । अनेनात्मस्वरूपस्य आनन्दाविर्भावादिलक्षणस्य दार्ढ्येन निश्चितत्वादिति व्याख्यातं भवति । न मोक्षातिरिक्तातिशयितफलार्थं सत्प्रवृत्तिः । किं तु मोक्षार्थमेव । सत्प्रवृत्त्यभावे ज्ञानेन मोक्षस्यैवाजननादित्यत आह– न च समुच्चयेति ।।

विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।

 नान्यः पन्था इति ह्येव निवारयति सादरम् ।।’

इत्यनुव्याख्यानोक्तरीत्या ‘विद्यैव तु निर्धारणात्’ इत्यत्र समुच्चयवादस्यापि दूषितत्वादित्यर्थः । ‘कामचारेण चैके’ इत्यादिसूत्रनिवर्तनीयमाह– नापि ज्ञानिन इति ।। ज्ञानिन आत्मस्वरूप-लक्षणमोक्षस्य दृढत्वादेवेत्यर्थः । अन्यथा ‘अनियमः सर्वेषां’ इत्युक्तविरोधः स्यादिति भावः ।। आद्येति ।। पुरुषार्थनये ‘तद्वतो विधानात्’ । ‘नियमाच्च’ इत्यादिना कर्मावश्यकमित्युक्त-मयुक्तमित्यर्थः । ज्ञानिनः स्तुतय एवेति । सर्वाधिकारिसाधारणमिदमिति ज्ञातव्यम् ।

प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।

 प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ।।

 उपमर्द इति प्रोक्तो देवादीनां यथा क्रमम् ।।’

इत्यनुव्याख्यानानुसारेण सूत्रं व्याचष्टे– ज्ञानिनां हि विषभक्षणादिति ।।

भावदीपः

मोक्षसाधनत्वनियमेति ।। ज्ञानिनोऽसद्वृत्तावपि मोक्षो भवत्येवेति नियमेत्यर्थः । एतेनास्तु पूर्वत्र ज्ञानरूपफले प्रज्ञान्तरेत्यत्र निर्णीतविशेषाभावप्रसङ्गात्तदधिकारे विशेषः । ज्ञाने तु नासत्प्रवृत्तिकृतो विशेषः । तत्फले मुक्तौ तत्कृतविशेषस्य निर्णीतस्य कस्यचिदभावादिति शङ्कनाद्वा पूर्वत्रेवात्रापि मुक्तिफले सम्भवत्यपि तत्रानन्दह्रासरूपविशेषेण ज्ञानेऽप्यस्ति सम्पूर्ण-मुक्त्यजनकत्वरूपविशेष इति सिद्धान्तकरणाद्वा पूर्वमाचार्यमतजैमिनिमतयोरुपन्यासव्याजेन ज्ञानस्य कर्मशेषत्ववाक्यानां कर्मणो ज्ञानशेषत्ववाक्यानां चाधिकारिभेदेनाविरोधमुक्त्वा मध्ये प्रसङ्गा-दधिकारचिन्तां च कृत्वाऽत्र पुनरेकस्मिन्नेव वाक्ये त्रिविधवाक्यैर्विरुद्धार्थत्रयपरत्वमुपेत्यात्र त्रिविधाधिकारिभेदेनाविरोधकथनाद्वा पूर्वसङ्गातिरपि सूचिता ।। लौकिकेति ।। लोके सदसत्प्रवृत्त्या भृत्यादेः फले विशेषदृष्टिरित्यर्थः । ज्ञानिनां सत्प्रवृत्तिविपरीतप्रवृत्तयोरविशेष इत्यन्यत्रोक्तप्रतिज्ञा-माह ।। न ज्ञानिन इति ।। एकवचनोक्तिर्ब्रह्मादिमानुषान्तज्ञानिसामान्यसूचनाय । कुत इत्यतो भाष्यार्थं हेतुत्वेन योजयितुं भाष्योक्तश्रुतावथपदोक्तानन्तर्यप्रतियोगिज्ञापनाय निर्विद्येत्यत्र कर्तृ-ज्ञापनाय च पूर्वशेषमाह ।। ब्राह्मण इति ।। इति श्रुताविति ।। पञ्चमाध्यायपञ्चमब्राह्मण-स्थकाण्वश्रुतावित्यर्थः ।। इति श्रुतौ ज्ञानिन इति ।। ‘तां चतुर्थीं माहाचमस्यः प्रवेदयते’ इति व्याहृतिविद्यादाविव न ह वै देवान् पापं गच्छतीति सप्तान्नविद्यादादिव हंतकारं मनुष्या इत्यादाविव च केन स्यादिति वाक्ये कर्तृविशेषाभावेनास्य वाक्यस्य ब्रह्मादिमानुषान्तज्ञानिसामान्यपरत्वाद्यदेव विद्ययेत्यादेर्वाक्यस्य मानुषविषयत्वे ज्ञानादेव स्वर्गः । ज्ञानेनैवाप्यते सर्वमित्यादिवाक्यस्येव ज्ञानादेव स्वर्ग इत्यादेर्देवताविषयत्वे यदेव विद्ययेत्यादेरिव चेहाधिकारिविशेषपरत्वे कल्पकस्य कस्यचिदभावाच्च ।

न च ब्रह्मैव स्वेच्छानियत इत्यादिवाक्यमेवास्य चतुर्मुखमात्रपरत्वकल्पकमिति वाच्यम् । तस्य कार्यं न विद्यत इति स्मृतिबलाज्ज्ञानिसामान्यपरत्वस्य सम्भवात् । न च तदपि विशेषपरं कल्पका-भावात् । न च प्रातरुत्थाय सन्ध्यामुपासीत इति, ब्राह्मणो न हन्तव्यः, इत्यादिवाक्यमेव तस्य कार्यमित्यादेर्विशेषपरत्वकल्पकमिति वाच्यम् । तस्याज्ञविषयत्वोपपत्तेरिति भावः । स्याच्छब्दस्य विधौ स्मरणादाह ।। विधानादिति ।। ननु ज्ञानिनो यथेष्टेत्याद्युक्तिरयुक्ता । बृहद्भाष्ये अथ ब्राह्मणः मुक्तो भवतीत्यर्थः । स मुक्तः येन केनापि वर्तयन्नीदृश एव भिक्षुक एव न कदाचि-त्स्वतन्त्रो भवतीति ग्रन्थेन मुक्तस्य भगवतः सकाशादात्मानं विदित्वा भिक्षाचर्यं चरन्तीति पूर्वप्रकृतानन्दभिक्षुकत्वपरतया व्याख्यातत्वेन ब्राह्मणशब्दस्य ज्ञानिपरत्वाभावादित्यतः सत्यमेवं तथापि ।

ततो ब्रह्माणने योग्यः पाण्डित्यं प्राप्नुयात्परम् ।

पाण्डित्यमागमज्ञत्वं बाल्यं युक्तिसहायता ।

मौनं तूपासनासिद्धिरमौनं भगवद्दृशिः ।

एतान्याप्य भवेन्मुक्तिर्मुक्तो वै भिक्षुको भवेत् ।।’

इत्यादिनैकमर्थमुक्त्वा ‘प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते । अपरोक्षविन्मुक्तयोग्यस्तु तार्तीयेनोभयोर्ग्रहः’ इति ज्ञानिपरत्वस्यापि प्रमाणेनोक्तत्वादज्ञानिपरत्वमप्यविरुद्धमिति भावेनादि-तस्तदर्थमाह ।। यो ब्रह्मेति ।। मुनिशब्दार्थो ध्यानीति । अमौनमित्यस्यार्थोऽपरोक्षज्ञानमिति । अथ ब्राह्मण इत्यस्यार्थेऽथ जीवन्मुक्त इति । वर्तत इतीतिशब्दस्य इति विधानादिति पूर्वेणान्वयः । तेनेदृश एवेत्यस्य हेत्वंशानर्पकत्वादत्र तदर्थानुक्तिः । व्याख्यास्यते चाग्रेऽनुपदम् । हेतोर-प्रयोजकत्वमाशङ्क्य हेतूच्छित्तिरेव विपक्षे बाधिकेत्याह ।। यदीति ।।

भाष्ये श्रुतिशेषोक्तेरुपयोगमाह ।। श्रूयते चेति ।। न केवलं विधानान्यथानुपपत्त्याऽनुमीयत इति चार्थः । एवमविशेषेणानुमानागमावुक्त्वा विशेषस्यायोगाच्चाविशेषः सिद्ध इति भावेन युज्यते चेति भाष्यसूचितं शमदमादीति सूत्रव्यावर्त्यमाह ।। अयुक्तश्चेति ।। स किं मोक्षादन्यो मोक्ष एव वेति विकल्प्याद्यमाह ।। न हीति ।। भवेदित्युपलक्षणम् । असत्प्रवृत्त्या न भवेदित्यपि ध्येयम् । द्वितीये ज्ञानकर्मणी द्वे अपि रज्ज्वाः सूत्रद्वयमिव मोक्षस्य साधनं स्यात् । असत्प्रवृत्त्या च मोक्षः प्रतिबध्येतेति स्यात् । तदुभयमपि नेति क्रमेणाह ।। न चेति ।। विद्यैव त्वित्यादौ तथोक्तेः । विस्तृतं चैतत्तत्रैवानुव्याख्यानादाविति भावः ।। नापीति ।। अनियमः सर्वेषामित्यत्र तथोक्तेरिति भावः । एतेन ज्ञानिनामात्मस्वरूपदाढर्््यादित्यन्यत्रोक्तहेतोः आत्मस्वरूपरूपमोक्षस्य दृढत्वेन ततोऽतिशयस्य प्राप्तव्यस्याभावात्तत्प्रतिबन्धस्य चाभावदिति द्वेधार्थः सूचितः ।। अत इति ।। अविशेषसाधकयुक्तिश्रुतिबलाद्विशेषस्यायुक्तत्वाच्चेत्यर्थः ।। आद्येति ।। पुरुषार्थनये तद्वतो विधानान्नियमाच्चेत्यादिना कर्मावश्यकमित्युक्तमित्यर्थः ।

अत आहेत्युक्तं पूर्वपक्षशङ्कानिवर्तकत्वं सूत्रभाष्ययोर्विवरितुमाह ।। अस्त्येवेति ।। एवकारेण न त्वविशेष इति पूर्वपक्षनिरासः । तत्र हेतुत्वेन न विधिरिति भाष्यार्थमाह ।। विधित्वाभावादिति ।। तथा च प्रागुक्तहेतोरसिद्धिरिति भावः । सूत्रभाष्ये अवतारयति ।। तर्हीति ।। चतुर्थीनिर्वाहाय किमर्थमित्युक्तिः । ज्ञानिनः स्तुतय इत्यादि व्याचष्टे ।। यथेति ।। स्तुतिः सामर्थ्यप्रकटनम् ।। एतदिति ।। केन स्यादिति वचनमित्यर्थः । अनुमतिर्वेत्यस्यार्थोऽथवेति । अयुक्तश्चेत्यादिनोक्तचोद्य-मनुवदति ।। सदसदिति ।। साधनत्वप्रसङ्गादित्यनन्तरं तथा च विद्यैव त्वित्याद्युक्तव्याघात इति योज्यम् ।

अभिनवचन्द्रिका

असत्प्रवृत्तावपीति ।। ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषसमर्थनव्याजेन असत्प्रवृत्तावपि ज्ञानस्य मोक्षसाधनत्वनियमलक्षणमहिम्नः समर्थनादित्यर्थः । एतेनाऽसत्प्रवृत्तौ न ज्ञानिनो मोक्ष इति पूर्वः पक्षः । असत्प्रवृत्तावपि मोक्षो भवत्येवेति सिद्धान्तश्चाभिधेयः । न तु ज्ञानिनः सदसत्प्रवृत्तिभ्यां न विशेष इति पूर्वपक्षः, अस्ति विशेष इति सिद्धान्तश्च वक्तव्य इति परास्तम् । ‘येन स्यात्केन स्यात्’ इत्यस्याऽर्थमाह– स च सता वासता वेति ।। आद्याधिकरणोक्तमिति ।। कर्मणो ज्ञानशेषत्वमयुक्तमित्यर्थः ।। यथाकञ्चिद्भृत्यं प्रतीति ।। यथा अहं स्वतन्त्रः, तथा त्वमपीति भृत्यस्तुतिलाभाय यथा यथेष्टं कुर्वित्युच्यते तथेत्यर्थः ।। अथवेति ।। स्तुत्यर्थमिति पूर्वोक्तः पक्षो मनुष्यविषय एव । अनुज्ञामात्रमिति पक्षस्तु देवताविषय एव । न मनुष्यविषयः । ‘विधिनियता मनुष्या अनियता हि देवा’ इति गौपवनश्रुतिरिति विवेकः । असत्प्रवृत्त्या विशेषो न युज्यत इत्यत्र हेतुमाह– तथा सतीति ।।

(अस्तु येषामसत्प्रवृत्तिः तेषां न मोक्षो भविष्यतीत्यत आह– तथा चेति ।। ‘अनियमः सर्वेषाम्’ इत्यत्र ज्ञानिषु केषाञ्चिन्मोक्षः केषाञ्चिदमोक्ष इति न नियमः अपि तु सर्वेषां मोक्ष एवेत्युक्ताऽनियमव्याघात इत्यर्थः । ‘सत्प्रवृत्त्या विशेषो न युज्यत’ इति प्राक्प्रतिज्ञातार्थे हेतुमाह– सत्प्रवृत्तिसमुच्चितस्येति ।। इत्यत आहेति ।। ‘कामकारेण चैके’ इति सूत्रोदाहृतश्रुत्या एतमर्थं समर्थयितुं प्रतिजज्ञ इत्यर्थः ।)

वाक्यार्थमुक्तावली

अत्र पूर्वाधिकरणोक्तज्ञानाधिकारतारतम्यानुसारेणैव केन स्यादिति श्रुतिविचारादनन्तरसङ्गतिः ।। मोक्षसाधनत्वेति ।। ज्ञानिनः सदसत्प्रवृत्तिभ्यामानन्दातिशयह्रासरूपविशेष एव न मोक्षहानि-रिति प्रतिपादनादित्यर्थः । एतेन संशयपूर्वपक्षसिद्धान्तानामसत्प्रवृत्तावपि मोक्षो भवतीत्ये-तद्विषयप्रवृत्तेः कथमत्र तद्वर्णनमिति निरस्तम् । सदसत्प्रवृत्तिभ्यां विशेषप्रतिपादनमुखेनास्यैवार्थस्य कामकारेणेत्यत्र स्पष्टत्वादिति भावः ।। किमिति ।। अत्र ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषो नास्त्युतास्तीति चिन्ता । तदर्थं सदसत्प्रवृत्तिभ्यां विशेषसद्भावे केन स्यादिति यथेष्टाचारविधिरीदृश एवेति साम्यश्रुतिः मोक्षस्य ज्ञानैकसाध्यतया क्लृप्तत्वात्तदधिकारस्य सदसत्प्रवृत्तिभ्यां वर्धनीयस्य कुण्ठनीयस्य फलस्याभावयुक्तिश्च विरुध्यत उत न विरुध्यत इति ।। सूचयतीति ।। विधीयत इत्युक्त्या विशेषसद्भावे विध्यनुपपत्तिरिति सूचनात् । ईदृश एवेत्यन्तोदाहरणेन साम्यश्रुतेरिति सूचनात् । उपलक्षणतया युक्तेश्चेति वक्ष्यमाणयुक्तेरपि सूचनादिति भावः ।

ब्राह्मणो ब्रह्माणितुं योग्यः पाण्डित्यमागमजं ज्ञानं बाल्यं युक्तिसहितं ज्ञानं बलरूपत्वात् मौनमुपासनममौनमपरोक्षज्ञानं निर्विद्य निरन्तरां प्राप्य ‘विद् लाभे’ इति धातोः अथ ब्राह्मणो मुक्तो भवतीति बृहद्भाष्यं मनसि निधाय श्रुत्यर्थमाह ।। तथाहीत्यादिना ।। तदुभयलाभानन्तरं ध्यानी भवति । तेन चापरोक्षज्ञानं प्राप्नोतीति । अनेन मौनं निर्विद्य प्राप्यामौनं प्राप्नोति । मौनं तत्साध्यममौनं च निर्विद्येति शेषपूरणेन वाक्यं योजितं भवति । अनेन केन स्यादित्यादेरर्थः सतामेवेति ।। युज्यते चेत्युत्तरभाष्यसूत्रनिरस्यं आत्मस्वरूपदार्ढ्यमित्युक्तन्यायविरोधमप्याह ।। अयुक्तश्चेति ।। यदि ज्ञानिनः सत्प्रवृत्त्या विशेषः स्यात्तर्हि मोक्षादतिशयफलं स्यादिति तर्कस्य विपर्यये पर्यवसानमाह ।। न हीति ।। एतच्च शमाद्युपेतः स्यादित्यादावुत्तरभाविसत्कर्मणानन्दाति-शयसमर्थनात्तन्निरसनीयमिति ज्ञेयम् । यदि मोक्षादधिकफलाभावेऽपि ज्ञानिनः सत्प्रवृत्त्या विशेषः स्यात्तर्ह्ययं ज्ञानसहकार एवेति मोक्षस्य केवलज्ञानसाध्यत्वाभावात् समुच्चयसाध्यत्वं स्यादिति तर्कस्य विपर्यये पर्यवसानमाह ।। न चेति ।। एतच्चात एव चाग्नीन्धनेति सूत्रनिरस्यं बोध्यम् । यद्यसत्प्रवृत्त्या विशेषो भवेत्तर्हि ज्ञानिनो मोक्षाभावः स्यादिति तर्कस्य विपर्यये पर्यवसानमाह ।। नापीति ।। एतच्च कामकारेणेति सूत्रनिरस्यम् । एवमापाद्य विपर्यये पर्यवसानमुक्त्वा तद्धेतूकृत्यापादकविपर्यये पर्यवसानमाह ।। अत इति ।। मोक्षादतिशयफलाभावात् मोक्षस्य समुच्चयसाध्यत्वाभावादसत्प्रवृत्त्या ज्ञानिनो मोक्षकुण्ठनाभावाच्चेत्यर्थः ।। आद्याधिकरणेति ।। पुरुषार्थाधिकरणोक्तं कर्मणो ज्ञानफलेऽतिशयाधायकत्वमित्यर्थः ।

सूत्रेऽचोदनेत्येतत् चोदनमाकृष्यते । किन्त्विति शेषः । तथा च केन स्यादिति श्रुतिरचोदना न यथेष्टाचारविधिः किन्तु ज्ञानिनः स्तुतये उच्यते । यदि सता वासता वा कर्मणावर्तेत तदापीदृश एव मोक्षवान् भवत्येवेति ज्ञानिनो गुणवर्णनायैवोच्यते । अथवानुमतिरनुष्ठेयानां सदाचाराणां मध्ये येन केनापि वा सदाचारेण वर्तेत तदापीदृश एव तस्यावश्यकार्याभावादनियतत्वादिति क्रियमाणस्याभ्यनुज्ञामात्रं वेति सूत्रार्थं स्पष्टयति । अस्त्येवेत्यादिना ।। यथा किञ्चिदिति ।। यथेष्टकरणेऽपि मत्प्रीतिभावात् तवाधिकारश्रुतिर्नास्तीति प्रियभृत्यस्य श्रुतिर्लभ्यत इति भावः ।

तत्त्वसुबोधिनी

पूर्वाधिकरणोक्तज्ञानाधिकारतारतम्यानुसारेणैव किं न स्यादिति श्रुतिविचारादनन्तरसङ्गतिरिति भावः । ननु श्रुतौ यथेष्टाचारणविधिरप्रतीतेः कथमेतदित्यतः द्वितीयो ब्राह्मणो ब्रह्माणितुं योग्याः पाण्डित्यमागमजं ज्ञानं, बाल्यं युक्तिसहितं बलयुक्तत्वात्, मौनमुपासनं, अमौनमपरोक्षज्ञानं, निर्विद्य नितरां प्राप्य लब्ध्वा ‘विद् लाभे’ इति धातोः । अथ ब्राह्मणः मुक्तो भवति इति श्रुतिव्याख्यानपूर्वकं पूर्वपक्षमुपपादयति ।। तथा हीति ।। अधिकारज्ञापकस्याद्यब्राह्मणशब्दस्यार्थो ब्रह्मप्राप्तियोग्य इति । पाण्डित्यमित्यस्यार्थो आगमजं ज्ञानमिति ।। निर्विद्येत्यस्यार्थो लब्ध्वेति । यद्यपि निःपूर्वो विदिः वैराग्ये रूढः, तथापि निरुपसर्गस्य सत्तार्थस्यैवंविधकथनबाधित्त्वात्तं वैराग्यार्थं व्यवस्थापयतीति भावः । ज्ञानमिति ।। तिष्टासेदित्युक्तायाः स्थितीच्छाया अविधेयत्वात् तदिच्छायां बाल्यस्याकरणत्वाच्च युक्तिजज्ञानमापादयेदिति तात्पर्यमुक्तं इति ज्ञातव्यम् । अथ मुनिरित्यस्यार्थः तदुभयलाभानन्तरं ध्यानी भवतीति । तेनापरोक्षज्ञानं प्राप्तोतीति । अनेन मौनं निर्विद्यामौनं प्राप्नोति इति शेषपूरणेन व्याख्यातम् । जीवन्मुक्त उच्यत इति । न चाथ ब्राह्मणो मुक्तो भवतीति बृहदारण्यकभाष्यविरोधः । ब्राह्मणशब्दस्य जीवन्मुक्तपरममुक्तोभयपरत्वोपपत्तेः ।। न हि मोक्षादिति ।। मोक्षश्च ज्ञानिनां निश्चित एवेति भावः ।

ननु न मोक्षातिरिक्तातिशयितफलार्थं सत्प्रवृत्तिः, किन्तु मोक्षार्थमेव सत्प्रवृत्यभावे ज्ञानेन मोक्षस्यैवाजननादितित्यत आह ।। न च समुच्चयेति ।। ‘विना कर्म न मोक्षः स्यात् ज्ञानेनापीति सा श्रुतिः । नान्यः पन्था इति ह्येवं निवारयति सादरं’ इत्यनुव्याख्यानोक्तरीत्या ‘विद्यैव तु निर्धारणात्’ इत्यत्र समुच्चयवादस्यापि पठितत्वादित्यर्थः । असत्प्रवृत्तौ ज्ञानिनो मोक्ष एव न स्यादित्यतः आह ।। तावतापीति ।। ज्ञानिनः आत्मस्वरूपलक्षणमोक्षस्य दृढत्वादेवेत्यर्थः । अन्यथा ‘अनियमः सर्वेषां’ इत्युक्तविरोधः स्यादिति भावः । आद्याधिकरणोक्तमिति । कर्मणः आधिक्यं अधिकोपदेशादित्यत्रोक्तं तद्युक्तमित्यर्थः ।। ज्ञानिन स्तुतये इति ।। सर्वाधिकारि-साधारणमिति ज्ञातव्यम् । स्तुतिः सामर्थ्यप्रकटनम् । अनुमतिः क्रियमाणस्यानुज्ञा इति ज्ञेयम् । कामितवरणमिति तत्वप्रदीपे स्पष्टम् ।

वाक्यार्थविवरणम्

मोक्षसाधनत्वेति ।। लिङ्गशरीरभङ्गरूपमोक्षेत्यर्थः ।। अन्यथेति ।। असत्प्रवृत्तावपि मोक्षसाधनत्वाभाव इत्यर्थः ।। साधनान्तरादिति ।। स्वर्गादिसाधनात्कर्मरूपादित्यर्थः । अस-त्प्रवृत्तिपूर्वकं कर्मकरणे तस्यापि स्वर्गसाधनत्वाभावेन तत्साम्यापत्त्या तस्मादतिशयो न स्यादित्यर्थः ।। लोकदृष्टिरिति ।। लोकेऽसत्प्रवृत्त्यादिनाऽसंव्यवहार्यत्वादिरूपविशेषो दृश्यत इत्यर्थः । तमेव विशेषमुपपादयितुं तावत्सत्प्रवृत्त्याऽविशेषमुपपादयति ।। न हीति ।। असत्प्रवृत्त्याप्यविशेषमुप-पादयति ।। नापीति ।। आद्याधिकरणोक्तमिति ।। अधिकोपदेशादित्यत्र यथा यथा कर्म कुरुते तथा तथाऽधिको भवतीति सत्प्रवृत्त्या विशेषकथनमित्यर्थः ।। अनुज्ञामात्रमेतदिति ।। दैवात् कदाचिज्ज्ञानिनां कामचरणेच्छा चेत् क्रियतामित्यनुज्ञामात्रमेवैतत् । न विधिरित्यर्थः । सत्प्रवृत्तिसापेक्षत्वे दूषणमाह ।। सत्प्रवृत्तिसमुचितस्येति ।। तच्च भवतामनिष्टमिति भावः ।। मोक्षं लिङ्गभङ्गरूपम् ।। एवमुत्तरत्रापि मोक्षशब्दस्यायमेवार्थो ज्ञातव्यः ।

वाक्यार्थमञ्जरी

तुल्यं त्विति ।। तत्र कर्मकरणाकरणयोर्ज्ञानस्य तुल्यत्वोक्तिरित्यर्थः । आद्यब्राह्मणशब्दार्थो ब्रह्मप्राप्तियोग्य इति । पाण्डित्यमित्यस्यागमजन्यज्ञानमिति, निर्विद्येत्यस्य लब्ध्वेति, ‘विद्लृ लाभे’ इति धातोः । बाल्यमित्यस्य युक्त्यनुसन्धानमिति, तिष्ठासेदित्यस्यापादयेदिति, मुनिरित्यस्य ध्यानी भवतीति, अमौनशब्दार्थः अपरोक्षज्ञानमिति, ब्राह्मणशब्दार्थो जीवन्मुक्त इति, ईदृशः विशिष्टः तदेव व्यनक्ति ।। न हीत्यादिना ।। मोक्षश्च ज्ञानिनां निश्चित एवेति भावः । ननु न मोक्षातिरिक्तातिशयितफलार्थं सत्प्रवृत्तिः किं तु मोक्षार्थमेव, सत्प्रवृत्त्यभावे ज्ञानेन मोक्षस्यैवाजननादित्यत आह ।। न च समुच्चयेति ।। ‘विद्यैव तु निर्धारणात्’ इत्यत्र समुच्चयवादस्य दूषितत्वादिति भावः ।। नापीति ।। तथात्वे ‘अनियमः सर्वेषाम्’ इत्युक्तज्ञानिनां मोक्षानियमविरोध इति भावः ।। आद्याधिकरणोक्तमिति ।। ज्ञानस्य सर्वपुरुषार्थसाधनत्वरूपमाहात्म्यमित्यर्थः ।

ॐ स्तुतयेऽनुमतिर्वा ॐ ।। स ब्राह्मण इति श्रुत्युक्तं यथेष्टाचरणं स्तुतये ज्ञानिस्तुत्यर्थः अनुमतिरनुज्ञामात्रं वा न विधिरित्यर्थः । उत्तरमाह ।। यथेति ।।

 

 

Load More